Adhikarana 1 (1-2) · Śloka 2
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| यन्त्रं शल्यानामाहरणोपायः, विधिः कल्पनं भेदो वा||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| यन्त्रं शल्यानामाहरणोपायः, विधिः कल्पनं भेदो वा||१-२||
Adhikarana 2 (3) · Śloka 3
यन्त्रशतमेकोत्तरम्; अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ, (किं कारणं ? यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव) तदधीनत्वाद्यन्त्रकर्मणाम् ||३||
🔊 Audio coming soon
यन्त्राणां सङ्ख्यामाह- यन्त्रशतमित्यादि| एकोत्तरमेकाधिकम्; अन्ये तु शतशब्दोऽसङ्ख्येयवाची , उत्तरशब्दः प्रधानवाची; एतेन यन्त्राणामसङ्ख्येयत्वमुक्तमेकस्य प्रधानत्वं चेति व्याख्यानयन्ति| अत्र यत् प्रधानं तदेव दर्शयति- अत्र हस्तमेवेत्यादि| प्रधानतममतिशयेन प्रधानम्| अवगच्छ जानीहि| यद्यप्यग्रे कङ्कमुखस्य प्रधानत्वमुक्तमस्ति, तथाऽपि हस्तस्य प्राधान्यं न विरुध्यते, प्रधानतमत्वात्तस्येति| प्रधानत्वे हेतुमाह- तदधीनत्वाद्यन्त्रकर्मणामिति| हस्तायत्तत्वाद्यन्त्रकर्मणामित्यर्थः| अन्ये त्वन्यथा पठन्ति- ‘किं कारणं? यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव तदधीनत्वाद्यन्त्रकर्मणाम्’ इति||३||
Adhikarana 3 (4) · Śloka 4
तत्र, मनःशरीराबाधकराणि शल्यानि; तेषामाहरणोपायो यन्त्राणि ||४||
🔊 Audio coming soon
इदानीं यन्त्रव्यापिलक्षणपरिभाषां प्रतिपादयन्नाह- तत्र मन इत्यादि| तत्रेति तस्मिन् वक्ष्यमाणे शल्यविनिश्चये||४||
Adhikarana 4 (5) · Śloka 5
तानि षट्प्रकाराणि; तद्यथा- स्वस्तिकयन्त्राणि, सन्दंशयन्त्राणि, तालयन्त्राणि, नाडीयन्त्राणि, शलाकायन्त्राणि, उपयन्त्राणि चेति ||५||
🔊 Audio coming soon
तानीत्यादि| प्रकारो भेदः सादृश्यं च, तेषां षड्भेदाः स्वस्तिकादयः, सादृश्यानि वा षट् स्वस्तिकादीनां सादृश्यादेव| प्रतिज्ञातान् षट्प्रकारान् दर्शयितुमाह- तद्यथेत्यादि| स्वस्तिकं चतुरङ्गं पिष्टघटितं, तदाकृतीनि चतुरवयवानि स्वस्तिकयन्त्राण्युच्यन्ते| शेषाणामपि नामभिरेवाकृतयो ज्ञातव्याः||५||
Adhikarana 5 (6) · Śloka 6
तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि , द्वे सन्दंशयन्त्रे, द्वे एव तालयन्त्रे , विंशतिर्नाड्यः, अष्टाविंशतिः शलाकाः, पञ्चविंशतिरुपयन्त्राणि ||६||
🔊 Audio coming soon
तत्र चतुर्विंशतिरित्यादि| द्वे एव तालयन्त्रे इति, ननु एवशब्दं विनाऽपि द्वे तालयन्त्रे लब्धे, तत् किमेवशब्देन? उच्यते- एवशब्दोऽयं स्वस्तिकादिषु निर्दिष्टां सङ्ख्यां व्यभिचारयति, तेन शल्याकृतिमवेक्ष्य स्वस्तिकादीनि यन्त्राण्यधिकान्यपि कार्याणि, तालयन्त्रे द्वे एव, एवं सति न दोषः||६||
