Adhikarana 1 (1-2) · Śloka 2
अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
व्रणितस्य सञ्जातव्रणस्य, उपासनं सेवनं, तच्च गृहशय्यासनादिकं, तद्विद्यते यस्मिन् स तथा||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
व्रणितस्य सञ्जातव्रणस्य, उपासनं सेवनं, तच्च गृहशय्यासनादिकं, तद्विद्यते यस्मिन् स तथा||१-२||
Adhikarana 2 (3) · Śloka 3
व्रणितस्य प्रथममेवागारमन्विच्छेत्; तच्चागारं प्रशस्तवास्त्वादिकं कार्यम् ||३||
🔊 Audio coming soon
शय्यासनादिकं गृहस्थस्य कार्यमिति प्रागेव गृहं निर्देष्टुमाह- व्रणितस्य प्रथममेवेत्यादि| ‘व्रणिनः’ इत्यन्ये पठन्ति| तच्चागारं प्रशस्तवास्त्वादिकं कार्यम्||३||
Adhikarana 3 (4) · Śloka 4
प्रशस्तवास्तुनि गृहे शुचावातपवर्जिते | निवाते न च रोगाः स्युः शारीरागन्तुमानसाः ||४||
🔊 Audio coming soon
यतस्तस्मिस्तथाभूते स्थितस्य व्रणिनः शारीरादयो रोगा न भवेयुरिति दर्शयितुमाह- प्रशस्तवास्तुनीत्यादि| प्रशस्तवास्तुनि गृह इति वास्तुशब्देन देशः कथ्यते, तेन प्रशस्तदेशे गृह इत्यर्थः, प्रशस्तत्वं च देशस्य प्राङ्निम्नत्वमुदङ्निम्नत्वं कृष्णमृत्तिकत्वं सुवर्णमृत्तिकत्वं वेत्यादिकं; ‘गृहसन्निवेशार्था भूमिस्तदधिष्ठातृपुरुषो वा वास्तुशब्देनोच्यते’ इत्यन्ये; तस्य प्रशस्तत्वं हि मर्मादिरहितत्वम्||४||
Adhikarana 4 (5) · Śloka 5
तस्मिञ् शयनमसम्बाधं स्वास्तीर्णं मनोज्ञं प्राक्शिरस्कं सशस्त्रं कुर्वीत ||५||
🔊 Audio coming soon
शयनस्थस्य व्रणिनः सव्रणान्यङ्गानि सुखमासत इति तदेव निर्दिशन्नाह- तस्मिन्नित्यादि| तस्मिन्निति अगारे| असम्बाधम् असङ्कटम् , स्वास्तीर्णं शोभनैरास्तरणैस्तूलीगण्डोपधानैराच्छादनैश्चाच्छादितं, मनोज्ञं रमणीयं, सशस्त्रं शस्त्रसहितं हिंस्रनिवारणार्थम्||५||
Adhikarana 5 (6) · Śloka 6
सुखचेष्टाप्रचारः स्यात् स्वास्तीर्णे शयने व्रणी | प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः ||६||
🔊 Audio coming soon
इत्थम्भूतस्य शयनस्य गुणमाह- सुखचेष्टाप्रचारः स्यादित्यादि| चेष्टाप्रचार इति शयनपरिवर्तनादिगतिः||६||
Adhikarana 6 (7) · Śloka 7
तस्मिन् सुहृद्भिरनुकूलैः प्रियंवदैरुपास्यमानो यथेष्टमासीत ||७||
🔊 Audio coming soon
तस्मिञ्शयने यथा व्रणितेन स्थातव्यं तथोपदिशन्नाह- तस्मिन्नित्यादि| सुहृद्भिरिति मित्रैः| अनुकूलैरिति अत्मनोऽनुम(ग)तवर्तिभिरित्यर्थः| उपास्यमानः सेव्यमानः||७||
Adhikarana 7 (8) · Śloka 8
सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः | आश्वासयन्तो बहुशः स्वनुकूलाः प्रियंवदाः ||८||
🔊 Audio coming soon
