Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. adhyayanasaṁpradānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽध्ययनसम्प्रदानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| अधीयत इत्यध्ययनं शास्त्रम्| सम्यक् प्रविभज्य दानं सम्प्रदानम्||१-२||

Adhikarana 2 (3) · Śloka 3

प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु | तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत्, षोडश निदानानि, दश शारीराणि, चत्वारिंशच्चिकित्सितानि, अष्टौ कल्पाः, तदुत्तरं षट्षष्टिः ||३||

🔊 Audio coming soon

अविभक्तमध्ययनं दातुमशक्यम्, अतस्तद्विभागायाह- प्रागित्यादि| अस्य च वाक्यस्यार्थ आद्याध्याये उक्तः| प्रतिस्थानमध्यायान् सङ्ख्यातुमाह- तत्रेत्यादि||३||

Adhikarana 3 (4-12) · Śloka 12

वेदोत्पत्तिः शिष्यनयस्तथाऽध्ययनदानिकः | प्रभाषणाग्रहरणावृतुचर्याऽथ यान्त्रिकः ||४|| शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम् | अग्निकर्म जलौकाख्यो ह्यध्यायो रक्तवर्णनम् ||५|| दोषधातुमलाद्यानां विज्ञानाध्याय एव च | कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ||६|| हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक् | कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ||७|| विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा | शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ||८|| पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा | अवारणो युक्तसेनीय आतुरक्रमभूमिकौ ||९|| मिश्रकाख्यो द्रव्यगणः संशुद्धौ शमने च यः | द्रव्यादीनां च विज्ञानं विशेषो द्रव्यगोऽपरः ||१०|| रसज्ञानं वमनार्थमध्यायो रेचनाय च | द्रवद्रव्यविधिस्तद्वदन्नपानविधिस्तथा ||११|| सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः | षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते ||१२||

🔊 Audio coming soon

प्रतिस्थानोक्तानामध्यायानां नामानि निर्देष्टुमाह- वेदोत्पत्तिरित्यादि| शिष्यनयः शिष्योपनयनीयः| अध्ययनदानिकः अध्ययनसम्प्रदानीयः| प्रभाषणः प्रभाषणीयः| अग्रहरणः अग्रोपहरणीयः| ऋतुचर्या ऋतुचर्याध्यायः| यान्त्रिकः यन्त्रविधिः| शस्त्रावचारणः शस्त्रावचारणीयः| योग्या योग्यासूत्रीयः| विशिखा विशिखानुप्रवेशनीयः| क्षारकल्पनं क्षारपाकविधिः| अग्निकर्म अग्निकर्मविधिः| जलौकाख्यः जलौकोवचारणीयः| अध्यायो रक्तवर्णनं शोणितवर्णनीयोऽध्यायः| दोषधातुमलाद्यानां विज्ञानाध्यायः दोषधातुमलक्षयवृद्धिविज्ञानीयः| कर्णव्यधः कर्णव्यधबन्धविधिः| आमपक्वैषः आमपक्वैषणीयः| आलेपः व्रणालेपनबन्धविधिः| व्रण्युपासनं व्रणितोपासनीयः| हिताहितः हिताहितीयाध्यायः| व्रणास्रावः व्रणास्रावविज्ञानीयः| विनिश्चयः शस्त्रविधौ अष्टविधशस्त्रकर्मीयः| प्रनष्टज्ञानिकः प्रनष्टशल्यविज्ञानीयः| शल्योद्धृतिः शल्यापनयनीयः| व्रणज्ञानं विपरीताविपरीतव्रणविज्ञानीयः| दूतस्वप्ननिदर्शनं विपरीताविपरीतदूतस्वप्ननिदर्शनीयः| पञ्चेन्द्रियं पञ्चेन्द्रियार्थविप्रतिपत्तिः| छाया छायाविप्रतिपत्तिः| स्वभावाद्वैकृतं स्वभावविप्रतिपत्तिः| अवारणः अवारणीयाध्यायः| आतुरक्रमः आतुरोपक्रमणीयाध्यायः| भूमिको भूमिप्रविभागीयः| द्रव्यगणः द्रव्यसङ्ग्रहणीयः| संशुद्धौ शमने च यः संशोधनसंशमनीयः| द्रव्यादीनां च विज्ञानं द्रव्यगुणरसवीर्यविपाकविज्ञानीयः| विशेषो द्रव्यगोऽपरः द्रव्यविशेषविज्ञानीयः| रसज्ञानं रसविशेषविज्ञानीयः| वमनार्थमध्यायः वमनद्रव्यविकल्पविज्ञानीयः| रेचनाय च विरेचनद्रव्यविकल्पविज्ञानीयः| शेषास्तु निर्दिष्टनामप्रसिद्धा इति नोक्ताः| ‘आतुरक्रममिश्रकौ’ इति केचित् पठन्ति; तन्न, यतः पूर्वनिबन्धकारैरेष क्रमो नाङ्गीकृतः| सूत्रस्थानस्य निरुक्तिं कर्तुमाह- सूचनादिति| सूचनात् लेशतोऽर्थप्रकाशनात्| सूत्रणात् अर्थानां यथास्थानं निवेशनात्| सवनात् जननात्| अर्थसन्ततेः अर्थसमूहस्य| सूत्रस्थानमध्यायाः षट्चत्वारिंशदिति प्रागेव सङ्ख्यानिर्देशात् पुनः षट्चत्वारिंशदध्यायं सूत्रस्थानमिति सङ्ख्याकरणं नियमार्थं; तेन द्रवद्रव्यान्नपानिकानामुदकगोरसतैलादिप्रकरणानां प्रत्येकमध्यायत्वं निराकृतम्||४-१२||

