Adhikarana 1 (1-2) · Śloka 2
अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| शस्त्राणामवचारणं शस्त्रावचारणं, तद्यस्मिन्नध्यायेऽस्ति स शस्त्रावचारणीयः, तं व्याख्यास्यामः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| शस्त्राणामवचारणं शस्त्रावचारणं, तद्यस्मिन्नध्यायेऽस्ति स शस्त्रावचारणीयः, तं व्याख्यास्यामः||१-२||
Adhikarana 2 (3) · Śloka 3
विंशतिः शस्त्राणि, तद्यथा- मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्धधारसूचीकुशपत्राटीमुख- शरारिमुखान्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्रकबडिशदन्तशङ्क्वेषण्य इति ||३||
🔊 Audio coming soon
कियन्ति पुनस्तानि शस्त्राणीत्याह- विंशतिरित्यादि| शस्त्राणि मण्डलाग्रादीनि; मण्डलाग्रे द्वे सूच्यस्तिस्रः, इत्याद्यवयवान्तरभेदेन तु बहून्यपि स्युः| तानि नामभिर्निर्देष्टुमाह- तद्यथा मण्डलाग्रेत्यादि| ‘तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः’, तथा ‘तत्र नखशस्त्रैषण्यावष्टाङ्गुले’ इत्यादिवाक्येन शस्त्राणामाकारं प्रमाणं च यद्यप्यग्रे वक्ष्यति, तथाऽपीहैव परतन्त्रोक्तं शस्त्राकारप्रमाणलक्षणं सुखावबोधार्थमुपदेक्ष्यामः| मण्डलाग्रमिति मण्डलमिवाग्रं यस्य तन्मण्डलाग्रं, तच्च द्विविधम्| तथाहि- “यदग्रे मण्डलं वृत्तं क्षुरसंस्थानमेव च| मण्डलाग्रस्य जानीयात् प्रमाणं तु षडङ्गुलम्”- इति| द्विधा मण्डलाग्रं- षडङ्गुलप्रमाणमेकं वृत्तमुखं, द्वितीयं क्षुराकारम्| करपत्रमिति करवत् पत्रं यस्य तत् करपत्रं, यथा करोऽङ्गुलिभिराचितो भवति तद्वद्यत् कण्टकैराचितं स्यात्तत् करपत्रमुच्यते; अन्ये तु करपत्रशस्त्रं करपत्राकारमेव, तच्च द्वादशाङ्गुलं तन्त्रान्तरवचनात्; ननु, यदि तन्त्रान्तराद्द्वादशाङ्गुलं करपत्रमुच्यते तर्हि स्वतन्त्रे विरोधः, कुतः? स्वतन्त्रे करपत्रस्यानिर्दिष्टप्रमाणत्वात्; `शेषाणि तु षडङ्गुलानि’- इत्यनेन वाक्येन षडङ्गुलमेव करपत्रं स्यान्न द्वादशाङ्गुलम्| नैवं, ‘तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः’- इत्यस्मात् सूत्रात् प्रायःशब्दोऽनुवर्तते, तेनायमर्थः- शेषाणि प्रायेण षडङ्गुलानि, एवं शस्त्रमानेऽन्यत्राप्यविरोधः| वृद्धिपत्रमिति वृद्धेः पत्रमिव वृद्धिपत्रं; तच्च द्विविधम्- एकमञ्चिताग्रं, द्वितीयं प्रयताग्रं; द्वे अपि सप्ताङ्गुलप्रमाणे, द्वयोरपि “अर्धपञ्चाङ्गुलं वृन्तं कार्यं सार्धाङ्गुलं फलम्”- इति; अनयोर्मध्येऽञ्चिताग्रं वृद्धिपत्रं क्षुरमाहुः | नखशस्त्रमिति नखानां छेदनाय शस्त्रं नखशस्त्रं, तस्य फलं द्व्यङ्गुलायाममेकाङ्गुलविस्तृतम्| मुद्रिकां स्वयमेवाग्रे वक्ष्यति| उत्पलपत्रमिव