Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. śiṣyōpanayanīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| यथोवाच भगवान् धन्वन्तरिरिति प्रत्यध्यायं बोद्धव्यम्| अथशब्दोऽत्र पूर्वाध्यायादानन्तर्ये, अतःशब्दो हेत्वर्थे, स च हेतुः पूर्वाध्याये विस्तरेण व्याख्यातः; एवं प्रत्यध्यायं अथातःशब्दौ ज्ञातव्यौ| शिष्योपनयनीयमिति शिष्यस्य उपनयनं दीक्षा, तदधिकृत्य कृतोऽध्यायः शिष्योपनयनीयस्तं तथा; अन्ये तु उपनयनमात्मवत्तया अर्थी(ङ्गी)करणम्| यद्यपि ब्राह्मणादयः प्रागुपनीताः, तथाऽप्यायुर्वेदपठनारम्भे पुनरुपनयनं, यथा ऋग्यजुःसामान्यधीत्य अथर्वारम्भे पुनर्व्रतावतरणं धनुर्वेदारम्भे च, तद्वदत्रापि||१-२||

Adhikarana 2 (3) · Śloka 3

ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयःशीलशौर्यशौचाचारविनयशक्तिबलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेशसहं च भिषक् शिष्यमुपनयेत् | अतो विपरीतगुणं नोपनयेत् ||३||

🔊 Audio coming soon

ब्राह्मणक्षत्रियवैश्यानामित्यादि| ब्राह्मणादिषु मध्ये अन्यतममेकतमम्| अन्वयादियुक्तं; तत्र, अन्वयः आयुर्वेदाध्यायिकुलम्, अन्ये वंशशुद्धिमाहुः; वयोऽत्र बाल्यं तारुण्यं वा; शीलं शास्त्रार्थानुसारिणोऽविपरीतस्वभावः; शौर्यं शूरत्वं, सर्वत्राविषादिता; शौचं शुचिता, तच्च द्विविधं बाह्यमाभ्यन्तरं च, तत्र बाह्यं स्नानादिकम्, आभ्यन्तरं मनःशुद्धिः; आचारः कुलदेशाद्यनुगतं लौकिकं विधानम्, अन्ये तु कायवाङ्मानसिकं शुभव्यापारलक्षणं त्रिविधमाहुः, श्रुतिस्मृतिविहितानुष्ठानमित्येके; विनयः इन्द्रियवशित्वं; शक्तिः उत्साहशक्तिः; बलं क्रियानिर्वर्तनक्षमता, अन्ये शक्तिबलयोर्विपर्ययमाहुः; मेधा ग्रन्थावधारणकर्षणसामर्थ्यं; धृतिः मनःसन्तुष्टिः, अन्ये नियमात्मिकां बुद्धिमाहुः; स्मृतिः पूर्वानुभूतस्य स्मरणम्, अर्थधारणशक्तिरित्यन्ये; मतिः अनागतार्थोद्देशः, त्रिकालविषया बुद्धिरित्यन्ये; प्रतिपत्तिः अर्थावबोधप्रागल्भ्यमनुष्ठानं वा| तनुजिह्वौष्ठदन्ताग्रमिति तनुशब्दो जिह्वादिभिः प्रत्येकं सम्बध्यते, ‘तनुजिह्वौष्ठदन्तं’ इत्येके पठन्ति| प्रसन्नचित्तवाक्चेष्टमिति प्रसन्नशब्दोऽपि चित्तादिभिः सह प्रत्येकं सम्बध्यते; चेष्टा कायपरिस्पन्दः| क्लेशसहं दुःखसहम्| उपनयेत् दीक्षेत्| अत इति अत एवङ्गुणविशिष्टाच्छिष्यात्, विपरीतगुणं विसदृशगुणं, नोपनयेत् न दीक्षेत्| अन्वयादियुक्तं शिष्यमुपनयेदित्युक्ते गुणहीनस्य निषेधे सिद्धे पुनर्निषेधवचनं नियमार्थं, तेन विपरीतगुणं नोपनयेदेव||३||