Adhikarana 6 (7) · Śloka 7
तानि प्रायशो लौहानि भवन्ति; तत्प्रतिरूपकाणि वा तदलाभे ||७||
🔊 Audio coming soon
किन्द्रव्याणि पुनर्यन्त्राणि कर्तव्यानीत्याह- तानि प्रायश इत्यादि| लोहाः पञ्च सुवर्णादयः, तत्कृतानि लौहानीत्युच्यन्ते| तत्प्रतिरूपकाणि लोहप्रतिरूपकाणि वा लोहाभावे; तानि दन्तशृङ्गदारूणि यन्त्रयोनित्वेनोक्तानीति व्याख्यानयन्ति| (लोहवेणुवृक्षसूत्रशृङ्गवल्कलतृणानि स्नायुप्रताना अश्मानश्चेत्येतेभ्यो यन्त्राणि निष्पाद्यन्ते) ||७||
Adhikarana 7 (8) · Śloka 8
तत्र, नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि; तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शनाद्युक्तितश्च कारयेत् ||८||
🔊 Audio coming soon
तत्र यन्त्राणां समासेनाकृतिं प्रसिद्धसाधर्म्यादुदाहर्तुमिच्छुराह- तत्र नानाप्रकाराणामित्यादि| नानाप्रकाराणां विविधभेदानां, व्यालानां मृगपक्षिणां हिंस्राणां पशुविहङ्गमानां, मुखैः सदृशानि यन्त्राणां मुखानि, ‘भवन्ति’ इत्यध्याहारः| अत्र मृगाः सिंहादयः पशवः, पक्षिणो वायसादयः| व्यालानामिति पशूनामेव विशेषणं, नतु पक्षिणामित्येके| तस्मादित्यादि| तत्सारूप्यादिति व्यालपशुपक्षिमुखसादृश्यात्| आगमादिति शास्त्रात्, तथाहि- ‘स्वस्तिकयन्त्राण्यष्टादशाङ्गुलानि’| उपदेशादिति वृद्धवैद्यवचनोपदेशात्| युक्तितश्चेति प्रयोजनतः, पुरुषवयोऽवयवादिविभागविचारतश्च||८||
Adhikarana 8 (9) · Śloka 9
समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च | सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ||९||
🔊 Audio coming soon
गद्योक्तं श्लोकेनोपसंहरन्नाह- समाहितानीत्यादि| समाहितानि न्यूनातिरिक्तमानवर्जितानि| खरश्लक्ष्णमुखानि दृढमसृणमुखानि, अन्ये तु कार्यभेदात् कानिचित् खरमुखानि कानिचित् श्लक्ष्णमुखानि; तत्र खरमुखानि कङ्कमुखादीनि, श्लक्ष्णमुखानि सिंहमुखादीनि| सुदृढानि समुदायेन| सुग्रहाणि सुवारङ्गाणि||९||
Adhikarana 9 (10) · Śloka 10
तत्र स्वस्तिकयन्त्राणि- अष्टादशाङ्गुलप्रमाणानि, सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगैर्वारुककाककङ्ककुररचासभासशशघात्युलूकचिल्लिश्येन- गृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णावभञ्जननन्दीमुखमुखानि , मसूराकृतिभिः कीलैरवबद्धानि , मूलेऽङ्कुशवदावृत्तवारङ्गाणि , अस्थिविदष्टशल्योद्धरणार्थमुपदिश्यन्ते ||१०||
🔊 Audio coming soon