पत्रमस्येत्युत्पलपत्रकं, तथा च तन्त्रान्तरं, “तुल्यमुत्पलपत्रेण तीक्ष्णधारं समाहितम्| षडङ्गुलं प्रमाणेन शस्त्रमुत्पलपत्रकम्|| तत्फलं त्र्यङ्गुलायामं कार्यमङ्गुलविस्तृतम्”- इति| अर्धधारमिति अर्धे धरा यस्य तदर्धधारं, वक्रधारमिति प्रसिद्धं; तच्चाष्टाङ्गुलायतम्, उरस्यङ्गुलविस्तारं, द्व्यङ्गुलफलम्; अन्ये तु ‘अध्यर्धधारम्‘ इति पठन्ति, अधिकमर्धे धारा यस्य तदध्यर्धधारम्| सूची अग्रे वक्ष्यते| कुशपत्रमिति कुशपत्रतुल्यं कुशपत्रं; तन्मानमाह- “द्व्यङ्गुलं रुचकं विद्याद(त्त्र्य)ङ्गुलं फलमुच्यते| वृन्तं स्यात्त्र्य(द्व्य)ङ्गुलं मध्ये कुशपत्रस्य लक्षणम्” इति| आटी(टा) मुखमिति आटी(टा) जलवर्धनी नाम पक्षिविशेषः, तन्मुखवन्मुखं यस्य तदाटीमुखं; तथा चोक्तं-“वृन्तं सप्ताङ्गुलं विद्यात्तस्याग्रे फलमिष्यते| आटी(टा)मुखप्रकारं हि फलमङ्गुष्ठमायतम्- आटी(टा)मुखं विजानीयात्तत्स्रावणविधौ मतम्”- इति| शरारिमुखमिति शरारिदीर्घचञ्चुः पक्षिविशेषः, स द्विविधः- धवलस्कन्धोः रक्तशीर्षश्च, धवलस्कन्धस्य ‘शरारी(रिः)’ इति सञ्ज्ञा, तन्मुखवन्मुखं यस्य तच्छरारिमुखं, तस्य शस्त्रस्य लोके कर्तरीति सञ्ज्ञा; तां च द्वादशाङ्गुलां चलत्पाशां कुर्यात्| अन्तर्मुखमिति मध्यमुखं, तल्लक्षणमाह- “अष्टा(सप्ता)ङ्गुलं प्रमाणेन जिह्माधारेण चाप्लुतम्| शस्त्रमन्तर्मुखं नाम चन्द्रार्धमिव चोद्गतम्”- इति| त्रिकूर्चकमिति त्रयः कूर्चा यस्य तत् त्रिकूर्चकम् ; अत्र तन्त्रान्तरं- “अङ्गुलानि तथाऽष्टौ च शस्त्रं कार्यं त्रिकूर्चकम्| फलैरन्तर्मुखाकारैरङ्गुलैरन्वि(राचि)तं त्रिभिः|| एकैकस्य फलस्यैषामन्तरं व्रीहिसम्मितम्| वृन्तं पञ्चाङ्गुलायामं कार्यं रुचकभूषितम्”- इति| कुठारिकेति कुठारतुल्या कुठारिका, अत्र तन्त्रान्तरं “कुठारिकाया वृन्तं स्यात् सार्धसप्ताङ्गुलायतम्| फलमर्धाङ्गुलायामं गोदन्तसदृशं समम्”- इति| व्रीहिमुखमिति व्रीहिमुखमिव मुखं यस्य तद्व्रीहिमुखम्; अत्र भोजः- “शस्त्रं व्रीहिमुखं कार्यमङ्गुलानि षडायतम्| द्व्यङ्गुलं तस्य वृन्तं स्यात्तत्फलं चतुरङ्गुलम्| तन्मुखं व्रीहिविस्तारं तनुसङ्गू(मू)ढकण्टकम्”- इति| आरेति आरेव आरा, आरा चर्मकाराणां शस्त्रम्; अत्र तन्त्रान्तरम्- “आरा ह्यष्टाङ्गुलायामा कर्तव्या तु विशाम्पते?| तिलप्रमाणं तु फलं तस्याः कार्यं समाहितम्| दूर्वाङ्कुरपरीणाहं वृन्तं गोपुच्छसन्निभम्-” इति| वेतसपत्रमिति वेतसपत्रमिव वेतसपत्रम्; अत्र भोज,- “तीक्ष्णमङ्गुलविस्तारं चतुरङ्गुलमायतम्| अङ्गुलानि तु चत्वारि वृन्तं कार्यं विजानता-” इति| बडिशमिति बडिशतुल्यं बडिशं, बडिशं मत्स्यवेधनमाहुः| अत्र तन्त्रान्तरं- “बडिशे चापि कर्तव्ये प्रमाणेन