Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
राजयक्ष्मचिकित्सितादनन्तरं छर्द्यादिचिकित्सितमारभ्यते| यतो यक्ष्मण एव प्रायेणैत उपद्रवभूता जायन्ते| अत एतदारम्भो युक्त इत्याह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
राजयक्ष्मचिकित्सितादनन्तरं छर्द्यादिचिकित्सितमारभ्यते| यतो यक्ष्मण एव प्रायेणैत उपद्रवभूता जायन्ते| अत एतदारम्भो युक्त इत्याह-
Adhikarana CardihradrogatRuShNAcikitsitAdhyAyaH CardiShu prAk la~gghanam,tato vamanam (2) · Śloka 2
अथात-छर्दिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः इति ह स्माहुरत्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) आमाशयोत्क्लेशभवाः प्रायश्च्छर्द्यो हितं ततः| लङ्घनं प्रागृते वायोर्वमनं तत्र योजयेत्||१|| बलिनो बहुदोषस्य वमतः प्रततं बहु| |२|
🔊 Audio coming soon
स०-उत्क्लेशनं-उत्क्लेशो,-दोषाणामुच्छूनावस्थैव| आमाशयोत्क्लेशात् सम्भवो-जन्म, यासां ता आमाशयोत्क्लेशभवाः प्रायश्च्छर्द्यो यतस्तस्मात् प्राक्-प्रथमं, लङ्घनं हितम्| प्रायोग्रहणं वातजायां छर्द्यामामाशयोत्क्लेशासम्भवार्थं वायोरृते तद्योजयेत्| कार्ये कारणोपचारादेवं निर्दिष्टम्| वातजां हि छर्दि मुक्त्वाऽन्यासु छर्दिषु लङ्घनं कार्यम्| लङ्घने कृतेऽप्यनु पशान्तवेगासु तत्र-तासु छर्दिषु, वमनं कार्यम्| बलिनः पुंसो-न दुर्बलस्य, अथवा बहुदोषस्य, तथा प्रततं-अनारतं, बहु वमतो वमनं योजयेत्|
Adhikarana tato hRudyaM virecanam virecanaPalam tataH shamanauShadham rUkShadurbalasya shamanameva (2-3) · Śloka 3
| ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः||२|| क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः| शमनं चौषधं रूक्षदुर्बलस्य तदेव तु||३||
🔊 Audio coming soon
स०-ततो-वमनादनन्तरं विरेकौषधं क्रमशो-न सहसा, योजयेत्| किम्भूतं विरेकद्रव्यम् ? हृद्यं-हृदयाय हितम्| कैः सह ? मद्यैः-मार्द्वीकादिभिः| तथा, फलाम्बुभिः-शोभनद्रा क्षादिफलनिष्पादितवारिभिः| अथवा, क्षीरैः-गोक्षीरादिभिः सह| किमेवं स्यात् ? इत्याह-स ह्यूर्ध्वमित्यादि| यस्मात्सः-विरेकः, ऊर्ध्वं गतं दोषं छर्द्यनुगमधो नयति| न केवलं शोधनं-वमनं विरेचनं वा, तत्र योजयेत्| यावच्छमनमपि यदौषधं तदपि तत्र योजयेत्| रूक्षदुर्बलस्य पुनः पुंसस्तदेव-शमनमेव, योजयेत्, शोधनासहत्वात्|
Adhikarana CardiShu annashAkaPalAdikam (4-6) · Śloka 6
परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते| उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः||४|| शाकानि लेहा भोज्यानि रागषाडवपानकाः| भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम्||५|| गन्धाः_ सुगन्धयो गन्धफलपुष्पान्नपानजाः| भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम्||६||
🔊 Audio coming soon
स०-तत्र सर्वास्वपि छर्दिषु परिशुष्कादिगुणयुक्तमन्नं शस्यते| काम्बलिकादिलक्षणं कृतान्नवर्गे कथितम्| तथा फलानि, स्नानमुद्वर्तनादिरूपेण घर्षणं सुगन्धयः-शोभनगन्धाः, गन्धद्रव्यपुष्पफलान्नपानजाः शस्यन्ते| तत्र गन्धशब्देन गन्धद्रव्याणि| भुक्तमात्रस्य सहसा-झटित्येवाज्ञातसङ्केतस्य, मुखे शीताम्बुसेचनम्| इति सामान्येन छर्दीनामुपक्रमाः|
Adhikarana vAtajAyAM CardyAM ghRutam, vAtajAyAM vyoShAdyaM ghRutam, vAtajAyAM dADimAdyaM ghRutam, vAtajAyAM tulyAmbukShIram, vAtajAyAM vaiShkiro rasaH, vAtajAyAM snigdhaM Bojanam, vAtajAyAM snehavirecanam (7-10) · Śloka 10
