Adhikarana 1 (1-2) · Śloka 2
अथातः पूतनाप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
रेवतीप्रतिषेधानन्तरं स्त्रीग्रहसामान्यात् पूतनाप्रतिषेधारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः पूतनाप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
रेवतीप्रतिषेधानन्तरं स्त्रीग्रहसामान्यात् पूतनाप्रतिषेधारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||
Adhikarana 2 (3-4) · Śloka 4
कपोतवङ्काऽरलुको वरुणः पारिभद्रकः | आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ||३|| वचा वयःस्था गोलोमी हरितालं मनःशिला | कुष्ठं सर्जरसश्चैव तैलर्थे वर्ग इष्यते ||४||
🔊 Audio coming soon
कपोतवङ्केत्यादि| कपोतवङ्का कबडवङ्केति लोके प्रसिद्धा ब्रह्मसुवर्चलापरपर्याया| आस्फोता सारिवा| वयस्था ब्राह्मी, अन्ये गुडूचीमाहुः| गोलोमी दूर्वा| वर्ग इष्यते इति वर्गग्रहणं यथालाभं प्रक्षेपार्थम्| वचादीनां कल्ककषायाभ्यां तैलसाध्यम्||३-४||
Adhikarana 3 (5-7) · Śloka 7
हितं घृतं तुगाक्षीर्यां सिद्धं मधुरकेषु च | कुष्ठतालीशखदिरचन्दनस्यन्दने तथा ||५|| देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बकः | एला हरेणवश्चापि योज्या उद्धूपने सदा ||६|| गन्धनाकुलिकुम्भीके मज्जानो बदरस्य च | कर्कटास्थि घृतं चापि धूपनं सर्षपैः सह ||७||
🔊 Audio coming soon
हितमित्यादि| तुगाक्षीरी वंशलोचना, मधुरकेषु काकोल्यादिषु; काकोल्यादिपाठात्तुगाक्षीरी प्राप्ता, पृथक्पाठो भागद्वयार्थं कुष्ठतालीशादीनां यथालाभनिषेधार्थो वा, ये तुगाक्षीरीं वंशरोचनानुकारिपार्थिवद्रव्यं मन्यन्ते तन्मते द्विरुक्तिर्नास्ति| कल्ककषायाभ्यां सिद्धं घृतं हितमिति सम्बन्धः| गिरिकदम्बको महाकदम्बः| गन्धनाकुली सुगन्धा रास्ना| कुम्भिका जलजा| जेज्जटाचार्यस्तु न पठत्येतद्देवदार्वादियोगद्वयमपि, गयी तु पठति||५-७||
Adhikarana 4 (8) · Śloka 8
काकादनीं चित्रफलां बिम्बीं गुञ्जां च धारयेत् | मत्स्यौदनं च कुर्वीत कृशरां पललं तथा | शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत् ||८||
🔊 Audio coming soon
काकादनीमित्यादि| काकादनी काकतिन्दुकः, ‘काला’ इत्यन्ये; चित्रफला इन्द्रवारुणी, चित्राण्डिकेत्यन्ये| मत्स्यौदनं मत्स्यभक्तं; पललं तिलपिष्टम्| ‘शून्यगृहे हरेत्’ इत्यत्र ‘शून्यगृहेतरे’ इत्यन्ये, तत्रेतरे खण्डगृहे| केचिदत्रेदृशं पठन्ति ‘हरेद्बलिं चोत्कुरटे’ इत्यादि; तत्रोत्कुरटः शून्यागारः, शून्याराम इत्यन्ये||८||
Adhikarana 5 (9-11) · Śloka 11
उच्छिष्टेनाभिषेकेण शिशोः स्नपनमिष्यते | पूज्या च पूतना देवी बलिभिः सोपहारकैः ||९|| मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा | शून्यागाराश्रिता देवी दारकं पातु पूतना ||१०|| दुर्दर्शना सुदुर्गन्धा कराला मेघकालिका | भिन्नगाराश्रया देवी दारकं पातु पूतना ||११||
🔊 Audio coming soon
उच्छिष्टेनेत्यादि| उच्छिष्टेनाभिषेकेण आचमनोदकेनेत्यर्थः| पूर्वकल्पेन स्नानम्| रक्षामन्त्रः- मलिनेत्यादि||९-११||
Adhikarana puShpikA · Śloka 32
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे (षष्ठोऽध्यायः, आदितः) द्वात्रिंशोऽध्यायः ||३२||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे पूतनाप्रतिषेधो नाम द्वात्रिंशत्तमोऽध्यायः||३२||