Adhikarana 1 (1-2) · Śloka 2
अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| प्रतिषेधः चिकित्सितम्||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| प्रतिषेधः चिकित्सितम्||१-२||
Adhikarana 2 (3) · Śloka 3
सामान्यं कर्णरोधेषु घृतपानं रसायनम् | अव्यायामोऽशिरःस्नानं ब्रह्मचर्यमकत्थनम् ||३||
🔊 Audio coming soon
कर्णरोगाणां सामान्यं चिकित्सितमाह- सामान्यमित्यादि| घृतपानमत्र ऊर्ध्वभक्तिकम्| अशिरःस्नानं न शिरःस्नानमित्यर्थः| अकत्थनम् अभाषणम्| रसायनमित्यत्र ‘रसाशनम्’ इति केचित् पठन्ति, मांसरसेन सह भोजनमिति व्याख्यानयन्ति||३||
Adhikarana 3 (4) · Śloka 4
कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि | चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः ||४||
🔊 Audio coming soon
वातजानां चतुर्णां कर्णशूलादीनामेकहेतुत्वादेकामेव चिकित्सामाह- कर्णशूल इत्यादि||४||
Adhikarana 4 (5) · Śloka 5
स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम् | नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च ||५||
🔊 Audio coming soon
किं तत् सामान्यं चिकित्सितमित्याह- स्निग्धमित्यादि| स्निग्धं स्नेहपानेनाभ्यङ्गेन च| स्नेहविरेचितम् एरण्डतैलादिभिः| स्वेदाध्याये व्यामार्धमात्रेत्यादिना नाडीस्वेदः प्रोक्तः; पिण्डस्वेदः कृशरापायसादिभिः||५||
Adhikarana 5 (6-7) · Śloka 7
बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः | बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः ||६|| आरनालशृतैरेभिर्नाडीस्वेदः प्रयोजितः | कफवातसमुत्थानं कर्णशूलं निरस्यति ||७||
🔊 Audio coming soon
नाडीस्वेदोपयोगिद्रव्याण्याह- बिल्वेत्यादि| वर्षाभूः श्वेतपुनर्नवा, दधित्थः कपित्थः, उन्मत्तो धत्तूरकः, शिग्रुः शोभाञ्जनकः, विटपशाकमन्ये| बस्तगन्धा बोबयिका| तर्कारी अरणिका, यववेणुभिरिति वेणुयवः अन्नजातिः| बिल्वैरण्डादिभिः आरनालसिद्धैः केवलवातारब्धे कफावृतवातारब्धे च कर्णशूले स्वेदः प्रयोज्यः; परं केवलवातजे शूले स्नेहपूर्वः स्वेदः, कफावृते पुनः रूक्षः स्वेद इति||६-७||
Adhikarana 6 (8) · Śloka 8
मीनकुक्कुटलावानां मांसजैः पयसाऽपि वा | पिण्डैः स्वेदं च कुर्वीत कर्णशूलनिवारणम् ||८||
🔊 Audio coming soon
पिण्डस्वेदोपयोगिद्रव्याण्याह- मीनकुक्कुटलावानामित्यादि| पयसाऽपि वेति घनीभूतक्षीरपिण्डेनेत्यर्थः| एतैर्मीनादिभिर्मांसपिण्डैः पृथक् समस्तैर्वा स्वेदः कार्यः||८||
Adhikarana 7 (9-10) · Śloka 10
अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् | तदङ्गारैः सुसम्पूर्णं निदध्याच्छ्रवणोपरि ||९|| यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात् | तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् ||१०||
🔊 Audio coming soon
शुद्धवातजे शूले स्नेहविशेषस्वेदमुद्दिशन्नाह- अश्वत्थपत्रेत्यादि| खल्लमिति द्विकर्णिकाकारमित्यर्थः| अभ्यज्य तैलेन घृतेन वा, सात्यकिविदेहप्रोक्तत्वात्||९-१०||
Adhikarana 8 (11) · Śloka 11
क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम् | भक्तोपरि हितं सर्पिर्बस्तिकर्म च पूजितम् ||११||
🔊 Audio coming soon
कर्णस्वेदस्य पश्चात्कर्माह- क्षौमेत्यादि| क्षौमम् अतसीवस्त्रं, बस्तिरत्र शिरोबस्तिः||११||