अधुना विशेषेणाह हन्ति मारुतजां छर्दिं सर्पिः पीतं ससैन्धवम्| किञ्चिदुष्णं विशेषेण सकासहृदयद्रवाम्||७|| व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना| सशुण्ठीदधिधान्येन शृतं तुल्याम्बु वा पयः||८|| व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः| स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम्||९|| कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्| |१०|
🔊 Audio coming soon
स०-वातजां छर्दिषं सर्पिः पीतं सैन्धवान्वितं किञ्चिदुष्णं विशेषेण हन्ति| पीतं-न तु लीढम्, अशक्तत्वात्| तथा चोक्तम् (हृ.चि.अ.३/१११)-"आक्रामत्यनिलं पीतं" इति| तस्मात् पीतं घृतं छर्दिं हन्तीति युक्तम्| अथवा त्रिकटुत्रिलवणोत्कटं सर्पिः पीतं पूर्वोक्तगुणम्| दाडिमाम्बुन वा शुण्ठी दधिधान्येन सह सामान्यकल्पनया सिद्धं घृतं पीतं पूर्वोक्तगुणम्| जलतुल्यं वा पयः शृतं पूर्ववत्| अथवा, वैष्किरः-कुक्कुटादिजो, रसो बहुसर्पिःसैन्धवो मारुतजां छर्दिं हन्ति| किम्भूतः ? फलेन-दाडिममातुलुङ्गादिना, अम्लः-अम्लतां प्रापितः| स्निग्धं च भोजनं-अशनं, [शुण्ठी]दधिदाडिमेन संस्कृतं तु हितं-छर्दिं हन्ति| अत्र च-मारुतच्छर्दिषि, स्नेहेन-एरण्डतैलादिना, विरेचनं स्नेहविरेचनं कोष्णं सलवणं च हितम्|
Adhikarana pittajAyAM CardyAM drAkShAdi virecanam, pittajAyAM tailvakaM dhRutam, pittajAyAM shleShmasthAnagate pitte vamanam, pittajAyAM shuddhau annapAnam, pittajAyAM jambAmrAdikkAthaH, pittajAyAM sacandano dhAtrIrasaH, pittajAyAM mugdadalakvAtaH, pittajAyAM kolAdilehaH, pittajAyAMpathyAdilehatrayam (10-17) · Śloka 17
| पित्तजायां विरेकार्थं द्राक्षेक्षुस्वरसैस्त्रिवृत्||१०|| सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम्| ऊर्ध्वमेव हरेत् पित्तं स्वादुतिक्तैर्विशुद्धिमान्||११|| पिबेन्मन्थं यवागूं वा लाजैः समधुशर्कराम्| मुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम्||१२|| मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्| मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम्||१३|| द्राक्षारसं रसं वेक्षोर्गुडूच्यम्बु पयोऽपि वा| जम्ब्वाम्रपल्लवोशीरवटशुङ्गावरोहजः||१४|| क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति| छर्दिं ज्वरमतीसारं मूर्च्छां तृष्णां च दुर्जयाम्||१५|| धात्रीरसेन वा शीतं पिबेन्मुद्गदलाम्बु वा| कोलमज्जसितालाजामक्षिकाविट्कणाञ्जनम्||१६|| लिह्यात्क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा| |१७|
🔊 Audio coming soon
स०-पित्तजायां छर्द्यां विरेकार्थं-विरेकप्रयोजनाय, द्राक्षेक्षुस्वरसैस्त्रिवृद्देया| तैल्वकं वा सर्पिर्योज्यम्| पित्तजे छर्दिषि वृद्धं श्लेष्मधामगं पित्तमूर्ध्वमेव हरेत्-वमनं तत्र देयमित्यर्थः| कैर्द्रव्यैः ? स्वादुतिक्तैः| आतुरो विशुद्धिमान्-कृतवमनविरेको लाजैर्मन्थं पिबेत्| किम्भूतम् ? समधुशर्करम्, अथवा यवागूं लाजैः समधुशर्करां पिबेत्| समधुशर्करश्च समधुशर्करा चेति "पुमान् स्त्रिया" इत्येकशेषः| तथा, मुद्गजैर्व्यञ्जनैर्जाङ्गलमांसै (मांसजै)श्च व्यञ्जनैः शालिषष्टिकमद्यात्| मृद्भृष्टलोष्टजं सुशीतलं जलं पिबेत्| मुद्गादिभिर्वा सह निशां स्थितं जलं पिबेत्| द्राक्षारसादिं वा यथायोगं पिबेत्| जम्ब्वाम्रादिजः क्वाथः क्षौद्रान्वितः शीतो वा-शीतकषायः, पीतः क्षौद्रयुतश्छर्द्यादीन् हन्ति| मुद्गदलैः शृतमम्बु मुद्गदलाम्बु, तद्धात्रीरसेन सह पिबेत्| अथवा मुद्गदलानामम्बु मुद्गदलाम्बु, शीतं-शीतकषायं, पिबेत्| कोलादिकं क्षौद्रेण लिह्यात्| पथ्यां वा क्षौद्रेण लिह्यात्| द्राक्षां वा बदराणि वा लिह्यात्|
