Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

18. vraṇālēpanabandhavidhyadhyāyaḥ

Adhikarana 1 (1-3) · Śloka 3

अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| आलेप आद्य उपक्रमः , एष सर्वशोफानां सामान्यः प्रधानतमश्च, तं च प्रतिरोगं वक्ष्यामः- ततो बन्धः प्रधानं, तेन शुद्धिर्व्रणरोपणमस्थिसन्धिस्थैर्यं च ||३||

🔊 Audio coming soon

अथात इत्यादि| एष आलेपः| नन्वेष आलेप आद्य उपक्रमः कथं? द्विव्रणीयेऽपतर्पणस्याद्यत्वेन पठितत्वात्; उच्यते- औषधद्रव्येभ्यो बहिरन्तःप्रमार्जनेभ्य आलेप आद्य इत्यर्थः; आद्यसमीपत्वाच्छ्रेष्ठत्वाद्वाऽऽलेप आद्य इत्युच्यते| सर्वशोफानां सामान्य इति वातादिशोफानां तुल्यः, आलेपत्वेनाभेदात्| प्रधानतमश्च सर्वोपक्रमेभ्यः आशुपीडाहरत्वात्| तं च प्रतिरोगं वक्ष्याम इति तमालेपं, प्रतिरोगं रोगे रोगे, वक्ष्यामः कथयिष्यामः, अस्मिन् स्थाने चिकित्सिते च| ततः तस्मादालेपात्| अस्थिसन्धिस्थैर्यं चेति अस्थ्नः सन्धेर्दार्ढ्यं ‘भवति’ इत्याध्याहारः| केचिदाचार्या इमं न पठन्ति||१-३||

Adhikarana 2 (4) · Śloka 4

तत्र प्रतिलोममालिम्पेत् | प्रतिलोमे हि सम्यगौषधमवतिष्ठतेऽनुप्रविशति रोमकूपान् स्वेदवाहिभिश्च सिरामुखैर्वीर्यं प्राप्नोति ||४||

🔊 Audio coming soon

इदानीमालेपावचारणं तत्फलं च निर्देष्टुमाह- तत्रेत्यादि| प्रतिलोममालिम्पेदिति लोमाभिमुखमालिम्पेत्| हि यस्मादर्थे| अवतिष्ठते अवस्थितिं करोति, अनुप्रविशति च ‘औषधं’ इत्यनुवर्तते||४||

Adhikarana 3 (5) · Śloka 5

न च शुष्यमाणमुपेक्षेत, अन्यत्र पीडयितव्यात् | शुष्को ह्यपार्थको रुक्करश्च ||५||

🔊 Audio coming soon

आलेपस्यावस्थायां कर्तव्यतामाह- न चेत्यादि| अन्यत्र पीडयितव्यादिति पीडनद्रव्यैर्मिश्रकोक्तैर्यो व्रणः पीडनीयो भवति तस्मादन्यत्र शुष्यमाणं नोपेक्षेतेत्यर्थः| हि यस्मादर्थे| अपार्थको निष्फलः||५||

Adhikarana 4 (6) · Śloka 6

स त्रिविधः- प्रलेपः, प्रदेह, आलेपश्च | प्रलेपप्रदेहयोरन्तरं - तत्र प्रलेपः शीतस्तनुरविशोषी विशोषी वा; प्रदेहस्तूष्णः शीतो वा बहलोऽबहुरविशोषी च; मध्यमोऽत्रालेपः | तत्र, रक्तपित्तप्रसादकृदालेपः; प्रदेहो वातश्लेष्मप्रशमनः शोधनो रोपणः शोफवेदनापहश्च; तस्योपयोगः क्षताक्षतेषु; यस्तु क्षतेषूपयुज्यते स भूयः ‘कल्क’ इति सञ्ज्ञां लभते निरुद्धालेपनसञ्ज्ञः; तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ||६||

