Adhikarana 1 (1-2) · Śloka 2
अथातो विरेचनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथातो विरेचनद्रव्येत्यादि| विकल्पो भेदः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो विरेचनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथातो विरेचनद्रव्येत्यादि| विकल्पो भेदः||१-२||
Adhikarana 2 (3-4) · Śloka 4
अरुणाभं त्रिवृन्मूलं श्रेष्ठं मूलविरेचने | प्रधानं तिल्वकस्त्वक्षु फलेष्वपि हरीतकी ||३|| तैलेष्वेरण्डजं तैलं स्वरसे कारवेल्लिका | सुधापयः पयःसूक्तमिति प्राधान्यसङ्ग्रहः | तेषां विधानं वक्ष्यामि यथावदनुपूर्वशः ||४||
🔊 Audio coming soon
अरुणाभमित्यादि| अरुणाभमीषल्लोहितम्| त्रिवृत् ‘निशोथ’ इति लोके| मूलविरेचने मूलविरेचनानां मध्ये| तिल्वकः स्वल्परोध्रः| त्वक्क्ष्विति त्वग्विरेचनानां मध्ये तिल्वकत्वक् प्रधानमित्यर्थः| सुधा ‘सेहुण्ड’ इति लोके| पयःसूक्तमिति पयःसु क्षीरविरेचनानां मध्ये सुधापयः प्रधानमुक्तमिति सम्बन्धः| फलेष्वपि हरीतकी अस्याग्रे ‘तैलेष्वेरण्डजं तैलं स्वरसे कारवेल्लिका’ इति जेज्जटाचार्यः पठति, तन्नेच्छति गयी| विधानमिति विधानं प्रयोगकरणम्| एषां त्रिवृदादीनाम्| यथावत् सत्यम्| अनुपूर्वशः अनुक्रमेणेत्यर्थः||३-४||
Adhikarana 3 (5) · Śloka 5
वैरेचनद्रव्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम् | चूर्णीकृतं सैन्धवनागराढ्यमम्लैः पिबेन्मारुतरोगजुष्टः ||५||
🔊 Audio coming soon
वैरेचनेत्यादि| वैरेचनद्रव्यरसानुपीतं त्रिवृदादिद्रव्यरसानुभावितम्| अस्तदोषं कृम्यादिदोषरहितम्| आढ्यमधिकम्| अम्लैः शुक्तसौवीरतुषोदकधान्याम्लमद्यमस्तुभिः| ‘वैरेचनस्वरसक्वाथपीतां गाढमूलां त्रिवृतां कालपुष्टाम्| चूर्णीकृतां नागरसैन्धवाढ्यां पिबेदम्लैरनिलव्याधिजुष्टः’ इति क्वचित् पाठः||५||
Adhikarana 4 (6) · Śloka 6
इक्षोर्विकारैर्मधुरै रसैस्तत् पैत्ते गदे क्षीरयुतं पिबेच्च |६|
🔊 Audio coming soon
इक्षोरित्यादि| इक्षोर्विकारैः खण्डादिभिः; न पुनर्गुडेन, उष्णवीर्यत्वात्तस्य; न च फाणितेन, त्रिदोषकरत्वात्तस्य; नापीक्षुरसेन, विदाहित्वात्तस्येति| मधुरै रसैः काकोल्यादिक्वाथैः| तदिति त्रिवृन्मूलम्| ‘स्वादुक्वाथैश्चापि नोष्णैर्विकारे पैत्ते द्राक्षाक्षीरयुक्तां पिबेद्वा’ इति केचित् पठन्ति|६|-
Adhikarana 5 (6) · Śloka 6
गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ||६||
🔊 Audio coming soon
गुडूचीत्यादि| अरिष्टो निम्बः| रसोऽत्र क्वाथः| तत् त्रिवृन्मूलम्| अन्ये तु ‘क्षौद्रारिष्टत्रिफलाक्वाथयुक्ता मूत्रैः पेया कफजे व्योषगाढा’ इति पठन्ति| तत्र त्रिवृतेति सम्बन्धनीयम्| अन्ये तु द्राक्षारसेनेत्यादि पठन्ति, तत्र पित्तमपि द्रष्टव्यं; तेन पित्ताधिके श्लेष्मणि द्राक्षारसेन, कफाधिके मूत्रैरिति; अयं तु पाठोऽभावात् समग्रो न लिखितः||६||
Adhikarana 6 (7-8) · Śloka 8
त्रिवर्णकत्र्यूषणयुक्तमेतद्गुडेन लिह्यादनवेन चूर्णम् | प्रस्थे च तन्मूलरसस्य दत्वा तन्मूलकल्कं कुडवप्रमाणम् ||७|| कर्षोन्मिते सैन्धवनागरे च विपाच्य कल्कीकृतमेतदद्यात् | तत्कल्कभागः समहौषधार्धः ससैन्धवो मूत्रयुतश्च पेयः ||८||
🔊 Audio coming soon
वातश्लेष्मप्रयोगमाह- त्रिवर्णकेत्यादि| त्रिवर्णं त्रिजातकम्| एतत् त्रिवृन्मूलम्| तत्र त्रिवर्णत्रिकटुकगुडानामेको भागः, अपरास्तु त्रिवृतायाः, तस्याः प्रधानत्वात्| वातश्लेष्मविषयमपरमपि प्रयोगमाह- प्रस्थे चेत्यादि| प्रस्थो द्वात्रिंशत्पलानि, द्रवद्रव्यत्वात्| तन्मूलरसस्य त्रिवृन्मूलक्वाथस्य, तन्मूलं त्रिवृन्मूलम्| कुडवश्चत्वारि पलानि| कर्षोन्मित इति प्रत्येकं कर्षप्रमाणे| विपाच्य कल्कीकृतमेतदिति एतत् सर्वं तावत् पक्तव्यं यावत् कल्कावशेषं भवति| अद्यात् भक्षयेत्| अन्ये त्वेवं पठन्ति- ‘क्वाथप्रस्थे कुडवं तस्य दद्याद्युक्त्या दद्यान्नागरं सैन्धवं च| पचेत् सर्वं यावदेतद्घनं स्याल्लेहीभूतं तत् प्रयोज्यं ततस्तु” इति| अन्ये तु ‘कुडवं घृतस्य दद्यात्’ इति पठन्ति| तत्र कुडवोऽष्टौ पलानि, सैन्धवनागरे च प्रत्येकं पलिके| तन्मते घृतमेतद्विरेचनं, तच्च वातपित्ते, ‘वाताधिककफे’ इत्यन्ये| वातश्लेष्मविषयमेव योगान्तरमाह- तदित्यादि| तत्कल्कः त्रिवृत्कल्कः| समहौषधार्धः शुण्ठ्याः पलार्धयुक्तः| ससैन्धव इति सैन्धवमपि त्रिवृदर्धम्| अन्ये तु पठन्ति- ‘त्रिवृत्कल्को नागरभागयुक्तः ससैन्धवो मूत्रयुतः प्रदेयः’- इति||७-८||