Adhikarana kaPajAyAM CardyAM nimbAdi vamanam, kaPajAyAM upavAsaH, kaPajAyAM AragvadhAdiniryUhaH, kaPajAyAM manthAH, annaM rAgAH, kaPajAyAM manaHshilAdilehaH, kaPajAyAM kapitthayogaH, kaPajAyAM durAlaBAlehaH, kaPajAyAM maricAdilehaH (17-21) · Śloka 21
| कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः||१७|| युक्तेन कोष्णतोयेन, दुर्बलं चोपवासयेत्| आरग्वधादिनिर्यूहं शीतं क्षौद्रयुतं पिबेत्||१८|| मन्थान् यवैर्वा बहुशश्च्छर्दिघ्नौषधभावितैः| कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः||१९|| लीढं मनःशिलाकृष्णामरिचं बीजपूरकात्| स्वरसेन कपित्थस्य सक्षौद्रेण वमिं जयेत्||२०|| ख़ादेत्कपित्थं सव्योषं, मधुना वा दुरालभाम्| लिह्यान्मरिचचोचैलागोशकृद्रसमाक्षिकम्||२१||
🔊 Audio coming soon
स०-कफजायां छर्द्यां निम्बादिभिर्युक्तेन कोष्णजलेन वमेत्| दुर्बलं च नरमुपवासयेत्| आरग्वधादिनिर्यूहं शीतं क्षौद्रान्वितं पिबेत्| बहून् वारान् छर्दिघ्नौषधभावितैर्यवैर्मन्थान् पिबेत्| कफघ्नमन्नं हृद्यं च भुक्तं सद्वमिं जयेत्| रागाः सकुठेरकभूस्तृणा वमिं जयन्ति पीताः| मनःशिलादिकं बीजपूरकरसेन सक्षौद्रेण वमिं जयेत्| कपित्थस्य वा रसेन माक्षिकान्वितेन मनःशिलादिकं लीढं वमिं जयेत्| कपित्थं वा सत्रिकटुकं मधुना ख़ादेत्| धन्वयवासं वा मधुना लिह्यात्|
Adhikarana dviShTArthajAyAmauShadham (22) · Śloka 22
अनूकूलोपचारेण याति द्विष्टार्थजा शमम्| |२२|
🔊 Audio coming soon
स०-द्विषार्थजा छर्दिर्मनसोऽनुकूलोपचारेण शाम्यति|
Adhikarana kRumijAyAmauShadham, sheShacCardirogANAmauShadham, CardyupadravANAmauShadham (22-23) · Śloka 23
| कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः||२२|| यथास्वं परिशेषाश्च, तत्कृताश्च तथाऽऽमयाः| |२३|
🔊 Audio coming soon
स०-कृमिभ्यो जाता छर्दिः कृमिहृद्रोगगदितैरौषधैः शमं याति| न केवलं कृमिजा छर्दिरेव शमं याति| यथास्वं परिशेषा अप्यामयाः-कृमिहृद्रोगकृताः, तेऽपि कृमिहृद्रोगगदितैर्भेषजैः शमं यान्ति|
Adhikarana prasaktAyAM CardyAmauShadham (23-25) · Śloka 25
छर्दिप्रसङ्गेन हि मातरिश्वा धातुक्षयात्कोपमुपैत्यवश्यम्| कुर्यादतोऽस्मिन् वमनातियोग- प्रोक्तं विधिं स्तम्भनबृंहणीयम्||२३|| सर्पिर्गुडा मांसरसा घृतानि कल्याणकत्र्यूषणजीवनानि| पयांसि पथ्योपहितानि लेहाश्छर्दिं प्रसक्तां प्रशमं नयन्ति||२४|| इति छर्दिचिकित्सितम्|२५|
🔊 Audio coming soon
स०-हि-यस्मात्, छर्दिप्रसङ्गेन-अनुबन्धेन, यो धातुक्षयः तस्माद्धेतोर्मातरिश्वा अवश्यं कोपमायाति| अतो हेतोर्वमनातियोगप्रोक्तं विधिं स्तम्भनं बृंहणं च कुर्यात्, न पुनस्तदुक्तमन्यं विधिम्| इन्द्रवज्रावृत्तम्| तथा, सर्पिर्गुडादयो दोषदूष्यानुरोधतो यथाकालमुपयुक्ताश्छर्दिं प्रसक्तां शमयन्ति| उपजातिवृत्तम्| तन्त्रान्तरे(?)चोक्तम् (हृ.क.अ.३/२५)-"अञ्जनं चन्दनोशीरमजासृक्शर्करोदकम्| लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||" इति|
Adhikarana vAtaje hradroge mastvAdi tailam (25-26) · Śloka 26
छर्दिचिकित्सितादनन्तरं हृद्रोगसाधनमुच्यते, हृद्रोगशब्दश्रवणसम्बन्धात्| अथ हृद्रोगचिकित्सितम्| | हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत्||२५|| पिबेत्सुख़ोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्| |२६|
🔊 Audio coming soon
स०-वातजे हृद्रोगे तैलं सुख़ोष्णं-किञ्चिदुष्णं, पिबेत्| किम्भूतम् ? मस्तुसौवीरतक्राणि विद्यन्ते यस्मिंस्तदेवम्| तथा सह बिडलवणेन सबिडं, गुल्मादिजित्|
Adhikarana vAtaje hRudroge lavaNatailam (26) · Śloka 26
| तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणम्||२६||