Adhikarana 9 (12) · Śloka 13
निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः | मूर्धबस्तिषु नस्ये च मस्तिष्के परिषेचने ||१२|| शतपाकं बलातैलं प्रशस्तं चापि भोजने |१३|
🔊 Audio coming soon
इदानीं निरन्नस्य सायमेव कोष्णं पयो निर्दिशन्नाह- निरन्न इत्यादि| निरन्नः पुरुषः| निशि कोष्णं पयोऽनुपानं च सर्पिः पिबेत्| मूर्धेत्यादि| मस्तिष्कः शिरोबस्तिविशेषः, स च स्नेहपिचुप्लोतादिनाऽवचार्यते| शतपाकं वातव्याधिपठितम्| बलातैलं मूढगर्भोक्तं, अन्ये तु बलातैलमेव शतपाकं कृत्वोपयुज्यत इति व्याख्यानयन्ति||१२||-
Adhikarana 10 (13) · Śloka 14
कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च ||१३|| विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम् |१४|
🔊 Audio coming soon
कण्टकारीमित्यादि| कण्टकारी चतुष्पलप्रमाणा, तदष्टगुणं क्षीरं, क्षीराच्चतुर्गुणमुदकं दत्त्वा विपचेत्, तेन क्षीरेण कुक्कुटवसां कुडवाप्रमाणां पचेत्, तत्कर्णयोः प्रपूरणम्||१३||-
Adhikarana 11 (14-16) · Śloka 16
तण्डुलीयकमूलानि फलमङ्कोलजं तथा ||१४|| अहिंस्राकेन्दुकान्मूलं सरलं देवदारु च | लशुनं शृङ्गवेरं च तथा वंशावलेखनम् ||१५|| कल्कैरेषां तथाऽम्लैश्च पचेत् स्नेहं चतुर्विधम् | वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम् ||१६||
🔊 Audio coming soon
अपरमपि पूरणमाह- तण्डुलीयकेत्यादि| वंशावलेखनं वंशाच्छोलनम्| कल्को दृषदि पेषितः, स चाद्रवः, स चाष्टपलप्रमाणः, अम्लैः दधितक्रसुराचुक्रमातुलुङ्गरसैः प्रत्येकमष्टाविंशत्यधिकशतप्रमाणैः, स्नेहश्चतुर्विधः सर्पिस्तैलवसामज्जसञ्ज्ञो द्वात्रिंशत्पलप्रमाणः||१४-१६||
Adhikarana 12 (17-18) · Śloka 18
लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च | कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ||१७|| शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च | कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम् ||१८||
🔊 Audio coming soon
लशुनार्द्रकेत्यादि| शिग्रुः मधुशिग्रुः, मुरङ्गी द्वितीयः शोभाञ्जनकः, कदुष्ण ईषदुष्णः| एतेषां लशुनादीनां षण्णां स्वरसा व्यस्ताः समस्ता वा कर्णपूरणे देयाः||१७-१८||
Adhikarana 13 (19) · Śloka 19
वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक् | सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः ||१९||
🔊 Audio coming soon
वंशेत्यादि| ‘मूत्रे चाजाविके भिषक्’ इत्यत्र तन्त्रान्तरदर्शनाद्विपर्ययेण सर्पिःपाकः कर्तव्यः; तेन पूर्वमाविके मूत्रे सर्पिः पक्तव्यं, पश्चादाज इति| अन्ये तु पूर्वमाविकमूत्रपक्वेन सर्पिषा कर्णपूरणं, पश्चादाजेन मूत्रेणेति विपर्ययं व्याख्यानयन्ति| केचित् सर्पिः पचेदित्यत्र तैलं पचेदिति पठन्ति; तन्न, सर्वनिबन्धैः परिहृतत्वात्||१९||
Adhikarana 14 (20-21) · Śloka 21
महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम् | क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः ||२०|| यत्तैलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि | ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम् ||२१||
🔊 Audio coming soon
दीपिकातैलमाह- महत इत्यादि| काण्डं खण्डं, क्षौमेण अतसीवस्त्रेण, आवेष्ट्य ‘त्रिभागम्’ इति शेषः| घृतेभ्यो ‘अधोमुखम्’ इति शेषः| गृह्णाति अपहरति||२०-२१||