Adhikarana 4 (13-14) · Śloka 14

वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः | कुष्ठमेहोदरं मूढो विद्रधिः परिसर्पणम् ||१३|| ग्रन्थिवृद्धिक्षुद्रशूकभग्नाश्च मुखरोगिकम् | हेतुलक्षणनिर्देशान्निदानानीति षोडश ||१४||

🔊 Audio coming soon

कानि पुनस्तानि षोडश निदानानीत्याह- वातव्याधिकमित्यादि| मूढगर्भादीनामेकदेशेन समुदायसूचनं लाघवार्थम्; एवमुत्तरत्रापि बोद्धव्यम्| मूढः मूढगर्भनिदानम्| परिसर्पणं विसर्पनाडीस्तनरोगनिदानम्| ग्रन्थिरिति ग्रन्थ्यपच्यर्बुदगलगण्डनिदानम्| वृद्धिरिति वृद्ध्युपदंशश्लीपदनिदानम्| शूकः शूकदोषनिदानम्| निदाननिरुक्तिं प्रतिपादयन्नाह- हेत्वित्यादि| हेतव इति कारकहेतवो बलवद्विग्रहक्रोधदिवास्वप्नादयः; लक्षणानि ज्ञापकहेतवः, ते च पूर्वरूपरूपोपशयसम्प्राप्तयः| निर्देशात् विवरणात्||१३-१४||

Adhikarana 5 (15-17) · Śloka 17

भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च | व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् ||१५|| प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च | सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा ||१६|| निर्दिष्टानि दशैतानि शारीराणि महर्षिणा | विज्ञानार्थं शरीरस्य भिषजां योगिनामपि ||१७||

🔊 Audio coming soon

कानि पुनः शारीराणीत्याह- भूतचिन्तेत्यादि| भूतचिन्ता सर्वभूतचिन्ताशारीरम्| रजःशुद्धिः शुक्रशोणितशुद्धिशारीरम्| गर्भावक्रान्तिरिति अनेनैव नाम्ना प्रसिद्धः, गर्भावक्रान्तिः गर्भान्तः(नु)प्रवेश इत्यर्थः| व्याकरणं च गर्भस्य गर्भव्याकरणं शारीरं, व्याकरणं विवरणम्| शरीरस्य च यत् स्मृतं शरीरसङ्ख्याव्याकरणं शारीरम्| सिरावर्णनं सिरावर्णनविभक्तिशारीरम्| सिराव्यधः सिराव्यधविधिशारीरम्| व्याकृतिशब्दो धमनीगर्भिणीभ्यां प्रत्येकं सम्बध्यते; तेन धमनीव्याकृतिः धमनीव्याकरणं शारीरं, गर्भिणीव्याकृतिः गर्भिणीव्याकरणं शारीरम्| महर्षिणेति महच्छब्दः पूजावचनः; तेन पूज्येन धन्वन्तरिणा| विज्ञानार्थं विशिष्टज्ञानार्थम्| योगः समाधिः, स विद्यते येषां ते योगिनः, तेषाम्||१५-१७||

Adhikarana 6 (18-26) · Śloka 26

द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम् | महावातिकमर्शांसि साश्मरिश्च भगन्दरः ||१८|| कुष्ठानां महतां चापि मैहिकं पैडिकं तथा | मधुमेहचिकित्सा च तथा चोदरिणामपि ||१९|| मूढगर्भचिकित्सा च विद्रधीनां विसर्पिणाम् | ग्रन्थिवृद्ध्युपदंशानां तथा च क्षुद्ररोगिणाम् ||२०|| शूकदोषचिकित्सा च तथा च मुखरोगिणाम् | शोफस्यानागतानां च निषेधो मिश्रकं तथा ||२१|| वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च | मेधायुष्करणं चापि स्वभावव्याधिवारणम् ||२२|| निवृत्तसन्तापकरं कीर्तितं च रसायनम् | स्नेहोपयौगिकः स्वेदो वमने सविरेचने ||२३|| तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः | नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः ||२४|| निरूहक्रमसञ्ज्ञश्च तथैवातुरसञ्ज्ञकः | धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः ||२५|| प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च | पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते ||२६||