🔊 Audio coming soon
स०-लवणैः-पञ्चभिः सैन्धवादिभिः, गोमूत्रेण काञ्जिकेन च तैलं सामान्यपरिभाषया पक्वं तथागुणं-गुल्मादिजित्|
Adhikarana vAtaje hRudroge bilvAditailam (27-28) · Śloka 28
बिल्वं रास्नां यवान् कोलं देवदारुं पुनर्नवाम्| कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन्पचेज्जले||२७|| तैलं तन्नावने पाने बस्तौ च विनियोजयेत्| |२८|
🔊 Audio coming soon
स०-बिल्वादीनि जले पक्त्वा तस्मिन् जले क्वाथीभूते तैलं पचेत्| तत्तैलं नस्ये पानेऽनुवासने च विनियोजयेत्| तच्च पूर्वसमम्|
Adhikarana vAtaje hRudroge shuNThyAdighRutam (28-29) · Śloka 29
| शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः||२८|| पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम्| |२९|
🔊 Audio coming soon
स०-शुण्ठ्यादिभिः पक्वं च घृतं पार्श्वहृद्रुजादिजित्| वयस्था-आमलकी| कायस्था-काकोली|
Adhikarana vAtaje hRudroge sauvarcalAdighRutam (29-30) · Śloka 30
| सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते||२९|| घृतस्य साधितः प्रस्थो हृद्रोगश्वासगुल्मजित्| |३०|
🔊 Audio coming soon
स०-सौवर्चलस्य पलद्वये पथ्यापञ्चाशद्युक्ते साधितो घृतप्रस्थो हृद्रोगादिजित्|
Adhikarana vAtaje dADimAdicUrNam (30-31) · Śloka 31
| दाडिमं कृष्णलवणं शुण्ठी हिङ्ग्वम्लवेतसम्||३०|| अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम्| |३१|
🔊 Audio coming soon
आ० र०- चूर्णमाह-दाडीममिति| अपतन्त्रको-वातव्याधिनिदानोक्तः|
Adhikarana vAtaje puShkarAdikalkaH (31-32) · Śloka 32
| पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः||३१|| पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः| विकर्तिकाशूलहराः|३२|
🔊 Audio coming soon
स०-पुष्कराह्वादयः कल्कीकृताः-पिष्टाः, तथा घृतादियुक्ताः पीता विकर्तिकाशूलहराः| विकर्तिका-हृदयस्यावर्तच्छेदनिका इव रुग्विशेषः| हृद्रोगप्रसङ्गादेतचिकित्साऽप्युक्ता|
Adhikarana vAtaje yavAnyAdikvAthaH,vAtaje yavakShArAdipAnam (32-1.5) · Śloka 1
क्वाथः कोष्णश्च तद्गुणः||३२|| यवानीलवणक्षारवचाजाज्यौषधैः कृतः| सपूतिदारुबीजाह्वपलाशशठिपौष्करैः||३३|| (यवक्षारो यवानी च पिबेदुष्णेन वारिणा| एतेन वातजं शूलं गुल्मं चैव चिरोत्थितम्||१|| भिद्यते सप्तरात्रेण पवनेन यथा घनः| )||१.५||
🔊 Audio coming soon
स०-क्वाथश्च कोष्णो यवान्यादिभिर्देवदारुसहितैस्तद्गुणो विकर्तिकाशूलहरः| औषधं-शुण्ठी| बीजह्वः-बीजसारम्, बीजपूरकमित्यन्ये|
Adhikarana vAtaje pa~jjakolAdicUrNam (34-35) · Śloka 35
पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम्| वारुणीकल्कितं भृष्टं यमके लवणान्वितम्||३४|| हृत्पार्श्वयोनिशूलेषु ख़ादेद्गुल्मोदरेषु च| |३५|
🔊 Audio coming soon
स०-पञ्चकोलादिकं वारुण्या-प्रसन्नया सुरया, कल्कितंपिष्टं, यमके भृष्टं सैन्धवयुतं हृदादिशूलेषु गुल्मादिषु च ख़ादेत्|
Adhikarana vAtaje snehasvedau (35) · Śloka 35
| स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च||३५||
🔊 Audio coming soon
स०-इह-वातजे हृद्रोगे, स्वेदाश्च स्निग्धा हिताः| घृतानि पक्वानि वा (च)|
Adhikarana vAtaje pa~jcamUlAdipAnapa~jcakaM (36) · Śloka 36
लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम्| वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि||३६||
🔊 Audio coming soon
स०-तृषि सत्यां ह्रस्वेन पञ्चमूलेन शुण्ठ्या वा साधितं जलं पिबेत्| वारुणीमण्डं वा दधिमण्डं वा पिबेत्|
Adhikarana uktAnAmauShadhAnAM viShayaH (37) · Śloka 37
