Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. aupadravikādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथात औपद्रविकमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

कल्पस्थानानन्तरमुत्तरतन्त्रमारभ्यते, येन कल्पस्थाने विषजस्यागन्तुव्रणस्य विषमुपद्रवकारि निजव्रणस्यापि रिपुभिरवचारितविषमुपद्रवभूतमिति तच्चिकित्सितभिहितम्, अत उपद्रवचिकित्साधिकारसामान्यात् सर्वोपद्रवचिकित्सार्थमुत्तरतन्त्रारम्भः; अथवा सविंशमध्यायशतं परिसमाप्य परिशिष्टत्वादुत्तरतन्त्रं प्रतिपाद्यं भवति| तस्य च तन्त्रस्योपद्रवानधिकृत्य प्रवृत्तत्वान्निरुक्त्या औपद्रविकत्वं प्राप्तमप्यध्याये व्यवस्थितम्| तदुक्तं सूत्रे- ‘अधिकृत्य कृतं’ इत्यादि| स च निरुक्तिसम्पन्नोऽध्यायः प्राक् प्रतिपाद्यो भवतीत्यत आह- अथात इत्यादि| उपद्रवान् रोगानधिकृत्य कृतोऽध्याय औपद्रविकः||१-२||

Adhikarana 2 (3) · Śloka 4

अध्यायानां शते विंशे यदुक्तमसकृन्मया | वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति ||३|| इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् |४|

🔊 Audio coming soon

इदानीमारभ्यमाणस्योत्तरतन्त्रस्य सम्बन्धं दर्शयन्नाह- अध्यायानामित्यादि| यद्यस्मात् कारणाद्विंशत्यधिकेऽध्यायशते पुनः पुनरुक्तं मया; किं तदित्याह- ‘इमानर्थान् बहुधोत्तरे वक्ष्यामि’ इति; तत्तस्मात् कारणादधुनोत्तरतन्त्रं प्रवक्ष्यामीति सम्बन्धः| केचित् ‘यद्विंशत्यधिके प्रोक्तमध्यायानां शते मया’ इति पठन्ति; अपरे तु ‘शते सविंशेऽध्यायानां’ इति पठन्ति||३||-

Adhikarana 3 (4-7) · Śloka 8

निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ||४|| शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः | ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ||५|| षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः | उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ||६|| त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च | युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ||७|| यत्रोक्ता विविधा अर्था रोगसाधनहेतवः |८|

🔊 Audio coming soon

इदानीमुत्तरतन्त्रस्य निखिलव्याधिनिश्चयचिकित्सालक्षणां स्तुतिं निर्दिशन्नाह- निखिलेनेत्यादि| निखिलेन सामस्त्येन| यत्र यस्मिन्नुत्तरतन्त्रे| पृथग्विधा नानाप्रकाराः| के ते नानाप्रकारा रोगा निखिलेनोत्तरेऽभिधास्यन्ते? इत्याह- शालाक्यशास्त्राभिहिता इत्यादि| विदेहाधिपकीर्तिता इति निमिप्रणीताः षट्सप्ततिर्नेत्ररोगाः, न करालभद्रशौनकादिप्रणीताः| ये च विस्तरतो हष्टा इति पार्वतकजीवकबन्धकप्रभृतिभिः; कुमाराबाधहेतवः स्कन्दग्रहप्रभृतयः| षट्सु कायचिकित्सासु अग्निवेशभेडजातूकर्णपराशरहारीतक्षारपाणीप्रोक्तासु| उपसर्गादयो ज्वरादयः| आगन्तवः अत्र उन्मादादयः| ननु भूतनिमित्तत्वादुन्मादादीनां कथमागन्तुकत्वं? यतः प्रहारादिकृता आगन्तवः; सत्यं, बाह्यनिमित्तत्वादुन्मादादीनामागन्तुकत्वम्| गयी तु, उपसर्गादयः अमानुषोपसर्गादयः, ते चापस्मारोन्मादा भूतविद्याभिहिताः, त एवागन्तव इति व्याख्यानयति| उत्तरतन्त्रे निखिलेन रोगा एव प्रोक्ता उतान्येऽपि प्रोक्ता? इति पृष्ट आह- त्रिषष्टी रससंसर्गा इत्यादि| युक्तार्थाः प्रमाणोपपन्नार्थाः| युक्तयः तन्त्रयुक्तयः| अस्याग्रे केचित् ‘विदेहाधिपतिः श्रीमान् जनको नाम विश्रुतः| आलम्भयज्ञप्रवणः सोऽयजद्ब्राह्मणैर्वृतः|| तस्य यागप्रवृत्तस्य कुपितो भगवान् रविः|| दृष्टिं प्रणाशयामास सोऽनुतेपे महत्तपः|| दीप्तांशुस्तपसा तेन तोषितः प्रददौ पुनः|| चक्षुर्वेदं प्रसन्नात्मा सर्वभूतानुकम्पया||’ इति पाठं पठन्ति व्याख्यानयन्ति च| तं च बृहत्पञ्जिकाकारो न पठति, तस्मान्मयाऽपि न पठितो न व्याख्यातश्च||४-७||-