🔊 Audio coming soon

कानि पुनश्चिकित्सितानीत्याह- द्विव्रणीय इत्यादि| व्रणः सद्यः सद्योव्रणचिकित्सितम्| भग्नानां भग्नचिकित्सितम्| वातरोगिकं वातव्याधिचिकित्सितम्| महावातिकं महावातव्याधिचिकित्सितम्| महतां चापि महाकुष्ठचिकित्सितम्| मैहिकं प्रमेहचिकित्सितम्| पैडिकं प्रमेहपिडकाचिकित्सितम्| विसर्पिणां विसर्पनाडीस्तनरोगचिकित्सितम्| ग्रन्थिरिति ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितम्| वृद्ध्युपदंशानां वृद्ध्युपदंशश्लीपदचिकित्सितम्| अनागतानां निषेधः अनागताबाधप्रतिषेधचिकित्सितम्| मिश्रकं मिश्रकचिकित्सितम्| वाजीकरं च यत् क्षीणे क्षीणबलीयवाजीकरणचिकित्सितम्| सर्वाबाधशमोऽपि सर्वाबाधशमनीयं रसायनम्| मेधायुष्करणं चापि मेधायुष्कामीयं रसायनम्| स्वभावव्याधिवारणं स्वभावव्याधिप्रतिषेधनीयं रसायनम्| निवृत्तसन्तापकरं कीर्तितं च रसायनं निवृत्तसन्तापीयं रसायनम्| स्वेदः स्वेदावचारणीयं चिकित्सितम्| वमने सविरेचने वमनविरेचनसाध्योपद्रवचिकित्सितम्| तयोर्व्यापच्चिकित्सा च वमनविरेचनव्यापच्चिकित्सितम्| नेत्रबस्तिविभागिकः नेत्रबस्तिप्रमाणप्रविभागचिकित्सितम्| नेत्रबस्तिविपत्सिद्धिः नेत्रबस्तिव्यापच्चिकित्सितम्| तथा चोत्तरबस्तिकः अनुवासनोत्तरबस्तिचिकित्सितम्| निरूहक्रमसञ्ज्ञश्च निरूहोपक्रमचिकित्सितम्| तथैवातुरसञ्ज्ञितः आतुरोपद्रवचिकित्सितम्| धूमनस्यविधिश्चान्त्यः धूमनस्यकवड(ल)ग्रहचिकित्सितम्; अन्ते भवोऽन्त्यः| चिकित्सितस्य पर्यायान्तरं दर्शयितुमाह- प्रायश्चित्तमित्यादि| एते प्रायश्चित्तादयस्तस्य चिकित्सितस्य पर्यायाः| तस्यैवम्पर्यायविनिर्दिष्टस्य चिकित्सितस्य निर्देशाद् विवरणाच्चिकित्सास्थानं कथ्यते||१८-२६||

Adhikarana 7 (27-28) · Śloka 28

अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च | सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् ||२७|| दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च | अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् ||२८||

🔊 Audio coming soon

के पुनः कल्पा इत्याह- अन्नस्येत्यादि| अन्नस्य रक्षा अन्नपानरक्षाकल्पः | विज्ञानं स्थावरस्य स्थावरविषविज्ञानीयः कल्पः| इतरस्य च जङ्गमविषविज्ञानीयः कल्पः| तस्यैव च चिकित्सितं सर्पदष्टचिकित्साकल्पः| दुन्दुभेः दुन्दुभिस्वनीयः कल्पः| मूषिकाणां च मूषिककल्पः| कल्पनिरुक्तिं प्रतिपादयन्नाह- विषभेषजकल्पनादिति; विषौषधविज्ञानात्||२७-२८||

Adhikarana 8 (29) · Śloka 29

अध्यायानां शतं विंशमेवमेतदुदीरितम् |२९|

🔊 Audio coming soon

पूर्वप्रतिज्ञातमुपसंहरन्नाह- अध्यायानामित्यादि| एवमेतदिति अनन्तरोक्तम्|२९|-

Adhikarana 9 (29-34) · Śloka 35

अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते ||२९|| अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्रवान् | औपद्रविक इत्येष तस्याग्र्यत्वान्निरुच्यते ||३०|| सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु | संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ||३१|| चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः | पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ||३२|| लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु | क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ||३३|| घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम् | प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ||३४|| चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते |३५|