सायामस्तम्भशूलामे हृदि मारुतदूषिते| क्रियैषा|३७|
🔊 Audio coming soon
स०-आयामः-आक्षेपः, सह आयामादिभिर्वर्तते यद् हृदयं तस्मिंस्तथाविधे हृदि तथा मारुतदूषिते सति क्रियैषाचिकित्सेयं पूर्वोक्ता|
Adhikarana sadravAyAmapramohe vAtahRudroge tittiryAdirasAH (37-38) · Śloka 38
| सद्रवायामप्रमोहे तु हिता रसाः||३७|| स्नेहाढ्यास्तित्तिरिक्रौञ्चशिख़िवर्तकदक्षजाः| |३८|
🔊 Audio coming soon
स०-सद्रवायामप्रमोहे पुनः हृदि मारुतदूषिते रसास्तित्तिर्यादिजाः| स्नेहाद्याः-बहुस्नेहाः, हिताः|
Adhikarana sadravAyAmapramohe balAtailAdisnehacatuShkam (38-39) · Śloka 39
| बलातैलं सहृद्रोगः पिबेद्वा सुकुमारकम्||३८|| यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम्| |३९|
🔊 Audio coming soon
स०-सहृद्रोगो नरो बलातैलं पिबेत्| सुकुमारकं वा-प्रमेहोक्तं घृतं, यष्ट्याह्वं च तच्छतपाकं च यष्ट्याह्वशतपाकं-शतकृत्वः पक्वं तत्तैलं वातशोणितोक्तं (हृ.चि.अ.२२/४१) पिबेत्| महासेन्हं तथोत्तमं पिबेत्|
Adhikarana sadravAyAmapramohe rAsnAdimahAsnehaH (39-41) · Śloka 41
तदेव चाह | रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः||३९|| भार्ङ्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत्| दधिपादं तथाम्लैश्च लाभतः स निषेवितः||४०|| तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः| |४१|
🔊 Audio coming soon
स०-रास्नादिभिः कल्कीकृतैर्महास्नेहं दधिपादं विपाचयेत्| दधिपादं च दघ्नः पादः-चतुर्थभागप्रमाणो, यस्मिंस्तथाभूतम्| तथा, अम्लैः-काञ्जिकादिभिः, लाभतो-यथालाभम्| अनयैव कल्पनया सः-महास्नेहो, निषेवितस्तर्पणो बृंहणो बल्यो वातहृद्रोगघ्नश्च स्यात्|
Adhikarana dIpte~angau kShIrAdi hitam (41-42) · Śloka 42
| दीप्तेऽग्नौ सद्रवायामे हृद्रोगे वातिके हितम्||४१|| क्षीरं दधिगुडः सर्पिरौदकानूपमामिषम्| |४२|
🔊 Audio coming soon
स०-दीप्तेऽग्नौ सति वातहृद्रोगे सद्रवायामे सह द्रवेण-कम्पनेन, आयामेन च वर्तते यस्तस्मिंस्तथाभूते क्षीरादि हितम्| औदकामिषं-मत्स्यादिमांसम्, आनूपामिषं-ग्राम्यवराहादिजं मांसम्|
Adhikarana sheSheShu hRudrogeShvetadahitam (42-43) · Śloka 43
| एतान्येव च वर्ज्यानि हृद्रोगेषु चतुर्ष्वपि||४२|| शेषेषु, स्तम्भजाड्यामसंयुक्तेऽपि च वातिके| |४३|
🔊 Audio coming soon
स०-वातहृद्रोगं मुक्त्वाऽन्येषु-शेषेषु, चतुर्षु हृद्रोगेष्वेतानि-क्षीरादीनि, वर्ज्यानि-न प्रयोज्यानि| न केवलमेष्वेतानि वर्ज्यानि, यावत्स्तम्भजाड्यामसंयुक्ते वातिकेऽपि हृद्रोग एतानि वर्ज्यानि|
Adhikarana sakaPe hRudroge virecanam (43) · Śloka 43
| कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत्क्रियाम्||४३||
🔊 Audio coming soon
स०-तस्मिन्-वातिके हृद्रोगे, कफानुबन्धे तु सति रूक्षोष्णां क्रियां सेवेत|
Adhikarana pittaje virecanAnantaraM peyAdikramaH, pittajekShatapittajvaroktaM shodhanam, pittaje kaTvImadhukakalkaH (44-45) · Śloka 45
पैत्ते द्राक्षेक्षुनिर्याससिताक्षौद्रपरूषकैः| युक्तो विरेको हृद्यः स्यात्क्रमः शुद्धे च पित्तहा||४४|| क्षतपित्तज्वरोक्तं च बाह्यान्तः परिमार्जनम्| कट्वीमधुककल्कं च पिबेत्ससितमम्भसा||४५||
🔊 Audio coming soon
स०-पैत्ते हृद्रोगे द्राक्षेक्षुनिर्यासादियुक्तो विरेको हृद्यः स्यात्| शुद्धे सत्यनन्तरं क्रमः पित्तहा स्यात्, स तु पेयादिकः कार्यः| क्षते पित्तज्वरे च या बहिरन्तश्च शुद्धिरुक्ता सा चात्र कार्या| कटुकीमधुककल्कं शर्करान्वितमम्भसा पिबेत्|
Adhikarana pittaje shreyasyAdighRutam (46-47) · Śloka 47