सुहृदुपासनफलमाह- सुहृद इत्यादि| विक्षिपन्ति विशेषेण प्रेरयन्ति स्फोटयन्तीत्यर्थः; कथाः पूर्वपुरुषवृत्तान्तप्रबन्धरचनाः ; आश्वासयन्तः सान्त्वयन्तः||८||
Adhikarana 8 (9) · Śloka 9
न च दिवानिद्रावशगः स्यात् ||९||
🔊 Audio coming soon
शयने दोषवन्तमाचारं परिहरन्नाह- न चेत्यादि||९||
Adhikarana 9 (10) · Śloka 10
दिवास्वप्नाद्व्रणे कण्डूर्गात्राणां गौरवं तथा | श्वयथुर्वेदना रागः स्रावश्चैव भृशं भवेत् ||१०||
🔊 Audio coming soon
कथञ्चिद्दिवास्वप्ने कृते दोषमाह- दिवास्वप्नादित्यादि| अत्र कण्डूगौरवे कफकृते, श्वयथुवेदने वातकृते, रागः पित्तजनितः, स्रावो रक्तकृतः, एतेन दिवास्वप्नस्याखिलदोषकर्तृत्वमुक्तम्||१०||
Adhikarana 10 (11) · Śloka 11
उत्थानसंवेशनपरिवर्तनचङ्क्रमणोच्चैर्भाषणाद्यास्वात्मचेष्टास्वप्रमत्तो व्रणं संरक्षेत् ||११||
🔊 Audio coming soon
सर्वास्ववस्थासु व्रणसंरक्षा करणीयेति दर्शयन्नाह- उत्थानेत्यादि| संवेशनं विश्रमणं, परिवर्तनं वामदक्षिणकठ्योर्विलोटनं, चङ्क्रमणं गतागतम्, आत्मचेष्टासूत्थानादिकास्वेव, अप्रमत्तः ‘व्रणी’ इति शेषः||११||
Adhikarana 11 (12) · Śloka 12
स्थानासनं चङ्क्रमणं दिवास्वप्नं तथैव च | व्रणितो न निषेवेत शक्तिमानपि मानवः ||१२||
🔊 Audio coming soon
चतुर्विधामपि व्रणिनः कायचेष्टां नियमयन्नाह- स्थानासनमित्यादि| स्थानम् ऊर्ध्वीभूतस्य स्थितिः, आसनम् उपविष्टस्य स्थितिः| “स्थानासनं चङ्क्रमणं यानयानातिभाषणम्| व्रणवान्न निषेवेत शक्तिमानपि मानवः” इति केचित् पठन्ति| यानयानं रथादिगमनम्||१२||
Adhikarana 12 (13) · Śloka 13
उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता | प्राप्नुयान्मारुतादङ्गरुजस्तस्माद्विवर्जयेत् ||१३||
🔊 Audio coming soon
उत्थानादीनामतिनिषेवणाद्दोषमाह- उत्थानेत्यादि||१३||
Adhikarana 13 (14) · Śloka 14
गम्यानां च स्त्रीणां सन्दर्शनसम्भाषणसंस्पर्शनानि दूरत एव परिहरेत् ||१४||
🔊 Audio coming soon
सामान्याचारान्नियम्य विशिष्टं स्पर्शाश्रयं विहारमतिदोषकरं पृथगेव निर्दिशन्नाह- गम्यानामित्यादि| गम्या गमनार्हा ग्राम्यधर्मयोग्या इत्यर्थः, ताश्च भार्यावेश्याचेटीप्रभृतयः| सन्दर्शनादिषु संशब्द आभिमुख्यार्थः||१४||
Adhikarana 14 (15) · Śloka 15
स्त्रीदर्शनादिभिः शुक्रं कदाचिच्चलितं स्रवेत् | ग्राम्यधर्मकृतान्दोषान् सोऽसंसर्गेऽप्यवाप्नुयात् ||१५||
🔊 Audio coming soon
कस्माद्गम्यस्त्रीणां सन्दर्शनादि परिहर्तव्यमित्याह- स्त्रीदर्शनादिभिरित्यादि||१५||
Adhikarana 15 (16) · Śloka 16
नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्कशाकाजाविकानूपौदक- मांसवसाशीतोदककृशरापायसदधिदुग्धतक्रप्रभृतीनि परिहरेत् ||१६||
🔊 Audio coming soon