Adhikarana 4 (8-9) · Śloka 9

महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ||८|| आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम् | सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ||९||

🔊 Audio coming soon

इदानीं सर्वेन्द्रियाधिष्ठानत्वेन प्राणाधिष्ठानत्वेन च शिरः प्रधानमतः प्रथमं शिरःस्थान् व्याधीन् कथयामीति निर्दिशन्नाह- महत इत्यादि| तस्य उत्तरतन्त्रस्यादौ उत्तमाङ्गस्थान् रोगानभिदधामीति सम्बन्धः| अम्बुधेरिव समुद्रस्येव, महतः अतिविस्तीर्णस्य, दुर्गाधस्य अगाधस्य| सङ्ख्यया षट्सप्तत्या विदेहाधिपप्रोक्तया, लक्षणैः व्यञ्जनैः, चकारेण हेतुचिकित्साभ्यां; साध्यासाध्यक्रमेण चेति साध्यासाध्यपरिपाट्या| अथवा लक्षणैः हेतुपूर्वरूपोपशयसम्प्राप्तिभिः; चकारेण चिकित्सितमेवानुक्तं समुच्चीयते, केचिच्च क्रमशब्देनैव चिकित्सितं गृह्णन्ति||८-९||

Adhikarana 5 (10) · Śloka 11

विद्याद्द्वयङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम् | द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् ||१०|| सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् |११|

🔊 Audio coming soon

तत्र सर्वेषूत्तमाङ्गस्थेषु सङ्ख्यादिभिर्वाच्येषु नयनगतरोगाभिधानं, सर्वेन्द्रियाणां मध्ये नयनस्य प्रधानत्वात्; तत्रापि नयनस्य पटलव्यधनिमित्तमन्तःप्रवेशायामविस्तारैर्मानमाकारं च दर्शयन्नाह- विद्यादित्यादि| द्व्यङ्गुलबाहुल्यमिदमन्तःप्रवेशप्रमाणं, द्व्यङ्गुलमानमाह - स्वाङ्गुष्ठोदरसम्मितं; एतेनैतदुक्तं भवति- स्वाङ्गुष्ठोदरसम्मितं यदङ्गुलं तदङ्गुलद्वयप्रमाणं नेत्रबुद्बुदस्यान्तःप्रवेशं विद्यात्| द्व्यङ्गुलं सार्धमिति अर्धतृतीयाङ्गुलमित्यर्थः| सर्वत इति आयामतो विस्तरश्चेत्यर्थः| नयनबुद्बुदम् अक्षिगोलकः| सर्वभूतगुणोद्भवं सर्वभूतेभ्यस्तद्गुणेभ्यश्चोद्भवो यस्य तत्तथाविधं; सर्वभूतेभ्यस्तावन्नेत्रबुद्बुदं सिरास्नाय्वस्थिसहितं साश्रुमार्गं चोत्पन्नं, तद्गुणेभ्यश्च रक्तसितकृष्णगुणा उत्पन्नाः; एतेन गुणवद्भूतोत्पन्नमित्यर्थः| केचिद्गुणशब्देन भूतप्रसादं कथयन्ति; तच्च व्याख्यानं जेज्जटाय न रोचते||१०||-