Adhikarana 7 (9-11) · Śloka 11
समास्त्रिवृन्नागरकाभयाः स्युर्भागार्धकं पूगफलं सुपक्वम् | विडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ||९|| (विरेचनद्रव्यभवं तु चूर्णं रसेन तेषां भिषजा विमृद्य | तन्मूलसिद्धेन च सर्पिषाऽऽक्तं सेव्यं तदाज्ये गुटिकीकृतं च ||१०|| गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य | शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः) ||११||
🔊 Audio coming soon
सर्वविषयान् योगानाह- समा इत्यादि| भागार्धकमिति आदिद्रव्यापेक्षया पूगादिकं प्रत्येकमर्धभागिकं ग्राह्यम्| विडङ्गसारो विडङ्गबीजानि| सिन्धूद्भवं सैन्धवं, तदप्यर्धभागेन ग्राह्यम्| ससैन्धवमूत्रयुक्तो योगः पेय इति सम्बन्धः| ‘समे त्रिवृन्नागरके’ इति केचित् पठन्ति| अत्र केचित्पठन्ति- विरेचनेत्यादि| विरेचनद्रव्यभवं चूर्णं यदृच्छया ग्राह्यम्| रसेन तेषां विमृद्येति तेषां विरेचनद्रव्याणां रसेन भावना कार्येत्यर्थः, यावता चूर्णमार्द्रीभवति तावद्रसो देयः| भिषजा वैद्येन योगानुरूपा वटकाः प्रयोज्या इति सम्बन्धः| तन्मूलसिद्धेन च सर्पिषाऽऽक्तमिति विरेचनद्रव्यजटापक्वेन घृतेन पुनरपि भावना कार्येत्यर्थः; यावता स्नैग्ध्यमुत्पद्यते तावन्मात्रं घृतं देयमित्यर्थः| सेव्यं सेवनीयम्| तदाज्ये तस्मिन्नेव घृते| गुटिकीकृतं गुटिकारूपं कृतम्| निधाय निक्षिप्य| गुडोऽत्र द्विगुणो देयः| त्रिजातकमत्र यावता सौगन्ध्यं भवति||९-११||
Adhikarana 8 (12-13) · Śloka 13
वैरेकीयद्रव्यचूर्णस्य भागं सिद्धं सार्धं क्वाथभागैश्चतुर्भिः | आमृद्नीयात् सर्पिषा तच्छृतेन तत्क्वाथोष्मस्वेदितं सामितं च ||१२|| पाकप्राप्ते फाणिते चूर्णितं तत् क्षिप्तं पक्वं चावतार्य प्रयत्नात् | शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् ||१३||
🔊 Audio coming soon
मोदकभक्ष्यान्निर्दिशन्नाह- वैरेकीयेत्यादि| वैरेकीयद्रव्याणां त्रिवृच्छ्यामादीनां ग्रहणम्| क्वाथभागैरिति विरेचनद्रव्यक्वाथभागैश्चतुर्भिर्मन्देऽग्नौ घृतेन विरेचनद्रव्यसिद्धेन, सामिताभागं गोधूमचूर्णं तुल्यभागं प्रक्षिप्य मर्दयित्वा पिष्टपाचनिकायां धृत्वा ऊष्मणा स्वेदयित्वाऽन्यस्मिन् फाणिते पाकप्राप्ते प्रक्षिप्य मोदकाः कार्याः||१२-१३||
Adhikarana 9 (14) · Śloka 14
रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः | वैरेचनेऽन्यैरपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश्च ||१४||
🔊 Audio coming soon
यूषकल्पं निर्दिशन्नाह- रसेनेत्यादि| तेषामिति तेषां विरेचनद्रव्याणाम्| अन्ये त्वेवं पठन्ति- ‘मुद्गानां वा तद्रसे भावितानां यूषः कल्प्यः सघृतः सैन्धवाढ्यः’ इति| तद्रसे प्रधानकल्पनया त्रिवृतारसे| वैरेचने इति विरेचनद्रव्यभावितैरन्यैरपि वैदलैर्मसूरादिभिर्यूषः स्यात् भवेदित्यर्थः| एवमित्यादि| एष एव वमनीयादियूषाणां कर्ममार्गः||१४||
Adhikarana 10 (15) · Śloka 15
भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा | पक्वं च सम्यक् पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् ||१५||
🔊 Audio coming soon
पुटपाकक्रमविरेचनं निर्दिशन्नाह- भित्त्वेत्यादि| भित्त्वा विदार्य| त्रिभण्डी शुक्ला त्रिवृत्| पुटपाकयुक्त्या पुटपाकक्रमेण शालाक्योक्तक्रियाकल्पनिर्दिष्टपुटपाकविधिना; तेन काश्मर्यादिपत्राच्छादनकुशपरिवेष्टनं मृदावलेपनं निर्धूमाङ्गारान्तरुपस्वेदनादि सर्वमतिदेशेन लभ्यते| अन्ये त्वेवं पठन्ति- “इक्षु द्विधां पाटयित्वाऽवलिख्य त्रिवृत्कल्कैः प्रतिसन्धाय चापि| पक्वं सम्यक् पुटपाकक्रमेण खादेच्छीतं पित्तरोगाभिभूतः” इति; व्याख्यानयन्ति च- त्रिवृत्कल्कैरिति बहुवचनात्त्रिवृदादिकल्कैरित्यादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेनान्येषां वैरेचनिकानामयमेव पुटपाकविधिरिति द्योतयति||१५||
Adhikarana 11 (16-22) · Śloka 22
