Adhikarana 1 (1-2) · Śloka 2
अथातः शकुनीप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
स्कन्दापस्मारप्रतिषेधानन्तरं शकुनीप्रतिषेधारम्भः, स्कन्दादिग्रहप्रतिपादकसूत्रेऽस्या एवानन्तरोक्तत्वादित्याह- अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
शकुन्यभिपरीतस्य कार्यो वैद्येन जानता |
वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने ||३||
शकुनीत्यादि| अभिपरीतस्य व्याप्तस्य, ‘बालस्य’ इति शेषः| जानता बुद्धिमता| निष्क्वाथः परिषेचने कार्य इति सम्बन्धः||३||
Adhikarana 3 (4) · Śloka 4
कषायमधुरौस्तैलं कार्यमभ्यञ्जने शिशोः |४|
कषायेत्यादि| कषाया वटादयः, मधुराणि काकोल्यादीनि; तत्र वटादीनां कषायः, काकोल्यादीनां च कल्कः, ताभ्यां तैलं साध्यं; प्रत्येकं वटादीनां काकोल्यादीनां च कल्ककषायौ कल्पनीयावित्यन्ये|४|-
Adhikarana 4 (4) · Śloka 5
मधुकोशीरह्रीबेरसारिवोत्पलपद्मकैः ||४||
रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् |५|
मधुकेत्यादि| उत्पलं नीलोत्पलम्| प्रदिहेत् लिम्पेत्||४||-
Adhikarana 5 (5) · Śloka 5
व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ||५||
व्रणेष्वित्यादि| व्रणेषु शकुनीजुष्टबालकव्रणेषु| उक्तानि चूर्णानि द्विव्रणीयाध्याये कीर्तितानि मिश्रकोक्तानि च शोधनरोपणानि| पथ्यानि व्रणितोपासनीयोक्तानि शालिमुद्गदाडिमसैन्धवयवपटोलादीनि; अन्ये तु पथ्यानीति चूर्णानीत्यस्य विशेषणं कुर्वन्ति, तत्र शकुनीजुष्टबालकव्रणानां सदाहपाकरक्तस्रावहराणि चूर्णानि प्रयोक्तव्यानीति सम्बन्धनीयम्||५||
Adhikarana 6 (6) · Śloka 6
स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत् |६|
स्कन्देत्यादि| धूपनानि सर्षपा इत्यादीनि स्कन्दग्रहोक्तानि, तानीहापि शकुन्यमपि प्रयोजयेत्|६|-
Adhikarana 7 (6) · Śloka 7
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः ||६||
लक्ष्मणां सहदेवां च बृहतीं चापि धारयेत् |७|
शतावरीत्यादि| मृगैर्वारुः इन्द्रवारुणी, नागदन्ती दन्तिनी, सहदेवा पीतपुष्पा बला, बृहती स्थूलफला||६||-
Adhikarana 8 (7) · Śloka 8
तिलतण्डुलकं माल्यं हरितालं मनःशिला ||७||
बलिरेष करञ्जेषु निवेद्यो नियतात्मना |८|
तिलेत्यादि| एष तिलतण्डुलकमित्यादिको बलिः| करञ्जेषु नक्तमालेषु| नियतात्मना संयतेन्द्रियेण ‘करञ्जेषु’ इत्यत्रान्ये ‘निकुञ्जेषु’ इति पठन्ति, निकुञ्जेषु वनेषु||७||-
Adhikarana 9 (8) · Śloka 8
निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ||८||
निष्कुटे इत्यादि| निष्कुटे गृहोपवने, अन्ये निष्कुटं वनगहनमाहुः| यथाविधीति स्कन्दग्रहोक्तो विधिः; तेन शालियवरचितमण्डले गायत्र्यभिमन्त्रतेन जलेन स्नानमिति लभ्यते||८||
Adhikarana 10 (9) · Śloka 9
स्कन्दापस्मारशमनं घृतं चापीह पूजितम् |९|
स्कन्देत्यादि| घृतं देवदारुणि रास्नायामित्यादिकं, चकारोऽत्र सोमवल्लयादीनामपि धारणं समुच्चिनोति| जेज्जटस्तु स्कन्दग्रहे धूपनानीत्यादिकधूपनपाठान्ते इदं घृतं पठति|९|-
Adhikarana 11 (9) · Śloka 9
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः ||९||
कुर्यादित्यादि| कुसुमैः शुभैरिति जातीपुष्पनीलोत्पलादिभिः||९||
Adhikarana 12 (10-11) · Śloka 11
अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता |
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु ||१०||
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा |
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ||११||
बालकरक्षामाह- अन्तरीक्षेत्यादि||१०-११||
Adhikarana puShpikA · Śloka 30
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम (चतुर्थोऽध्यायः, आदितः) त्रिंशोऽध्यायः ||३०||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे शकुनीप्रतिषेधो नाम त्रिंशत्तमोऽध्यायः||३०||