Adhikarana 6 (11) · Śloka 12

पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ||११|| आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे |१२|

🔊 Audio coming soon

येन भूतेन नेत्रबुद्बुदमारभ्यते येन च रक्तादय इति दर्शयन्नाह- पलमित्यादि| पलं मांसं, भुवः पृथिव्याः; अग्नितो रक्तमिति अग्निगुणाद्रक्तं पित्तरूपं; एवं सितं जलादित्यत्रापि व्याख्येयं; अश्रुमार्गा अश्रुस्रोतांसि||११||-

Adhikarana 7 (12-13) · Śloka 13

दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः ||१२|| नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते | कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः ||१३||

🔊 Audio coming soon

इदानीं तस्मिन्नेत्रबुद्बुदे यद्दृष्टिमण्डलं तस्य प्रमाणं पूर्वाचार्यप्रतिपादितप्रमाणानुरूपं प्रतिपादयितुमाह- दृष्टिं चेत्यादि| विशारदो विदेहः| कृष्णात् सप्तममिति कृष्णमण्डलात् सप्तमं भागं दृष्टिमिच्छन्ति| दृष्टिविशारदाः शालाकिनः| एतत् प्रमाणं परमतमप्यप्रतिषिद्धत्वादनुमतमेव| तस्य सप्तमांशस्य किं प्रमाणं स्यादिति कथनाय मसूरदलमात्रामित्यग्रे निर्देशः; अथवा शालाकिनां परमतमभिधाय मसूरदलमात्रामिति स्वमतमभिधास्यत्याचार्यः| यद्येवं तर्ह्यातुरोपक्रमणीये ‘नवमस्तारकांशो दृष्टिः’ इति कथमुक्तवान्? सत्यं, महापुरुषाणां पूर्णायुषां भिन्नविषयमभिधानमिति न दोषः, अतोऽन्यान्यपि समाधानानि पञ्जिकोक्तानि सन्ति, तानि विस्तरभयान्न लिखितानि| केचिदिमं पाठमन्यथा कृत्वाऽऽपातनिकापूर्वकं पठन्ति, स चाभावान्न लिखितः||१२-१३||

Adhikarana 8 (14) · Śloka 14

मण्डलानि च सन्धींश्च पटलानि च लोचने | यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ||१४||

🔊 Audio coming soon

इदानीं नयनस्य रोगाधिष्ठानकथनाय मण्डलादिसङ्ख्यामाह- मण्डलानीत्यादि| केचिदेवं पठन्ति- ‘लोचने मण्डलान्यन्तान् सन्धींश्च पटलानि च| जानीयात् क्रमशः पञ्च चतुरः षट् षडेव च’- इति| एष पाठो निबन्धकारैर्दूषितः||१४||

Adhikarana 9 (15) · Śloka 15

पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु | अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् ||१५||

🔊 Audio coming soon

तान्येव पञ्चमण्डलान्याह- पक्ष्मवर्त्मेत्यादि| पक्ष्मादीनां पञ्च मण्डलानि| ते तु मण्डला अनुपूर्वं मध्याः, यथोत्तरं चान्त्याः||१५||

Adhikarana 10 (16) · Śloka 16

पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः | शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः | ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः ||१६||

🔊 Audio coming soon

सन्धीनाह- पक्ष्मेत्यादि| कनीनकगतो नासासमीपेऽवस्थितः , अपाङ्गगो भ्रूपुच्छान्तःस्थितः||१६||

Adhikarana 11 (17) · Śloka 17

द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि | जायते तिमिरं येषु व्याधिः परमदारुणः ||१७||