तत्र स्वस्तिकयन्त्राण्येव प्रमाणाकाराभ्यां दर्शयन्नाह- तत्र स्वस्तिकेत्यादि| तत्र सिंहादयो नव व्यालमृगाः, काकादयः पञ्चदश पक्षिणः, एषां मुखसादृश्याच्चतुर्विंशतिः| तरक्षुः ‘जरख’ इति लोके; ऋक्षः भल्लूकोऽतिलोमशः, ‘रीञ्छ’ इति लोके; द्वीपी चित्रव्याघ्रः, ‘चित्रक’ (चिता) इति लोके; मार्जारः बिडालः; मृगैर्वारुकः ‘हरिणद्रु’ इति लोके; कङ्कः कङ्कमल्लो दीर्घचञ्चुर्महाप्रमाणः, दहा(ग्ध)काकमन्ये; कुररश्चिरिल्लाकारो नादोत्थापितमत्स्यः, ‘कुरल’ इति लोके; भासः गोकुलचारी गृध्रविशेषः; शशघाती ‘शशारि’ इति लोके; चिल्लिः ‘चिल्ल’ इति लोके; श्येनः सिञ्चानो गरुडान्वये; गृध्रः महाप्रमाणः स तु योजनदृष्टिरामिषाशी च; क्रौञ्चः ‘कुरञ्ज’ (कोञ्चि) इति लोके; भृङ्गराजः ‘कालचटक’ इति पारियात्रीयाः, कान्यकुब्जास्तु ‘पेङ्गि’ इति; अञ्जलिकर्णावभञ्जनयोः सुश्रुतचरकादिटीकासु पर्यायो न दृश्यते तस्माद्देशान्तरे लोकादवगन्तव्यौ; नन्दीमुखः पत्राटी| मसूराकृतिभिः कीलैः शल्यैरवबद्धानि कीलितानि, ‘स्कन्धप्रदेशे’ इति वाक्यशेषः; अन्ये तु ‘तृतीये भागे’ इति वाक्यशेषं मन्यन्ते| मूलेऽङ्कुशवदावृत्तवारङ्गाणीति अङ्कुशवदावृत्तं वक्रं वारङ्गं ग्रहणस्थानं येषां तानि तथोक्तानि| अस्थिविदष्टम् अस्थिनिमग्नम्||१०||
Adhikarana 10 (11) · Śloka 11
सनिग्रहोऽनिग्रहश्च सन्दंशौ षोडशाङ्गुलौ भवतः, त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ||११||
🔊 Audio coming soon
सनिग्रहोऽनिग्रहश्चेति सनिग्रहानिग्रहौ द्वौ सन्दंशौ, एकः सनिग्रहः सवारङ्गो नापितस्येव, अन्यश्चानिग्रहोऽनिबन्धनः सुवर्णकारस्येव; अन्ये तु सनिग्रहो लोहकारसन्दंश इव कीलबद्ध इति मन्यन्ते||११||
Adhikarana 11 (12) · Śloka 12
तालयन्त्रे - द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके, कर्णनासानाडीशल्यानामाहरणार्थम् ||१२||
🔊 Audio coming soon
तालयन्त्रे इत्यादि| तालसञ्ज्ञके द्वे यन्त्रे, द्वे अपि द्वादशाङ्गुलप्रमाणे| तयोराकारमाह- मत्स्यतालवदिति| तालमत्र शकलमाहुः, मत्स्यस्य मीनस्य, तालतुल्ये प्रतनुमुखे इत्यर्थः| के ते द्वे इत्याह- एकतालद्वितालके इति| अत्र तालशब्देन प्रदेश उच्यते; एतेन एकं तालम् एकः प्रदेशो यस्य तदेकतालं, द्वे ताले द्वौ प्रदेशौ यस्य तद्द्वितालकम्; एतेन मत्स्यस्य शकलवत्प्रतनुमुखैकप्रदेशमेकतालं, मत्स्यशकलवत्प्रतनुमुखद्विप्रदेशं द्वितालमित्युक्तम्| परिणाहस्तु कर्णादिप्रवेशी ज्ञेयः| अन्ये तु ‘मत्स्यतालुकवदेकतालकद्वितालके’ इति पठन्ति, व्याख्यानयन्ति च- मत्स्योऽत्र भेदुलिर्नाममत्स्यः, तस्य लौहमयतालकाकारं मुखं भवति, अतस्तन्मुखार्धाकारं यन्त्रमेकतालकं, सर्वमुखाकारं द्वितालकं, तालकोऽत्रापवारकादिकपाटसन्धिबन्धनं लौहमयमुच्यते| कर्णनासाशल्यं गूथकेशादि||१२||
