Adhikarana 1 (1-3) · Śloka 3
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः |
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ||३||
स्कन्दप्रतिषेधानन्तरं प्रत्यासत्त्या स्कन्दापस्मारप्रतिषेधारम्भो युज्यत इत्याह- बिल्व इत्यादि| गोलोमी दूर्वा||१-३||
Adhikarana 2 (4) · Śloka 5
सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम् |
क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा ||४||
विपक्तव्यं घृतं चापि पानीयं पयसा सह |५|
सर्वेत्यादि| सर्वगन्धा एलादिकाः, यथालाभमेलादिकत्वेन बिल्वशिरीषादीनां क्वाथेन तैलं पक्तव्यम्| अन्ये तु ‘गन्धमूत्रविपक्वम्’ इति पठन्ति; गन्धाः सर्वगन्धाः पूर्वोक्ताः, मूत्रं गोमूत्रम्| क्षीरेत्यादि| क्षीरवृक्षकषाये चतुर्गुणे, पयसा दुग्धेन चतुर्गुणेन, काकोल्यादौ गणे कल्कीकृते स्नेहचतुर्थांशे घृतं विपक्तव्यम्| तद्घृतं किं कार्यमित्याह,- पानीयं पातव्यम्, ‘अन्नादेन’ इति शेषः| अन्ये तु पानीयं चतुर्गुणं दत्त्वा घृतं पक्तव्यमिति मन्यन्ते, शेषं पूर्ववत्||४||-
Adhikarana 3 (5-6) · Śloka 6
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ||५||
गृध्रोलूकपुरीषाणि केशा हस्तिनखा घृतम् |
वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च ||६||
उत्सादनमित्यादि| उत्सादनम् उद्वर्तनम्| स्कन्दग्रहे हितमित्यत्र चकारो लुप्तो ज्ञेयः, तेन स्कन्दग्रहे स्कन्दापस्मारे च हितम्| (‘एतदुद्वर्तनं हितम्’ इत्यत्रान्ये ‘एतदुद्वर्तनेरितम्’ इति पठन्ति; तन्न, उत्सादनस्यानुक्तत्वात्)||५-६||
Adhikarana 4 (7) · Śloka 7
अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत् |७|
अनन्तेत्यादि| अनन्ता उत्पलसारिवा, कुक्कुटी कुक्कुटीशरीरवत् कुसुमचित्रा वल्ली स्फटिकरचितकुक्कुटाण्डतुल्यकन्दा, मर्कटी कपिकच्छुः| धारयेत् शरीरे इति बोद्धव्यम्|७|-
Adhikarana 5 (7) · Śloka 8
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः ||७||
भूतौदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे |८|
पक्वेत्यादि| प्रसन्ना सुरा, रुधिरं छागलस्य, पयो दुग्धम्| भूतौदनः भूतानामोदनः सोपहारो बलिः, उत्स्विन्ना माषविकृतिर्बलिरित्यन्ये| अवटे गर्तायाम्||७||-
Adhikarana 6 (8) · Śloka 8
चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना ||८||
चतुष्पथे इत्यादि| अस्य बालकस्य| यतात्मना उपवासादियुतेन| ‘यतात्मना’ इत्यत्र केचित् ‘यथाविधि’ इति पठन्ति; स्कन्दप्रतिषेधोक्तस्नानविधानेनेति च व्याख्यानयन्ति||८||
Adhikarana 7 (9) · Śloka 9
स्कन्दापस्मारसञ्ज्ञो यः स्कन्दस्य दयितः सखा |
विशाखसञ्ज्ञश्च शिशोः शिवोऽस्तु विकृताननः ||९||
रक्षामन्त्रमाह- स्कन्देत्यादि| स्कन्दस्य कार्तिकेयस्य, दयितः अभीष्टः, सखा मित्रं, विशाखसञ्ज्ञ इति स्कन्दापस्मारस्य द्वितीयं नाम| शिशोः बालकस्य, शिवोऽस्तु कल्याणकृद्भवतु, विकृताननो विकृतमुखः| ‘विशाखसञ्ज्ञस्य’ इति केचित् पठन्ति, तत्र स्कन्दस्य विशेषणम्||९||
Adhikarana puShpikA · Śloka 29
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दापस्मारप्रतिषेधो नाम (तृतीयोऽध्यायः, आदितः) एकोनत्रिंशोऽध्यायः ||२९||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे स्कन्दापस्मारप्रतिषेधो नामैकोनत्रिंशत्तमोऽध्यायः||२९||