Adhikarana 15 (22) · Śloka 22
कुर्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले | मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम् ||२२||
🔊 Audio coming soon
कुर्यादेवमित्यादि| चकारादगुर्वैरण्डाग्निमन्थकाष्ठानि गृह्यन्ते||२२||
Adhikarana 16 (23-26) · Śloka 26
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान् | सन्निदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते ||२३|| पुटपाकक्रमास्विन्नान् पीडयेदारसागमात् | सुखोष्णं तद्रसं कर्णे दापयेच्छूलशान्तये ||२४|| कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः | सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये ||२५|| कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः | समुद्रफेनचूर्णेन युक्त्या चाप्यवचूर्णयेत् ||२६||
🔊 Audio coming soon
अर्काङ्कुरानित्यादि| अयं पाठः सर्वनिबन्धकारैरनार्षीकृतस्तस्मान्न व्याख्यातः||२३-२६||
Adhikarana 17 (27) · Śloka 27
अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु | कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये ||२७||
🔊 Audio coming soon
अष्टानामित्यादि| अष्टानां मूत्राणामन्यतमेनैकतमेन||२७||
Adhikarana 18 (28) · Śloka 28
मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक् | पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः ||२८||
🔊 Audio coming soon
मूत्रेष्वित्यादि| मूत्राणि गवादीनामष्टानाम्| अम्लानि सुरामस्त्वारनालबीजपूरचुक्राणि| वातघ्नो गणो विदारिगन्धादिः||२८||
Adhikarana 19 (29) · Śloka 29
एता एव क्रियाः कुर्यात् पित्तघ्नैः पित्तसंयुते |२९|
🔊 Audio coming soon
वातजकर्णरोगे क्रियामभिधाय पित्तजकर्णशूलचिकित्सामाह- एता इत्यादि| एता एव दीपिकादयः क्रियाः| तत्र दीपिका अश्वत्थपत्रखल्लस्नेहसर्पिषा कर्णपूरणं; काञ्जिकेनापि, तस्य स्पर्शने पित्तहरत्वात्| पित्तसंयुते कर्णशूले इत्यर्थः|२९|-
Adhikarana 20 (29-30) · Śloka 30
काकोल्यादौ दशक्षीरं तिक्तं चात्र हितं हविः ||२९|| क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा | कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः ||३०||
🔊 Audio coming soon
पित्तजकर्णशुले सामान्यचिकित्सामभिधाय विशेषचिकित्सामाह- काकोल्यादावित्यादि| काकोल्यादिकल्केन दशगुणक्षीरं घृतं सिद्धं हितं, तथा तिक्तं तिक्तद्रव्यसंस्कृतम्; अन्ये तु तिक्तं कुष्ठचिकित्सितोक्तं घृतं कथयन्ति| क्षीरवृक्षा न्यग्रोधोदुम्बराश्वत्थप्लक्षगर्दभाण्डाः, तेषां पल्लवक्वाथेन काकोल्यादिकल्केन सिद्धं घृतं हितम्| मधुके चन्दने तथेति प्रत्येकं यष्टीमधुकचन्दनक्वाथकल्काभ्यां सिद्धम्| शर्करामधुकैरित्यत्र यष्टीमधुकद्वितयं, अत एव बहुत्वम्| सरैः विरेचनद्रव्यैरित्यर्थः| जेज्जटाचार्यस्तु क्षीरवृक्षप्रवालेष्वित्येकं योगं कथयति, बिम्बीक्वाथ इति द्वितीयं; तौ च योगावनार्षौ कथयन्ति||२९-३०||
Adhikarana 21 (31) · Śloka 31
इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ | तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः ||३१||
🔊 Audio coming soon
