Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

13. lēkhyarōgapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो लेख्यरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

रक्ताभिष्यन्दानन्तरमौषधसाध्यान् गदाञ्चतुर्ष्वभिष्यन्देष्वभिधाय शस्त्रसाध्यान् प्रतिपादयितुकामो लेख्याञ्जनप्रसङ्गेन प्रथमं लेख्यरोगप्रतिषेधमाह- अथात इत्यादि| यद्यपि चिकित्साप्रविभागीयोद्दिष्टात् ‘छेद्यास्तेषु दशैकश्च’ इत्यादिवचनात् पूर्वं छेद्यरोगाणामुपादानं प्रप्नोति, तथाऽपि लेख्याञ्जनप्रसङ्गाच्छेद्यादिष्वल्पावस्थायां लेखनोपयोगाच्च लिख्यानां प्रागुपादानम्||१-२||

Adhikarana 2 (3-8) · Śloka 9

नव येऽभिहिता लेख्याः सामान्यस्तेष्वयं विधिः | स्निग्धवान्तविरिक्तस्य निवातातपसद्मनि ||३|| (आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः) | सुखोदकप्रतप्तेन वाससा सुसमाहितः | स्वेदयेद्वर्त्म निर्भुज्य वामाङ्गुष्ठाङ्गुलिस्थितम् ||४|| अङ्गुल्यङ्गुष्ठकाभ्यां तु नि र्भुग्नं वर्त्म यत्नतः | प्लोतान्तराभ्यां न यथा चलति स्रंसतेऽपि वा ||५|| ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम् | लिखेच्छस्त्रेण पत्रैर्वा, ततो रक्ते स्थिते पुनः ||६|| स्विन्नं मनोह्वाकासीसव्योषार्द्राञ्जनसैन्धवैः | श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा ||७|| प्रक्षाल्य हविषा सिक्तं व्रणवत् समुपाचरेत् | स्वेदावपीडप्रभृतींस्त्र्यहादूर्ध्वं प्रयोजयेत् ||८|| व्यासतस्ते समुद्दिष्टं विधानं लेख्यकर्मणि |९|

🔊 Audio coming soon

तान् सर्वान् सङ्ख्ययाऽभिधाय सङ्क्षेपार्थं तेष्वभिन्नविधिमुपदिशन्नाह- नवेत्यादि| तमेव सामान्यविधिमाह- स्निग्धेत्यादि|- स्निग्धवान्तविरिक्तस्येत्यत्रानुक्तोऽपि स्नेहानन्तरं स्वेदः कार्यः| सुसमाहित इत्यनेन यथा दृशोः पीडा न स्यात्तथा स्वेदयेदिती द्योत्यते| निर्भुज्य परिवर्त्य, उत्तानीकृत्येत्यर्थः| निर्भुग्नम् उत्तानीकृतम्| प्लोतान्तराभ्यां वस्त्रवेष्टिताभ्यामङ्गुल्यङ्गुष्ठाभ्यां यथा न चलति न कम्पते, न वा स्रंसते नाधः पतति, तथा वर्त्म निर्भुज्येत्यर्थः| शस्त्रपदाङ्कितमिति प्रच्छयितव्ये प्रच्छितं, भेदयितव्ये च भिन्नं, छेदनीये च छिन्नमित्यर्थः| वातकफव्याधिकठिनं दारुणं वर्त्म शस्त्रेण लिखेत्, पित्तरक्तगदक्रान्तं मृदुवर्त्म पुनः शेफालिकादीनां पत्रैर्लिखेत्| पश्चात्कर्माह- तत इत्यादि| स्विन्नं स्वेदितम्| मनोह्वा मनःशिला| आर्द्राञ्जनं रसाञ्जनम्| माक्षीकं सुवर्णमाक्षीकम्| प्रतिसार्य अवघृष्य| हविषा घृतेन| व्रणवत् सद्योव्रणवत् सप्ताहं यावत्, तदूर्ध्वं शारीरव्रणवत्; तच्च पर्णबन्धादिना क्रमेण| स्वेदावपीडेत्यादि| त्र्यहादूर्ध्वं पुनर्व्रणवदेव स्वेदापीडाप्रभृतीन् प्रयोजयेदिति तात्पर्यार्थः| स्वेदावपीडादिकं समासेनाभिधाय विस्तरेणातिदिशन्नाहा- व्यासत इत्यादि| विधानं स्वेदावपीडादिकम्| लेख्यकर्मणीति सकललेखनार्हगदकर्मणीत्यर्त्थः||३-८||-