🔊 Audio coming soon

शल्यतन्त्रं प्रतिपाद्य तदुत्तरमर्थवशादागतं प्रतिपादयन्नाह- अतः परमिति| अतः परम् उक्तस्थानपञ्चकादनन्तरं, स्वनाम्नैव स्वसञ्ज्ञयैव तन्त्रमुच्यते| किं तदात्मीयमस्य नाम येनोच्यते तत्तन्त्रमित्याह- उत्तरतन्त्रमिति; न शल्यतन्त्रसञ्ज्ञया| कुतः पुनरौपद्रविकाध्यायस्योत्तरतन्त्रस्यादौ स्थितस्य ‘औपद्रविक’ इति नाम कृतमित्याह- अधिकृत्येत्यादि| अधिकृत्य अङ्गीकृत्य, उपद्रवान् रोगान्, यस्मात्तन्त्रमेतदुत्तरतन्त्रं कृतम्, अतस्तस्योत्तरतन्त्रस्याग्र्यत्वात् प्रथमत्वात्, ‘औपद्रविक’ इत्यध्यायो निरुच्यते निरुक्त्या कथ्यते; उपद्रवाधिकृततन्त्रस्य प्रथमत्वादध्यायस्य ‘औपद्रविक’ इति नाम कृतमित्यर्थः| सन्धौ वर्त्मनीत्यादिषु गतानां गदानां तु प्रति प्रति सम्यग्विज्ञानार्थमध्याया इति सम्बन्धः| तेनायमर्थः- सन्धाविति सन्धिगतरोगविज्ञानीयाध्यायः, वर्त्मनीति वर्त्मगतरोगविज्ञानीयाध्यायः, शुक्ले चेति शुक्लगतरोगविज्ञानीयाध्यायः, कृष्णे इति कृष्णगतरोगविज्ञानीयाध्यायः, सर्वत्रेति सर्वगतरोगविज्ञानीयाध्यायः दृष्टिष्विति दृष्टिगतरोगविज्ञानीयाध्यायः| पैत्तस्येत्यादिषु अभिष्यन्दवारण इति सम्बन्धः, तेन पैत्तस्येति पित्ताभिष्यन्दप्रतिषेधाध्यायः, श्लेष्मिकस्येति श्लेष्माभिष्यन्दप्रतिषेधाध्यायः, रौधिरस्येति रक्ताभिष्यन्दप्रतिषेधाध्यायः| लेख्यभेद्यनिषेधौ चेति लेख्यरोगप्रतिषेधाध्यायः, भेद्यरोगप्रतिषेधाध्यायः| छेद्यानामिति छेद्यरोगप्रतिषेधाध्यायः| वर्त्मदृष्टिष्विति वर्त्मगतरोगप्रतिषेधाध्यायः, दृष्टिगतरोगप्रतिषेधाध्यायः| अभिघातश्चेति नयनाभिघातप्रतिषेधाध्यायः| कर्णोत्था इति कर्णगतरोगविज्ञानीयाध्यायः| तच्चिकित्सितमिति कर्णगतरोगप्रतिषेधाध्यायः| घ्राणोत्थानां च विज्ञानमिति नासागतरोगविज्ञानज्ञानीयध्यायः| तद्गदप्रतिषेधनमिति नासागतरोगप्रतिषेधाध्यायः| प्रतिश्यायनिषेधश्चेति प्रतिश्यायप्रतिषेधाध्यायः| शिरोगदविवेचनमिति शिरोरोगविज्ञानीयाध्यायः| चिकित्सा तद्गदानां चेति शिरोरोगप्रतिषेधाध्यायः||२९-३४||-

Adhikarana 10 (35-37) · Śloka 37

नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ||३५|| अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् | पूतनायास्तथाऽन्धायाः शीतपूतनमण्डिका ||३६|| नैगमेषचिकित्सा च ग्रहोत्पत्तिः सयोनिजा | कुमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ||३७||