षडङ्गुले | स्वानतं तु तयोरेकमेकं नात्यानतं भवेत्|| अर्धपञ्चाङ्गुलं वृन्तं शेषं कार्यं मुखं तयोः| अर्धचन्द्राकृति वक्त्रं (मुखं) कार्यं नात्यानतस्य तु|| स्वानतं नामयेत्तत्र बडिशं च भिषग्वरः| वृन्ताग्रयोरन्तरं स्याद्यावदर्धाङ्गुलं म(मि)तम्” इति| दन्तशङ्कुरिति कपालिकाशर्करादिदन्तदोषहरणाय शङ्कुर्दन्तशङ्कुः; अत्र भोजः- “कार्यः षडङ्गुलयामो दन्तशङ्कुर्विजानता | शङ्कुवच्च मुखं तस्य कार्यमर्धाङ्गुलायतम्|| चतुरस्रं समं चैव तीक्ष्णधारं समाहितम्| वृन्ताग्र तस्य कर्तव्यं शस्त्रव्रीहिमुखाकृति|| कपालिकां शर्करां च दन्तस्थां तेन शोधयेत्”- इति| एषणीति ‘एष्यते अनया’ इति एषणी; अत्र तन्त्रान्तरं- “व्रणैस्तासां परीणाहो मुखं गण्डूपदाकृति”- इति||३||
Adhikarana 3 (4) · Śloka 4
तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च, वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्धधाराणि छेदने भेदने च, सूचीकुशपत्राटी(टा)मुखशरारिमुखान्तर्मुखत्रिकूर्चकानि विस्रावणे, कुठारिकाव्रीहिमुखारावेतसपत्रकाणि व्यधने सूची च, बडिशं दन्तशङ्कुश्चाहरणे, एषण्येषणे आनुलोम्ये च, सूच्यः सीवने; इत्यष्टविधे कर्मण्युपयोगः शस्त्राणां व्याख्यातः ||४||
🔊 Audio coming soon
तेषां विषयभेदमष्टविधे कर्मणि दर्शयितुमाह- तत्रेत्यादि| तत्र तेषु मध्ये, स्यातां भवेताम्| चकारः कर्मान्तरं समुच्चिनोति| वृद्धिपत्रेत्यादि| चकाराल्लेखने च| सूची चेति चकारः कुशपत्रोत्पलपत्रकादींश्च व्यधने समुच्चिनोति| ननु, उभयत्राप्येकार्थत्वात् किमर्थं यन्त्रशस्त्रयोर्मध्ये बडिशस्य पाठः? उच्यते, यन्त्रपठितं बडिशं यथायोगपरिणाहदैर्घ्यं, शस्त्रपठितं तु षडङ्गुलमेव तीक्ष्णकण्टकमुखमेवेत्यदोषः| एषणीति आनुलोम्यमत्र विस्रावणमभिप्रेतं, न तु ऋजुकरणं; कस्मात्? ऋजुकरणस्य शस्त्रकर्मस्वनिर्दिष्टत्वात्; यदि कथञ्चित् स्यात्, तदा शस्त्रकर्मणां नवत्वप्रसङ्गः, तस्मादाद्य एव पक्षो न्याय्य इति; चकाराद्व्यधनेऽपि| ननु, एषणी यन्त्रशस्त्रयोः पठ्यते, प्रयोजनं चोभयत्राप्येषणमेव, तस्मादुभयपाठे को विशेषः? उच्यते- यन्त्रपठिताया एषण्या आकृतिर्गण्डूपदमुखी, प्रमाणं तु यथायोगपरिणाहदैर्घ्यं; शस्त्रेषु पुनरेषण्याः प्रमाणमष्टाङ्गुलम्, आकृतिस्तु तीक्ष्णकण्टकयवपत्रमुखी चेत्यदोषः| द्व्यङ्गुलादिभेदेन सूचीनां बहुत्वात् ‘सूच्य’ इति बहुत्वेन निर्देशः||४||
Adhikarana 4 (5) · Śloka 5