Adhikarana 12 (13) · Śloka 13
नाडीयन्त्राणि - अनेकप्रकाराणि, अनेकप्रयोजनानि, एकतोमुखान्युभयतोमुखानि च; तानि स्रोतोगतशल्योद्धरणार्थं, रोगदर्शनार्थम्, आचूषणार्थं, क्रियासौकर्यार्थं चेति; तानि स्रोतोद्वारपरिणाहानि, यथायोगदीर्घाणि च | तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोपरिष्टाद्वक्ष्यामः ||१३||
🔊 Audio coming soon
नाडीयन्त्राण्यपीत्यादि| नाडी(ली)यन्त्राणीति नाडी(ली)वन्मध्यच्छिद्राणि| एकतोमुखानि रक्ताहरणार्थान्यलाबूभगन्दरार्शोयन्त्रादीनि; उभयतोमुखानि बस्त्युत्तरबस्तिधूमयन्त्रादीनि| तानि स्रोतोगतशल्योद्धरणार्थमिति तानि नाडीयन्त्राणि स्रोतोगतशल्योद्धरणप्रयोजनानि; तथाहि- ‘लाक्षाशल्ये कण्ठासक्ते कण्ठे नाडीं दत्त्वा तप्तया लोहशलाकयाऽऽकर्षयेत्’- (सू. अ. २७) इत्यादिकम्| रोगदर्शनार्थमिति रोगा आभ्यन्तरार्शःप्रभृतयः| आचूषणार्थमिति अस्थिगतवायोर्दुष्टरक्तस्तन्ययोराकर्ष(चूष)णार्थम्| क्रियासौकर्यार्थमिति आभ्यन्तरार्शःप्रभृतिषु शस्त्रक्षाराग्न्यादिक्रियायाः सुकरत्वाय सुखकरणायेत्यर्थः| तानि स्रोतोद्वारपरिणाहानीति वर्तुलत्वेन स्रोतोद्वारतुल्यानि| ननु, ‘विंशतिर्नाड्यः’ इति पूर्वमेवोक्तं, इह तु भगन्दरार्शोव्रणेत्यादिना नाडीयन्त्राण्यलाबुशृङ्गान्तानि द्वादश, तत् कथं विंशतिः पूर्यते? उच्यते , भगन्दरयन्त्रे द्वे एकमेकच्छिद्रम्, अपरं द्विच्छिद्रम्; अर्शोयन्त्रे अपि द्वे एकच्छिद्रद्विच्छिद्रभेदेन; व्रणयन्त्रमेकं व्रणच्छिद्रायामपरिणाहं; बस्तिनेत्रं चतुर्विधं वयोभेदेन, अन्ये त्रिविधमाहुः; उत्तरबस्तिनेत्रं द्विविधं पुंसां स्त्रीणां च, एके त्रिविधमाहुः; मूत्रवृद्धिदकोदरयोर्द्वे-मूत्रवृद्धिस्रावणार्थमेकं, दकोदरस्रावणार्थं चैकं; धूमनेत्राणि त्रीणि एकं वैरेचनिकम्, अपरं स्नैहिकम्, अन्यच्च प्रायोगिकं; निरुद्धप्रकशयन्त्रमेकं; सन्निरुद्धगुदयन्त्रमेकम्; अलाबुयन्त्रमेकं, शृङ्गयन्त्रमेकम्; एवं विंशतिर्नाडीयन्त्राणि||१३||
Adhikarana 13 (14) · Śloka 14
शलाकायन्त्राण्यपि नानाप्रकाराणि, नानाप्रयोजनानि, यथायोगपरिणाहदीर्घाणि च; तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे, एषणव्यूहनचालनाहरणार्थमुपदिश्येते ; मसूरदलमात्रमुखे द्वे किञ्चिदानताग्रे स्रोतोगतशल्योद्धरणार्थं; षट् कार्पासकृतोष्णीषाणि , प्रमार्जनक्रियासु; त्रीणि दर्व्याकृतीनि खल्लमुखानि, क्षारौषधप्रणिधानार्थं ; त्रीण्यन्यानि जाम्बववदनानि, त्रीण्यङ्कुशवदनानि, षडेवाग्निकर्मस्वभिप्रेतानि; नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं खल्लतीक्ष्णौष्ठं ; अञ्जनार्थमेकं कलायपरिमण्डलमुभयतो मुकुलाग्रं; मूत्रमार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाणपरिमण्डलमिति ||१४||