सिताजगन्धात्वक्क्षीरीविदारीत्रिवृतः समाः | लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये ||१६|| शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् | रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ||१७|| पचेल्लेहं सिताक्षौद्रपलार्धकुडवान्वितम् | त्रिवृच्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् ||१८|| त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीर्मधुनाऽऽप्नुयात् | सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् ||१९|| बीजाढ्यपथ्याकाश्मर्यधात्रीदाडिमकोलजान् | तैलभृष्टान् रसानम्लफलैरावाप्य साधयेत् ||२०|| घनीभूतं त्रिसौगन्ध्यत्रिवृत्क्षौद्रसमन्वितम् | लेह्यमेतत्कफप्रायैः सुकुमारैर्विरेचनम् ||२१|| नीलीतुल्यं त्वगेलं च तैस्त्रिवृत्ससितोपला | चूर्णं सन्तर्पणं क्षौद्रफलाम्लं सन्निपातनुत् ||२२||
🔊 Audio coming soon
इदानीं वैरेचनलेहानाह- सितेत्यादि| सिता शर्करा; अजगन्धा जवानिका, ‘बोथ-इका’ इत्यन्ये; त्वक्क्षीरी वंशलोचना; विदारी बिडाली (विराली); त्रिवृत् ‘निशोत्र’ इति लोके| शर्करेत्यादि| मरिचांशकमिति अंशश्चतुर्थो भागः| पचेदित्यादि| सिता शर्करा तस्याः पलं, क्षौद्रं मधु, तस्यार्धकुडवश्चत्वारि पलानि; त्रिवृत् लेहस्य चतुर्थांशेन| अत्र मधुनोऽग्निसंयोगो न विरुध्यते, अनवस्थानात् प्रयोगाभावाच्च| त्रिवृदित्यादि| श्यामा वृद्धदारुकः, क्षारो यवक्षारः, आप्नुयात् लिह्यात्| बीजाढ्येत्यादि बीजाढ्यान् सुपक्वान् पथ्यादीन् सहैव बीजैः साधयेत्; तान् रसान् पथ्याधात्रीदाडिमकोलजानेरण्डतैलभृष्टान्, पुनरम्लफलैर्बीजपूरादिभिः सह आवाप्य प्रक्षिप्य साधयेत्; पथ्यादीनां यदृच्छया मात्रा, जले तु षोडशगुणे तेषां क्वाथः कर्तव्यः, एरण्डतैलमात्रा तु यावता तस्य भर्जनं सम्भवति, अम्लफलं तु क्वाथस्य चतुर्थांशेन, त्रिसौगन्ध्यमात्रा तु यावता सौगन्ध्यं भवति, त्रिवृत् क्षौद्रं तु प्रत्येकं लेहस्य चतुर्थांशेन| कफप्रायैर्भूयिष्ठकफैः पुरुषैः सेव्यम्| नीलीतुल्यमिति नीलीफलतुल्यं त्वगेलं, नीली श्रीफलिका| तैर्नील्यादिभिः सह तुल्या त्रिवृत्| ससितोपला शर्करायुक्ता| सन्तर्पणं प्रीणनम्| केचित् ‘सतर्पणम्’ इति पठन्ति, व्याख्यायन्ति च- तर्पणाः शक्तवः, तैः सह युक्तम्| क्षौद्रफलाम्लं मधुबीजपूराम्लरसेन सह चूर्णं देयम्| सन्निपातनुत् प्रशान्ते सन्निपातेऽनुबन्धपरिरक्षणार्थमित्यर्थः||१६-२२||
Adhikarana 12 (23) · Śloka 23
त्रिवृच्छ्यामासिताकृष्णात्रिफलामाक्षिकैः समैः | मोदकाः सन्निपातोर्ध्वरक्तपित्तज्वरापहाः ||२३||
🔊 Audio coming soon
वैरेचनिकमोदकमाह- त्रिवृदित्यादि| श्यामा वृद्धदारुकः| त्रिफलायाः प्रत्येकं भागाः समाः| यद्यप्यत्र भागश्रुतिर्नास्ति तथाऽपि सितामाक्षिके पक्त्वा गुटिकाः कार्याः, सितामाक्षिके समस्तद्रव्येभ्यो द्विगुणे ग्राह्ये||२३||
Adhikarana 13 (24-25) · Śloka 26
त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा | क्षारकृष्णाविडङ्गानि सञ्चूर्ण्य मधुसर्पिषा ||२४|| लिह्याद्गुडेन गुटिकाः कृत्वा वाऽप्यथ भक्षयेत् | कफवातकृतान् गुल्मान् प्लीहोदरहलीमकान् ||२५|| हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् |२६|
🔊 Audio coming soon
लेहगुटिकयोः प्रयोगमाह- त्रिवृदित्यादि| त्रिफलाया अपि त्रयो भागाः, क्षारकृष्णाविडङ्गानामपि त्रयो भागा ग्राह्याः| निरपायं व्यापद्रहितम्||२४-२५||-
Adhikarana 14 (26-27) · Śloka 27
चूर्णं श्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा ||२६|| चव्येन्द्रबीजं त्रिफला सर्पिर्मांसरसाम्बुभिः | पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते ||२७||
🔊 Audio coming soon
चूर्णमाह- चूर्णमित्यादि| नीली नीलिनी, श्रीफलिकेति लोके| कट्वी कटुरोहिणी| रूक्षाणां सर्पिषा मांसरसेन च, स्निग्धानां पुनरपिशब्दसमुच्चितानामम्बुना पानीयेन सह योगो देयः||२६-२७||
Adhikarana 15 (28-30) · Śloka 30
वैरेचनिकनिःक्वाथभागाः शीतास्त्रयो मताः | द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् ||२८|| तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत् | कलसे कृतसंस्कारे विभज्यर्तू हिमाहिमौ ||२९|| मासादूर्ध्वं जातरसं मधुगन्धं वरासवम् | पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि ||३०||
🔊 Audio coming soon