तेषामथ यथायोगं ग्रहणसमासोपायः कर्मसु वक्ष्यते- तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयात्, भेदनान्येवं सर्वाणि, वृद्धिपत्रं मण्डलाग्रं च किञ्चिदुत्तानेन पाणिना लेखने बहुशोऽवचार्यं, वृन्ताग्रे विस्रावणानि, विशेषेण तु बालवृद्धसुकुमारभीरुनारीणां राज्ञां राजमा(पु)त्राणां च त्रिकूर्चकेन विस्रावयेत्, तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखं, कुठारिकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुल्याऽङ्गुष्ठविष्टब्धयाऽभिहन्यात् , आराकरपत्रैषण्यो मूले, शेषाणि तु यथायोगं गृह्णीयात् ||५||
🔊 Audio coming soon
तेषामित्यादि| वृन्तफलसाधारणे भागे इति वृन्तफलयोर्मध्यदेश इत्यर्थः| एवम् इत्यमेव, यथा वृद्धिपत्रं वृन्तफलयोर्मध्यदेशे गृह्यते तथा भेदनान्यपीत्येवंशब्दार्थः| बहुश इति बहून् वारान्, ‘सकृदपहरत्’ (सू. अ.५) इत्यस्यापवादः| वृन्ताग्रे वारङ्गाग्रे, ‘गृह्णीयात्’ इत्यध्याहारः| तलप्रच्छादितवृन्तमिति हस्ततलपिहितवृन्तम्; अङ्गुष्ठप्रदेशिनीभ्यां `गृह्णीयात्’ इत्यध्याहारः| अङ्गुष्ठविष्टब्धयेति अङ्गुष्ठाग्रे विष्टम्भितवेगया| मूलं, त्सरु, वारङ्गं, वृन्तमिति पर्यायाः| यथायोगमिति योगानतिक्रमेण| तद्यथा- कानिचिद्वृन्ताग्रे, कानिचिद्वृन्तमध्ये, कानिचिद्वृन्तमूले, कर्मयोगापेक्षयेत्यर्थः||५||
Adhikarana 5 (6) · Śloka 6
तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ||६||
🔊 Audio coming soon
सङ्क्षेपेण शस्त्राकारं दर्शयन्नाह- तेषां नामभिरित्यादि| तेषां शस्त्राणाम्, आकृतयो लक्षणानि, नामभिरेव प्रायेण व्याख्याताः||६||
Adhikarana 6 (7) · Śloka 7
तत्र नखशस्त्रैषण्यावष्टाङ्गुले , सूच्यो वक्ष्यन्ते, (प्रदेशिन्यग्रपर्वप्रदेशप्रमाणा मुद्रिका, दशाङ्गुला शरारिमुखी सा च (या सा) कर्तरीति कथ्यते) | शेषाणि तु षडङ्गुलानि ||७||
🔊 Audio coming soon
तेषां प्रमाणानि दर्शयन्नाह- तत्र नखशस्त्रेत्यादि| अन्ये तु नखशस्त्रस्थाने नखवर्धनीति पठन्ति व्याख्यानयन्ति च- नखवर्धनी नखच्छेदनी| सूच्यो वक्ष्यन्त इति अष्टविधशस्त्रकर्मीये (सू. अ. २५) ‘द्व्यङ्गुला त्र्यङ्गुला’ इत्यादिना सूच्यो वक्ष्यन्त इति| एतस्याग्रे मुद्रिकाकर्तरीशस्त्रयोः केचिन्मानं पठन्ति| तदुच्यते- “प्रदेशिन्यग्रपर्वप्रदेशप्रमाणा, मुद्रिका, दशाङ्गुला शरारिमुखी सा च (या सा ) कर्तरीति कथ्यते”- इति| शेषाणीति निर्दिष्टप्रमाणेभ्यो नखवर्धन्येषणीसूचीभ्योऽन्यानि शेषाणि||७||
Adhikarana 7 (8) · Śloka 8
तानि सुग्रहाणि, सुलोहानि, सुधाराणि, सुरूपाणि, सुसमाहितमुखाग्राणि, अकरालानि, चेति शस्त्रसम्पत् ||८||
🔊 Audio coming soon
प्रमाणाकाराभ्यां शस्त्राणि निर्दिश्य शेषशस्त्रगुणसम्पदं दर्शयितुमाह- तानि सुग्रहाणीत्यादि| सुग्रहाणि शोभनवारङ्गाणि | सुलोहानि शोभनलोहानि| सुधाराणि शोभनधाराणि| सुसमाहितमुखानि पिण्डीकृतमुखानि, अन्ये तु सुष्ठु सम्यगाहितं मुखं येषां तानि तथोक्तानि| अकरालानि अदन्तुराणि| शस्त्रसम्पत् शस्त्रगुणः||८||