🔊 Audio coming soon
शलाकायन्त्राणि निर्देष्टुमाह- शलाकायन्त्राण्यपीत्यादि| यथायोगपरिणाहदीर्घाणीति परिणाहो वर्तुलता| तेषां शलाकायन्त्राणां मध्ये| गण्डूपदेत्यादौ मुखशब्दो गण्डूपदादिभिः सह प्रत्येकं सम्बध्यते; तेन गण्डूपदमुखे द्वे, सर्पफणमुखे द्वे, एवं शेषयोरपि| शरपुङ्खः शरगुणसन्धानस्थानम्| बडिशो मत्स्यबन्धनम्| तेषां चतुर्णां गण्डूपदमुखादीनां यथासङ्ख्येन प्रयोजनमाह- एषणेत्यादि|- एषणं गम्भीरपाकादौ पूयाद्यन्वेषणं; व्यूहनमूर्ध्वीकरणं छित्त्वोत्तुण्डितस्योद्धरणार्थं, वारङ्गेणानुसरणमित्येके | मसूरदलेति मसूरस्य दलितस्य निस्तुषखण्डं दलमित्युच्यते| किञ्चिदानताग्रे इति मनाग्वक्राग्रे| षट् कार्पासकृतोष्णीषाणीति तूलवेष्टिताग्राणि, प्रमार्जनक्रियासु प्रोञ्छनक्रियासु| त्रीणि दर्व्याकृतीनीति दर्वी दारुहस्तकः| खल्लमुखानि निम्नमुखानि| जाम्बववदनानीति जम्बुफलमुखाकृतीनि| कोलास्थिदलमात्रमुखमिति बदरास्थिमज्जविदलप्रमाणं; खल्लतीक्ष्णौष्ठमिति खल्लं निम्नं मध्ये बोद्धव्यं, तीक्ष्णौष्ठं त्वन्ते| कलायपरिमण्डलमिति कलायमात्रं परितो मण्डलं वर्तुलम्, उभयतो मुकुलाग्रमिति द्वयोरन्तयोः कलिकावदग्रं; दैर्घ्येण त्वष्टाङ्गुलं शालाक्योक्तत्वात्| गण्डूपदमुखादीनामङ्कुशवदनान्तानां शलाकायन्त्राणां तुल्याकृतित्वेऽपि द्वित्वषट्त्वादीनि कार्यापेक्षीणि||१४||
Adhikarana 14 (15-16) · Śloka 16
उपयन्त्राण्यपि- रज्जुवेणिकापट्टचर्मान्तवल्कललतावस्त्राष्ठीलाश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वा- दन्तनखमुखबालाश्वकटकशाखाष्ठीवनप्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति ||१५|| एतानि देहे सर्वस्मिन् देहस्यावयवे तथा | सन्धौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् ||१६||
🔊 Audio coming soon
उपयन्त्राणि निर्देष्टुमाह- उपयन्त्राण्यपीत्यादि| उपयन्त्राणीति यन्त्रसमीपवर्तीनि, हीनयन्त्राणीत्यन्ये | रज्जुः मुञ्जादिविरचितो गुणः; वेणिका गुणत्रयग्रथिता; चर्मान्तं चर्मावयवः, अत्र `वर्मान्तम्’ इत्येके पठन्ति, वर्म सन्नाहः; वल्कलं पलाशोदुम्बरादीनां त्वक्, सा च भग्नादिबन्धनयन्त्रार्थं; लता प्रतानिनी ‘वेलि’ इति लोके; वस्त्रं कर्पटः; अष्ठीलाश्मेति अष्ठीला दीर्घवर्तुलपाषाणः, अन्ये लौहकाराणां लौहीं दीर्घवर्तुलभाण्डिकामाहुः, तया तुल्योऽश्मा अष्ठीलाश्मा, स चाष्ठीलाश्मा प्रसिद्धः; मुद्गरः काष्ठादिकृतः, अयमस्थिविदष्टशल्यस्य चालनार्थं; पाणिपादतलमिति तलशब्दः पाणिपादाभ्यां सह प्रत्येकं सम्बध्यते; अश्वकटकः