अतिदोषकरमाहारं नियमयन्नाह- नवधान्येत्यादि| कलायोऽत्र त्रिपुटकः, एतेन हरेणुसतीनकयोरप्रतिषेधः; निष्पावशब्देनात्र राजशिम्बी; हरितकमिति “कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणाः| मूलकं चुक्रिका चेति वर्गं हरितकं विदु”- इति| अत्राम्लादयस्त्रयो रसाः| गुडपिष्टविकृतिरिति विकृतिशब्दो गुडपिष्टाभ्यां सह सम्बध्यते| वल्लूरं शुष्कमांसम्| अजाविकानूपौदकमांसवसेति अजाविके प्रसिद्धे; आनूपशब्दो द्विविधः- व्युत्पादितोऽव्युत्पादितश्च, तत्राव्युत्पादितः पञ्चसु कूलचरादिषु वर्तते, अत्र तु व्युत्पादित एव ग्राह्याः, तदेवाह- अनुगता आपो यस्मिन् सोऽनूपो देशः, तच्चारिणस्त्वानूपाः; ते च कूलचराः प्लवाश्चेति| औदकशब्देन पुनरत्र कोशस्थाः पादिनो मत्स्याश्चोच्यन्ते| वसा शुद्धमांसस्नेहः कृशरा तिलतण्डुलमाषैः कृता यवागूः| पायसं क्षीरसिद्धास्तण्डुलाः| अन्ये तु ‘अजाङ्गलविकारानूपौदकमांसं’ इति पठन्ति| यद्यपि जाङ्गलवर्गोऽष्टविधस्तथाऽप्यत्र जङ्घालविष्किरौ जाङ्गलशब्देनोच्येते; कुतः? तयोः प्रधानतमत्वात्, यथा लवणशब्दस्या(ब्देना)विशेषोक्तावपि प्रधानत्वात् सैन्धवं गृह्यते तद्वत्, तेनात्र जङ्घालविष्किरौ विहायान्येषां जाङ्गलानां प्रतिषेध इति| आनूपौदकयोरप्यजाङ्गलत्वादेव निषेधे सिद्धे पुनरुपादानं तन्मांसानामत्यर्थं दोषवत्त्वप्रतिपादनार्थम्, अजाङ्गलमांसविकारेति निषेधमुखेन विधिप्रणयनं जङ्घालविष्किरयोरप्यवस्थायामुपयोगख्यापनार्थमिति| प्रभृतिग्रहणाद्वरकोद्दालकादीनां परिहारः||१६||
Adhikarana 16 (17) · Śloka 17
तक्रान्तो नवधान्यादिर्योऽयं वर्ग उदाहृतः | दोषसञ्जननो ह्येष विज्ञेयः पूयवर्धनः ||१७||
🔊 Audio coming soon
एषां भिन्नजातीयानामपि दोषकरत्वं प्रतिपादयन्नाह- तक्रान्त इत्यादि| ननु ‘तक्रप्रभृतीति परिहरेत्’ इत्यत्र प्रभृतिग्रहणाद्वरकोद्दालकादीनां ग्रहणम्, अतस्तेषामपि द्षसञ्जननत्वं चास्ते एवं पूयवर्धनत्वं च, तत् कथं तक्रान्तो नवधान्यादिरिति विच्छेदः कृतः| उच्यते- वरकादिभ्यो नवधान्यादीनां तक्रान्तानामत्यर्थं दोषसञ्जननत्वपूयवर्धनत्वप्रतिपादनार्थमिति| ननु नवधान्यादौ वर्गे केचिद्वातहराः केचिच्च पित्तहराः केचिच्च कफहरास्तत् कथमुच्यते ‘दोषसञ्जनन’ इति? नैष दोषः, यतोऽत्र दोषशब्देन व्रणदुष्टिरेवोच्यते; यद्यपि व्रणदुष्टिरपि दुष्टैरेव दोषैः क्रियते तथाऽपि न दोषः, कस्मात्? निदानद्रव्याणां त्रिविधत्वात्; तद्यथा- किञ्चिद् द्रव्यं दोषकारि किञ्चिद्व्याधिकारि, किञ्चिदुभयकारीति, किं बहुनोक्तेन; अत्र निबन्धकारैर्बहुधा जल्पितं, तच्चास्माभिर्विस्तरभयान्न दर्शितमिति||१७||
Adhikarana 17 (18) · Śloka 18
मद्यपश्च मैरेयारिष्टासवसीधुसुराविकारान् परिहरेत् ||१८||
🔊 Audio coming soon