🔊 Audio coming soon

तद्भेदानाह- स त्रिविध इत्यादि| प्रलेपप्रदेहयोर्वास्तवाभेदेऽपि व्यावहारिकं भेदं दर्शयन्नाह- तत्र प्रलेप इत्यादि| अन्तरं भेदः, स्थानासनवत्| प्रलेपं लक्षणैर्निर्दिशन्नाह- प्रलेप इत्यादि| अविशोषी अपीडयितव्ये व्रणशोफे, विशोषी पीडयितव्ये; एतेन येन कल्केन चन्दनवल्लिप्यते स प्रलेपः; अन्ये ‘शीतस्तनुः’ इत्यादिलक्षणं प्रदेहस्य इति वदन्ति| लक्षणैः प्रदेहं निर्दिशन्नाह- प्रदेह इत्यादि| उष्णः शीतो वेति विषयापेक्षया; तत्र वातबहुले कफबहुले वा उष्णः, पित्तरक्तबहुले शीतः| बहलः स्थूलः, एतेन यस्तु कल्कः पिण्डीकृत्य व्रणस्योपरि दीयते स प्रदेहः| ‘उष्णः शीतो वा’ इत्यादिलक्षणं ‘प्रलेपस्य’ इति केचिन्मन्यन्ते| लक्षणान्तरं निर्दिश्य कार्यभेदं निर्दिशन्नाह- तत्रेत्यादि| तत्रेति तयोर्मध्ये| केचिदत्रालेपनस्थाने ‘प्रदेह’ इति पठन्ति, अन्ये तु प्रदेहस्थाने आलेपं पठन्ति| आलेपस्य सामान्यविषयं दर्शयन्नाह- तस्येत्यादि| क्षताक्षतेषु व्रणव्रणशोफेष्वित्यर्थः| विषयान्तरेणालेपस्य नामान्तरमाह- यस्त्वित्यादि| तुशब्दोऽवधारणे| भूयःशब्दोऽत्र पुनरर्थे| निरुद्धा निषिद्धा| अन्ये त्वत्र ‘निरोध्यालेपनसञ्ज्ञां’ इति पठन्ति; तत्रापि स एवार्थः| कल्कसञ्ज्ञस्यालेपस्य कर्म आह- तेनेत्यादि| आस्रावसन्निरोध इति आस्रावो रक्ताद्यास्रावः| अनन्तर्दोषतेति दोषोऽत्र पूयः, तेनाभ्यन्तरपूयवर्जितत्वम्| व्रणशुद्धिश्चेति दोषदुष्टिनिवृत्तिः; चकाराद्व्रणरोपणस्य ग्रहणम्||६||

Adhikarana 5 (7-10) · Śloka 10

अविदग्धेषु शोफेषु हितमालेपनं भवेत् | यथास्वं दोषशमनं दाहकण्डूरुजापहम् ||७|| त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम् | दाहप्रशमनं श्रेष्ठं रुजाकण्डूविनाशनम् ||८|| मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम् | संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ||९|| (षड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके | अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत्) ||१०||

🔊 Audio coming soon

आलेपस्यात्मविषये कालावधिमाह- अविदग्धेष्वित्यादि| अविदग्धेष्वालेपनं हितं, विदग्धेषु पुनः प्रदेह एव, यस्य ‘उपनाह’ इति सञ्ज्ञान्तरम्| यथास्वं दोषशमनमिति वातादिदोषेषु मध्ये यदालेपनं द्रव्यगुणापेक्षया यस्य दोषस्य शमनं भवेत् तत् तत्र हितमित्यर्थः| दाहकण्डूरुजापहमिति दाहः पित्तस्य, कण्डूः कफस्य, रुजा वातस्य, एता अपहन्ति| दूष्यप्रसादनत्वमालेपस्य निर्देष्टुमाह- त्वक्प्रसादनमेवाग्र्यमिति|- अग्र्यं प्रधानम्| दाहकण्डूरुजापहमिति पूर्वस्मिन्नेव श्लोके दाहादीनां पठितत्वादिह पुनः पाठो दूष्यकृता अपि दाहादयो भवन्तीति बोधनार्थम्||७-१०||

Adhikarana 6 (11) · Śloka 11

तस्य प्रमाणं महिषार्द्रचर्मोत्सेधमुपदिशन्ति ||११||

🔊 Audio coming soon

तनुत्वमालेपस्य गुणः, तनुत्वं किं प्रमाणमित्याह- तस्येत्यादि| प्रदेहस्तु महिषार्द्रचर्मोच्छ्रायापेक्षया स्थूल इति| ये तु तनुत्वं प्रदेहगुणं मन्यते, तेषां मते प्रदेहस्यैतत् प्रमाणम्||११||

Adhikarana 7 (12-15) · Śloka 15

न चालेपं रात्रौ प्रयुञ्जीत , मा भूच्छैत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति ||१२|| प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा | पित्तरक्ताभिघातोत्थे सविषे च विशेषतः ||१३|| न च पर्युषितं लेपं कदाचिदवचारयेत् | उपर्युपरि लेपं च न कदाचित् प्रदापयेत् ||१४|| ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि | न च तेनैव लेपेन प्रदेहं दापयेत् पुनः | शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थकः ||१५||