घोटककविकाचूडकं, शाखा वृक्षस्य, अनयोः प्रयोजनं शल्यापनयनीये वक्ष्यति; ष्ठीवनं श्लेष्मादिनिरसनं; प्रवाहणं वमनविरेचनाश्रुप्रवर्तनादि यथासङ्ख्यं कफपित्ताक्षिरजःशल्यादिषु; हर्षः तुष्टिः; अयस्कान्तः पाषाणविशेषः, आकर्षकद्रावकचुम्बकभ्रामकभेदाच्चतुर्विधः| इतिशब्दः समाप्तौ, समाप्तानि यन्त्राणीति| स्वभावपाचनप्रमार्जनादयोऽनवबद्धशल्योद्धरणहेतवो रज्ज्वाद्युपयन्त्रेष्वेवान्तर्भूता इति पृथङ्नोक्ताः| तद्यथा- प्रवाहणग्रहणेन तावदश्रुक्षवथुप्रभृतीनामप्यत्र ग्रहणमित्यादिकं बोद्धव्यम्||१५-१६||
Adhikarana 15 (17) · Śloka 17
यन्त्रकर्माणि तु- निर्घातनपूरणबन्धनव्यूहनवर्तनचालनविवर्तनविवरणपीडनमार्गविशोधनविकर्षणाहरणाञ्छनोन्नमन- विनमनभञ्जनोन्मथनाचूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानि चतुर्विंशतिः ||१७||
🔊 Audio coming soon
कानि पुनर्यन्त्राणां कर्माणीत्याह- यन्त्रकर्माणि त्वित्यादि| निर्घातनम् इतश्चेतश्च विचाल्य निर्हरणम्, इतश्चेतश्च घट्टनमित्येके; पूरणं बस्तिनेत्रप्रभृतिभिस्तैलादिना; बन्धनं रज्ज्वादिना; व्यूहनम् अत्रैवाध्याये व्याख्यातं प्राक्; वर्तनं विसृतस्य वर्तुलीकरणं; चालनं स्थानात् स्थानान्तरनयनम्, अन्ये शल्यकम्पनमाहुः; विवर्तनं कर्णवायोर्निष्कासयितुमिष्टस्य कर्णलग्नस्य पुनर्निवर्तनम्, अन्ये यन्त्रस्य भ्रामणमन्तरे वा; विवरणं प्रकाशनं, मांसच्छेदावकाशदानेन विवरणमित्येके, ‘विवरणं प्रसारणम्’ इति लक्ष्मणटिप्पणकेनोक्तं; पीडनं व्रणस्य पूयादिनिर्गमनार्थमङ्गुल्यादिना; मार्गविशोधनं मूत्रपुरीषसङ्गे; विकर्षणं विगृह्य कर्षणम, अन्ये मांसादिप्रतिबद्धशल्यस्य मोचनमाहुः; आहरणमानयनम्; आञ्छनम् ईषन्मुखानयनम्, ईषन्मुखे आनयनमित्यर्थः; उन्नमनमधःस्थितस्य शरकर्णादेरूर्ध्वं नयनं; विनमनं निम्नी(नम्री)करणं; भञ्जनं शरकर्णादेरामर्दनं, समन्ततो मर्दनमित्यन्ये; उन्मथनं प्रनष्टस्य शल्यस्य मार्गे शलाकादिभिरालोडनम्; आचूषणं विषदुष्टस्तन्यरुधिरेषु शृङ्गालाबूभ्यां मुखेन वा; एषणं गण्डूपदमुखेन गतिव्रणोत्सङ्गशल्यादीनां; दारणं शरकर्णादिद्विधाकरणम्; ऋजूकरणं कुटिलशल्यस्य; प्रक्षालनं तोयादिभिर्व्रणोत्सङ्गादीनां; प्रधमनं श्लेष्मशल्यसङ्गे नासिकायां नाड्या चूर्णक्षेपणं; प्रमार्जनं प्रोञ्छनं बालाङ्गुलिवस्त्रैरक्षिरजःशल्यादिषु||१७||
Adhikarana 16 (18) · Śloka 18
स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान् | असङ्ख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ||१८||
🔊 Audio coming soon
इदानीं नानाविधशल्याकारेण कर्मणां बहुत्वात् सङ्ख्यायामनियमं दर्शयन्नाह- स्वबुद्ध्या चापीत्यादि||१८||