🔊 Audio coming soon

पटलान्याह- द्वे इत्यादि| चत्वार्यन्यानि चाक्षिणि अपराण्यपि चत्वारि पटलान्यक्षिणि विद्यात्| येषु चतुर्षु पटलेषु||१७||-

Adhikarana 12 (18) · Śloka 19

तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम् | मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् ||१८|| पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते |१९|

🔊 Audio coming soon

इदानीं तान्येव तिमिरस्याश्रयभूतानि चत्वारि पटलानि चिकित्सार्थं विभजन्नाह- तेज इत्यादि| अत्र तेजःशब्देनालोचकतेजःसमाश्रयं सिरागतं रक्तं बोद्धव्यम्| जलं त्वग्गतो रसधातुः, बाह्यम् अक्षिगोलकस्य प्रथमं पटलं; अन्यत् द्वितीयं, बाहुल्यं स्थूलता||१८||-

Adhikarana 13 (19) · Śloka 20

सिराणां कण्डराणां च मेदसः कालकस्य च ||१९|| गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः |२०|

🔊 Audio coming soon

तेषामेव धातूनां पटलाश्रयाणामुपधातूनां च कर्मतो नयनेऽस्तिवं दर्शयन्नाह- सिराणामित्यादि| सिरादीनां कालकास्थिपर्यन्तानां परा गुणा यथोत्तरमुत्कृष्टाः प्रसादा, अक्ष्णोर्बन्धनेऽन्योन्यसंहननेऽधिकृताः|| तथा कालकात् परः कालकास्थ्नः सकाशाच्छ्लेष्मा सिरायुतोऽक्ष्णोर्बन्धने पर उत्कृष्टोऽधिकृत इति पिण्डार्थः| सिराणामित्यत्र बहुवचनस्याद्यर्थवाचित्वाद्धमनीनामपि ग्रहणम्| कण्डराणामित्यत्र कण्डराशब्दः स्नायुवाचकः| अन्ये तु सिरादीनां मेदःपर्यन्तानां गुणाः प्रसादाः कालकस्याक्ष्णोः कृष्णभागस्य बन्धनेऽधिकृताः| तथा कालात् परः कृष्णभागाद्यः परः शुक्लो भागस्तस्य बन्धने सिरायुतः श्लेष्मा| केचिदेतदर्थानुकूलेनैवात्र पाठं पठन्ति,- ‘सिराणां कण्डराणां च मेदसः कृष्णबन्धने| गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः’- इति||१९||-

Adhikarana 14 (20) · Śloka 21

सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः ||२०|| जायन्ते नेत्रभागेषु रोगाः परमदारुणाः |२१|

🔊 Audio coming soon

इदानीं नेत्ररोगाणां सामान्यां सम्प्राप्तिमाह- सिरानुसारिभिरित्यादि| सिरा अत्र नेत्रगताः| विगुणैः प्रकुपितैः| नेत्रभागेषु नेत्रावयवेषु| नेत्रराजिष्विति केचित् पठन्ति; तत्र नेत्राण्येव राजयो नेत्रराजयः| एतेन सर्वनेत्राश्रया अपि लब्धा भवन्ति||२०||-

Adhikarana 15 (21-23) · Śloka 23

तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् ||२१|| गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः | सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च ||२२|| विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा | दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् ||२३||