वैरेचनिकं गौडमासवं निर्दिशन्नाह- वैरेचनिकेत्यादि| वैरेचनिकं द्रव्यं सेहुण्डवर्जितं ग्राह्यम्, एकैव त्रिवृदित्येके| शीता इत्यनेन वैरेचनिकक्वाथे उष्णे फाणितं न योजयेदित्युक्तं भवति| द्वौ फाणितस्येति फाणितं काकवी ; एतेन पञ्च भागाः क्वथनीया इत्यर्थः| साधुसिद्धमिति अर्धावशिष्टम्| पुनः शीतग्रहणेनोष्णं न सन्धातव्यमित्युक्तम्| त्रिवृदधिकारे वैरेचनिकक्वाथभागा इति सामान्यशब्दप्रयोगादपरवैरेचनिकानामप्येवमेवासव इति बोधयति| निधापयेत् क्व? इत्याह- कलसे| कथम्भूते? कृतसंस्कारे; अन्तःक्षालितशुष्कस्य मधुपिप्पलीलेपोऽगुरुधूपनं चेति संस्कारः| विभज्यर्तू हिमाहिमाविति हिमे मासं धान्यराशौ स्थाप्यम्, अहिमे पुनरुष्णे पक्षमिति| जातरसमुत्पन्नरसं वरासवं पिबेदिति सम्बन्धः| जातरसस्य लक्षणमाह- मधुगन्धमिति| असावेव विधिः क्षारमूत्रासवेष्विति अयमेव विधिश्चिकित्सितादौ वक्ष्यमाणक्षारोदकासवादिषु गुडमधुयोनिष्वन्येषु च हिमाहिमकालस्थापनस्य पाकप्राप्तिलक्षणस्य चेति||२८-३०||
Adhikarana 16 (31-34) · Śloka 34
वैरेचनिकमूलानां क्वाथे माषान् सुभावितान् | सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् ||३१|| अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् | शालितण्डुलचूर्णं च तत्कषायोष्मसाधितम् ||३२|| तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान् | मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः ||३३|| निदध्यात्कलसे तां तु सुरां जातरसां पिबेत् | एष एव सुराकल्पो वमनेष्वपि कीर्तितः ||३४||
🔊 Audio coming soon
पैष्टीं सुरां वैरेचनीं दर्शयन्नाह- वैरेचनिकेत्यादि| त्रिवृदादिक्वाथेन माषविदलानि विभावयेदित्यर्थः| तत्कषायेणेत्यादि तेनैव वैरेचनिकक्वाथेन| अवक्षुद्यैकतः एकीकृत्य कुट्टयित्वेत्यर्थः| पिण्डान् कृत्वेति किण्वनिमित्तं पिण्डं कृत्वेत्यर्थः| तत्कषायोष्मसाधितमिति त्रिवृदादिक्वाथोष्मस्वेदितम्| तस्य पिष्टस्येत्यादि पिष्टपाचनिकायां शीतलीकृत्य तस्य पिष्टस्य भागांस्त्रीन् पूर्वकिण्वभागेनैकेन मिश्रितान् कृत्वेत्यर्थः| क्वाथं दद्यादिति त्रिवृदादेः| तस्य प्रमाणं तु आसुतीवला एव जानन्ति| एतस्यैव योगस्यान्यत्राप्यतिदेशं निर्दिशन्नाह- एष एवेत्यादि| एष एव सर्वपिष्टसुराणां विधिः; तथा वामनीयेषु मदनफलादिष्वपीत्यर्थः||३१-३४||
Adhikarana 17 (35-39) · Śloka 40
मूलानि त्रिवृदादीनां प्रथमस्य गणस्य च | महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोरपि ||३५|| सुधां हैमवतीं चैव त्रिफलातिविषे वचाम् | संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ||३६|| कुर्यान्निःक्वाथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु | क्षुण्णांस्तस्मिंस्तु निःक्वाथे भावयेद्बहुशो यवान् ||३७|| शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः | चतुर्थं भागमावाप्य चूर्णानामत्र कीर्तितम् ||३८|| प्रक्षिप्य कलसे सम्यक् ततस्तं तदनन्तरम् | तेषामेव कषायेण शीतलेन सुयोजितम् ||३९|| पूर्ववत् सन्निदध्यात्तु ज्ञेयं सौवीरकं हि तत् |४०|
🔊 Audio coming soon
सौवीरकवैरेचनमम्लसन्धानं निर्दिशन्नाह- मूलानीत्यादि| त्रिवृदादीनां संशोधनसंशमनीयोक्तानां ग्रहणम्| प्रथमो गणो विदारिगन्धादिः| मूर्वा चोरस्नायुः; शार्ङ्गष्टा विटपकरञ्जः, चिरपोटिकेत्यन्ये, अपरे तु काकजङ्घामाहुः| सुधा सेहुण्डः| हैमवती श्वेतवचा| एतानि सर्वाण्यपि त्रिवृदादीनि संहृत्य एकीकृत्य द्वौ भागौ कारयेत्| ततश्चैतयोर्द्वयोर्भागयोर्मध्य एकस्मिन् भाग एकं निःक्वाथं कुर्यात्, एकस्मिंस्तुभागे चूर्णं कुर्यात्| क्षुण्णान् कुट्टितान्| पूर्वोक्ते निःक्वाथे भावयेत् सप्ताहं यावत्| तेषां यवानाम्| अवाप्य निक्षिप्य| चूर्णानां पूर्वोक्तोर्वरितत्रिवृदादिद्रव्यैकभागचूर्णानाम्| अत्र अस्मिञ् शास्त्रे| कीर्तितं कथितम्| सौवीरकं हितं ज्ञेयमिति सम्बन्धः| ततस्तस्माच्चूर्णभागनिक्षेपणादनन्तरं कलसे प्रक्षिप्य, तत् सौवीरकं तदनन्तरं तेषामेव त्रिवृदादीनामन्यतमस्य कषायेण क्वाथेन शीतलेन सुयोजितं पूर्ववत् सन्निदध्यादिति सम्बन्धः| सौवीरकं सौवीरकसञ्ज्ञम्||३५-३९||
Adhikarana 18 (40-44) · Śloka 45
पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ||४०|| भागं सङ्क्षुद्य संसृज्य यवैः स्थाल्यामधिश्रयेत् | अजशृङ्ग्याः कषायेण तमभ्यासिच्य साधयेत् ||४१|| सुसिद्धांश्चावतार्यैतानौषधिभ्यो विवेचयेत् | विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ||४२|| पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत् | तेनैव सह यूषेण कलसे पूर्ववत् क्षिपेत् ||४३|| ज्ञात्वा जातरसं चापि तत्तुषोदकमादिशेत् | तुषाम्बुसौवीरकयोर्विधिरेष प्रकीर्तितः ||४४|| षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते |४५|