Adhikarana 17 (19) · Śloka 19
तत्र, अतिस्थूलम्, असारम्, अतिदीर्घम्, अतिह्रस्वम्, अग्राहि, विषमग्राहि, वक्रं, शिथिलम्, अत्युन्नतम्, मृदुकीलं, मृदुमुखं, मृदुपाशम्, इति द्वादश यन्त्रदोषाः ||१९||
🔊 Audio coming soon
यन्त्रदोषान् वक्तुमाह- तत्रातिस्थूलमित्यादि| असारमशुद्धलोहादिघटितम्| अग्राहि विकृतमुखम्| विषमग्राहि एकदेशग्राहि| वक्रम् अनृजु| शिथिलं पीडनाक्षमम्| अत्युन्नतम् उच्छ्रितकीलकादि| मृदुकीलं दुर्बलशल्यम्| अन्ये तु ‘वक्रशिथिलात्युन्नतमृदुकीलं’ इति पठन्ति, व्याख्यानयन्ति च- अत्र कीलशब्दो वक्रादिभिः सह प्रत्येकं सम्बध्यते; तेन वक्रकीलमित्यादि योज्यम्| मृदुपाशं तनुपाशम्| मृदुमुखं शल्यपीडनासहमुखम्| एते प्रायेण स्वस्तिकयन्त्राणां दोषा बोद्धव्याः||१९||
Adhikarana 18 (20) · Śloka 20
एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् | प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् ||२०||
🔊 Audio coming soon
यन्त्रस्य प्रशस्तत्वं वक्तुमाह- एतैर्दोषैरित्यादि||२०||
Adhikarana 19 (21) · Śloka 21
दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः | निर्हरेत शनैः शल्यं शास्त्रयुक्तिव्यपेक्षया ||२१||
🔊 Audio coming soon
स्वस्तिकयन्त्राणां विषयभेदं दर्शयन्नाह- दृश्यमित्यादि| दृश्यं दर्शनगतं शल्यं, गूढम् अदृश्यम्| कङ्कमुखादिभिरिति अत्रादिशब्दः प्रधानवाची, तेन कङ्कमुखमादि प्रधानं येषां तैर्निर्हरेदित्यर्थः; यदि पुनरिहादिशब्दः प्रधानवाची न स्यात्तदा काकमुखस्य ग्रहणं न स्यादिति| शास्त्रयुक्तिव्यपेक्षयेति विविधा अपेक्षा व्यपेक्षा, विशिष्टा अपेक्षा वा||२१||
Adhikarana 20 (22) · Śloka 22
नि(वि)वर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् | यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधि(वि)कारि चैव ||२२||
🔊 Audio coming soon
कङ्कमुखस्य प्राधान्यं दर्शयन्नाह- निवर्तत इत्यादि| निवर्तते साध्विति साधु झटिति निःसरतीत्यर्थः, अवगाहते प्रविशति च साधु, अन्येषां सिंहमुखादीनां स्थूलमुखत्वेन साध्ववगाहनसाधुनिवर्तनाभावात्; अन्ये विवर्तते वृत्तत्वादन्तर्भ्रमतीत्याहुः| शल्यं निगृह्य गृहीत्वा, उद्धरते आकर्षति| स्थानेषु सर्वेष्विति सन्धिधमन्यादिषु| अधिकारि अस्य कङ्कमुखस्य अधिकारोऽस्ति नान्यस्य; अन्ये तु ‘अविकारि’ इति पठन्ति, तत्रापि स एव तात्पर्यार्थ इति||२२||
Adhikarana puShpikA · Śloka 7
इति सुश्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम सप्तमोऽध्यायः ||७||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थाने सप्तमोऽध्यायः||७||