Adhikarana 3 (4) · Śloka 4

उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन, दर्भैः संस्तीर्य रत्नपुष्पलाजभक्तैर्देवताः पूजयित्वा विप्रान् भिषजश्च, तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयित्वाऽग्निमुपसमाधाय, खदिरपलाशदेवदारुबिल्वानां समिद्भिश्चतुर्णां वा क्षीरिवृक्षाणां (न्यग्रोधोदुम्बराश्वत्थमधूकानां) दधिमधुघृताक्ताभिर्दार्वीहौमिकेन विधिना सप्रणवाभिर्महाव्याहृतिभिः स्रुवेणाज्याहुतीर्जुहुयात्, ततः प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात्, शिष्यमपि कारयेत् ||४||

🔊 Audio coming soon

शिष्यगुणसम्पदमभिधाय, उपनयनविधिं वक्तुमाह- उपनयनीयं त्वित्यादि|- उपनयनीयम् उपनयनार्हं पूर्वोदितगुणसम्पन्नं ब्राह्मणं शिष्यं भिषक् स्वाहाकारं कारयेदिति सम्बन्धः| कदा कारयेदित्याह- प्रशस्तेष्वित्यादि| किं कृत्वेत्याह- प्रशस्तायामित्यादि, तदनु रत्नपुष्पेत्यादि, ततश्च तत्रोल्लिख्येत्यादि, तदनन्तरमग्निमुपसमाधाय खदिरादीनां क्षीरिवृक्षाणां वा दधिमधुघृताक्ताभिः समिद्भिः कृत्वा दार्वीहौमिकेन विधिना जुहुयात्, तथा सप्रणवाभिर्महाव्याहृतिभिरुपलक्षिताः स्रुवेण कृत्वा आज्याहुतीरेव जुहुयादिति सम्बन्धः| अन्ये तु ‘उपनयनीयस्तु ब्राह्मणः’ इति पठन्ति, व्याख्यानयन्ति च- उपनयनीय इति कर्तरि प्रयोगः; तेन उपनेता ब्राह्मण इदमिदं कृत्वा आज्याहुतीर्जुहुयादिति क्रियापदेन सम्बन्धः| प्राक् ब्राह्मणग्रहणं वर्णेषु मध्ये तस्य श्रेष्ठत्वात्| प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेष्विति तिथयः प्रतिपदाद्याः, करणानि बवबालवादीनि, मुहूर्तास्त्रिंशत् शिवाद्या अनिलपर्यन्ताः, नक्षत्राणि अश्विनीप्रभृतीनि; एषां प्रशस्तत्वं ज्योतिःशास्त्रविदां वचनादुन्नेयम्| प्रशस्तायां दिशि प्राच्यामुदीच्यां वा| चतुरस्रं चतुष्कोणम्| गोमयेन गोपुरीषेण| स्थण्डिलं व्रतसाधनपिण्डिकां, गोचर्ममात्रभूप्रदेशः स्थण्डिलमित्यन्ये; एके चतुर्हस्तस्थाने ‘गोचर्ममात्रं’ इति पठित्वा गोचर्ममात्रस्थण्डिलयोर्व्याख्यानं कुर्वन्ति- गोचर्ममात्रं चतुर्हस्तप्रमाणं, स्थण्डिलं संस्कृता भूः| तत्रेति तस्मिन् स्थण्डिले; उल्लिख्य ऊर्ध्वमुखीं लेखां कृत्वा; अभ्युक्ष्य जलेन सिक्त्वा| अग्निमुपसमाधाय सन्निधाने आरोप्य| चतुर्णां वा क्षीरिवृक्षाणामिति न्यग्रोधोदुम्बराश्वत्थमधूकानाम्| दार्वीहौमिकेन विधिनेति दार्वीहोमप्रोक्तकल्पेन; दार्वीहौमिको विधिस्तु ब्राह्मणानां छन्दोविदां प्रसिद्धः| सप्रणवाभिः सोङ्काराभिः, महाव्याहृतिभिः भूः स्वाहेत्यादिभिः; तथाहि- ॐ भूः स्वाहा, ॐ भुवः स्वाहा, ॐ स्वः स्वाहा, ॐ भूर्भुवः स्वः स्वाहा, इति| स्रुवेणाज्याहुतीर्जुहुयादिति दारुहस्तकेन घृताहुतीर्दद्यात्| प्रतिदैवतमृषींश्चेति चकारात् ऋषींश्चेत्यत्रापि प्रतिशब्दः सम्बध्यते; तेन प्रतिदैवतं प्रतिऋषीनित्यर्थः| तत्र प्रतिदैवतं ब्रह्मणे स्वाहा, प्रजापतये स्वाहा, अश्विभ्यां स्वाहा, इन्द्राय स्वाहा; प्रतिऋषीनिति धन्वन्तरये स्वाहा, भरद्वाजाय स्वाहा, आत्रेयाय स्वाहा, इत्यादि||४||