🔊 Audio coming soon
तुषोदककल्पं निर्दिशन्नाह- पूर्वोक्तमित्यादि| त्रिवृदादिमूलं विदारिगन्धादिस्तथा महत् पञ्चमूलं मूर्वा शार्ङ्गष्टा चेति पूर्वोक्तो वर्गः| द्विधा कृत्वा द्वौ भागौ कृत्वेत्यर्थः| एतयोर्भागयोर्मध्ये एकं भागं सङ्क्षुद्य कुट्टयित्वा सतुषैर्यवैः सह संसृज्य सम्बद्धीकृत्य, स्थाल्यामधिश्रयेत् निक्षिपेत्| यवानामेको भागः| अजशृङ्गी कर्कटशृङ्गी, ‘विषाणिका’ इत्यपरे| तं पूर्वोक्तं सयवं भागं, साधयेत् रन्धयेत्| सुसिद्धान् सुस्विन्नान्, एतान् यवान्, औषधेभ्यो विवेचयेत् पृथक् कुर्यात्| तान् यवान्| पूर्ववन्मितान् भागद्वयपरिमितान्, ‘पूर्वोक्तौषधभागस्योद्ध(र्व)रितस्य’ इति शेषः| पूर्ववत् चतुर्थभागप्रमाणमित्यर्थः | तेनैव सह यूषेणेति प्रोक्तस्विन्नौषधवर्गयवाजशृङ्गीकषायेणोद्धृतौषधयवेन; स पुनरौषधसंसर्गेण घनत्वाद्यूष इव जातः| जातरसं व्यक्ताम्लम्| तयोः सौवीरकतुषोदकयोर्व्यक्ताम्लत्वे कालावधिं दर्शयन्नाह- षड्रात्रात् सप्तरात्राद्वा; षड्रात्रसप्तरात्रविकल्पोऽप्युष्णशीतकालापेक्षः| ते चेति सौवीरकतुषोदके||४०-४४||-
Adhikarana 19 (45) · Śloka 45
वैरेचनेषु सर्व्येषु त्रिवृन्मूलविधिः स्मृतः ||४५||
🔊 Audio coming soon
त्रिवृद्विधानं सप्रपञ्चमुद्दिश्य त्रिवृद्विधानप्रकारातिदेशेनावशिष्टवैरेचनमूलानि निर्देष्टुमाह- वैरेचनेष्वित्यादि| वैरेचनेषु सर्वेष्विति अवशिष्टेषु श्यामादन्तीद्रवन्तीसप्तलादिषु| त्रिवृन्मूलविधिः स्मृत इति यादृशस्त्रिवृन्मूले विधिरुक्तस्तादृशस्तेष्वपि ज्ञेय इत्यर्थः| तद्यथा- श्यामामूलं श्यामास्वरसभावितं वा चूर्णितं सैन्धवनागरयुक्तमम्लैरनिलव्याधौ, मधुरक्वाथसहितं शर्करादिभिस्तुल्यभागं गोक्षीरयुक्तं पित्ते, इत्यादिर्यावत् सौवीरकतुषोदकविधिः; एवं प्रतिशेषवैरेचनिकमेवेहोदाहार्यम्| विषयोऽपि तेषां वैरेचनिकमूलकल्पानां प्रतित्रिवृत्कल्पविषय एवेति||४५||
Adhikarana 20 (46) · Śloka 47
दन्तीद्रवन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे | पिप्पलीक्षौद्रयुक्तानि स्विन्नान्युद्धृत्य शोषयेत् ||४६|| ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः |४७|
🔊 Audio coming soon
सामान्यातिदेशं निर्दिश्य दन्तीद्रवन्त्योर्विशिष्टं कल्पनमाह- दन्तीत्यादि| दन्तीद्रवन्त्योर्मूलान्युद्धृत्य शोषयेदिति सम्बन्धः| किंविशिष्टानि? स्विन्नानि, कस्मात्? विशेषादतिशयेन| क्वेत्याह- मृत्कुशान्तरे; मृत्तिकादर्भमध्ये पुटपाकविधानेनेत्यर्थः| पिप्पलीक्षौद्रयुक्तानि स्विन्नानीति सम्बन्धः| दन्ती प्रसिद्धा, द्रवन्ती चीरितपत्रा ‘संवरी’ इति लोके||४६||-
Adhikarana 21 (47-48) · Śloka 49
तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ||४७|| सर्पिश्च पक्वं वीसर्पकक्षादाहालजीर्जयेत् | मेहगुल्मानिलश्लेष्मविबन्धांस्तैलमेव च ||४८|| चतुःस्नेहं शकृच्छुक्रवातसंरोधजा रुजः |४९|
🔊 Audio coming soon
तयोरित्यादि| तयोर्दन्तीद्रवन्त्योः| कल्ककषायमात्रायां परिभाषा स्मरणीया; तामाश्रित्य कल्पनोच्यते- तैलपलानि द्वात्रिंशत्, दन्तीद्रवन्तीकल्कपलान्यष्टौ, दन्तीद्रवन्तीक्वाथस्य पलानि शतमेकमष्टाविंशत्यधिकं, तावत् क्वाथ्यं यावत्तैलपाकलक्षणम्| दन्तीद्रवन्तीक्वाथस्यायं विधिः- पानीयपलानि पञ्चशतानि द्वादशाधिकानि, दन्तीद्रवन्तीपलानि शतमेकं, क्वाथशेषमेकशतमष्टाविंशत्यधिकम्; इति क्वाथकल्पना| अन्यत्राप्यनुक्ततैलादिमाने इयमेव कल्पना ज्ञेया| चक्रतैलमिति चक्रपीडितं तिलतैलं, हस्तादियन्त्रपीडननिषेधार्थं; चक्रे ह्यभृष्टा एव तिलादयः पीड्यन्ते, ते पुनर्गुणवत्तरा भवन्ति; यन्त्रेण भर्जनरूक्षितानां तिलानां स्नेहगुरुत्वादयो गुणा हीयन्त इति| सर्पिश्चेति ताभ्यां दन्तीद्रवन्तीमूलकल्ककषायाभ्यां प्रत्येकं पक्वं सिद्धं सर्पिर्विसर्पादीञ्जयेत्| पुनर्दन्त्याः कल्को द्रवन्त्यास्तु कषाय इति बोद्धव्यम्| तैलमेव चेति चक्रतैलं पुगर्मेहगुल्मादीञ्जयेत्| चतुःस्नेहमिति घृततैलवसामज्जानश्चत्वारः स्नेहाः| शकृत् पुरीषम्| चतुःस्नेहं दन्तीद्रवन्तीमूलसाधितं वातसंरोधजा रुजो जयेदिति सम्बन्धः| अत्र द्रवस्यानुक्तत्वाच्चतुर्गुणं जलं देयम्||४७-४८||-