Adhikarana 8 (9) · Śloka 9
तत्र वक्रं, कुण्ठं, खण्डं, खरधारम्, अतिस्थूलम्, अत्यल्पम्, अतिदीर्घम्, अतिह्रस्वम्, इत्यष्टौ शस्त्रदोषाः | अतो विपरीतगुणमाददीत, अन्यत्र करपत्रात्; तद्धि खरधारमस्थिच्छेदनार्थम् ||९||
🔊 Audio coming soon
शस्त्रदोषान्निर्दिशन्नाह- तत्र वक्रमित्यादि| कुण्ठं स्थूलधारत्वेनारोमवाहि| खण्डम् असमग्रम्| खरधारं कर्कशधारम्| अत्यल्पम् अतितनु | अतो विपरीतमिति वक्रादिशस्त्रेभ्यो विपरीतगुणम्, ऋजुतीक्ष्णसकलमसृणधारादिगुणम्| किं सर्वाण्येव विपरीतगुणान्याददीतेत्याह- अन्यत्र करपत्रादिति| कुतः पुनरेतत्? तद्धीत्यादि|- तच्छब्दो यस्मादर्थे, हिशब्दो हेतौ, यस्मात् करपत्रमस्थिच्छेदनार्थमतो हेतोः खरधारम्||९||
Adhikarana 9 (10) · Śloka 10
तत्र धारा भेदनानां मासूरी, लेखनानामर्धमासूरी, व्यधनानां विस्रावणानां च कैशिकी, छेदनानामर्धकैशिकीति ||१०||
🔊 Audio coming soon
अष्टविधे कर्मणि सुकर्मनिष्पादकत्वेन यथा शस्त्राणां सुधारत्वं भवति तथा निर्दिशन्नाह- तत्र धारेत्यादि| भेदनानां वृद्धिपत्रनखशस्त्रादीनाम्| मासूरी मसूरदलधारातन्वी | लेखनानां मण्डलाग्रादीनाम्| अर्धमासूरी मसूरदलधारार्धतन्वी | व्यधनानां कुठारिकादीनाम्| विस्रावणानां सूचीकुशपत्रादीनाम्| कैशिकी केशप्रमाणा| छेदनानामिति अत्र छेदनानि वृद्धिपत्रादीन्येव, तानि यदा छेदने प्रयुज्यन्ते तदा तेषां धारा अर्धकैशिकी अर्धकेशप्रमाणा तन्वी कर्तव्या||१०||
Adhikarana 10 (11) · Śloka 11
बडिशं दन्तशङ्कुश्चानताग्रे | तीक्ष्णकण्टकप्रथमयवपत्रमुख्येषणी (गण्डूपदाकारमुखी च) ||११||
🔊 Audio coming soon
आहरणे एषणे च शस्त्राणां धाराविशेषं दर्शयन्नाह- बडिशं दन्तशङ्कुरित्यादि| अत्र आनताग्रे इति बडिशस्यैव विशेषणं, न दन्तशङ्कोः, कुतः? शङ्कुतुल्यत्वेनैव तस्यानतत्वदर्शनात्| एषणी त्रिविधा भवति तीक्ष्णकण्टकमुखी, प्रथमयवपत्रमुखी, गण्डूपदाकारमुखी च| अन्ये तु ‘तीक्ष्णकण्टकप्रथमयवपत्रमुखे’ इति पठन्ति, व्याख्यानयन्ति च- एतद्विशेषणद्वयं बडिशदन्तशङ्क्वोः; तेन तीक्ष्णकण्टकमुखं बडिशं, प्रथमयवपत्रमुखो दन्तशङ्कुः, प्रथमयवपत्रमुखत्वेन दन्तशङ्कोर्मुखतनुत्वमाकारश्च कथितः, तेन गण्डूपदाकारमुखी चेति चकारादेतद्विशेषणद्वयमेषण्यामपि सम्बध्नन्ति| अन्ये तु ‘तत्र धारा भेदनानां मासूरी’ इत्यादिग्रन्थं ‘एषणी गण्डूपदाकारमुखी च’ इति यावन्न पठन्ति||११||
Adhikarana 11 (12) · Śloka 12
तेषां पायना त्रिविधा क्षारोदकतैलेषु | तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु, उदकपायितं मांसच्छेदनभेदनपाटनेषु, तैलपायितं सिराव्यधनस्नायुच्छेदनेषु ||१२||