तत्र विशिष्टविषयेऽतिदोषकरत्वाद्विशिष्टं पानद्रव्यं चाग्रीकृत्य निषेधार्थमाह- मद्यपश्चेत्यादि| शस्त्रकर्मादावेकवारं मद्यपस्य मद्यपानमभिहितम्, अत्र तु व्रणे सति निषेध एव| मैरेयं सुरासवयोरेकस्मिन् भाजने सन्धानम्| अरिष्टमभयारिष्टादि| आसवाः पलासक्षारोदकासवादयो महाकुष्ठाद्यभिहिताः| सीधुः सस्यकः, सोऽपि नानाप्रकारः पक्वरसिकशीतरसिकादिभेदेन| सुरा लोहितवर्णा पिष्टकिण्वकल्केन किञ्चित् कलुषा| अत्र केचिदाचार्या एवं ब्रुवते- “यानि मद्यान्यम्लादिगुणयुक्तानि भवन्ति तानि सर्वाण्येव व्रणिभिर्न पातव्यानि, यानि पुनर्द्राक्षारसोद्भवानि मद्यान्यम्लादिगुणविपरीतगुणानि रक्तपित्तादिष्वभिमतानि तानि च व्रणितस्यावस्थायां कदाचिद्दातव्यानीत्ययं ग्रन्थकर्तुरभिप्राय” इति||१८||
Adhikarana 18 (19) · Śloka 19
मद्यमम्लं तथा रूक्षं तीक्ष्णमुष्णं च वीर्यतः | आशुकारि च तत् पीतं क्षिप्रं व्यापादयेद्व्रणम् ||१९||
🔊 Audio coming soon
कुतः पुनर्मैरेयादयः परिहरणीया इत्याह- मद्यमित्यादि||१९||
Adhikarana 19 (20) · Śloka 20
वातातपरजोधूमावश्यायातिसेवनातिभोजनानिष्टभोजनश्रवणदर्शनेर्ष्यामर्षभयशोकध्यानरात्रिजागरणविषमाशन- शयनोपवासवाग्व्यायामस्थानचङ्क्रमणशीतवातविरुद्धाध्यशनाजीर्णमक्षिकाद्या बाधाः परिहरेत् ||२०||
🔊 Audio coming soon
आभ्यन्तराश्रयावाहारविहारौ नियम्य बाह्यानपि परिहरन्नाह - वातातपेत्यादि| ईर्ष्या परसम्पत्तिष्वसहिष्णुता| अमर्षः क्रोधः| ध्यानम् अनवरतकार्याकार्यचिन्तनम्| विषमाशनशयनमिति विषमशब्दोऽशनशयनाभ्यां सह प्रत्येकं सम्बध्यते; बहुस्तोकाकालभोजनं विषमाशनं, रात्रिजागरणं दिवास्वप्नश्च विषमशयनं; तत्र विषमाशयनं निषिद्धमपि पुनरत्यन्तापथ्यकारित्वेन नियमार्थम्| शीतो वातः| विरुद्धाशनं सममधुघृतादिकम्||२०||
Adhikarana 20 (21-22) · Śloka 22
व्रणिनः सम्प्रतप्तस्य कारणैरेवमादिभिः | क्षीणशोणितमांसस्य भुक्तं सम्यङ्न जीर्यति ||२१|| अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत् | ततः शोफरुजास्रावदाहपाकानवाप्नुयात् ||२२||
🔊 Audio coming soon
कुतः पुनरेते परिहार्या इत्याह- व्रणिन इत्यादि| सम्प्रतप्तस्येति सम्यक्प्रकारेण तापितस्य| पवनादीनामिति वातपित्तकफानामित्यर्थः| विभ्रमो व्यापद्विशेषः, वातादीनां स्थानान्तरगमनं वा| शोफरुजे वातस्य, आस्रावः कफस्य, दाहपाकौ पित्तस्येति||२१-२२||
Adhikarana 21 (23) · Śloka 23
सदा नीचनखरोम्णा शुचिना शुक्लवाससा शान्तिमङ्गलदेवताब्राह्मणगुरुपरेण भवितव्यमिति | तत् कस्य हेतोः? हिंसाविहाराणि हि महावीर्याणि रक्षांसि पशुपतिकुबेरकुमारानुचराणि मांसशोणितप्रियत्वात् क्षतजनिमित्तं व्रणिनमुपसर्पन्ति, सत्कारार्थं जिघांसूनि वा कदाचित् ||२३||