🔊 Audio coming soon

शालाक्यतन्त्रं समाप्य कुमारतन्त्रं दर्शयन्नाह- नवग्रहेत्यादि| स्कन्दस्य च निषेधनं स्कन्दग्रहप्रतिषेधाध्यायः| अपस्मारशकुन्योश्चेति स्कन्दापस्मारप्रतिषेधाध्यायः, शकुनिप्रतिषेधाध्यायः| रेवत्याश्च पुनः पृथगिति रेवतीप्रतिषेधाध्यायः| पूतनाया इति पूतनाप्रतिषेधाध्यायः| तथाऽन्धाया इत्यत्रापि पूतनाशब्दः सम्बध्यते; तेन अन्धपूतनाप्रतिषेधाध्यायः| शीतपूतनेति शीतपूतनाप्रतिषेधाध्यायः, मण्डिकेति मुखमण्डिकाप्रतिषेधाध्यायः| नैगमेषचिकित्सा चेति नैगमेषप्रतिषेधाध्यायः| ग्रहोत्पत्तिरिति ग्रहोत्पत्त्यध्यायः| सयोनिजेति योनिव्यापत्प्रतिषेधाध्यायः, सशब्दः सहार्थः| कुमारतन्त्रमिति अत्रेतिशब्दः कुमारतन्त्रपरिसमाप्तौ| किमेतावदेव कुमारतन्त्रमथवाऽन्यदप्यस्तीति पृष्ट आह- शारीरेषु च कीर्तितमिति| किं तच्छरीरेषूक्तं? तद्यथा- रजःशुद्धिः, गर्भावक्रान्तिरित्यादि||३५-३७||

Adhikarana 11 (38-40) · Śloka 40

ज्वरातिसारशोषाणां गुल्महृद्रोगिणामपि | पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ||३८|| तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः | स्वरभेदचिकित्सा च कृम्युदावर्तिनोः पृथक् ||३९|| विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः | इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ||४०||

🔊 Audio coming soon

का पुनरुत्तरतन्त्रे कायचिकित्सेति दर्शयन्नाह- ज्वरेत्यादि| निषेधः प्रतिषेधः, स च ज्वरादिभिः सह प्रत्येकं सम्बध्यते; तेन ज्वरप्रतिषेधोऽतीसारप्रतिषेध इत्यादि द्रष्टव्यम्| पानजाश्च य इति मद्यपानजाश्च ये रोगास्तेषां प्रतिषेधः, एतेन पानात्ययप्रतिषेध इत्युक्तम्| स्वरभेदचिकित्सा चेति स्वरभेदप्रतिषेधः| मूत्राघातविकृच्छ्रयोरिति विशब्दश्छन्दः पूर्तये; तेन मूत्राघातप्रतिषेधः, मूत्रकृच्छ्रप्रतिषेधः| इति कायचिकित्सायाः शेषमत्र प्रकीर्तितमिति इतिशब्दः समाप्तौ; अत्र उत्तरतन्त्रे, कायचिकित्सायाः शेषं प्रकीर्तितं निर्दिष्टं; शेषशब्देन शल्येऽपि निर्दिष्टमिति बोधयति||३८-४०||

Adhikarana 12 (41) · Śloka 41

अमानुषनिषेधश्च तथाऽऽपस्मारिकोऽपरः | उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ||४१||

🔊 Audio coming soon

कायचिकित्सां समाप्य भूतविद्यां प्रतिपादयन्नाह- अमानुषेत्यादि| अमानुषनिषेधः अमानुषोपसर्गप्रतिषेधः | आपस्मारिकः अपस्मारप्रतिषेधः||४१||

Adhikarana 13 (42) · Śloka 42

रसभेदाः स्वस्थवृत्तं युक्तयस्तान्त्रिकाश्च याः | दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ||४२||

🔊 Audio coming soon

तन्त्रभूषणाध्यायानाह- रसभेदा इत्यादि| रसभेदाः रसभेदविकल्पः| इतिशब्दः समाप्तौ| एते अध्यायास्तन्त्रभूषणाः शास्त्रस्यालङ्करणाः||४२||

Adhikarana 14 (43) · Śloka 43

श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः | बह्वर्थसङ्ग्रहाच्छ्रेष्ठमुत्तरं वाऽपि पश्चिमम् ||४३||

🔊 Audio coming soon

उत्तरतन्त्रस्य निरुक्तिं प्रतिपादयन्नाह- श्रेष्ठत्वादित्यादि| श्रेष्ठत्वादिति एतत्तन्त्रं महर्षयः श्रेष्ठत्वादुत्तरं ब्रुवन्ति| कुतः पुनरस्य श्रेष्ठत्वमित्याह- बह्वर्थसङ्ग्रहाच्छ्रेष्ठमिति| शालक्यकुमाराबाधकायचिकित्साभूतविद्यातन्त्रभूषणाध्यायनिर्दिष्टानामर्थानां सङ्ग्रहाच्छ्रेष्ठमुत्तरतन्त्रम्| तस्य निरुक्तिपक्षान्तरं वक्तुमाह- उत्तरं वाऽपि पश्चिममिति|- पश्चिमत्वाद्वा इदं तन्त्रमुत्तरम्| ‘शेषत्वादुत्तरं ह्येतत्’- इति केचित् पठन्ति, पूर्वतन्त्रशेषत्वादिदं तन्त्रमुत्तरं श्रैष्ठ्याद्वेति व्याख्यानयन्ति||४३||