🔊 Audio coming soon
तत्र पायनायास्तीक्ष्णत्वादयो गुणाः कर्मविशेषोत्कर्षहेतवो भवन्तीति तामाह- तेषां पायनेत्यादि| पायना पातुं प्रयोजना, सा च लौहकाराणां प्रसिद्धा केचित् क्षारतैलपायनयोरनार्षत्वमाचक्षते| क्षारादिपायनानां कर्मविशेषविषयं दर्शयन्नाह- तत्र क्षारपायितमित्यादि||१२||
Adhikarana 12 (13) · Śloka 13
तेषां निशानार्थं श्लक्ष्णशिला माषवर्णा; धारासंस्थापनार्थं शाल्मलीफलकमिति ||१३||
🔊 Audio coming soon
सुधाराणीति प्रागुक्तं, कथं धारा शोभना कर्तव्येत्यत्राह- तेषामित्यादि| श्लक्ष्णा अकर्कशा| धारासंस्थापनार्थं स्थिरीकरणार्थम्| फलकं पट्टकम्| तत्रानिशितधाराणां निशानार्थं श्लक्ष्णशिला, निशितानां संस्थापनार्थं शाल्मलीफलकम्| अन्ये तु ‘तेषां निशानी श्लक्ष्णशिलिका माषयूषप्रभा, धारासंस्थापनं शाल्मलीफलकम्’ इति पठन्ति, व्याख्यानयन्ति च- श्लक्ष्णशिलिका नापितशिलिका, माषयूषप्रभा कृष्णकपिलेत्यर्थः||१३||
Adhikarana 13 (14) · Śloka 14
भवति चात्र- यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् | सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् ||१४||
🔊 Audio coming soon
कथं पुनः शस्त्रं संस्थापितधारं ज्ञातव्यमित्याह- भवति चात्रेत्यादि| यदा शस्त्रं रोमच्छेदि भवति तदा सुनिशितं भवति यावद्रोमाणि न छिनत्ति तावन्निशातव्यमित्यर्थः| सुसंस्थितं शोभनाकारम्| सुगृहीतं ग्रहणं शस्त्राणां प्रागुक्तं, तद्यथा- ‘वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयात्’- इत्यादि| प्रमाणेनेति प्रमाणेन लक्षितं, शस्त्रप्रमाणं ‘तेषां नखशस्त्रैषण्यावष्टाङ्गुले’- इत्यादि| अन्ये तु सुगृहीतं प्रमाणेनेति प्रमाणेन सुगृहीतमिति व्याख्यानयन्ति; तत्र वृद्धिपत्रादि वृन्तफलसाधारणभागादिग्रहणप्रमाणेनेत्यर्थः| केचित् ‘रोमच्छेदि’ इत्यस्य स्थाने ‘रोमवाहि - इति पठन्ति||१४||
Adhikarana 14 (15) · Śloka 15
अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकोग्निक्षारनखगोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति ||१५||
🔊 Audio coming soon
अशस्त्रावचारणीयेषु शिशुप्रभृतिष्वलाभाद्वा शस्त्राणां तत्कर्मसाधकद्रव्यान्तरेण शस्त्रातिदेशं कुर्वन्नाह- अनुशस्त्राणीत्यादि| अनुशस्त्राणि हीनशस्त्राणि शस्त्रसदृशानि वा| त्वक्सारः वंशः; कुरुविन्दः पाषाणविशेषः, येन निशितानि लोहानि तीक्ष्णानि भवन्ति, अन्ये तु कुरुविन्दं लोहिताश्म रत्नप्रधानं; गोजी गोजिह्वा, अन्ये शाखोटकमाहुः; शेफालिका रक्तवृन्ता शारदकुसुमा; शाको महावृक्षः कर्कशपत्रः; पत्रशब्दो गोजीप्रभृतिभिः सह प्रत्येकं सम्बध्यते; करीरः अङ्कुरः||१५||