🔊 Audio coming soon

विशिष्टे काले आलेपावचारणविधिनिषेधे, कथञ्चित्क्रियमाणे च दोषमाह- न चेत्यादि| एतेनास्य विधिः सूच्यते; तेन वातश्लैष्मिकापाकिशोथे रात्रौ प्रदेह उपयोक्तव्यः, तथा विदह्यमाने शोथे प्रदेहो देय एव, क्षतेषु कल्कोऽपि रात्रौ दातव्य इति, तथा पित्तजे शोथे वातपित्तजे च शतधौतघृताभ्यङ्गादि दातव्यमिति| शैत्याविहतोष्मण इति ‘शोफस्य’ इति शेषः| तदनिर्गमात् शोफोष्मानिःसरणात्| विकारप्रवृत्तिर्विकाराभिवृद्धिः| शैत्यरुद्धरोमकूपत्वादनिर्गच्छन्नूष्मा आलेपेनान्तर्नीतोऽत्यर्थं शोफं पचतीत्यर्थः| स्वेदवाहिभिः सिरामुखैश्च वीर्यं प्राप्नोतीत्यत ऊर्ध्वं बहुषु प्रतिषु निबन्धपाठक्रमाद्व्यतिक्रमेण पाठक्रमोऽधिकश्च पाठो दृश्यते; स उच्यते- “तस्य प्रमाणं महिषार्द्रचर्मोत्सेधमुपदिशन्ति| न च शुष्यमाणमुपेक्षेतान्यत्र पीडयितव्यात्; शुष्को ह्यपार्थो रुक्करश्च| स त्रिविध आलेपः प्रदेहो लेपश्च| तेषामन्तरं- आलेपः शीतस्तनुरविशोषी विशोषी च, प्रदेहस्तूष्णः शीतो वा बहुलो बहुरविशोषी च, मध्यमो लेप इति| विशेषतो रक्तपित्तप्रसादकृदालेपः; प्रलेपो वातश्लेष्मप्रशमनः शोधनो रोपणः शोफवेदनापहश्च, तस्योपयोगः क्षताक्षतेषु; यस्तु क्षतेषूपयुज्यते स भूयः ‘कल्क’ इति सञ्ज्ञा लभते निरुद्धालेपनसञ्ज्ञः, तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति| उभयगुणो लेपः| न चालेपं रात्रौ प्रयुञ्जीत, माभूच्छैत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति| त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम्| दाहप्रशमनं श्रेष्ठं तोदकण्डूविनाशनम्|| मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम्| संशोधनाय तेषां हि कुर्यादालेपनं भिषक्|| अविदग्धेषु शोथेषु हितमालेपनं भवेत्| यथास्वं दोषशमनं दाहकण्डूविनाशनम्|| षड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके| अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत्”- इति| अयं पाठो वर्तमानेषु पुस्तकेषु सर्वेष्वेव पठ्यत इत्यस्माभिः क्रममात्रं दर्शितं; न त्वयं पठनीयः; पठनीयः पुनः प्राक्तनपाठ एव, सर्वपूर्वाचार्यसम्मतत्वात्||१२-१५||

Adhikarana 8 (16) · Śloka 16

अत ऊर्ध्वं व्रणबन्धनद्रव्याण्युपदेक्ष्यामः; तद्यथा- क्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कलालाबूशकललताविदलरज्जुतूलफलसन्तानिकालौहानीति ; तेषां व्याधिं कालं चावेक्ष्योपयोगः; प्रकरणतश्चैषामादेशः ||१६||