Adhikarana 15 (44-46) · Śloka 46

शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या | भूतविद्येति चत्वारि तन्त्रे तूत्तरसञ्ज्ञिते ||४४|| वाजीकरं चिकित्सासु रसायनविधिस्तथा | विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ||४५|| इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम् | विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ||४६||

🔊 Audio coming soon

अष्टाङ्गस्यायुर्वेदस्य विस्तरेण प्रतिपादितस्य सङ्क्षेपेण तन्त्रद्वयेऽवस्थानं नियमयन्नाह- शालाक्यतन्त्रमित्यादि| इति चत्वारि तन्त्राणि उत्तरसञ्ज्ञके तन्त्रे सन्ति| उत्तरतन्त्रे चतुर्णां तन्त्राणामवस्थानं प्रतिपाद्य पूर्वेऽपि शल्यतन्त्रे चतुर्णां तन्त्राणामवस्थानं प्रतिपादयन्नाह- वाजीकरमित्यादि|- वाजीकरं तन्त्रं चिकित्सासु यदुक्तं, तथा रसायनविधिश्च यश्चिकित्सासूक्तः, तथा विषतन्त्रं कल्पाः कल्पस्थानोक्तं विषतन्त्रम्, एतत्त्रयं पूर्वे शल्यतन्त्रे प्रतिपादितम्| शल्यज्ञानं शल्याङ्गज्ञानं, समन्ततः सर्वत्र| इत्यष्टाङ्गमिदमित्यादि इत्यनेन प्रकारेण| आदिदेवप्रकाशितं धन्वन्तरिणा प्रकटीकृतम्| युञ्जानाः प्रयोगं कुर्वाणाः||४४-४६||

Adhikarana 16 (47) · Śloka 47

एतद्ध्यवश्यमध्येयम्, अधीत्य च कर्माप्यवश्यमुपासितव्यम्, उभयज्ञो हि भिषग् राजार्हो भवति ||४७||

🔊 Audio coming soon

एतद्धीति एतत् तन्त्रं, हि स्फुटम्, अवश्यमध्येयमिति निश्चयेन पठनीयम्| उपासितव्यमिति अभ्यसनीयम्| हि यस्मादर्थे| राजार्हः राजयोग्यो भवति राजपूज्य इत्यर्थः||४७||

Adhikarana 17 (48-50) · Śloka 50

भवन्ति चात्र- यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः | स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ||४८|| यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः | स सत्सु पूजां नाप्नोति वधं चर्च्छति राजतः ||४९|| उभावेतावनिपुणावसमर्थौ स्वकर्मणि | अर्धवेदधरावेतावेकपक्षाविव द्विजौ ||५०||

🔊 Audio coming soon

भवन्ति चात्रेत्यादि| कर्मस्वपरिनिष्ठित इति कर्मसु विषये अनिष्पन्नः अशिक्षित इत्यर्थः, अदृष्टकर्मेत्यन्ये| आहवं सङ्ग्रामम्| यस्तु कर्मसु निष्णात इति यः पुनः कर्मसु विषये सुशिक्षितः, शास्त्रबहिष्कृतः शास्त्रे च बहिर्भूतः, धार्ष्ट्यात् प्रागल्भ्यात्, कर्म करोति, स राजतः राज्ञः सकाशात्, वधं चर्च्छति वधं प्राप्नोति| उभावेतावनिपुणौ उभौ द्वौ, एतौ इमौ, अनिपुणौ अशिक्षितौ, स्वकर्मणि चिकित्सायाम्| अर्धवेदधराविति वेदशब्दोऽत्र ज्ञानार्थः; तेन, अर्धज्ञानधरौ शास्त्रज्ञः कर्मज्ञो वा| काविवैतावर्धवेदधरौ स्वकर्मण्यसमर्थौ? आह- एतावेकपक्षाविव द्विजाविति|- यथैकपक्षौ द्विजौ पक्षिणौ, एतौ सर्वतो गमनेऽसमर्थौ तद्वदित्यर्थः||४८-५०||

Adhikarana 18 (51) · Śloka 51

ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः | भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ||५१||