श्लेष्मशूलस्य चिकित्सामाह- इङ्गुदीसर्षपेत्यादि| सकफे ‘कर्णशूले’ इत्यध्याहारः| तिक्तेत्यादि| स्वेदाश्च कफनाशना इति तापोष्मस्वेदा रूक्षाः||३१||
Adhikarana 22 (32-33) · Śloka 33
सुरसादौ कृतं तैलं पञ्चमूले महत्यपि | मातुलुङ्गरसः शुक्तं लशुनार्द्रकयो रसः ||३२|| एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम् | तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः ||३३||
🔊 Audio coming soon
सुरसादौ कृतमित्यादि| तैलद्वितयमेतत्| मातुलुङ्गरस इत्यादि| मातुलुङ्गरसादिना एकैकेनैव सिद्धं तैलं पूरणे पथ्यमित्यर्थः| तीक्ष्णा इत्यादि| तीक्ष्णा मूर्धविरेका इति अपामार्गबीजादिभिः| तीक्ष्णाः कवलाः पिप्पल्यादिभिः||३२-३३||
Adhikarana 23 (34) · Śloka 34
कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते |३४|
🔊 Audio coming soon
शोणितशूलस्य चिकित्सामाह- कर्णेत्यादि| केचिदमुं पाठं न पठन्ति|३४|-
Adhikarana 24 (34-35) · Śloka 36
शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम् ||३४|| सामान्यतो, विशेषेण बाधिर्ये पूरणं शृणु | गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत् ||३५|| सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम् |३६|
🔊 Audio coming soon
शूलेत्यादि| पञ्जिकाकारस्तु ‘सजलं च सदुग्धं च’ इत्यत्र पादिकं जलदुग्धाभ्यां इति पठति||३४-३५||-
Adhikarana 25 (36-37) · Śloka 38
सितामधुकबिम्बीभिः सिद्धं वाऽऽजे पयस्यपि ||३६|| बिम्बीक्वाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम् | पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ||३७|| बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम् |३८|
🔊 Audio coming soon
सितामधुकेत्यादि| सितामधुकबिम्बीभिः कल्किताभिश्छागीक्षीरे चतुर्गुणे पक्वं तिलतैलमुष्णमेव बिम्बीक्वाथे मथित्वा शीतीभूतं पाणिनाऽऽदाय पुनरपि बिल्वफलक्वाथे विलोडितं सितशर्करायष्टीमधुरक्तचन्दनैः कल्कीकृतैर्दशगुणे क्षीरे विपचेत्| केचिद् ‘बिल्वाम्बुगाढं’ इत्यत्र ‘बिम्ब्यम्बुगाढं’ इति पठन्ति||३६-३७||-
Adhikarana 26 (38) · Śloka 38
वक्ष्यते यःप्रतिश्याये विधिः सोऽप्यत्र पूजितः ||३८||
🔊 Audio coming soon
इदानीं बाधिर्ये कफानुबन्धोऽप्यस्तीत्यनागतावेक्षणेन सङ्क्षेपार्थमतिदेशेन चिकित्सामाह- वक्ष्यते य इत्यादि| सोऽप्यत्र पूजित इति ‘नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव पानैः’ इत्यादिनोक्तः||३८||
Adhikarana 27 (39) · Śloka 39
वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत् |३९|
🔊 Audio coming soon
शुद्धवातकृते पुनरतीतावेक्षणेन सङ्क्षेपार्थमतिदेशेन निर्दिशन्नाह- वातव्याधिष्वित्यादि| वातव्याध्युक्तो विधिः निवातब्रह्मचर्यादिकः|३९|-
Adhikarana 28 (39) · Śloka 40
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके ||३९|| समानं कर्म कुर्वीत योगान् वैशेषिकानपि |४०|
🔊 Audio coming soon
कर्म चिकित्साम्||३९||-
Adhikarana 29 (40-41) · Śloka 41
शिरोविरेचनं चैव धूपनं पूरणं तथा ||४०|| प्रमार्जनं धावनं च वीक्ष्य वीक्ष्यावचारयेत् | राजवृक्षादितोयेन सुरसादिगणेन वा ||४१||
🔊 Audio coming soon