श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः| बलाख़र्जूरकाकोलीमेदायुग्मैश्च साधितम्||४६|| सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम्| |४७|
🔊 Audio coming soon
स०-श्रेयस्यादिभिः साधितं क्षीरान्वितं माहिषं सर्पिः पित्तहृद्रोगघ्नम्| श्रेयसी-हस्तिपिप्पली| माहिषघृतस्यात्र निर्देशः शीततमत्वात्|
Adhikarana pittaje prapauNDarIkAdi, pittaje svAduvargakRutaM ghRutam, pittaje anuvAsanabastiH (47-49) · Śloka 49
| प्रपौण्डरीकमधुकबिसग्रन्थिकसेरुकाः||४७|| सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेद्घृतम्| शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत्||४८|| बस्तिं च दद्यात्सक्षौद्रं तैलं मधुकसाधितम्| |४९|
🔊 Audio coming soon
स०-प्रपौण्डरीकादिभिः क्षीरयुतं पक्वं घृतं शीतीभुतं सन्माक्षिकोपेतं तच्चेष्टमत्र रोगे| स्वादुवर्गेण-द्राक्षादिना, यच्च कृतं तच्च हितम्| तथा, बस्तिं मधुकसाधितं-मधुकेन पक्वं, माक्षिकान्वितं दद्यात्|
Adhikarana pittaje picumandAdinA vamanam,pittaje kulatthAdi annapAnam (49-50) · Śloka 50
| कफोद्भवे वमेत्स्विन्नः पिचुमन्दवचाम्भसा||४९|| कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः| |५०|
🔊 Audio coming soon
स०-कफोद्भवे हृद्रोगे स्विन्नो निम्बवचाभ्यां क्वथितेन जलेन वमेत् कुलत्थजाङ्गलादिरस(लरसादि)भुक्|
Adhikarana pittaje vacAdicUrNam, pittaje puShkarAdicUrNam, pittaje aBayAdikvAthaH (50-52) · Śloka 52
| पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात्||५०|| सैलायवानककणायवक्षारात्सुख़ाम्बुना| फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा||५१|| पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात्| क्वाथं तथाऽभयाशुण्ठीमाद्रीपीतद्रुकट्फलात्||५२||
🔊 Audio coming soon
स०-चूर्णं वचादिभ्य उष्णोदकेन पिबेत्| यवानको-यवानीभेदः| तथा, फलधान्याम्लदिभिर्वैकतरेण(मेन)पिबेत्| तथा, पुष्करादेश्चूर्णं पूर्वोक्तैरुष्णा(म्ब्वा)दिभिः पिबेत्| तथा, हरीतक्यादेः क्वाथं पिबेत्|
Adhikarana pittaje rohitakAdilehaH (53-54) · Śloka 54
क्वाथे रोहितकाश्वत्थख़दिरोदुम्बरार्जुने| सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः||५३|| सुख़ोदकानुपानश्च लेहः कफविकारहा| |५४|
🔊 Audio coming soon
स०-रोहितकादीनां क्वाथे त्रिकटुत्रिवृच्चूर्णयुते कृतो लेह उष्णोदकानुपानः कफविकारहा| अर्शश्चिकित्सितोक्तं (हृ.चि.अ.८/१०४)-"तुलां दिव्याम्भसि पचेत्" इति प्रमाणानुसारेण परिमाणमत्र निरूपितम्|
Adhikarana pittaje shleShmagulmoktaghRutAdIni, pittaje shilAhvAdirasAyanAni (54-55) · Śloka 55
| श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत्||५४|| प्रयोजयेच्छिलाह्वं वा ब्राह्मं वाऽत्र रसायनम्| तथाऽऽमलकलेहं वा प्राशं वाऽगस्त्यनिर्मितम्||५५||
🔊 Audio coming soon
स०-कफहृद्रोगे, श्लेष्मगुल्मे यानि गदितान्याज्यानि-सर्पीषि, तत्रैवोक्तान् क्षारांश्च नानाविधांस्तान् पिबेत्| शिलाजतु प्रयोजयेत्| वा ब्राह्मं रसायनं-रसायनाध्यायोक्तम् (हृ.उ.अ.३९/१५)| तथा, आमलकलेहं वा-रसायनोक्तमेव च्यवनप्राशाख़्यम् (हृ.उ.अ.३९/३३)| अथवा, प्राशं-लेहं, अगस्त्यनिर्मितं कासचिकित्सितोक्तं (हृ.चि.अ.३/१२७), प्रयोजयेत्|
Adhikarana shUlacikitsA, ajIrNashUlasya auShadham (56-57) · Śloka 57
स्याच्छूलं यस्य भुक्तेऽति, जीर्यत्यल्पं, जरां गते| शाम्येत्स कुष्ठकृमिजिल्लवणद्वयतिल्वकैः||५६|| सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत्| |५७|
🔊 Audio coming soon