🔊 Audio coming soon

इदानीं व्रणबन्धविधिः प्रस्तूयते, स च द्रव्याधीनः, अतस्तान्येव प्रागुपदेष्टुमाह- क्षौमेत्यादि| क्षौमम् अतसीतन्तुभिर्व्यूतं, अन्ये वस्त्रान्तरमाहुः; कार्पासं कार्पासतन्तुरचितम्; आविकम् उरभ्ररोमव्यूतं; दुकूलं पट्टवस्त्रम्, अन्ये वल्कलमाहुः; कौशेयं कोशकारकृमिलालोद्भूतं, यत् ‘त्रसर’ इति लोके; पत्रोर्णो रल्लूकाख्यः कम्बलः, अन्ये तु ‘यैर्हरितादीनि देवाङ्गान्युप्यन्ते ते पत्रोर्णाः’, ‘धौतकौशेयम्’ इत्यपरे, ‘मागधपौण्ड्रकादिदेशेषु नागवृक्षादयश्चत्वारो वृक्षास्तत्पत्रेभ्यो जातैर्हरिततन्तुभिरूर्णारूपैर्वयते यत्तत् पत्रोर्णम्’ इत्येके; चीनपट्टं चीनदेश एवोत्पद्यते, तद्देशजनास्तु ‘चीनयुगपट्टम्’ इति वदन्ति, स च पत्रोर्णस्यैव भेदः, अन्ये नेत्रमाहुः; चर्म एणादीनाम्, अपरे चर्मवद्बन्धनद्रव्यम्, अथवा सुवर्णपिष्टिकालिप्तचर्मतन्तुभिस्तुरुष्कैर्यानि वयन्ते तानि चर्मशब्देनोच्यन्ते; बाह्यवल्कलमन्त्यं च त्यक्त्वा मध्यं यद्गृह्यते तदन्तर्वल्कलम्; अलाबूशकलं तुम्बीफलकर्परिका; लताविदलं श्यामलतादिपाटितार्धं; केचिद्विदलशब्दं चर्मादिभिः सह सम्बध्नन्ति, अन्ये तु विदलशब्देन वंशवेत्रादिकम्बिकामाहुः; लताशब्देन च श्यामलतादीनां ग्रहणं; रज्जुर्मुञ्जबल्वजादिवलितः; तूलफलं शाल्मलीफलादि; सन्तानिका क्षीरसन्तानिका, अन्ये ‘कुशलसन्तानिका’ इति पठन्ति, कुशलसन्तानिका कोलिकवृत्तिः द्वित्रितन्तुरचिता ‘वय’ इति लोके प्रसिद्धा, मर्कटवासं केचिदाहुः; लोहानि सुवर्णत्रपुसीसादीनि| क्व पुनस्तेषामुपयोग इत्याह- तेषामित्यादि| तेषां क्षौमादीनाम्| व्याधिं कालं चावेक्ष्योपयोग इति तत्र वातश्लैष्मिकं व्याधिं कालं च शीतमवेक्ष्य व्रणबन्धनद्रव्याणां घनानामुपयोगः, रक्तपैत्तिकं व्याधिमुष्णं च कालमवेक्ष्य तनूनामुपयोगः, चकाराद्गाढस्थानमवेक्ष्य घनानामुपयोगः, शिथिलस्थानमवेक्ष्य तनूनामुपयोग इति| वर्गोक्तानां व्रणबन्धनद्रव्याणां सङ्क्षेपेणादेशमाह- प्रकरणतश्चैषामादेश इति|- प्रकरणतः प्रकरणमवेक्ष्य, एषां व्रणबन्धनद्रव्याणामादेशनं; तद्यथा- सर्पादिदष्टस्यारिष्टाबन्धो रक्षा(ज्वा)दिभिः, रक्तातिप्रवृत्तौ रक्तनिवृत्त्यर्थं सन्तानिकया बध्नीयात्, पाटितश्यामलताद्यैर्भग्नसन्धानाय बन्धः कर्तव्यः, लौहैः सुवर्णादिभिर्दन्तान् बध्नीयात्, त्रप्वादिभिरर्बुदग्रन्थ्यादीन्, अलाबुशकलेन शिरोव्रणान् बध्नीयात्; एवमन्येषामपि यथार्हमादेशनम्||१६||

Adhikarana 9 (17) · Śloka 17

तत्र कोशदामस्वस्तिकानुवेल्लितमु(प्र)तोलीमण्डलस्थगिकायमकखट्वाचीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दश बन्धविशेषाः | तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ||१७||

🔊 Audio coming soon

इदानीं बन्धविशेषान् सङ्ख्यया निर्देष्टुमाह- तत्र कोशेत्यादि| एषामाकारं निर्देष्टुमाह- तेषामित्यादि| प्रायोग्रहणान्नाम्नैव सर्वेषामाकृतीर्वक्तुं न शक्यते, तस्मात् परतन्त्रोक्तलक्षणमप्यत्रैव सम्यगाकृतिविज्ञानाय श्लोकैरुपदेक्ष्यामः| तद्यथा- “पूरयित्वौषधैर्बन्धः क्रियते कोशकाकृतिः| कोशकाख्यः स विज्ञेयो, वैद्यैर्बन्धनवर्जितः|| दामाकृतिं चतुष्पादां दामाख्यं, स्वस्तिकं पुनः| स्वस्तिकाकृतिमासीव्य , पश्चादावेष्ट्य बध्यते|| अनुवेल्लितं तद्विद्यात्, मुतोलीलक्षणं शृणु| बह्वङ्घ्रिर्मुटिकाकारो जालवद्बहुरन्ध्रकः|| मुतोलीबन्ध एष स्यात् सञ्ज्ञान्तरमतः शृणु| गोतुण्डिकां चालनीं च तामेवाहुर्भिषग्वराः|| मण्डलं वेष्टनाकारं विदध्यात्, स्थगिकां पुनः | स्थगिकामिव चापूर्य भेषजैः पट्टकेन च|| बध्यते मण्डलाकारो यमलव्रणयोस्तु यः| बन्धं यमकनामानं भिषजो वर्णयन्ति तम्|| खट्वाकारश्चतुष्पादः खट्वाबन्धः प्रकीर्तितः| चीनबन्धं विजानीयाच्चीराभिर्बहुभिर्वृतम्| विबन्धो विविधो बन्धः स च षट्चीन्धि(रि)कायुतः || ज्ञेयो वितानसञ्ज्ञस्तु वितानाकारसंयुतः| पाषाणगुडकोत्क्षेपकारिणीं गोफणां विदुः|| तदाकृतिं भिषक्कुर्याद्गोफणां, पञ्चकम्बिभिः| पञ्चाङ्गीं तु वृतां कुर्यात् सन्धानाय चिकित्सकः”- इति||१७||