Adhikarana 3 (9) · Śloka 10

असृगास्रावरहितं कण्डूशोफविवर्जितम् ||९|| समं नखनिभं वर्त्म लिखितं सम्यगिष्यते |१०|

🔊 Audio coming soon

इदानीं सम्यग्लिखितस्य वर्त्मनो लक्षणमाह- असृगास्रावरहितमित्यादि| समं निम्नोन्नतत्वरहितम्| नखनिभं नखस्येव निभा यस्य तत्तथा| तदेव व्रणवदुपचरणीयम्||९||-

Adhikarana 4 (10-12) · Śloka 12

रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद्ध्रुवम् ||१०|| रागशोफपरिस्रावास्तिमिरं व्याध्यनिर्जयः | वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत् ||११|| नेत्रपाकमुदीर्णं वा कुर्वीताप्रतिकारिणः | एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनार्लिखेत् ||१२||

🔊 Audio coming soon

दुर्लिखितस्य वर्त्मनो लक्षणमाह- रक्तमित्यादि| स्कन्नं स्त्यानम्| व्याध्यनिर्जय इति लेखनसाध्यस्य व्याधेरनुपशमः| अप्रतिकारिण इति तस्य प्रतिक्रियामकुर्वत इत्यर्थः| तत्र चिकित्सामाह- स्नेहत्वेत्यादि| केचित् ‘स्वेदयित्वा’ इति पठन्ति||१०-१२||

Adhikarana 5 (13) · Śloka 14

व्यावर्तते यदा वर्त्म पक्ष्म चापि विमुह्यति | स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः ||१३|| स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः |१४|

🔊 Audio coming soon

अतिलिखितवर्त्मनो लक्षणमाह- व्यावर्तत इत्यादि| तच्चिकित्सितमाह- स्नेहस्वेदादिरित्यादि| अनिलापहः क्रमोऽन्योऽपि परिषेकादिर्बाह्य आभ्यन्तरो वाऽऽहारादिकः| अनिलापहेन वायुं जित्वा पश्चाद्व्रणवदुपचरणीयम्||१३||-

Adhikarana 6 (14) · Śloka 15

वर्त्मावबन्धं क्लिष्टं च बहलं यच्च कीर्तितम् ||१४|| पोथकीश्चाप्यवलिखेत् प्रच्छयित्वाऽग्रतः शनैः |१५|

🔊 Audio coming soon

इदानीं रोगविशेषे क्वचिदेव प्रच्छन्नेन रक्तहरणमृदुकरणपूर्वकं लेखनमतिदिशन्नाह- वर्त्मेत्यादि| अवलिखेत् शस्त्रेण, न तु पत्रादिभिः||१४||-

Adhikarana 7 (15) · Śloka 15

समं लिखेत्तु मेधावी श्यावकर्दमवर्त्मनी ||१५||

🔊 Audio coming soon

क्वचित् पुनर्लेखनमात्रमेव कर्तव्यं न पुनश्छेदभेदप्रच्छन्नानीति दर्शयन्नाह- सममित्यादि| समम् एककालमित्यर्थः; अन्ये तु नात्यवगाढं नात्युत्तानमिति सममाहुः||१५||

Adhikarana 8 (16) · Śloka 16

कुम्भीकिनीं शर्करां च तथैवोत्सङ्गिनीमपि | कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रितः ||१६||

🔊 Audio coming soon

कुत्रचिच्छेदपूर्वकं लेखनमाह- कुम्भीकिनीमित्यादि| कल्पयित्वा छित्त्वेत्यर्थः| अतन्द्रितः अनलसः||१६||

Adhikarana 9 (17) · Śloka 17

भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम् | ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्याद्भिन्ना लिखेदपि ||१७||

🔊 Audio coming soon

कस्मिंश्चिद्भेदपूर्वकं लेखनमाह- भवेयुरित्यादि||१७||

Adhikarana 10 (18) · Śloka 18

तरुणीश्चाल्पसंरम्भा पिडका बाह्यवर्त्मजाः | विदित्वैताः प्रशमयेत् स्वेदालेपनशोधनैः ||१८||

🔊 Audio coming soon

कुत्रापि वर्त्मरोगे न पूर्वं छेदभेदप्रच्छन्नानि, न चोत्तरकालं लेखनमिति दर्शयन्नाह- तरुणीश्चाल्पेत्यादि||१८||

Adhikarana puShpikA · Śloka 13

इति सुशुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो नाम त्रयोदशोऽध्यायः ||१३||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे त्रयोदशोऽध्यायः||१३||