Adhikarana 22 (49-51) · Śloka 51
दन्तीद्रवन्तीमरिचकनकाह्वयवासकैः ||४९|| विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितम् | सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ||५०|| जीर्णे सन्तर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम् | अजीर्णपार्श्वरुक्पाण्डुप्लीहोदरनिबर्हणम् ||५१||
🔊 Audio coming soon
दन्तीत्यादि| दन्ती सम्बरी; कनकाह्वयं कङ्गुष्ठं, ‘नागकेसरम्’ इत्यन्ये; यवासो दुरालभा; विश्वभेषजं शुण्ठी| सप्ताहं मूत्रभावितमिति सम्बन्धः| सर्पिषेति अस्य चूर्णस्य घृतेन वा लेहः कार्य इत्यर्थः| अस्यैव प्रयोगस्य यौगिकमनुसङ्ग्रहमाह- जीर्णे इत्यादि| जीर्णे तस्मिन्नौषधे, सन्तर्पणं क्षौद्रमिति लाजशक्तुसहितं मधु देयम्||४९-५१||
Adhikarana 23 (52-53) · Śloka 54
गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम् | दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ||५२|| कृत्वैतान्मोदकानेकं दशमे दशमेऽहनि | ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ||५३|| दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः |५४|
🔊 Audio coming soon
मोदकस्य प्रयोगमाह- गुडस्येत्यादि| अष्टौ पलानि गुडस्य, विंशतिर्हरीतकीफलानि, दन्तीमूलचूर्णपलं, चित्रकमूलचूर्णपलं च, पिप्पलीकर्षः, त्रिवृत्कर्षश्च| अत्र तु सप्तगुञ्जाफलपरिमितमाषकप्रमाणेन पलादिमानं ग्राह्यम्| दश कृत्वैतान्मोदकानित्यादि दश मोदकान् कृत्वा, एकं मोदकं दशमे दशमेऽहनि खादेदिति सम्बन्धः| निर्यन्त्रणा वातातपादिनिषेधरहिताः| इमे मोदकाः||५२-५३||-
Adhikarana 24 (54-59) · Śloka 59
व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ||५४|| नवैतानि समांशानि त्रिवृदष्टगुणानि वै | श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ||५५|| (सर्वाणि चूर्णितानीह गालितानि विमिश्रयेत् ) | षड्भिश्च शर्कराभागैरीषत्सैन्धवमाक्षिकैः ||५६|| पिण्डितं भक्षयित्वा तु ततः शीताम्बु पाययेत् | बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ||५७|| निर्यन्त्रणमिदं सर्वविषघ्नं तु विरेचनम् | त्रिवृदष्टकसञ्ज्ञोऽयं प्रशस्तः पित्तरोगिणाम् ||५८|| भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर्नरैः | भक्ष्यरूपसधर्मत्वादाढ्येष्वेव विधीयते ||५९||
🔊 Audio coming soon
व्योषादिशीतविरेचनं दर्शयन्नाह- व्योषमित्यादि| व्योषादीनि प्रसिद्धानि| त्रिवृदष्टगुणानीति त्रिवृदष्टगुणा येषु तानि तथा| ईषत्सैन्धवमाक्षिकैरिति ईषच्छब्दश्चतुर्थांशवाचकः| भक्ष्यो भक्षणीयः| भक्ष्यरूपसधर्मत्वात् भक्ष्यरूपतुल्यादित्यर्थः‘वातश्लेष्मातुरैर्नरैः’ इति केचित् पठन्ति||५४-५९||
Adhikarana 25 (60-61) · Śloka 62
तिल्वकस्य त्वचं बाह्यामन्तर्वल्कविवर्जिताम् | चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गालयेत् ||६०|| तृतीयं भावितं तेन भागं शुष्कं तु भावितम् | दशमूलीकषायेण त्रिवृद्वत्सम्प्रयोजयेत् ||६१|| विधानं त्वक्षु निर्दिष्टं ... |६२|
🔊 Audio coming soon
त्वक्प्रधानकस्य तिल्वकस्य प्रयोगं निर्दिदिक्षुः प्रथमं तस्य संस्कारमेव सर्वप्रयोगविषयमाह- तिल्वकस्येत्यादि| अन्तर्वल्कविवर्जितामिति अभ्यन्तरकठिनत्वग्विवर्जिताम्| भागाविति द्वौ भागावित्यर्थः| तत्कषायेण तिल्वककषायेण| गालयेत् क्षारकल्पेन, गालनं पुनरिहैकविंशतिवारान् पारम्पर्यात्| तृतीयं भावितं तेन भागमिति अपरं चूर्णस्य स्थापितं तृतीयं भागं तेनैव तिल्वककषायजलेन चूर्णभागद्वयगालनलब्धगुणातिशयेन भावितमित्यर्थः| शुष्कं तु भावितं दशमूलकषायेणेति तृतीयं भागं शुष्कं पुनः सन्तं दशमूलीकषायेण भावितं त्रिवृद्वत् सम्प्रयोजयेदिति सम्बन्धः||६०-६१||-
Adhikarana 26 (62-69) · Śloka 69