किं तत् समानं कर्मेत्याह- शिरोविरेचनमित्यादि| प्रमार्जनं पिचुकूर्चिकया कर्णप्रोञ्छनं, धावनं प्रक्षालनम्| वीक्ष्य वीक्ष्येति प्रत्येकं कर्णप्रस्रावादिषु दोषदूष्यादिमलविशेषं दृष्ट्वा दृष्ट्वेत्यर्थः| राजवृक्षादितोयेनेत्यादि| राजवृक्षादिः आरग्वधादिः||४०-४१||
Adhikarana 30 (42-45) · Śloka 45
कर्णप्रक्षालनं कार्यं चूर्णैरेषां च पूरणम् | क्वाथं पञ्चकषायं तु कपित्थरसयोजितम् ||४२|| कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह | सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ||४३|| योजितो मधुना वाऽपि कर्णस्रावे प्रशस्यते | लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम् ||४४|| सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम् | कुलीरक्षौद्रमण्डूकीसिद्धं तैलं च पूजितम् ||४५||
🔊 Audio coming soon
समानं कर्माभिधाय वैशेषिकान् योगानाह- कर्णेत्यादि| पञ्चकषायमस्मिन्नेवाध्याये ‘तिन्दुकान्यभया रोध्रं समङ्गाऽऽमलकं’ इत्यादिना पठिष्यति, अन्ये तु आरग्वधशिरीषजम्बुसर्जाश्वकर्णजं पञ्चकषायचूर्णं कथयन्ति, तच्च टीकापञ्जिकाभ्यां नाङ्गीकृतम्| सर्जत्वगित्यादि| कार्पासी वनकार्पासी| शैवलं दूर्वा, हठमित्यन्ये| महावृक्षः सेहुण्डः, प्रसवाः पल्लवाः| कुलीरः कर्कटशृङ्गी, मण्डूकी ब्राह्मीभेदः| शैवलादिकं प्रसवपर्यन्तं कषायद्रव्यं, कुलीरादिकं च कल्कद्रव्यम्| पूजितं ‘कर्णस्रावे कर्णपूरणम्’ इत्यध्याहार्यम्||४२-४५||
Adhikarana 31 (46) · Śloka 46
तिन्दुकान्यभया रोध्रं समङ्गाऽऽमलकं मधु | पूरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम् ||४६||
🔊 Audio coming soon
तिन्दुकान्यभया रोध्रमित्यादि| समङ्गा अञ्जलिकारिका, ‘वराहक्रान्ता’ इत्यपरे| इदं पञ्चकषायचूर्णम्||४६||
Adhikarana 32 (47-48) · Śloka 49
रसमाम्रकपित्थानां मधूकधवशालजम् | पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम् ||४७|| प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः | मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा ||४८|| पचेत्तैलं तदास्रावमवगृह्णाति पूरणात् |४९|
🔊 Audio coming soon
रसमाम्रेत्यादि| आम्रादिपल्लवानां रसः स्वरस एव एकैकः समस्तो वा कर्णपूरणम्, तैर्विपक्वं वा तिलतैलं पूयस्रावे पूरणम्| प्रियङ्गुमधुकाम्बष्ठेत्यादि| प्रियङ्ग्वादिकल्कैः कपित्थपल्लवरसेन चतुर्गुणेन तिलतैलं सिद्धं कर्णस्रावापहम्| अम्बष्ठा साङ्कुरडा, शिला मनःशिला, पर्णी शालपर्णी||४७-४८||-
Adhikarana 33 (49-50) · Śloka 51
घृतं रसाञ्जनं नार्याः क्षीरेण मधुसंयुतम् ||४९|| तत्प्रशस्तं चिरोत्थेऽपि सास्रावे पूतिकर्णके | निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः ||५०|| पूरणः पूतिकर्णस्य शमनो मधुसंयुतः |५१|
🔊 Audio coming soon
इदानीं पूतिकर्णस्य विशेषचिकित्सां योगद्वयेनाह- घृष्टमित्यादि||४९-५०||-
Adhikarana 34 (51) · Śloka 51
कृमिकर्णकनाशार्थं कृमिघ्नं योजयेद्विधिम् ||५१||
🔊 Audio coming soon
कृमिकर्णे वैशेषिकमाह- कृमिकर्णकनाशार्थमित्यादि| कृमिघ्नो विधिः क्रिमिप्रतिषेधे वक्ष्यमाणः||५१||
Adhikarana 35 (52) · Śloka 52
वार्ताकुधूमश्च हितः सार्षपस्नेह एव च |५२|
🔊 Audio coming soon
अपरमपि विशेषचिकित्सितमाह- वार्ताकुधूम इत्यादि| परिणतशुष्कवार्ताकुधूमस्य पानं कर्णधूपनं च, सार्षपस्नेहेन कर्णपूरणं, तन्त्रान्तरोक्तत्वात्|५२|-
Adhikarana 36 (52-53) · Śloka 53
