Adhikarana 1 (1-2) · Śloka 2
अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
पूतनाप्रतिषेधानन्तरं पूतनासामान्यादन्धपूतनाप्रतिषेधारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
पूतनाप्रतिषेधानन्तरं पूतनासामान्यादन्धपूतनाप्रतिषेधारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
तिक्तकद्रुमपत्राणां कार्यः क्वाथोऽवसेचने |३|
🔊 Audio coming soon
तिक्तकेत्यादि| तिक्तकद्रुमा निम्बादयः, तत्पत्रक्वाथेन परिषेकः कार्यः|३|-
Adhikarana 3 (3-4) · Śloka 5
सुरा सौवीरकं कुष्ठं हरितालं मनःशिला ||३|| तथा सर्जरसश्चैव तैलार्थमुपदिश्यते | पिप्पल्यः पिप्पलीमूलं वर्गो मधुरको मधु ||४|| शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते |५|
🔊 Audio coming soon
सुरेत्यादि| सौवीरकं विरेचनाध्यायोपदिष्टकाञ्जिकप्रकारः| अत्र तैले सुरासौवीरके तैलात् प्रत्येकं चतुर्गुणे, कुष्ठादीनि कल्कद्रव्याणि चतुर्थांशानि| पिप्पल्य इत्यादि| वर्गो मधुरकः काकोल्यादिः, वर्गग्रहणं यथालाभनिषेधार्थं, पिप्पल्यादीनां कल्कक्वाथाभ्यां घृतं विपाच्य शीतीभूते घृते मधु क्षिपेत्| इदं घृतं पानाय||३-४||-
Adhikarana 4 (5) · Śloka 5
सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः ||५||
🔊 Audio coming soon
सर्वेत्यादि| प्रदेहो लेपः| शीतलैरन्यैरपि द्रव्यैः||५||
Adhikarana 5 (6) · Śloka 6
पुरीषं कौक्कुटं केशांश्चर्म सर्पत्वचं तथा | जीर्णां च भिक्षुसङ्घाटीं धूमनायोपकल्पयेत् ||६||
🔊 Audio coming soon
पुरीषं कौक्कुटमिति कुक्कुटपुरीषं, केशांश्चर्म च कुक्कुटस्य, केशाश्चर्म च मानुषस्येत्येके; केचित् चर्मेति सर्पस्य वदन्ति, तेन चर्म त्वक् कञ्चुलिका सर्पस्य| जीर्णां च भिक्षुसङ्घाटीमिति भिक्षुरत्र शाक्यभिक्षुर्बौद्धाख्यः परिव्राजकश्च, तयोर्जीर्णसङ्घाटी जीर्णवस्त्रं; तदेकदेशो गृह्यते, एकदेशेऽपि समुदायप्रवृत्तेः; भिक्षुरत्र शाक्यभिक्षुरेवेति जेज्जटः||६||
Adhikarana 6 (7-9) · Śloka 9
कुक्कुटीं मर्कटीं शिम्बीमनन्तां चापि धारयेत् | मांसमामं तथा पक्वं शोणितं च चतुष्पथे ||७|| निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः | शिशोश्च स्नपनं कुर्यात् सर्वगन्धोदकैः शुभैः ||८|| कराला पिङ्गला मुण्डा कषायाम्बरवासिनी | देवी बालमिमं प्रीता संरक्षत्वन्धपूतना ||९||
🔊 Audio coming soon
कुक्कुटीमित्यादि| कुक्कुटी स्फटिकरचितकुक्कुटाण्डसदृशकन्दा कुक्कुटीशरीरवत् कुसुमचित्रा वल्ली| मर्कटी कपिकच्छुः, मर्कटमूलीत्यन्ये, शुकशिम्बीत्यपरे| अनन्ता सारिवा| अन्तश्च खण्डगृहाभ्यन्तरे| शिशोश्चेति चकारात् धात्र्याश्च स्नपनम्| सर्वगन्धा एलादिकाः| देवी प्रीता सती इमं बालं रक्षत्विति सम्बन्धः||७-९||
Adhikarana puShpikA · Śloka 33
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेऽन्धपूतनाप्रतिषेधो नाम (सप्तमोऽध्यायः, आदितः) त्रयस्त्रिंशोऽध्यायः ||३३||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रेऽन्धपूतनाप्रतिषेधो नाम त्रयस्त्रिंशत्तमोऽध्यायः||३३||