... फलानामथ वक्ष्यते | हरीतक्याः फलं त्वस्थिविमुक्तं दोषवर्जितम् ||६२|| योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम् | रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ||६३|| हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् | मरिचानि च तत्सर्वं गोमुत्रेण विरेचनम् ||६४|| हरीतकी भद्रदारु कुष्ठं पूगफलं तथा | सैन्धवं शृङ्गवेरं च गोमूत्रेण विरेचनम् ||६५|| नीलिनीफलचूर्णं तु नागराभययोस्तथा | लिह्याद्गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ||६६|| पिप्पल्यादिकषायेण पिबेत्पिष्टां हरीतकीम् | सैन्धवोपहितां सद्य एष योगो विरेचयेत् ||६७|| हरीतकी भक्ष्यमाणा नागरेण गुडेन वा | सैन्धवोपहिता वाऽपि सातत्येनाग्निदीपनी ||६८|| वातानुलोमनी वृष्या चेन्द्रियाणां प्रसादनी | सन्तर्पणकृतान् रोगान् प्रायो हन्ति हरीतकी ||६९||
🔊 Audio coming soon
फलप्रधानहरीतकीकल्पेनाशेषवैरेचनिकफलकल्पं निर्दिशन्नाह- हरीतक्या इत्यादि| व्याधिशब्दोऽयं दोषेषु व्याधिषु च वर्तते| सर्वेषां हरीतकीयोगानां सामान्यं फलं दर्शयन्नाह- रसायनमित्यादि| सुखोपयोज्यान् योगान् सर्वर्तुकान् सार्वधातुकांश्चाह- हरीततकीत्यादि| मात्राप्रमाणं मध्येषु कोष्ठवयोबलेषु चूर्णकर्षः, उत्तमाधमयोर्बुद्ध्या विकल्पनीयः| नीलिनी श्रीफलिका| सातत्येन निरन्तरोपयोगेन| सन्न्तर्पणकृता रोगास्तृप्त्यादयः, तानुष्णत्वाद्दीपनत्वाच्च शमयतीति| अत्र नागरगुडसैन्धवादीनां भिन्नकार्याणां दोषदेहधातुबलकालवयोऽवस्थान्तरविकारापेक्षया व्यवस्थितविकल्पः||६२-६९||
Adhikarana 27 (70) · Śloka 71
शीतमामलकं रूक्षं पित्तमेदःकफापहम् | बिभीतकमनुष्णं तु कफपित्तनिबर्हणम् ||७०|| त्रीण्यप्यम्लकषायाणि सतिक्तमधुराणि च |७१|
🔊 Audio coming soon
हरीतकीनिर्देशादामलकबिभीतकयोरपि गुणनिर्देशमाह- शीतमित्यादि| सतिक्तमधुराणि चेति प्रत्येकं हरीतक्यादीनामुक्ता शक्तिर्गुणतः संयोगतः प्रभावतश्च||७०||-
Adhikarana 28 (71) · Śloka 72
त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्च्छिता ||७१|| वयसः स्थापनं चापि कुर्यात् सन्ततसेविता |७२|
🔊 Audio coming soon
इदानीं त्रिफलायाः प्रयोगमाह- त्रिफलेत्यादि| रोगशब्दोऽत्र त्रिदोषवचनो व्याधिवचनो वा| मूर्च्छिता संयुक्ता||७१||-
Adhikarana 29 (72) · Śloka 73
हरीतकीविधानेन फलान्येवं प्रयोजयेत् ||७२|| विरेचनानि सर्वाणि... |७३|
🔊 Audio coming soon
हरीतकीत्यादि||७२||-
Adhikarana 30 (73-75) · Śloka 76
... विशेषाच्चतुरङ्गुलात् | फलं काले समुद्धृत्य सिकतायां निधापयेत् ||७३|| सप्ताहमातपे शुष्कमतो मज्जानमुद्धरेत् | तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च ||७४|| तस्योपयोगो बालानां यावद्वर्षाणि द्वादश | लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ||७५|| सुखोदकं चानुपिबेदेष योगो विरेचयेत् |७६|
🔊 Audio coming soon
चतुरङ्गुलात् किरमालकात्, समुद्धृत्य ‘फलम्’ इति शेषः| सिकतायां वालुकायां, निधापयेत् निक्षिपेत्, सप्ताहमिति सम्बन्धः| अतः अस्माच्चतुरङ्गुलफलात्| लिह्यादित्यादि| एष योगो वातकफप्रशमनः||७३-७५||-
Adhikarana 31 (76-77) · Śloka 78
एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन तु ||७६|| युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत् | बालवृद्धक्षतक्षीणसुकुमारेषु योजितम् ||७७|| फलानां विधिरुद्दिष्टः .... |७८|
🔊 Audio coming soon
एरण्डतैलमित्यादि| त्रिगुणेन त्रिफलाक्वाथेन युक्तं तथा क्षीररसाभ्यां युक्तमिति सम्बन्धः| रसो मांसरसः| बालादिषु योजितमेरण्डतैलं विरेचयेदिति सम्बन्धः||७६-७७||-
Adhikarana 32 (78-79) · Śloka 80
... क्षीराणां शृणु सुश्रुत! | विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ||७८|| अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्मविभ्रमात् | विजानता प्रयुक्तं तु महान्तमपि सञ्चयम् ||७९|| भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान् |८०|
🔊 Audio coming soon
क्षीराणामित्यादि| सौधं सेहुण्डभवम्| कर्मविभ्रमात् कर्माविज्ञानात्| दोषाणां सञ्चयमिति सम्बन्धः| आश्वेव शीघ्रमेव||७८-७९||-
Adhikarana 33 (80-83) · Śloka 84
महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ||८०|| कषायैः समभागं तु तदङ्गारेषु शोषितम् | अम्लादिभिः पूर्ववत्तु प्रयोज्यं कोलसम्मितम् ||८१|| महावृक्षपयः पीतैर्यवागूस्तण्डुलैः कृता | पीता विरेचयत्याशु गुडेनोत्कारिका कृता ||८२|| लेहो वा साधितः सम्यक् स्नुहीक्षीरपयोघृतैः | भावितास्तु स्नुहीक्षीरे पिप्पल्यो लवणान्विताः ||८३|| चूर्णं काम्पिल्लकं वाऽपि तत्पीतं गुटिकीकृतम् |८४|