🔊 Audio coming soon

कुतः कारणाच्छास्त्रबहिष्कृतो वधमृच्छति राजत इति हेतुं प्रतिपादयन्नाह- ओषध्य इत्यादि| अमृतकल्पाः अमृततुल्याः| अज्ञैरुपहृताः औषधविषयाज्ञैः प्रयुक्ताः, ओषधेरज्ञानं च शास्त्रविहीनत्वात्| तथाचोक्तं- यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृत इति| ओषधीनां ज्ञानमपि नामरूपयोगभेदात्त्रिविधं; तत्र नामादिषु मध्ये योगज्ञानं प्रधानम्, इदं च योगज्ञानं शास्त्रज्ञाने सति भवति| तस्मादेतान् विवर्जयेदिति एताञ्छास्त्रज्ञानबहिष्कृतान् विशेषेण परिहरेत्| दृष्टान्तत्रयोपादानं चोर्ध्वाधोभयभागव्यापन्निदर्शनार्थमित्येके; संशोधनपाचनसंशमनीयौषधव्यापन्निदर्शनार्थमित्यपरे, अनेककालानेकावस्थानत्वसूचनार्थमित्यन्ये| इतरे त्वत्र श्लोकाभ्यामन्यथा समाधानं दधति| तथाहि- “अथवैतत्त्रयं यद्वन्मिलितं मृत्युकारणम्| दुष्प्रयुक्तास्तु तास्तद्वन्नियतं मृत्युकारणम्|| अप्रसिद्धं क्वचित् किञ्चिदित्यर्थं व्याप्य तत्त्रयम्| गरुडाधिष्ठिते देशे विषमप्यविषं यथा”- इति| अन्ये तु पुनारोषध्योऽमृतकल्पास्तथा स्नेहादिष्वनभिज्ञो य इत्युभयत्र उभावपि कर्मशास्त्रानभिज्ञावधिकुर्वते, ‘तस्मादेतौ विवर्जयेत्’- इति च पठन्ति, एतौ पूर्वोक्तौ केवलशास्त्रज्ञकर्मज्ञौ विवर्जयेदिति व्याख्यानयन्ति| एष पक्षः पञ्जिकायां विस्तरेणाप्यादृतः | यद्यप्योषधिशब्दः फलपाकान्तेषु द्रव्येषु वर्तते, तथाऽप्यत्र समस्तद्रव्यवाची ग्रहीतव्यः, कुतः? विशेषस्यानुपादानात्||५१||

Adhikarana 19 (52) · Śloka 52

स्नेहादिष्वनभिज्ञो यश्छेद्यादिषु च कर्मसु | स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ||५२||

🔊 Audio coming soon

इदानीं शास्त्रज्ञं कर्मानभिज्ञमधिकृत्याह- स्नेहादिष्वित्यादि| छेद्यादिभ्यः स्नेहादीनि कर्माणि प्रागुपयुज्यन्त इति स्नेहादीनां प्रागुपादानं; केचिच्छेद्यादीनां ग्रहणं प्राक् पठन्ति| कुवैद्य इति कुशब्दः कुत्सावचनः, तेन शास्त्रज्ञस्यापि कर्माज्ञानेन कुत्सितत्वं प्रतिपादयति| नृपदोषत इति राज्ञामयं दोषो येन नाज्ञातकर्मणि प्रवर्तयितुं वैद्यान्निवारयन्ति भूपा इति| केचित् कर्तृपदं सर्वत्र बहुवचनान्तं पठन्ति ‘स्नेदादिष्वनभिज्ञा ये’ इत्यादि||५२||

Adhikarana 20 (53) · Śloka 53

यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने | आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ||५३||

🔊 Audio coming soon

इदानीं शास्त्रज्ञकर्मज्ञस्य गुणं निदर्शयन्नाह- यस्तूभयज्ञ इत्यादि| उभयज्ञः शास्त्रज्ञः कर्मज्ञश्च| मतिवान् ऊहापोहक्षम इत्यर्थः| अर्थसाधने आरोग्यकरणे| दृष्टान्तमाह- आहवे कर्मनिर्वोढुमित्यादि|- आहवे सङ्ग्रामे, कर्म निर्वोढुं कर्म प्रवर्तयितुं, स्यन्दनः रथः||५३||

Adhikarana 21 (54) · Śloka 54

अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानं- अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा; ते च पदपादश्लोका भूयः क्रमेणानुसन्धेयाः, एवमेकैकशो घटयेदात्मना चानुपठेत्; अद्रुतमविलम्बितमविशङ्कितमननुनासिकं सुव्यक्ताक्षरमपीडितवर्णमक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतं नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् | न चान्तरेण कश्चिद्व्रजेत् तयोरधीयानयोः ||५४||