🔊 Audio coming soon
आधिदैविकं विशिष्टमागन्तुबाधं परिजिहीर्षुराह- सदेत्यादि शान्त्यादिपरेण शान्त्यादिरतेनेत्यर्थः| शिष्यहितार्थं गुरुः स्वयमेव प्रश्नं कुर्वन्नाह- तदित्यादि| तत् नीचनखरोमादिकरणम्| अन्ये ‘अपि तत् कस्य हेतोः’ इति पठन्ति; ‘अपिशब्दोऽत्र सानुनयप्रश्ने’ इति च व्याख्यानयन्ति| शिष्यहितत्वेन स्वयमेव हेतुसाकाङ्क्षं प्रश्नं कृत्वा सहेतुमुत्तरमाह- हिंसाविहाराणीत्यादि| हिंसाविहाराणि वधक्रीडनानिः अन्ये तु ‘हिंसार्थं विहारश्चेष्टा येषां तानि हिंसाविहाराणि’| हि यस्मादर्थे, यस्मात् क्षतजनिमित्तं व्रणिनमुपसर्पन्ति, तस्मान्नीचनखादीना भवितव्यमिति| हिस्थानेऽन्ये तुशब्दं यस्मादर्थे पठन्ति| रक्षांसि पशुपति कुबेरकुमारानुचराणि महेश्वरधनदकार्तिकेयानुगानि तदादेशकारीणीत्यर्थः| क्षतजनिमित्तं शोणितार्थम्| सत्कारार्थं जिघांसूनि वा कदाचित् सत्कारार्थं पूजार्थमायुष्मन्तं व्रणिनमुपसर्पन्ति गतायुषं तु जिघांसूनीति; अन्ये त्वन्यथा व्याख्यानयन्ति- ‘कदाचिद्वा जिघांसूनि हन्तुमिच्छून्युपसर्पन्ति सत्कारार्थम्’ इति||२३||
Adhikarana 22 (24) · Śloka 24
भवति चात्र | तेषां सत्कारकामानां प्रयतेतान्तरात्मना | धूपबल्युपहारांश्च भक्ष्यांश्चैवोपहारयेत् ||२४||
🔊 Audio coming soon
तेषां सत्कारदानायाह- तेषामित्यादि| तेषामनुचराणां पूजाभिलाषिणां, प्रयतेतान्तरात्मना विशिष्टो वैद्यो धूपादीनुपहारयेत् दापयेदित्यर्थः| बलिः पशुवर्जिता पूजा, उपहारः सपशुर्बलिः||२४||
Adhikarana 23 (25-26) · Śloka 26
ते तु सन्तर्पिता आत्मवन्तं न हिंस्युः | तस्मात् सततमतन्द्रितो जनपरिवृतो नित्यं दीपोदकशस्त्रस्रग्दामपुष्पलाजाद्यलङ्कृते वेश्मनि सम्पन्मङ्गलमनोऽनुकूलाः कथाः शृण्वन्नासीत ||२५|| सम्पदाद्यनुकूलाभिः कथाभिः प्रीतमानसः | आशावान् व्याधिमोक्षाय क्षिप्रं सुखमवाप्नुयात् ||२६||
🔊 Audio coming soon
तेषां तर्पणफलमाह- ते त्वित्यादि| आत्मवन्तं रक्षांसि हिंसितुं न शक्नुवन्ति| आत्मवत्ता तु नीचनखरोमादिभिर्भवति| अतन्द्रितः अनलसः| स्रक् मूर्धार्हा पुष्पमाला, दाम ग्रैवेयकादिपुष्पाभरणं, पुष्पाणि अग्रथितानि; आदिशब्दाच्चन्दनादर्शवीणादयः| सम्पन्मङ्गलमनोऽनुकूला इति अनुकूलशब्दः सम्पदादिभिः प्रत्येकं सम्बध्यते| सम्पदाद्यनुकूलत्वाच्छ्रवणफलमाह- सम्पदाद्यनुकूलाभिरित्यादि||२५-२६||
Adhikarana 24 (27) · Śloka 27
ऋग्यजुःसामाथर्ववेदाभिहितैरपरैश्चाशीर्विधानैरुपाध्याया भिषजश्च सन्ध्ययो रक्षां कुर्युः ||२७||
🔊 Audio coming soon
अपरामपि कर्तव्यतामाह- ऋग्यजुरित्यादि| आशीर्विधानैः आशीःकरणैः, आशीर्वादैरित्यर्थः| उपाध्यायाः पुरोहिताः||२७||
Adhikarana 25 (28) · Śloka 28
सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च | द्विरह्नः कारयेद्धूपं दशरात्रमतन्द्रितः ||२८||
🔊 Audio coming soon
मक्षिकादिभ्यो राक्षसादिभ्यश्च रक्षार्थं धूपमाह- सर्षपारिष्टेत्यादि| अरिष्टपत्रं निम्बपत्रम्| लवणेन सैन्धवेन| द्विरह्न इति दिनस्य वारद्वयं प्रातः सायं च दशरात्रम्| सर्षपादिरक्षोघ्ननिहतौजांसि रक्षांसि नैव पुनर्व्रणिनमुपसर्पन्ति||२८||
Adhikarana 26 (29) · Śloka 29
छत्रामतिच्छत्रां लाङ्गू(ङ्ग)लीं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुहामतिगुहां वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् ||२९||
🔊 Audio coming soon
छत्रामित्यादि| छत्रातिच्छत्रे द्रोणपुष्पीद्वयं; लाङ्गूली कपिकच्छुः; जटिला मांसी; ब्रह्मचारिणी मुण्डितिका, पत्तङ्गकाष्ठमित्यपरे; लक्ष्मीः शमी, लक्ष्मणेत्यन्ये, विष्णुक्रान्तेत्यपरे; गुहातिगुहे शालपर्णीपृश्निपर्ण्यौ; शतवीर्या शतावरी, नीलदूर्वेत्यन्ये; सहस्रवीर्या श्वेतदूर्वा; सिद्धार्थकाः सर्षपाः||२९||
Adhikarana 27 (30) · Śloka 30
व्यज्येत बालव्यजनैर्व्रणं न च विघट्टयेत् | न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ||३०||
🔊 Audio coming soon
अन्यदप्याह- व्यज्येतेत्यादि| बालव्यजनैः चामरैः| न च विघट्टयेत् न चालयेत्| न तुदेत् न व्यथयेत्| न कण्डूयेत् न खर्जूयेत्, नखविषभयात्| शयानं स्वपन्तम्| केचिदमुं न पठन्ति||३०||
Adhikarana 28 (31) · Śloka 31
अनेन विधिना युक्तमादावेव निशाचराः | वनं केशरिणऽऽक्रान्तं वर्जयन्ति मृगा इव ||३१||
🔊 Audio coming soon
एतस्य रक्षोघ्नविधेः फलं दर्शयन्नाह- अनेनेत्यादि||३१||
Adhikarana 29 (32-35) · Śloka 35
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् | भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ||३२|| तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः | बालमूलकवार्ताकपटोलैः कारवेल्लकैः ||३३|| सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः | अन्यैरेवङ्गुणैर्वाऽपि मुद्गादीनां रसेन वा ||३४|| शक्तून् विलेपीं कुल्माषाञ्जलं चापि शृतं पिबेत् |३५|
🔊 Audio coming soon
आहारविधिविधेयमधिकृत्याह- जीर्णशाल्योदनमित्यादि| जीर्णशाल्योदनमिति नवधान्यनिषेधादेव पुराणशालिर्लब्धः पुनर्जीर्णग्रहणं प्रपुराणनिषेधार्थं; तेन वर्षोषितं ग्राह्यम्| द्रवोत्तरमिति द्रवः उत्तरो यस्मिन् स द्रवोत्तरः, द्रवप्रधान इति केचिद्व्याख्यानयन्ति; इदं च व्याख्यानं गयदासाचार्यो न मन्यते, कस्मात्? व्रणिनां तोयपाननिषेधात्| तदुक्तं- “व्रणे च मधुमेहे च पानीयं मन्दमाचरेत्”(सू. अ. ४५)- इति, तथा भोजेऽपि “व्रणोदरास्थापनपीडितानां प्रमेहिणां