Adhikarana 15 (16-18) · Śloka 19
शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् | त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान् ||१६|| आहार्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत् | विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् ||१७|| ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये | गोजीशेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् ||१८|| एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः |१९|
🔊 Audio coming soon
तेषां विषयमाह- शिशूनामित्यादि| त्वक्सारादिचतुर्वर्गमिति वंशस्फटिककाचकुरुविन्दानि| आहार्यच्छेद्यभेद्येषु नखं शक्येष्विति आहार्यादिषु नखशक्येषु नखं प्रयोजयेदित्यर्थः| नेत्रवर्त्म नेत्रपक्ष्म| एष्येष्वेषण्यलाभे त्वित्यादि एष्येषु शल्येषु एषण्या अलाभे बालादयो हिताः||१६-१८||-
Adhikarana 16 (19) · Śloka 19
शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु | कारयेत् करणप्राप्तं कर्मारं कर्मकोविदम् ||१९||
🔊 Audio coming soon
इदानीं शस्त्राणां गुणसम्पत्कारणं वक्तुमाह- शस्त्राण्येतानीत्यादि| कारयेत् कर्तुं प्रयोजयेत्| कः कर्तुं प्रयोजयेत्? बुद्धिमान् वैद्य इत्यर्थः| कं? कर्मारं लौहकारम्| किंविशिष्टं कर्मारं? करणप्राप्तं; करणे प्राप्तं स्वकर्मणि निपुणमित्यर्थः| पुनः किंविशिष्टं? कर्मकोविदं कर्मपण्डितं, यतः स्वकर्मणि निपुणमत एव कर्मकोविदम्| कानि कारयेत्? शस्त्राणि| एतानि पूर्वोक्तानि किम्भूतानि शस्त्राणि कारयेदित्याह- शुद्धशैक्यायसानि त्विति; शुद्धं मलरहितं, शैक्यं तीक्ष्णम्; अन्ये तु शैक्यायसानि सारमयलौहघटितानि| केचिच्छ्लोकार्धमन्यथा पठन्ति;- “कारयेत् करणैः प्रोक्तैः कर्मारैः कर्मकोविदैः”- इति, व्याख्यानयन्ति च- करणैरुपकरणैः; शेषं समम्||१९||
Adhikarana 17 (20) · Śloka 20
प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः | तस्मात् परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा ||२०||
🔊 Audio coming soon
प्रयोगज्ञस्येत्यादि| प्रयोगः प्रकृष्टो योगः, योजना, तज्ज्ञस्य| सिद्धिः आरोग्यसम्पादनम्| नित्यशः सर्वदा| परिचयं शस्त्रग्रहणाभ्यासम्| अन्ये ‘प्रमाणज्ञस्य वैद्यस्य’- इति पठन्ति; प्रमाणज्ञस्य शस्त्रग्रहणमानज्ञस्य||२०||
Adhikarana puShpikA · Śloka 8
इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो नामाष्टमोऽध्यायः ||८||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने शस्त्रावचारणीयो नामाष्टमोऽध्यायः||८||