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च ||५२|| गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते | छर्दनं धूमपानं च कवलस्य च धारणम् ||५३||
🔊 Audio coming soon
कृमिकृतदौर्गन्ध्यचिकित्सामाह- कृमिघ्नमित्यादि| कृमिघ्नं विडङ्गसारचूर्णं, तच्च हरितालचूर्णेन युतं गोमूत्रेण पूरणं, गुग्गुलुना धूपनम्| छर्दनमित्यादि| केचिच्छर्दनादिकं क्रियात्रितयं त्रयाणामास्रावादीनां हितमाहुः; तन्न, यतः कृमिकृतदौर्गन्ध्यसान्निध्याद्विदेहादिष्वस्य दर्शनाद् दौर्गन्ध्य एव छर्दनादित्रितयं हितम्||५२-५३||
Adhikarana 37 (54) · Śloka 54
कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम् | विद्रधौ चापि कुर्वीत विद्रध्युक्तं चिकित्सितम् ||५४||
🔊 Audio coming soon
कर्णक्ष्वेडे हितमित्यादि| कर्णक्ष्वेडे यत् सार्षपं तैलं पूरणे उक्तं तद्विद्रधावपि कुर्वीत; न केवलं तदेव कुर्वीत विद्रध्युक्तं चिकित्सितमपि कुर्वीतेत्यर्थः| वातजे आमे सवेदने विद्रधौ तिलतैलेन सेकः, कफजे पुनः सार्षपतैलेनेति||५४||
Adhikarana 38 (55) · Śloka 55
प्रक्लेद्य धीमांस्तैलेन स्वेदेन प्रविलाय्य च | शोधयेत्कर्णविट्कं तु भिषक् सम्यक् शलाकया ||५५||
🔊 Audio coming soon
कर्णगूथचिकित्सामाह- प्रक्लेद्येत्यादि||५५||
Adhikarana 39 (56) · Śloka 56
नाडीस्वेदोऽथ वमनं धूमो मूर्धविरेचनम् | विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति ||५६||
🔊 Audio coming soon
कर्णकण्डूचिकित्सामाह- नाडीस्वेद इत्यादि| वमनं सस्वेदवमनं, धूमोऽत्र वैरेचनिकः||५६||
Adhikarana 40 (57) · Śloka 57
अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् | ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ||५७||
🔊 Audio coming soon
कर्णप्रतीनाहे चिकित्सामाह- अथेत्यादि| क्रियां स्नेहस्वेदनस्यादिकां, प्राप्तां युक्ताम्||५७||
Adhikarana 41 (58) · Śloka 58
कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत् |५८|
🔊 Audio coming soon
कर्णपाके चिकित्सामाह- कर्णपाकस्येत्यादि| शीतालेपनपरिषेकादींश्च तच्चिकित्सितोक्तान् कुर्यात्|५८|-
Adhikarana 42 (58) · Śloka 59
कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा ||५८|| शृङ्गेणापहरेद्धीमानथवाऽपि शलाकया |५९|
🔊 Audio coming soon
शारीरदोषभवकर्णगूथप्रत्याकर्षणचिकित्साप्रसङ्गेनागन्तुकीटमलादीनामाकर्षणचिकित्सामाह- कर्णच्छिद्र इत्यादि| शृङ्गेणापहरेत् ‘आचूष्य’ इति शेषः||५८||-
Adhikarana 43 (59) · Śloka 59
शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम् ||५९||
🔊 Audio coming soon
इदानीं शालक्यसिद्धान्तेन चतुर्विधानामर्शसां सप्तविधानामर्बुदानां चतुर्विधानां शोफानां किं चिकित्सितमिति पृष्ठः शालाक्यतन्त्रस्य न्यूनतादोषं परिजिहीर्षुराह- शेषाणामित्यादि| शेषाणां चतुर्विधानामर्शसां, सप्तविधानाम् अर्बुदानां, चतुर्विधानां शोफानां चेत्यर्थः| प्रागिति अर्शआदिचिकित्सिते| ईरितं प्रतिदोषं प्रत्यवस्थं सर्वमुक्तमित्यर्थः||५९||
Adhikarana puShpikA · Śloka 21
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगप्रतिषेधो नामैकविंशोऽध्यायः ||२१||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे एकविंशोऽध्यायः||२१||