छर्द्यतिसारिणां च| द्रवं न दद्यादथवाऽपि कोष्णं स्वल्पं हितं भेषजसंस्कृतं च”- इति; तथा द्वादशाशनप्रविचारेऽपि- “प्रक्लिन्नदेहान् व्रणिनः शुष्कैर्मेहिन एव च”(उ. तं. ६४) इति, तस्मात् द्रवादुत्तरो द्रवोत्तरो द्रवहीनो मूर्तप्रधान इति व्याख्येयम्| जाङ्गलमांसभोजनमपि रोपणकाले दातव्यं, “मांसं मांसेन वर्धते” इतिवचनात्| जीवन्ती डोडिका, सुनिषण्णकः शिरिबालिका, चतुष्पर्णीत्यन्ये| घृतभृष्टैरिति एतेन घृतेनैव संस्कारो विधेयो नान्यैरिति| ससैन्धवैरिति सैन्धवमेव लवणेषु ग्राह्यम्| अन्यैरेवङ्गुणैर्वेति स्वास्थ्यावृत्तिकैर्व्रण्यैश्च वेत्राग्रमण्डूकपर्णीकर्कोटकप्रभृतिभिः| मुद्गादीनां रसेन वेति शमीधान्येषु निषेधवर्जं मुद्गादयः| रसेन यूषेण| शक्तूनिति यथासात्म्यं, यवसात्म्यानां यवशक्तवः, शाल्यादिसात्म्यानां तल्लाजशक्तव इति| विलेपी स्वल्पद्रवा बहुसिक्था| कुल्माषा यवपिष्टमया उत्स्विन्नाः||३२-३५||
Adhikarana 30 (35-37) · Śloka 37
दिवा न निद्रावशगो निवातगृहगोचरः | व्रणी वैद्यवशे तिष्ठञ् शीघ्रं व्रणमपोहति ||३५|| (व्रणे श्वयथुरायासात् स च रागश्च जागारात् | तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात्) ||३६|| एवंवृत्तसमाचारो व्रणी सम्पद्यते सुखी | आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ||३७||
🔊 Audio coming soon
यथोक्ताहाराचारानुवर्तिनो व्रणितस्य फलोपदर्शनपरं श्लोकद्वयमाह- दिवेत्यादि| निवातगृहगोचर इति वातरहितागारविषयः, तत्स्थायीत्यर्थः| एवमनेन प्रकारेण वृत्तः प्राप्तः सम्यगाचार आहारो विहारश्च येन; अथवा, एवमनेन प्रकारेण वृत्तस्य समाचारः समाचरणं व्यवहरणं यस्य स एवंवृत्तसमाचारः| सम्पद्यते सुखीति सुखीभवतीत्यर्थः| यथेति सत्यम्| कश्चिदाचार्यस्त्वनयोः श्लोकयोर्मध्येऽमुं श्लोकं पठति- “व्रणे श्वयथुरायासात् स च रागश्च जागरात्| तौ च रुक च दिवास्वापात्ताश्च मृत्युश्च मैथुनात्”- इति| व्याख्यानयति च- स च श्वयथुः रागश्च रक्तता च जागराद्रात्रिजागराद्भवतः, तौ चेति श्वयथुरागौ रुक् व्यथा च दिवास्वप्नाद्भवन्ति, ता इति श्वयथुरागरुजो मृत्युश्च मैथुनात् सम्भवन्तीत्यर्थः| श्रीगयदासाचायप्रभृतयस्तु द्वावेव श्लोकौ मन्यन्ते| इमं च कस्मिंश्चित् पुस्तके प्रमादपठितं दृष्ट्वा कश्चिदेवाविचितपाठव्याख्याता व्याख्यानयति| अस्मिंश्चाङ्गीक्रियमाणे निर्णीतपाठव्याख्यातृभिः श्रीगयदासप्रभृतिभिः सह विरोधः स्यात्, तस्मादयं न पठनीय इति||३५-३७||
Adhikarana puShpikA · Śloka 19
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणितोपासनीयो नामैकोनविंशोऽध्यायः ||१९||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थाने एकोनविंशोऽध्यायः||१९||