🔊 Audio coming soon

पूर्वरूपमाह- तत्रेत्यादि| आविलम् आकुलमश्रुपूर्णमित्यर्थः | ससंरम्भम् ईषच्छोफयुक्तम्| उपदेहो मलवृद्धिः| गुरूषातोदरागाद्यैर्जुष्टमिति अत्रादिशब्दः प्रत्येकं योज्यः; तेन गुरुत्वादिभिः श्लेष्मलिङ्गैः, ऊषादिभिः पित्तलिङ्गैः, तोदादिभिः वातालिङ्गैः, रागादिभिः शोणितलिङ्गैः, जुष्टं सेवितम्| ननु यदि गुरुत्वादीनि दोषलिङ्गानि सन्ति तत् कथं पूर्वरूपं? यतो दोषविशेषेणाव्यक्तं लक्षणं पूर्वरूपं; अत आह- अव्यक्तलक्षणैरिति|- गुरुत्वादीनामपि तत्र व्यक्तता नास्त्येवेत्यर्थः| सशूलम् ईषच्छूलमित्यर्थः| विहन्यमानमित्यादि| रूपे नीलपीतादौ येन प्रकारेण पूर्वमासीत्ततः स्वयमेव विहन्यमानं क्रियमाणविघातम्| क्रियासु निमेषोन्मेषादिषु चेति| अन्ये तु ‘क्रियास्वक्षि यथा पुरा’ इत्यत्र ‘क्रियास्वक्ष्यागतक्लमम्’ इति पठन्ति| तत्रागतक्लमम् आप्तक्लमं, निर्व्यापारमित्यर्थः||२१-२३||

Adhikarana 16 (24) · Śloka 24

तत्र सम्भवमासाद्य यथादोषं भिषग्जितम् | विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ||२४||

🔊 Audio coming soon

पूर्वरूपे क्रियां निर्दिशन्नाह- तत्रेत्यादि| तत्र नयने, सम्भवं रोगाणां प्रागुत्पत्तिं, आसाद्य ज्ञात्वा, भिषग्जितम् औषधं, विदध्यात्| ‘तत्र सञ्चयमासाद्य’ इति केचित् पठन्ति; तत्र सञ्चयशब्दश्चयप्रकोपप्रसरादिषु वर्तते||२४||

Adhikarana 17 (25) · Śloka 25

सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम् | वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः ||२५||

🔊 Audio coming soon

किं तद्भिषग्जितं पूर्वरूपे कुर्यादित्याशङ्क्य सङ्क्षेपविस्तराभ्यां तत्र भिषग्जितमाह- सङ्क्षेपत इत्यादि| क्रियाणां संशमनसंशोधनादीनामयमेव सम्यग्योगः| किं तदित्याह- निदानपरिवर्जनमिति|- निदानानां दोषकारकहेतूनां रोगकारकहेतूनां च सर्वतो वर्जनम्| विस्तरेण पुनर्वातादीनां प्रतीघातः क्रियायोगः प्रोक्तः| येनौषधप्रयोगेण वातादीनां कोपः प्रतिहन्यते स उपक्रम उक्त इत्यर्थः||२५||

Adhikarana 18 (26-27) · Śloka 27

उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च | प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च ||२६|| शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च | स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् | बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ||२७||

🔊 Audio coming soon

कानि तानि निदानानि यानि परिहर्तव्यानीत्याह- उष्णेत्यादि| अत्र केचित् ‘एवं विदाह्याप्रतिकारिणोऽन्नं’ इत्यादि यावत् ‘अवाक्शिरोत्युच्छ्रितशायितस्य ज्वरोपतापादृतुपर्ययाच्च’ इत्यन्तं पठन्ति , स च पाठः पुनरुक्तिदूषणभयान्नाङ्गीकृतः||२६-२७||

Adhikarana 19 (28) · Śloka 29

वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश | रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः ||२८|| तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः |२९|

🔊 Audio coming soon

इदानीं तानेव विकारान् वातादिसङ्ख्यया निर्दिशन्नाह- वातादित्यादि| तथा पित्तात् पित्तादपि दशैव च| बाह्यौ बहिर्निमित्तभवौ| तौ कौ? एकोऽभिघातोत्पन्नः सनिमित्तः, अन्यः सुरर्षिगन्धर्वादिदर्शनाभिहतशक्तिरनिमित्तः||२८||-

Adhikarana 20 (29-30) · Śloka 31

हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या ||२९|| यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः | याप्योऽथ तन्मयः काचः साध्याः स्युःसान्यमारुताः ||३०|| शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः |३१|

