Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

14. bhēdyarōgapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

लेख्यप्रतिषेधानन्तरं भित्त्वा लिखेदिति वचनाद्भेद्यरोगप्रतिषेधारम्भः- अथात इत्यादि||१-२||

Adhikarana 2 (3-4) · Śloka 4

स्वेदयित्वा बिसग्रन्थिं छिद्राण्यस्य निराशयम् | पक्वं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ||३|| कासीसमागधीपुष्पनेपाल्येलायुतेन तु | ततः क्षौद्रघृतं दत्त्वा सम्यग्बन्धमथाचरेत् ||४||

🔊 Audio coming soon

स्वेदयित्वेत्यादि| बिसग्रन्थिं पक्वं स्वेदयित्वा, अनन्तरमस्य पक्वस्य बिसग्रन्थेः स्विन्नस्य छिद्राणि निराशयं भित्त्वा, सैन्धवेन कासीसादियुक्तेनावचूर्णयेत्| निराशयमिति आशयस्य उत्सङ्गस्याभावो यथा स्यात्तथा भित्त्वेत्यर्थः| पुष्पं पुष्पाञ्जनं, नेपाली मनःशिला| ततः प्रतिसारणादनन्तरं सन्धानार्थं क्षौद्रघृतदानम्| केचित् ‘सम्यग्बन्धमथाचरेत्’ इत्यत्र ‘बन्धेनोक्तेन योजयेत्’ इति पठन्ति| सम्यक्शब्देन शिथिलता बन्धस्य ख्याप्यते||३-४||

Adhikarana 3 (5) · Śloka 6

रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च | प्रतिसारणमेकैकं भिन्ने लगण इष्यते ||५|| महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः |६|

🔊 Audio coming soon

लगणस्य चिकित्सामाह- रोचनेत्यादि| रोचना गोरोचना, क्षारो यवक्षारः| एतानि प्रतिसारणान्यल्पे लगणे भिन्ने सति योज्यानि| एकैकमिति वचनेन गोरोचनादिभिरेकैकशः प्रतिसारणं विधेयमित्यर्थः| अल्पलगणचिकित्सामभिधाय महालगणचिकित्सामाह- महत्यपि च युञ्जीतेत्यादि| महति गुरुतरे इति| युञ्जीतेति भिन्ने सति लगणे क्षाराग्नी प्रयुञ्जीत; तदनन्तरं तत्कालमेव क्षाराग्निदग्धव्रणवच्चिकित्सा, पश्चात् सामान्यव्रणवत्| कोविदः पण्डितः||५||-

Adhikarana 4 (6) · Śloka 7

स्विन्नां भिन्नां विनिष्पीड्य भिषगञ्जननामिकाम् ||६|| शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत् |७|

🔊 Audio coming soon

स्वयं भिन्नाया अञ्जननामिकायाश्चिकित्सामाह- स्विन्नामित्यादि| भिन्नां स्वयम्भिन्नाम्| विनिष्पीड्येति स्नेहस्वेदपूर्वकं निष्पीडनं कृत्वा, शिला मनःशिला, एला सूक्ष्मैला, नतं तगरं, सिन्धूत्थं सैन्धवम्| प्रतिसारयेत् घर्षयेत्||६||-

Adhikarana 5 (7) · Śloka 8

रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् ||७|| प्रतिसार्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः |८|

🔊 Audio coming soon

अभिन्नाञ्जननामिकाचिकित्सामाह- रसाञ्जनेत्यादि| स्वयमभिन्नामञ्जननामिकां पूर्वं स्विन्नां शस्त्रकर्मविद्भित्त्वा रसाञ्जनमधुभ्यां प्रतिसार्य तदुत्तरकालं दीपशिखोद्भवैः कज्जलाख्यैरञ्जनैर्योजयेदिति पिण्डार्थः||७||-

Adhikarana 6 (8) · Śloka 9

सम्यक्स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् ||८|| त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया |९|

🔊 Audio coming soon

क्रिमिग्रन्थिचिकित्सामाह- सम्यगित्यादि| सम्यक्स्विन्ने इति लोचनोचितस्वेदस्विन्ने, अनन्तरं भेदिते प्रतिसारणमिति; अनुक्तमप्यञ्जननामिकोद्दिष्टमञ्जनमधुभ्यां प्रतिसारणं, तदनन्तरं त्रिफलाक्वाथेन तुत्थकासीससैन्धवावापेन रसक्रिया||८||-

Adhikarana 7 (9) · Śloka 10

भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः ||९|| लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि |१०|

🔊 Audio coming soon

श्लेष्मोपनाहचिकित्सामाह- भित्त्वेत्यादि| श्लेष्मोपनाहो भेद्यः, महान्नीरुजश्च लेख्यः, रक्तानुबन्धश्च प्रच्छनीयः; श्लेष्मोपनाहे भिन्ने लिखिते प्रच्छितेऽपि च पिप्पल्यादिभिरेकमेव प्रतिसारणम्||९||-

Adhikarana 8 (10-11) · Śloka 11

संस्नेह्य पत्रभङ्गैश्च स्वेदयित्वा यथासुखम् ||१०|| आपाकाद्विधिनोक्तेन पञ्चमेद्यानुपाचरेत् | सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम् | सम्पक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम् ||११||

🔊 Audio coming soon

एषां पञ्चानामपि मेद्यानां बिसग्रन्थ्यादीनामामानामादौ संशमनं निर्दिशन्नाह- संस्नेह्येत्यादि| पत्रभङ्गैः पत्रखण्डैः; अन्ये पत्रभङ्गशब्देन पल्लवमाहुः| विधिना अपतर्पणादिना सामान्यशोथप्रतीकारेण| स्नेहपूर्वकं विधानमिति स्नेहस्वेदरक्तास्रावविरेचनादि, नयनबुद्बुदजान्यत्र वमनं च||१०-११||

Adhikarana puShpikA · Śloka 14

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो नाम चतुर्दशोऽध्यायः ||१४||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चतुर्दशोऽध्यायः||१४||