स०-यस्य-पुंसो, भुक्ते-तत्काल एव, अति शूलं स्यात्| जीर्यत्यन्ने-मध्यमायां पाकावस्थायां, अल्पं शूलं स्यात्| जरां गते-किट्टसारतया परिणतेऽन्ने, तु शाम्येत्| सः-नरः, कुष्ठादिभिश्चूर्णमुष्णाम्बुना पिबेत्|
Adhikarana jIrNashUlasya auShadham, jIryacchUlasya auShadham (57-58) · Śloka 58
| यस्य जीर्णेऽधिकं स्नेहैः स विरेच्यः, फलैःपुनः||५७|| जीर्यत्यन्ने, तथा मूलैस्तीक्ष्णैः शूले सदाऽधिके| |५८|
🔊 Audio coming soon
स०-यस्य-पुंसो, जीर्णे सत्यधिकं शूलं भवेत्, स स्नेहैः-विरेचनद्रव्यसिद्धैः, विरेचनीयः| जीर्यत्यन्ने-पच्यमानावस्थायां, अधिकं शूले सति फलैर्विरेच्यः| तथा च मुनिः(?)-"मृद्वीकाऽथ विडङ्गानि ख़र्जूराणि परूषकम्| आरग्वधोऽथामलकं हरीतक्यो बिभीतकम्|| कम्पिल्लकोपचित्रे च त्रपुसं च मुकूलकम्| नीलिका कुवलं पीलु भवेत्फलविरेचनम्||" इति| यस्य पुनः सदाऽधिकमेव शूलं-केवलं न भुक्तमात्रे जीर्णे जीर्यति वा, सः-पुरुषो, मूलैस्तीक्ष्णैः-मूलविरेचनैर्दन्तीत्रिवृच्छ्यामासप्तलादिद्रव्यैः समन्वितैः, विरेच्यः| तथा चोक्तम्-"सप्तलाशङ्ख़िनीदन्तीद्रवन्तीगिरिकर्णिकाः| त्रिवृच्छ्यामोदकीर्या च प्रकीर्या क्षीरिणी तथा|| छगलाण्डी गवाक्षी च कुचाक्षी गिरिकर्णिका| मसूरविदला चैव भवेन्मूलविरेचनम्||" इति|
Adhikarana rUddhagatAvanile anulomanam (58-59) · Śloka 59
| प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये गतः||५८|| तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः| |५९|
🔊 Audio coming soon
स०-बाहुल्येन मारुतो रुद्धमार्ग आमाशयं(ये) गतः कुप्यति| तस्य-मरुतः, शुद्ध्यादिभिः-अवस्थावशाद्वयस्तैः समस्तैर्वा, अनुलोमनं कार्यम्|
Adhikarana kRumije hRudroge auShadham (59-60) · Śloka 60
| कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये||५९|| इति हृद्रोगचिकित्सितम्|६०|
🔊 Audio coming soon
स०-कृमिजे हृद्रोगे सर्वमेव च कृमिघ्नमौषधम्|
Adhikarana tRuShNAcikitsA, sarvAsu tRuShNAsu sAmAnyamauShadham (60-67) · Śloka 67
अथ तृष्णाचिकित्सितम्| तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते| सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः||६०|| दिव्याम्बु शीतं सक्षौद्रं तद्वद्भोमं च तद्गुणम्| निर्वापितं तप्तलोष्टकपालसिकतादिभिः||६१|| सशर्करं वा क्वथितं पञ्चमूलेन वा जलम्| दर्भफूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः||६२|| वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः| यवागूः शालिभिस्तद्वत्कोद्रवैश्च चिरन्तनैः||६३|| शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम्| हिमाम्बुपरिषिक्तस्य पयसा ससितामधु||६४|| रसैश्चानम्ललवणैर्जाङ्गलैर्घृतभर्जितैः| मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः||६५|| नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः| निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः||६६|| दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः| महासरिद्ध्रदादीनां दर्शनरुमरणानि च||६७||
🔊 Audio coming soon