🔊 Audio coming soon

इदानीं प्रकृतमध्ययनं प्रस्तौति- अथ वत्सेत्यादि| अथेति आह्निकाद्यावश्यकादानन्तर्ये, आवश्यकमाह्निकं कृत्वेत्यर्थः| शुचये कृताह्निकत्वेन पवित्राय| कृतोत्तरासङ्गाय गृहीतोत्तरीयवस्त्राय| अव्याकुलाय एकचित्ताय| उपस्थिताय समीपस्थिताय, दूरस्थितावन्तरायसम्भवः; उपस्थिताय अभिवादनानन्तरं कृतोपस्थानायेत्यन्ये| अध्ययनकाले प्रातरादावनध्ययनवर्जिते| शिष्याय उपनयनविधानेनाग्निसाक्षिकमनुशिष्टाय| यथाशक्ति शिष्यस्य शक्त्यनतिक्रमेण| पदं पादं श्लोकं वेति अनेन त्रिविधां ग्रहणशक्तिं स्थापयति; तेन हीनशक्तये पदं, तच्च पदं स्वाद्यन्तं त्याद्यन्तं वा; तथाहि- “शुचये कृतोत्तरासङ्गाय” इत्यादि स्वाद्यन्तं भवति, उपदिश्यते इति त्याद्यन्तं; मध्यमशक्तये पादं श्लोकचतुर्थांशम्; उत्तमशक्तये श्लोकं चतुष्पादपरिपूर्णम्| ते च पदपादश्लोका उपदिष्टाः, भूयः पुनः पुनः, अनुक्रमेण, सन्धेयाः सन्धानीयाः; तथाहि- पदेन पादः सन्धानीयः, पदपादाभ्यां श्लोकः सन्धानीयः| एवमेकैकशो घटयेत् अनेन प्रकारेण एकमेकं शिष्यं प्रति योजनिकां कारयेत्| आत्मना चानुपठेत् पठतः शिष्यस्य पश्चादाचार्यः स्वयं पठेत्| शिष्यस्य सुखपठनार्थम | कायमनोभ्यां शिष्यं नियम्य पाठे वाचि नियन्तुमाह- अद्रुतमित्यादि|- अद्रुतम् असन्निकृष्टवर्णपदपादोच्चारणम्| अविलम्बितं नातिविस्रस्तम्| अशङ्कितं त्रासरहितम्| अननुनासिकं डञणनमान् वर्जयित्वा नासिकोच्चरितवर्ज्यम्| अपीडितवर्णं वर्णमपीडयन्| अक्षिभ्रुवौष्ठहस्तैरनभिनीतम् अक्ष्यादिभिर्नर्तक इवाभिनयं न कुर्यादित्यर्थः| सुसंस्कृतम् अक्लिष्टवर्णश्रुतिकम्| नात्युच्चैर्नातिनीचैरिति एतेनैतदुक्तं- मध्यमेन स्वरेण पठेत्| न चान्तरेणेत्यादि तयोर्गुरुशिष्ययोर्मध्ये न कश्चिद्गच्छेदित्यर्थः| अन्ये त्वन्यथा पठन्ति व्याख्यानयन्ति च- शास्त्रमुद्दिश्य तस्य सम्प्रदानायाह- अथ वत्सेत्यादि|- वत्स सुश्रुत इति गम्यते, शास्त्रप्रश्ने तस्याधिकृतत्वात्| कस्मै तद्देयमित्याह- शुचय इत्यादि||५४||

Adhikarana 22 (55) · Śloka 55

भवतश्चात्र | शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः | पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ||५५||

🔊 Audio coming soon

पठतः शिष्यस्य शास्त्रान्तावाप्तिहेतुमाह- भवतश्चात्रेत्यादि| शुचिः बाह्याभ्यन्तरशौचयुक्तः| गुरुपरः गुरुकार्यरतः| दक्षः नित्याभियुक्तः| तन्द्रा आलस्यम्||५५||

Adhikarana 23 (56) · Śloka 56

वाक्सौष्ठवेऽर्थविज्ञाने प्रागल्भ्ये कर्मनैपुणे | तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ||५६||

🔊 Audio coming soon

अध्ययनान्तगः शिष्यः किं कुर्यादित्याह- वागित्यादि| वाक्सौष्ठवे अतिस्पष्टवाक्त्वे| प्रागल्भ्ये धार्ष्ट्ये; प्रागल्भ्यान्महतोऽपि रोगान् साध्यानुत्साही साधयति| तदभ्यासे कर्माभ्यासे, चशब्दात् कर्मदर्शनेऽपि| सिद्धौ चेति आरब्धाभिप्रेतार्थसाधनं सिद्धिः; चकारोऽत्रासाध्यानामनारम्भमनुक्तं समुच्चिनोति||५६||

Adhikarana puShpikA · Śloka 3

इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसम्प्रदानीयो नाम तृतीयोऽध्यायः ||३||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थाने तृतीयोऽध्यायः||३||