Adhikarana 10 (18) · Śloka 18

तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्, दाम सम्बाधेऽङ्गे, सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेषु स्वस्तिकं, अनुवेल्लितं शाखासु, ग्रीवामेढ्रयोः मु(प्र)तोलीं, वृत्तेऽङ्गे मण्डलम्, अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु स्थगिकां, यमलव्रणयोर्यमकं, हनुशङ्खगण्डेषु खट्वाम्, अपाङ्गयोश्चीनं, पृष्ठोदरोरःसु विबन्धं, मूर्धनि वितानं, चिबुकनासौष्ठांसबस्तिषु गोफणां, जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति; यो वा यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं तस्मिन् विदध्यात् ||१८||

🔊 Audio coming soon

बन्धविषयमाह- तत्रेत्यादि| तत्रेति चतुर्दशबन्धेषु मध्ये| पर्वशब्दोऽङ्गुष्ठाङ्गुलिभिः सह सम्बध्यते| दाम सम्बाधेऽङ्गे इति सङ्कटेऽङ्गे| सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेष्विति क्षिप्रमर्मोपरिष्टादुभयतः कूर्चकः, पादाङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रमिति मर्म; भ्रूस्तनान्तरमिति अन्तरशब्दः प्रत्येकं सम्बध्यते; तलमिह हस्तपादतलम्| शाखास्विति शाखासु सक्थिबाहुषु| बाहुपार्श्वोदरोरुपृष्ठादिकं वृत्तमङ्गम्| अङ्गुष्ठाङ्गुलिमेढ्राग्रेष्विति अग्रशब्दोऽत्राङ्गुष्ठादिभिः सह प्रत्येकं सम्बध्यते| हनुशङ्खगण्डेष्विति हनुर्मुखसन्धिः, शङ्खो भ्रूकर्णयोरन्तरं, गण्डो गल्लः| अपाङ्गयोश्चीनमिति अपाङ्गयोर्नेत्रान्तप्रदेशयोः| हृदयोर्ध्वं स्तनयोर्मध्यं ग्रीवामूलादधस्तादुरः| मूर्धा मस्तकम्| चिबुकनासौष्ठांसबस्तिषु गोफणामिति चिबुकमोष्ठाधो मांसास्थिपिण्डिका , अंसो बाहुशिरः, बस्तिर्मूत्राशयः| जत्रुण ऊर्ध्वं ग्रीवामूलादुपरि| आद्यसूत्रात् ‘विदध्यात्’ इति क्रियापदं सर्वत्रानुवर्तते| उक्तं देशनियमं प्रयोजनवशेन व्यभिचारयन्नाह- यो वेत्यादि| सुनिविष्टः शोभनाकारः||१८||

Adhikarana 11 (19) · Śloka 19

यन्त्रणमूर्ध्वमधस्तिर्यक् च ||१९||

🔊 Audio coming soon

बन्धो मृदुसमावगाढभेदात्त्रिविधः, स च यन्त्रणमन्तरेण न सम्भवति, अतो यन्त्रणं निर्देष्टुमाह- यन्त्रणमूर्ध्वमधस्तिर्यक् चेति| यन्त्रणं पट्टग्रन्थेर्बन्धनं, तच्चोर्ध्वादिभेदेन त्रिप्रकारं, व्रणाकृतीनां नानाविधत्वात्| चकार ऊर्ध्वादिभेदानेव समुच्चिनोति||१९||

Adhikarana 12 (20) · Śloka 20

तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसङ्कुचितं मृदु पट्टं निवेश्य बध्नीयात् | न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च ||२०||

🔊 Audio coming soon

बन्धावचारणं निर्दिशन्नाह- तत्रेत्यादि|- तत्रेति वाक्योपक्रमे| घनां कवलिकामिति औषधवस्त्रयोरन्तरे या दीयते औषधसंस्थापनार्थमौदुम्बरादित्वक् पत्राणि वा, सा ‘कवलिका’ इत्युच्यते; अन्ये द्विगुणचतुर्गुणमृदुकर्पटविरचितां कवलिकामाहुः| वामहस्तपरिक्षेपमिति वामहस्तपरिक्षेपाद्दृष्ट्या रचितो बन्धो मङ्गलमावहति; अन्ये तु ‘पट्टे वामहस्तपरिक्षिप्ते दक्षिणहस्तेन साधु बन्धो निष्पद्यते’ इत्याचक्षते; अपरे तु वामदक्षिणपरिक्षेपावुभावपि विषये कर्तव्यौ,क्रियासौकर्यार्थं तु वामहस्तपरिक्षेप उक्तः| ऋजुत्वं सन्निवेशविशेषापेक्षम्| अनाविद्धम् अनाकुलितम्, असङ्कीर्णमित्यपरे| असङ्कुचितं वलिवर्जितम्| मृदु कोमलम्| वामहस्तपरिक्षेपर्जुत्वादिगुणयुक्तं पट्टं निवेश्य संस्थाप्य बध्नीयादित्यर्थः| आबाधकारं चेति आ समन्ततः पीडाकरं ग्रन्थिं न कुर्यादित्यर्थः| स च वामदक्षिणपार्श्वयोस्तथा पृष्ठेऽपि क्रियमाणः स्वप्नाबाधकरः स्यादिति||२०||