Adhikarana 4 (5) · Śloka 5

ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति, (राजन्यो द्वयस्य, वैश्यो वैश्यस्यैवेति;) शूद्रमपि कुलगुणसम्पन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके ||५||

🔊 Audio coming soon

ब्राह्मणस्त्रयाणामित्यादि| अन्ये त्वस्याग्रे ‘राजन्यो द्वयस्य, वैश्यो वैश्यस्यैव’ इति पठन्ति, स च निबन्धैरनार्षीकृतः| शूद्रमपि कुलगुणसम्पन्नमित्यादि कुलगुणसम्पन्नमिति सम्पन्नशब्दः कुलगुणाभ्यां प्रत्येकं सम्बध्यते, कुलसम्पन्नमायुर्वेदाध्यायिकुलसंयुक्तं, गुणसम्पन्नं वयःशौचादिशिष्यगुणसंयुक्तम्| अनुपनीतं दीक्षारहितम्| ‘शूद्रमपि गुणसम्पन्नं मन्त्रवर्जमुपनीयाध्यापयेदित्येके’ इति केचित् पठन्ति||५||

Adhikarana 5 (6) · Śloka 6

ततोऽग्निं त्रिः परिणीयाग्निसाक्षिकं शिष्यं ब्रूयात्- कामक्रोधलोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायशस्यानि हित्वा, नीचनखरोम्णाशुचिना कषायवाससा सत्यव्रतब्रह्मचर्याभिवादनतत्परेणावश्यं भवितव्यं, मदनुमतस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहितेषु वर्तितव्यम्; अतोऽन्यथा ते वर्तमानस्याधर्मो भवति, अफला च विद्या, न च प्राकाश्यं प्राप्नोति ||६||

