Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

20. karṇagatarōgavijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

इन्द्रियगतरोगसामान्याच्छ्रवणगतरोगविज्ञानीयारम्भो युक्त इत्यत आह- अथात इत्यादि| गतशब्द आश्रितपर्यायः||१-२||

Adhikarana 2 (3-5) · Śloka 5

कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च | कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च ||३|| कृमिकर्णप्रतिनाहौ विद्रधिर्द्विविधस्तथा | कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम् ||४|| कर्णार्बुदं सप्तविधं शोफश्चापि चतुर्विधः | एते कर्णगता रोगा अष्टाविंशतिरीरिताः ||५||

🔊 Audio coming soon

तानेव कर्णगतरोगान्नामभिः सङ्ख्यया चाह- कर्णशूलमित्यादि| कर्णशूलस्य कष्टसाध्यत्वात् प्रागेव निर्देशः| विद्रधिर्द्विविधः- दोषविद्रधिः क्षतविद्रधिश्च; अर्शश्चतुर्विधं- वातपित्तकफसन्निपातैः; अर्बुदं सप्तविधं- वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च, सप्तमं शालाक्यतन्त्रे; शोफश्चतुर्विधः- वातपित्तकफसन्निपातैः| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायामष्टाविंशतिरिति भूयः सङ्ख्याकरणं नियमार्थं, तेन च विदेहसङ्ख्यया अधिकत्वं मा भूदित्यर्थः||३-५||

Adhikarana 3 (6) · Śloka 6

समीरणः श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः | करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ||६||

🔊 Audio coming soon

कर्णशूलमाह- समीरण इत्यादि| अन्यथाचर इति विमार्गगः| समन्ततः शूलमतीव कर्णयोः करोतीति सम्बन्धनीयम्| दोषैः कफपित्तरक्तैः, अन्ये तु वायोरेव वाय्वन्तरावरणाद्बहुवचनं समर्थयन्ति| स्वस्य स्वस्य दोषस्य अनतिक्रमेण यथास्वम्| दुराचरो दुःखेनोपचर्यत इत्यर्थः| अन्ये ‘दुरासद’ इति पठन्ति, दुर्वार इति व्याख्यानयन्ति| यद्यपि शूलबाधिर्यविद्रध्यर्शोर्बुदशोफाः प्राङ्निर्दिष्टास्तथाऽपि कर्णरोगसङ्ग्रहार्थं साध्यासाध्यविभागार्थं च पुनर्निर्दिष्टाः; शूलस्तु वातव्याधिनिदाने केवलवातज उक्तः अत्र पुनर्दोषैरावृत इति न पौनरुक्त्यम्||६||

Adhikarana 4 (7) · Śloka 7

यदा तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति | शृणोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम् ||७||

🔊 Audio coming soon

कर्णनादमाह- यदा तु नाडीष्वित्यादि| विमार्गमागतः विरुद्धमार्गं प्राप्तः, विमार्गोऽत्र शिर एव, विमार्गगः तिर्यग्गो यदा तिष्ठति, (स एवेत्येवशब्देन कफाद्यावरणावृतः| अन्ये तु शब्दवहासु नाडीषु स एव वायुर्विमार्गगो यदा निरुद्ध्यति) तदा विविधान् शब्दान् नरः शृणोतीति व्याख्यानयन्ति| अस्य रोगस्यापीडाकरत्वादरोगत्वं मा भूदिति द्योतनार्थमामयवचनम्||७||

Adhikarana 5 (8) · Śloka 8

स एव शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति | तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु ||८||

🔊 Audio coming soon

बाधिर्यमाह- स एव शब्दानुवहा इत्यादि| स एव शुद्धो वायुः कफानुयातः कफानुगतः| स एवेत्यत्रापिशब्दो लुप्तो द्रष्टव्यः, तेन न केवलं शुद्धो वायुः श्लेष्मान्वितोऽपि वेत्यर्थः| व्यनुसृत्य विविधमार्गमावृत्य| अप्रतिकारसेविनः चिकित्सामकुर्वतः||८||

Adhikarana 6 (9) · Śloka 9

श्रमात् क्षयाद्रूक्षकषायभोजनात् समीरणः शब्दपथे प्रतिष्ठितः | विरिक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडमतीव कर्णयोः ||९||

🔊 Audio coming soon

कर्णक्ष्वेडमाह- श्रमादित्यादि| क्षयो धातुक्षयः| क्ष्वेडः शब्दः| कर्णनादः केवलवातारब्धो नानाविधशब्दान्वितः, कर्णक्ष्वेडस्तु दोषसंसृष्टवातारब्धो वंशघोषानुकारिशब्दान्वितः| तथा च विदेहः,- “मारुतः कफवाताभ्यां संसृष्टः शोणितेन च| कर्णक्ष्वेडनं सञ्जनयेत् क्ष्वेडनं वेणुघोषवत्”- इति; एष कर्णनादक्ष्वेडयोर्भेदः||९||