Adhikarana 13 (21) · Śloka 21

न च विकेशिकौषधे अतिस्निग्धे अतिरूक्षे विषमे वा कुर्वीत; यस्मादतिस्नेहात् क्लेदो, रौक्ष्याच्छेदो, दुर्न्यासाद्व्रणवर्त्मावघर्षणमिति ||२१||

🔊 Audio coming soon

तत्रौषधकल्कव्रणवर्त्योः स्निग्धादिभावं नियमयन्नाह- न चेत्यादि| विकेशिकौषधे इति तिलकल्कमधुघृताक्तवस्त्रस्य सूत्रस्य वा वर्तिर्विकेशिका, सा च पूतिमांसोत्सङ्गगतिपूयगर्भेषु व्रणेषु निक्षिप्यते; औषधमिह औषधकल्कः, स च केवलकल्कः पूतिमांसोत्सङ्गगत्यस्थ्यन्तरपूयवर्जितेषु व्रणेषु दीयते; एतद्विपर्ययव्रणेषु पुनर्विकेशिकौषधकल्कयोरुभयोरप्युपयोगः| विषमे दुर्न्यस्ते; अन्ये ‘विषमे’ इति न पठन्ति| विकेशिकौषधयोरतिस्निग्धातिरूक्षदुर्न्यस्तयोर्दोषं वक्तुमाह- यस्मादतिस्नेहात् क्लेद इति|- क्लेदो व्रणस्यार्द्रत्वम्| छेदः संहतयोर्व्रणौष्ठयोर्द्विधाकरणम्| दुर्न्यासात् दुष्प्रवेशात्| व्रणवर्त्म व्रणमुखम्| गयदासाचार्यस्त्वन्यथाऽऽपातनिकां गृहीत्वा पाठमन्यथा पठति- “अतिस्नेहातिरूक्षयोर्विकेशिकौषधयोर्दोषं युक्तियुक्तस्नेहतो गुणं च वक्तुमाह- कस्मात्? अतिस्नेहात् क्लेदो रौक्ष्याच्छेदो युक्तस्नेहात् सम्यगुपरोह” इति||२१||

Adhikarana 14 (22) · Śloka 22

तत्र व्रणायतनविशेषाद्बन्धविशेषस्त्रिविधो भवति- गाढः, समः, शिथिल इति ||२२||

🔊 Audio coming soon

इदानीमुक्तसङ्ख्यकमपि बन्धं व्रणाकृतिविशेषेण त्रिविधं दर्शयन्नाह- तत्रेत्यादि| व्रणायतनविशेषादिति व्रणानामायतनं स्थानमङ्गप्रत्यङ्गादिकं, तद्विशेषाद्गाढादयो बन्धविशेषा भवन्ति| ननु, दोषकालविशेषादप्यग्रे बन्धविशेषाणां दर्शितत्वाद्दोषकालावप्यत्र वाच्याविति? उच्यते, दोषकालौ हि व्रणायतनविशेषमात्रकराविति न पृथगुक्तौ; अन्ये तु व्रणायतनविशेषादित्यस्याग्रे चकारो लुप्तो द्रष्टव्य इति पठन्ति, तेनानुक्तदोषकालविशेषोऽपि लभ्यते, तस्मादपि बन्धविशेषा भवन्ति| व्रणायतनविशेषादिति अन्येऽन्यथा व्याख्यानयन्ति ‘व्रणानां वाताद्यारब्धानां विशेषात्तथाऽऽयतनानां स्थानानामङ्गप्रत्यङ्गादिकानां कालविशेषात्त्रयो बन्धविशेषा भवन्ति” इति| ‘व्रणायतनं व्रणाकारो व्रणसन्निवेश’ इत्यन्ये व्याचक्षते; इदं चासङ्गतमेवेति||२२||

Adhikarana 15 (23) · Śloka 23

पीडयन्नरुजो गाढः सोच्छ्वासः शिथिलः स्मृतः | नैव गाढो न शिथिलः समो बन्धः प्रकीर्तितः ||२३||

🔊 Audio coming soon

गाढादिबन्धानां लक्षणं निर्दिशन्नाह- पीडयन्नरुजो गाढ इति|- गाढो बन्धः पीडयन्नप्यवगाढमानोऽपि न रुजति| सोच्छ्वासः अनवगाढकः||२३||

Adhikarana 16 (24) · Śloka 24

तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिरःसु गाढः, शाखावदनकर्णकण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोरःसु समः, अक्ष्णोः सन्धिषु च शिथिल इति ||२४||