🔊 Audio coming soon

ततोऽग्निमित्यादि| त्रिः परिणीय त्रीन् वारान् प्रदक्षिणीकृत्य, अग्निसाक्षिकं शिष्यं ब्रूयादिति अग्निसाक्षिकं यथा स्यादेवं शिष्यं ब्रूयात्| किं ब्रूयादित्याह- कामादीन् हित्वा परित्यज्य, मत्प्रियहितेषु वर्तितव्यमिति|- कामः विशिष्टस्त्रीविषयस्पर्शसङ्कल्पः, अथवा शब्दादिषु ग्रहणप्रवृत्तिर्वा, स्वबान्धवकृतस्नेहो वा कामः; क्रोधः परस्यापकारपूर्वकं हृदयोत्तेजः; लोभः परस्वग्रहणेच्छा; मोहस्तु तत्त्वज्ञाने मूढता, सा पुनस्त्रिभिः कारणैः- अज्ञानात्, संशयज्ञानात्, मिथ्याज्ञानाच्च; मानः सर्वत्रोत्कर्षेणात्मनो ज्ञानं; कार्येऽपरामर्शतोऽहमिति प्रवृत्तिरहङ्कारः; ईर्ष्या परसम्पत्तावसहिष्णुता; पारुष्यं वाग्रूक्षता; पैशुन्यं सूचकता; अनृतमसत्यं; आलस्यं कर्मण्यनुत्साहः; अयशस्यानि वाच्यस्थानप्रवर्तनानि; हित्वा परित्यज्य| नीचनखरोम्णेति क्लृप्तत्वान्नीचमल्पं नखादि यस्य स तथा, तेन| सत्यव्रतब्रह्मचर्याभिवादनतत्परेणेति तत्परशब्दः सत्यादिभिः प्रत्येकं सम्बध्यते; ब्रह्मचर्यं समस्तेन्द्रियसंयमः| अवश्यमिति नान्यथेत्यर्थः| मदनुमतानि मयाऽनुज्ञातानि मत्कथितानीत्यर्थः; स्थानादिपरेण भूत्वा तन्निष्ठेन भूत्वा| प्राकाश्यं प्रसिद्धिम्||६||

Adhikarana 6 (7) · Śloka 7

अहं वा त्वयि सम्यग्वर्तमाने यद्यन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च ||७||

🔊 Audio coming soon

शिष्यप्रवृत्तिमात्मविषये नियम्य, शिष्यविषये आत्मप्रवृत्तिं नियमयन्नाह- अहं वेत्यादि| यद्यन्यथादर्शी स्याम् अन्यप्रकारदर्शी भवेयं, तदा एनोभाग्भवेयं पापभाजनं भवामीत्यर्थः||७||

Adhikarana 7 (8) · Śloka 8

द्विजगुरुदरिद्रमित्रप्रव्रजितोपनतसाध्वनाथाभ्युपगतानां चात्मबान्धवानामिव स्वभैषजैः प्रतिकर्तव्यम्, एवं साधु भवति; व्याधशाकुनिकपतितपापकारिणां च न प्रतिकर्तव्यम्; एवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति ||८||

🔊 Audio coming soon

शिष्यस्य आतुरे प्रवृत्तिं नियमयन्नाह- द्विजेत्यादि| प्रव्रजिताः तपस्विनः, उपनताः सन्निधाने प्रणययुक्ताः, साधवः सत्पुरुषाः; अनाथाः एकाकिनः, अभ्युपगता दूरादायाताः सन्तोऽङ्गीकृताः ; एषां प्रतिकर्तव्यं प्रतिविधातव्यम्| एवं साधु भवति अनेन प्रकारेण शोभनं भवति| इदानीमप्रवृत्तिं दर्शयन्नाह- व्याधेत्यादि|- व्याधादिषु सत्यप्यर्थलाभे न प्रतिकर्तव्यम्| व्याधा वागुरिकादयः, शाकुनिकाः पक्षिणां हन्तारः, पतिताः स्वकीयाचारभ्रष्टाः, पापकारिणः गुरुतल्पगादयः| न प्रतिकर्तव्यं नोपचरणीयम्| एवं विद्या प्रकाशते अनेन प्रकारेण विद्या स्वयमेव प्रकाशं याति, केचित् ‘प्रकाश्यते’ इति पठन्ति||८||

Adhikarana 8 (9-10) · Śloka 10

भवतश्चात्र- कृष्णेऽष्टमी तन्निधनेऽहनी द्वे शुक्ले तथाऽप्येवमहर्द्विसन्ध्यम् | अकालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथासु ||९|| श्मशानयानाद्यतनाहवेषु महोत्सवौत्पातिकदर्शनेषु | नाध्येयमन्येषु च येषु विप्रा नाधीयते नाशुचिना च नित्यम् ||१०||