Adhikarana 7 (10) · Śloka 10

शिरोभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्रधेः | स्रवेत्तु पूयं श्रवणोऽनिलावृतः स कर्णसंस्राव इति प्रकीर्तितः ||१०||

🔊 Audio coming soon

कर्णस्रावमाह- शिरोभिघातादित्यादि| विद्रधेः कर्णविद्रधेः||१०||

Adhikarana 8 (11) · Śloka 11

कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसञ्ज्ञिते |११|

🔊 Audio coming soon

कर्णकण्डूमाह- कफेनेत्यादि| कर्णयोः प्रचितेन सञ्चितेन श्लेष्मणा कर्णस्रोतसि भृशमत्यर्थं कण्डूर्भवेदिति सम्बन्धः|११|-

Adhikarana 9 (11) · Śloka 11

विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ||११||

🔊 Audio coming soon

कर्णगूथकमाह- विशोषित इत्यादि| स्रोतसि सञ्चिते श्लेष्मणि पित्ततेजसा विशोषिते सति कर्णगूथको भवेदिति सम्बन्धः||११||

Adhikarana 10 (12) · Śloka 12

स कर्णविट्को द्रवतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते | तदा स कर्णप्रतिनाहसञ्ज्ञितो भवेद्विकारः शिरसोऽभितापनः ||१२||

🔊 Audio coming soon

कर्णप्रतिनाहमाह- स कर्णेत्यादि| विलयनं पुनः स्नेहस्वेदाभ्याम्| कफमारुताभ्यां सन्निपातेन वा विदेहोक्तत्वात्| शिरसोऽभितापनः सकलशिरोविकारकारीत्यर्थः||१२||

Adhikarana 11 (13) · Śloka 13

यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः | तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः ||१३||

🔊 Audio coming soon

कृमिकर्णमाह- यदेत्यादि| मूर्च्छन्ति पतन्ति| जन्तवो मांसकोथजाः कृमयः| अपत्यानि सूक्ष्मकृमीन्| मक्षिका मम्भणाख्या नीलमक्षिकाः| तदञ्जनत्वादित्यादि| आद्यैर्भिषग्भिस्तदञ्जनत्वाच्छ्रवणः कृमिकर्णको निरुक्त इति सम्बन्धः| तदञ्जनत्वात् कृमिलक्षणत्वात्| आद्यैर्भिषग्भिः विदेहादिभिः| अयं रोगः सान्निपातिकः, विदेहप्रोक्तत्वात्||१३||

Adhikarana 12 (14) · Śloka 14

क्षताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतोऽपरः पुनः | सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् ||१४||

🔊 Audio coming soon

कर्णविद्रधिमाह- क्षताभिघातप्रभव इत्यादि| क्षताभिघातप्रभवस्तु विद्रधिर्भवेदिति छेदः| एतेन क्षतविद्रधिर्दर्शितः| दोषकृतोऽपरः दोषजनितो द्वितीयो विद्रधिः| एतेन दोषजो दर्शितः| स चतुर्विधः| क्षतविद्रधेर्लक्षणमाह- सरक्तपीतारुणमित्यादि| अस्रं रक्तम्| धूमायनं धूमोद्वमनमिव वेदनाविशेषः| चोषवान् आचूष्यत इव| दोषविद्रधेर्लक्षणं दोषलिङ्गैरेव ज्ञातव्यम्| सरक्तपित्तारुणेत्यादिना कर्णपाकलक्षणमुक्तमिति केचित् कथयन्ति; तच्च मह्यं न रोचते, यतो जेज्जटादीनामीदृशोऽभिप्रायो नास्ति||१४||

Adhikarana 13 (15) · Śloka 15

भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः |१५|

🔊 Audio coming soon

कर्णपाकलक्षणमाह- भवेत् प्रपाक इत्यादि|१५|-

Adhikarana 14 (15) · Śloka 16

स्थिते कफे स्रोतसि पित्ततेजसा विलाय्यमाने भृशसम्प्रतापवान् ||१५|| अवेदनो वाऽप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः |१६|

🔊 Audio coming soon

पूतिकर्णमाह- स्थित इत्यादि| घनं निरन्तरं वारंवारमित्यर्थः| अन्ये घनमिति पूयस्य विशेषणमाहुः| पूति पूयम्||१५||-

Adhikarana 15 (16) · Śloka 16

प्रदिष्टलिङ्गान्यरशांसि तत्त्वतस्तथैव शोफार्बुदलिङ्गमीरितम् | मया पुरस्तात् प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः ||१६||

🔊 Audio coming soon

अर्शःशोफार्बुदान्याह- प्रदिष्टेत्यादि| शोफार्बुदलिङ्गं शोफस्य अर्बुदस्य च लक्षणमित्यर्थः| तत्त्वतः परमार्थतः| प्रसमीक्ष्य ज्ञात्वा| प्रयोगज्ञो वैद्यः||१६||

Adhikarana puShpikA · Śloka 20

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगविज्ञानीयो नाम विंशतितमोऽध्यायः ||२०||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे विंशोऽध्यायः||२०||