🔊 Audio coming soon

प्रागेव व्रणायतनविशेषाद्बन्धविशेषं निर्दिशन्नाह- तत्रेत्यादि| स्फिचौ कटिप्रोथौ, वङ्क्षण ऊरुसन्धिः, मढ्रो मेहनं, मुष्कोऽण्डकोषः||२४||

Adhikarana 17 (25) · Śloka 25

तत्र पैत्तिकं गाढस्थाने समं बध्नीयात्, समस्थाने शिथिलं, शिथिलस्थाने नैव; एवं शोणितदुष्टं च; श्लैष्मिकं शिथिलस्थाने समं, समस्थाने गाढं, गाढस्थाने गाढतरं; एवं वातदुष्टं च ||२५||

🔊 Audio coming soon

दोषविशेषाद्बन्धविशेषं निर्देष्टुमाह- तत्रेत्यादि||२५||

Adhikarana 18 (26) · Śloka 26

तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात्, रक्तोपद्रुतमप्येवं; श्लैष्मिकं हेमन्तवसन्तयोस्त्र्यहात् , वातोपद्रुतमप्येवम् | एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् ||२६||

🔊 Audio coming soon

कालविशेषादपि बन्धविशेषं दर्शयन्नाह- तत्रेत्यादि| द्विरह्नो बध्नीयादिति दिवसस्य मध्ये द्वौ वारौ बध्नीयादित्यर्थः| एवमभ्यूह्येति एवमनेन प्रकारेण, अभ्यूह्य स्वयमपि वितर्क्य, बन्धविपर्ययं बन्धस्यान्यथात्वमवस्थावशात् कुर्यादिति| तद्यथा- पित्तश्लैष्मिकं द्व्यहाद्बध्नीयात् प्रातर्ग्रीष्मशरदोः, हेमन्ते पैत्तिकमहरहः, वर्षादिष्वपि श्लैष्मिकं द्व्यहे सायमिति||२६||

Adhikarana 19 (27) · Śloka 27

तत्र, समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं शोफवेदनाप्रादुर्भावश्च, गाढसमस्थानेषु शिथिलं बद्धे विकेशिकौषधपतनं पट्टसञ्चाराद्व्रणवर्त्मावघर्षणमिति; गाढशिथिलस्थानेषु समं बद्धे च गुणाभाव इति ||२७||

🔊 Audio coming soon

गाढादिस्थानेऽप्यन्यथाकृतानां बन्धानां दोषं वक्तुमाह- तत्रेत्यादि| चकारोऽत्र रागं समुच्चिनोति; गाढबन्धदोषोऽयम्||२७||

Adhikarana 20 (28) · Śloka 28

अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च ||२८||

🔊 Audio coming soon

यथोचितबन्धगुणमाह- अविपरीतबन्ध इत्यादि||२८||

Adhikarana 21 (29) · Śloka 29

अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैरभिहन्यते व्रणः, विविधवेदनोपद्रुतश्च दुष्टतामुपैति, आलेपनादीनि चास्य विशोषमुपयान्ति ||२९||

🔊 Audio coming soon

बन्धव्यतिरेके दोषं वक्तुमाह- अबध्यमान इत्यादि| दंशो वनमक्षिका, उपलः पाषाणः, पांशुर्धूलिः, आतपो घर्मः| दुष्टतामुपैति वैकृतं याति||२९||

Adhikarana 22 (30-31) · Śloka 31

चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम् | अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ||३०|| सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति | सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रणः ||३१||

🔊 Audio coming soon

बन्धस्यात्यन्तगुणं दर्शयन्नाह- चूर्णितमित्यादि| चूर्णितं बहुधा खण्डीकृतं, मथितं विलोडितं, भग्नं काण्डभग्नं, विश्लिष्टं सन्धिच्युतम्, अतिपातितं स्थानाच्च्युतमवलम्बमानम्| छिन्नशब्दोऽस्थ्यादिभिः प्रत्येकं सम्बध्यते| चूर्णितादिषु गमनागमनस्थानशयनेष्वपि चतुर्षु बन्धः प्रशस्त इत्याह- सुखमित्यादि| शेते स्वपिति, तिष्ठति ऊर्ध्वीभूत आस्ते, शय्यासनस्थस्य सुखं ‘भवति’ इत्यध्याहारः||३०-३१||

Adhikarana 23 (32) · Śloka 32

अबन्ध्याः पित्तरक्ताभिघातविषनिमित्ता यदा शोफदाहपाकरागतोदवेदनाभिभूताः क्षाराग्निदग्धाः पाकात् प्रकुथितप्रशीर्णमांसाश्च भवन्ति ||३२||