🔊 Audio coming soon
महत्या इत्यादि| महती पञ्चमूली बिल्वादिका| बृहत्योरिति स्थूलबृहती लघुबृहती चेति द्वे बृहत्यौ| एकश इत्यादि| एकीकृत्याङ्गारेषु विशोषयेत्, न ज्वलदग्नौ पाकखरताभयात्| तत् सेहुण्डदुग्धं पृथक् कषायैः समभागं ग्राह्यम्| एतेन पञ्चमूलीबृहतीकषायाणां सप्तभागाः, अष्टमस्तु सेहुण्डदुग्धस्य| अम्लादिभिः काञ्जिकमस्तुसुरादिभिः| पूर्ववत् त्रिवृद्वत्| कोलसम्मितं कर्षप्रमाणम्| महावृक्षेत्यादि| महावृक्षः सेहुण्डः| पीतैर्भावितैः| गुडे चेत्यादि| गुडे च कृतोत्कारिका विरेचयतीति सम्बन्धः| उत्कारिका लप्सिका| तस्याः कल्पना- गोधूमान् स्नुहीक्षीरेण भावयित्वा, चूर्णीकृत्य, घृतक्षीरादिभिः संयाववदुत्कारिका पचनीया गुडेन| लेह इत्यादि| लेहस्य कल्पना कथ्यते- स्नुहीक्षीरभावितस्य गोधूमचूर्णस्य लेहः साध्यः| अन्ये तु ‘स्नुहीक्षीरसिताघृतैः’ इति पठन्ति| तन्मते पयोऽप्युत्कारिकायामिवानुक्तमपि लेहे देयम्| लेहो ‘विरेचयति’ इत्यत्राप्यनुवर्तते| भाविता इत्यादि ‘विरेचयन्ति’ इत्यत्राप्यनुवर्तते| चूर्णमित्यादि| तत्पीतं स्नुहीक्षीरभावितम्| अत्रापि ‘विरेचयति’ इत्यनुवर्तते||८०-८३||-
Adhikarana 34 (84-85) · Śloka 86
सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ||८४|| मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम् | कीर्णं तेनैव चूर्णेन माल्यं वसनमेव च ||८५|| आघ्रायावृत्य वा सम्यङ्मृदुकोष्ठो विरिच्यते |८६|
🔊 Audio coming soon
सप्तलेत्यादि| सप्तला सेहुण्डभेदः| शङ्खिनी यवतिक्ता, तस्याः फलं मूलं च विरेचकम्, अन्ये ‘शङ्खिनी यवतिक्ताभेदः’ इत्याहुः; अपरे तु श्वेतबुध्नामाहुः| दन्ती दन्तिनी| आरग्वधः किरमालकः| आप्लाव्य भावयित्वा| कीर्णमवचूर्णितं, तेनैव सप्तलादिचूर्णेन, माल्यं पुष्पम्, आघ्राय शिङ्घित्वा; तेनैव वा चूर्णेन कीर्णं भावितं वसनं वस्त्रमावृत्य परिधाय; मृदुकोष्ठो विरिच्यते नान्य इत्यर्थः||८४-८५||-
Adhikarana 35 (86-89) · Śloka 89
क्षीरत्वक्फलमूलानां विधानैः परिकीर्तितैः | अवेक्ष्य सम्यग्रोगादीन् यथावदुपयोजयेत् ||८६|| त्रिवृच्छाणा मितास्तिस्रस्तिस्रश्च त्रिफलात्वचः | विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ||८७|| लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन वा | भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ||८८|| गुल्मं प्लीहोदरं कासं हलीमकमरोचकम् | कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ||८९||
🔊 Audio coming soon
क्षीरत्वगित्यादि| शाणः कर्षचतुर्थो भागः||८६-८९||
Adhikarana 36 (90) · Śloka 90
घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु | भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ||९०||
🔊 Audio coming soon
अनुक्तान्नपानेषु प्रयोगकल्पान्निर्दिशन्नाह- घृतेष्वित्यादि| भक्ष्यं मोदकशष्कुल्यादि| अन्नं भक्तादि| अग्र्यमतिः प्रधानबुद्धिः||९०||
Adhikarana 37 (91) · Śloka 91
क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव चूर्णम् | कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः ||९१||
🔊 Audio coming soon
क्षीरमित्यादि| “यन्त्रादिपीडितद्रव्यरसः स्वरस उच्यते| यः पिण्डश्चार्द्रपिष्टानां स कल्कः परिकीर्तितः|| वह्नौ तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः| उपोषितं निशायां तु तोयस्थं शीतमुच्यते|| चूर्णमुष्णेन सम्पृक्तं तत् फाण्टमभिधीयते| अभिभूयाम्बुनोष्णेन क्षणात् पूतमितीतरे” इति| फाण्टलक्षणं तु प्रसङ्गादुक्तम्| कषायो द्विविधः- शृतकषायः, शीतकषायश्च| ते तु षट्कल्पा भवन्ति| कल्पा विधयः| अन्ये त्वेवं पठन्ति “चूर्णं कषायः शिशिरः शृतश्च तथा च कल्कः स्वरसस्तथैव| पञ्चैव कल्पाः खलु भेषजानां यथोत्तरं ते गुरवः प्रदिष्टाः” इति| ते तु स्वरस एव क्षीरमन्तर्भावयन्ति, फाण्टं शीतकषायेऽन्तर्भावयन्ति||९१||
Adhikarana puShpikA · Śloka 44
इति सुश्रुतसंहितायां सूत्रस्थाने विरेचनद्रव्यविकल्पविज्ञानीयो नाम चतुश्चत्वारिंशोऽध्यायः ||४४||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ण)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतटीकायां सूत्रस्थाने चतुश्चत्वारिंशत्तमोऽध्यायः||४४||