🔊 Audio coming soon

इदानीं तेषामेव विकाराणां वातादिभेदेन साध्यासाध्ययाप्यत्वं दर्शयन्नाह- हतेत्यादि| तन्मयः वातमयः| साध्याः स्युः सान्यमारुता इति हताधिमन्थादयश्चत्वारो वातजा असाध्याः, एकश्च याप्यः, शुष्काक्षिपाकादयो रोगाः सान्यमारुता अन्यतोवातरोगेण सहिताः पञ्च साध्याः||२९-३०||-

Adhikarana 21 (31-32) · Śloka 33

असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ||३१|| परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः | अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ||३२|| दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति |३३|

🔊 Audio coming soon

असाध्य इत्यादि| पित्तसम्भवौ द्वौ ह्रस्वजाड्यजलस्रावौ साधयितुमशक्यौ, तथा पैत्तिकौ परिम्लायीनीलाख्यौ काचौ यापनार्हौ, अभिष्यन्दादयः षट् साध्याः||३१-३२||-

Adhikarana 22 (33-35) · Śloka 35

असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ||३३|| अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत् | दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगण्श्च यः ||३४|| क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः | श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ||३५||

🔊 Audio coming soon

असाध्य इत्यादि| तन्मयः श्लेष्मज इत्यर्थः| कफजेष्वेक एवासाध्यः, याप्योऽप्येक एव, अभिष्यन्दादयश्चैकादश साध्याः||३३-३५||

Adhikarana 23 (36-38) · Śloka 38

रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम् | शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ||३६|| मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च | सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ||३७|| पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः | एते साध्या विकारेषु रक्तजेषु भवन्ति हि ||३८||

🔊 Audio coming soon

रक्तस्राव इत्यादि| रक्तस्रावस्तथाऽजका शोणितार्शः क्षतशुक्रकं च रक्ताज्जातं चतुष्टयमप्यसाध्यं, तज्जो रक्तजः काचो याप्यः, मन्थस्यन्दादय एकादश साध्याः||३६-३८||

Adhikarana 24 (39-42) · Śloka 42

पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी | असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ||३९|| वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या | प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ||४०|| पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी | तथाऽर्शोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ||४१|| सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च | अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ||४२||

🔊 Audio coming soon

पूयेत्यादि| पूयास्रावादयश्चत्वारोऽसाध्याः, काचपक्ष्मकोपौ याप्यौ, वर्त्मावबन्धादय एकोनविंशतिः साध्याः| केचित्तु ‘काचः कोपश्च पक्ष्मण’ इत्यत्र ‘याप्यो वर्त्मावबन्धश्च काचः कोपश्च पक्ष्मणः| पिल्लाख्यश्चापि यो व्याधिः सिरासु पिडका च या’ इति पठन्ति| स च पाठः पञ्जिकया निरस्तः, तस्मादस्माभिरपि परित्यक्तः||३९-४२||

Adhikarana 25 (43) · Śloka 43

सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ |४३|

🔊 Audio coming soon

सनिमित्त इत्यादि| तौ द्वावपि सन्निपातनिमित्तौ विवृतौ|४३|-

Adhikarana 26 (43) · Śloka 43

षट्सप्ततिर्विकाराणामेषा सङ्ग्रहकीर्तिता ||४३||

🔊 Audio coming soon

षडित्यादि| सङ्क्षेपेण कथिता, अथवा सङ्ग्रहेण सम्यक् दोषग्रहेण कथिता||४३||

Adhikarana 27 (44-45) · Śloka 45

नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः | शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ||४४|| सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु | बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ | भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ||४५||

🔊 Audio coming soon

इदानीं तेषां दोषविशेषेण सङ्ग्रहं प्रतिपाद्य सन्ध्याद्याश्रयमेदेनापि सङ्ग्रहं प्रतिपादयन्नाह- नवेत्यादि| द्वौ बाह्यजौ सर्वाश्रयत्वेऽपि दृष्ट्याश्रितौ मन्तव्यौ, दृष्टेः प्रधानतमत्वात्||४४-४५||

Adhikarana puShpikA · Śloka 1

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालक्यतन्त्रे औपद्रविको नाम प्रथमोऽध्यायः ||१||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रथमोऽध्यायः||१||