Adhikarana 1 (1-2) · Śloka 2
अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
पूर्वस्मिन्नध्याये सन्ध्यादिक्रमेण नयनगतरोगा अभिहिताः, अत औपद्रविकानन्तरं प्राक् सन्धिगता रोगाः प्रतिपाद्या भवन्तीत्यत आह- अथात इत्यादि| गतशब्द आश्रयवचनः||१-२||
Adhikarana 2 (3) · Śloka 3
पूयालसः सोपनाहः स्रावाः पर्वणिकाऽलजी |
क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव ||३||
स्रावाः चत्वारः पूयास्राव इत्यादयः||३||
Adhikarana 3 (4) · Śloka 4
पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसः सः |४|
इदानीं तेषां नवानामपि प्रत्येकं लक्षणमाह- पक्व इत्यादि| सन्धिजः कनीनसन्धिजः| पूति दुर्गन्धम्| अयं सन्निपातजः साध्यश्च|४|-
Adhikarana 4 (4) · Śloka 4
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः ||४||
ग्रन्थिरित्यादि| नाल्पो महानित्यर्थः| अपाक ईषत्पाकः| उपनाहः श्लेष्मोपनाहः| कफजोऽयं साध्यश्च||४||
Adhikarana 5 (5-7) · Śloka 7
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात् |
तान् वै स्रावान् नेत्रनाडीमथैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ||५||
पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः |
श्वेतं सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः स प्रदिष्टः ||६||
रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्रम् |
पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिमध्यात् ||७||
सन्धयो नेत्रान्तर्गताश्चत्वारः| अश्रुमार्गशब्देनात्र सिरा अभिप्रेताः| तथाच विदेहः,- “अश्रुस्रावः सिरा गत्वा नेत्रसन्धिषु तिष्ठति| ततः कनीनकं गत्वा चाश्रु कृत्वा कनीनके|| ततः स्रवत्यथास्रावं यथादोषमवेदनम्”- इति| अश्रुस्रावशब्देनात्र तत्सहितो दोषोऽभिधीयते| कथं चतुर्धेत्याह- पाक इत्यादि|- नैकरूप इति अस्य सन्निपातजत्वाद्बहुरूपत्वम्| सन्धिरत्र कनीनकसन्धिः| असाध्योऽयम्| श्वेत इत्यादि|- अयमप्यसाध्यः| रक्तेत्यादि|- असावप्यसाध्यः| पीतेत्यादि|- कनीनकसन्धिमध्यादित्यर्थः| व्याधिस्वभावतो वातास्रावो नास्ति, पित्तजगलगण्डचातुर्थिकवत्| एषोऽप्यसाध्यः||५-७||
Adhikarana 6 (8) · Śloka 8
ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा |
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ||८||
ताम्रेत्यादि| असाध्योऽयम्| अलजीत्यादि| तस्मिन्नेव कृष्णशुक्लसन्धावेव| पूर्वलिङ्गैः पर्वणीलिङ्गैरित्यर्थः| पर्वण्यलज्योः स्थानस्य लक्षणस्य चैक्येऽपि तनुत्वस्थूलत्वाभ्यां भेदः| तन्वी पर्वणी, ततः स्थूला पुनरलजी| इयं सन्निपातजा असाध्या च||८||
Adhikarana 7 (9) · Śloka 9
क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः |
नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति ||९||
क्रिमीत्यादि| क्रिमीग्रन्थिर्वर्त्मशुक्लयोः सन्धौ भवति| तत्रैव नानारूपाः क्रिमयो वर्त्मनः पक्ष्मणश्च सन्धिं प्राप्ताः कण्डूं जनयन्ति, अन्तश्चरन्तो भक्षयन्तो नयनं दूषयन्ति| असौ कफजः साध्यश्च||९||
Adhikarana puShpikA · Śloka 2
इति सुश्रुतसंहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयोऽध्ययः ||२||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे द्वितीयोऽध्यायः||२||