🔊 Audio coming soon

इदानीमनध्ययनकालमाह- कृष्णे इत्यादि| कृष्णेऽष्टमीति कृष्णपक्षे या अष्टमी, तन्निधने कृष्णपक्षावसाने, अहनी द्वे चतुर्दश्यमावस्ये; शुक्ले शुक्लपक्षेऽपि, तथा तेनैव प्रकारेण, नाध्येयमिति; तेनात्रापि अष्टमीचतुर्दशीपौर्णमासीषु नाध्येयमिति| तत्प्रतिपदोस्तु पाठनिषेधः ‘अन्येषु च येषु विप्रा नाधीयते’ इत्यनेन गम्यते; अन्ये तु प्रतिपदावन्यथा गृहीतुं व्याख्यानयन्ति- तन्निधने इति कृष्णपक्षावसाने अहनि नाध्येयं, तेन अमावास्या गृहीता; अहनी द्वे इति कृष्णपक्षावसानसमीपे यौ द्वौ दिवसौ तयोरपि नाध्येयं, तेन चतुर्दशीप्रतिपदौ| अहानि नियम्य अहरवयवान्नियन्तुमाह- अहर्द्विसन्ध्यमिति|- अहनि द्वयोः सन्ध्ययोर्नाध्येयमिति| अकालविद्युत्स्तनयित्नुघोषे इति अकालशब्दो विद्युत्स्तनयित्नुघोषाभ्यां सह सम्बध्यते; अकालविद्युत् अनार्तवा विद्युत्; विद्युद्ग्रहणमुपलक्षणं, तेनाकालिकी वृष्टिर्गृह्यते, अकालवृष्टिः अनृतुवृष्टिः, सा तु हेमन्तशिशिरयोः; तथा चोक्तं- ‘‘पौषादिचतुरो मासान् स्मृता वृष्टिरकालिकी’’- इति; अकालस्तनयित्नुघोष इति अनृतुमेघगर्जितम्, अन्ये सन्ध्यामेघगर्जितमाचक्षते| स्वतन्त्रराष्ट्रक्षितिपव्यथास्विति स्वशब्दस्तन्त्रादिभिः प्रत्येकं सम्बध्यते; तेनात्मीयलोकदेशभूपपीडासु| श्मशानयानाद्यतनाहवेष्विति श्मशानं मृतमर्त्यदाहस्थानं, यानं हस्त्यादि, अद्यतनं वधस्थानम् , आहवः सङ्ग्रामः| महोत्सवौत्पातिकदर्शनेष्विति महोत्सवाः शक्रोत्सवादयः; तथाहि- भाद्रपदपौर्णमास्यां शक्रस्य महोत्सवः, आश्विन्यां कौमुदीमहोत्सवः, उत्तरायणसङ्क्रान्तौ कुबेरमहोत्सवः, चैत्रशुक्लत्रयोदश्यां मदनमहोत्सवः, इत्यादयः; उत्पातः अनिष्टसूचकनिमित्तं निर्घातादि; अन्ये तूत्पातं त्रिविधमाचक्षते- भौमम्, आन्तरिक्षं, दिव्यमिति; तेषु मध्ये भौम उत्पातः स्थिराजातः, आन्तरिक्षो गन्धर्वपुरेन्द्रचापादि, दिव्यो ग्रहनक्षत्रवैकृतमुत्पातादिश्च; उत्पात एव औत्पातिकः| अनुक्तसङ्ग्रहार्थमाह- नाध्येयमन्येषु चेत्यादि| ते च कालविशेषाश्छन्दोगानां वचनादेवावगन्तव्या इति| अन्ये त्वत्र उच्छिष्टादिभोजवचनमाश्रयन्ति| कृष्णाष्टमीति केचित् पठन्ति||९-१०||

Adhikarana puShpikA · Śloka 2

इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनयनीयो नाम द्वितीयोऽध्यायः ||२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थाने द्वितीयोऽध्यायः||२||