🔊 Audio coming soon

येषु बन्ध एवानर्थकरस्तान् दर्शयन्नाह- अबन्ध्या इत्यादि| निमित्तशब्दः पित्तादिभिः सह प्रत्येकं सम्बध्यते| कदा पुनरेतेऽबन्धनीया इत्याह- यदेत्यादि| तोदाख्यैव वेदना तयाऽभिभूता वातानुविद्धा इत्यर्थः| अत्र बन्धेनात्यर्थं तोदोत्पत्तिरेव स्यात्, तस्मान्न बन्धः कर्तव्य इति| ‘तोददाहाभिभूता’ इत्यन्ये पठन्ति| ‘यदा च शोफतोददाहरागपाकवेदनाभिभूता’ इति केचित् पठन्ति| पाकात् प्रकुथितप्रशीर्णमांसाश्च भवन्तीति ये व्रणाः पाकात् प्रतिस्रस्तमांसाश्च भवन्ति तेऽपि न बन्ध्या इत्यर्थः||३२||

Adhikarana 24 (33-35) · Śloka 35

कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम् | कर्णिकाश्चोन्दुरुविषे विषजुष्टाश्च ये व्रणाः ||३३|| मांसपाके न बध्यन्ते गुदपाके च दारुणे | स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ||३४|| देशं दोषं च विज्ञाय व्रणं च व्रणकोविदः | ऋतूंश्च परिसङ्ख्याय ततो बन्धान्निवेशयेत् ||३५||

🔊 Audio coming soon

उक्तानुक्तमर्थं सुखपाठार्थं श्लोकैर्निर्दिशन्नाह- कुष्ठिनामित्यादि| कुष्ठिप्रभृतीनां मांसपाके सति व्रणा न बध्यन्ते| मधुमेहिनां पिडका इति गुदपाके च दारुण इति बन्धो न कार्य इत्यर्थः| कृत्याकृत्यान् साध्यासाध्यान् | देशं स्फिक्कुक्षिकक्षादिकम्| दोषं वातादिकम्| व्रणकोविदो व्रणविद्वान् ऋतून् शीतोष्णसाधारणान्| परिसङ्ख्याय सम्यग्बुद्ध्वा| निवेशयेत् कुर्यादित्यर्थः||३३-३५||

Adhikarana 25 (36-45) · Śloka 45

ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता | यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषतः ||३६|| घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम् | विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ||३७|| प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च | युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ||३८|| विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा | यथाव्रणं विदित्वा तु योगं वैद्यः प्रयोजयेत् ||३९|| पित्तजे रक्तजे वाऽपि सकृदेव परिक्षिपेत् | असकृत् कफजे वाऽपि वातजे च विचक्षणः ||४०|| तलेन प्रतिपीड्याथ स्रावयेदनुलोमतः | सर्वांश्च बन्धान् गूढान्तान् सन्धींश्च विनिवेशयेत् ||४१|| ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधिः स्मृतः | बुद्ध्योत्प्रेक्ष्याभियुक्तेन तथा चास्थिषु जानता ||४२|| उत्तिष्ठतो निषण्णस्य शयनं चाधिगच्छतः | गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रणः ||४३|| ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणाः | सन्ध्यस्थिकोष्ठलप्राप्ताश्च सिरास्नायुगतास्तथा ||४४|| तथाऽवगाढगम्भीराः सर्वतो विषमस्थिताः | नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ||४५||

🔊 Audio coming soon

केचित् सुश्रुताध्यायिनो गद्योक्तस्यार्थस्य व्यक्त्यर्थं सङ्ग्रहश्लोकान् पठन्ति- ऊर्ध्वमित्यादि| विषमं च व्रणं कुर्यादिति वैषम्यमिह निम्नोन्नतत्वेन| स्तम्भयेत् स्रावयेत्तथेति स्तम्भनं स्रावणं चेह पूयस्यैवेति| सकृदेव परिक्षिपेदिति एकवारमेव पट्टेन वेष्टयेदिति| सर्वांश्च बन्धानित्यादि सर्वान् बन्धान् सन्धींश्च सर्वान् बन्धान् सन्धींश्च सर्वान् गुप्तान्तान् विनिवेशयेत् विनियोजयेत् कुर्यादित्यर्थः| ओष्ठस्येत्यादि|- एष यथोद्दिष्टो विधिरोष्ठस्यापि सन्धाने स्मृतः| बुद्ध्योत्प्रेक्ष्येत्यादि| अभियुक्तेन जानता वैद्येन बुद्ध्याऽभ्यूह्यास्थिष्वपि सन्धानाय यथोद्दिष्टो विधिः कर्तव्य इति| तथेत्यादि| अवगाढतया गम्भीरा इत्यर्थः| गयदासाचार्येणायं पाठोऽनार्ष एव कृतः, तन्मतानुसारिणा ब्रह्मदेवेन क्वचिद्व्याख्यातः, ताभ्यां गृहीतत्वादस्माभिर्लिखितो व्याख्यातश्च क्वचिदिति||३६-४५||

Adhikarana puShpikA · Śloka 18

इति सुश्रुतसंहितायां सूत्रस्थाने व्रणालेपनबन्धविधिर्नामाष्टादशोऽध्यायः ||१८||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थानेऽष्टादशोऽध्यायः||१८||