स०-तृष्णासु सर्वासु वातपित्तहरः सर्वोऽपि विधिरिष्यते| तथा, बाह्यतोऽभ्यन्तरे च शीतो विधिः| तथा, शमनं शोधनं च शस्यते| दिव्याम्बु-आन्तरिक्षं जलं, शीतं माक्षिकेण सह शस्यते| भौमं च जलं तद्गुणं-दिव्याम्बुसमानगुणं "शुचिपृथ्वसितश्चेते देशे" (हृ.सू.अ.५|५) इत्यादिलक्षणलक्षितम्, तच्च शस्यते| तस्य-दिव्यजलस्येव गुणा यस्य तत्तद्गुणम्| तप्तलोष्टककपालसिकतादिभिस्तप्तं तन्निर्वापितं-शीतीकृतं शस्यते| अथवा, तदेव समशर्करं शस्यते| अथवा, दर्भपूर्वेण-तृणाख्येन, पञ्चमूलेन क्वथितं निर्वापितं शस्यते| तथा, लाजसक्तुभिः कृतो मन्थः प्रशस्तः| तथा, आमैः-अभृष्टैः, यवैर्वाट्यः प्रशस्तः शीतीभूतः शर्करामाक्षिकयुक्तः| यवागूः शालिभिस्तथैव शर्करामाक्षिकान्विता शस्ता| तथा, चिरन्तनैः कोद्रवैः शर्करामधुयुक्ता यवागूः शस्ता| तथा, शीतेन-शीतीकृतेन द्रव्येण, शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनं हितम्| अथवा, शीतजलैः परिषिक्तस्य पुंसः पयसा सशर्करामार्द्वीकं भोजनं हितम्| अथवा न केवलं पयसा सात्म्यादिवशान्मांसरसैर्जाङ्लैः किञ्चिदम्ललवणैरृतभर्जितैर्भोजनं हितम्| तथा, मुद्गमसूरादिकानां यूषैर्जीवनीयरसयुक्तैर्भोजनं हितम्| तथा, शीतैः-शीतवीर्यैश्चन्दनादिभिः, तथेक्षुरसे सिद्धं क्षीरघृतं नस्यं हितम्| क्षीरोद्भवं घृतं क्षीरघृतम्| तथा, सूत्रस्थानोदिताः (अ.२२) निर्वापणाः-रोपणाः, गण्डूषा हिताः| तथा, दाहज्वरे य उक्ता लेपाद्याः-"दूर्वादिभिर्वा पित्तघ्नैः" (हृ.चि.अ.१/१३१) इत्यादिग्रन्थनिर्दिष्टाः, ते च हिताः| तथा, निरीहत्वं-निर्व्यापारत्वं हितम्| तथा, मनसोरतिः-निर्वृतत्वम्| तथा, महासरितां महाह्रदानां-महातडागानां, च दर्शनस्मरणानि हितानि|
Adhikarana vAtajAyAM tRuShNAyAmauShadham (68) · Śloka 68
इति तृष्णासु सामान्येन चिकित्सितमुक्तम्| विशेषेणाह तृष्णायां पवनोत्थायां सगुडं दधि शस्यते| रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च||६८||
🔊 Audio coming soon
स०-पवनोत्थायां तृष्णायां दधि गुडेन सह शस्यते| मांसरसाश्च बृंहणाः शस्ताः| तथा विदार्यादिगणाम्बु "विदारिपञ्चाङ्गुल" (हृ.सू.अ.१५/९)इत्यादिभिः शृतं तोयं-पानीयं, शस्तम्|
Adhikarana pittajAyAM auShadham (69-72) · Śloka 72
पित्ताजायां सितायुक्तः पक्वोदुम्बरजो रसः| तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणाम्बु वा||६९|| तद्विधैश्च गणैः शीतकषायान् ससितामधून्| मधुरैरौषधैस्तद्वत् क्षीरिवृक्षैश्च कल्पितान्||७०|| बीजपूरकमृद्वीकावटवेतसपल्लवान्| मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम्||७१|| ज्वरोदितं वा द्राक्षादि पञ्चसाराम्बु वा पिबेत्| |७२|
🔊 Audio coming soon
स०-पित्तोत्थायां शर्करान्वितः पक्वोदुम्बरफलजो रसः, तेषां-उदुम्बराणां वा क्वाथो हिमः, तद्वत्-सितायुक्तः, शस्यते| तथैव सारिवादिगणाम्बु-"सारिवोशीर" (हृ.सू.अ.१५|११) इत्यादि प्रशस्यते| तद्विधैः-शीतवीर्यैश्च, गणैः कृतान् शीतकषायान् ससितामाक्षिकान् पिबेत्| तथैव मधुरैः-द्राक्षादिभिर्द्रव्यैः, कल्पितान्| क्षीरिवृक्षैश्च-अश्वत्थन्यग्रोधादिभिः, कल्पितान् शीतकषायान् सशर्करामधून् पिबेत्| बीजपूरकादिपल्लवान् कुशकाशानां मूलानि मधुकं चैतज्जले शृतं पिबेत्| शीतमिति प्रकृतत्वाद्योग्यत्वाच्चात्र योज्यम्| अथवा, ज्वरचिकित्सितोक्तं [द्राक्षादि-] "द्राक्षामधूक" (हृ.चि.अ.१|५५) इत्यादिकं फाण्टं शीतकषायं [वा] पिबेत्| पञ्चसाराम्बु वा-"मधुख़र्जूरमृद्वीका" (हृ.चि.अ.२/१४) इत्यादि रक्तपित्तचिकित्सिते पठितं, पिबेत्|
Adhikarana kaPajAyAM auShadham (72-74) · Śloka 74
| कफोद्भवायां वमनं निम्बप्रसववारिणा||७२|| बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम्| जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम्||७३|| मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम्| यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलयेत्||७४||
🔊 Audio coming soon
स०-श्लेष्मजायां तृष्णायां निम्बपत्रपानीयेन वमनं शस्तम्| बिल्वादिभिर्जलं साधितं कफतृष्णायां पिबेत्| रजन्या-हरिद्रया, जलं सिद्धं पिबेत्| सक्षौद्रशर्करं कफतृष्णायां मुद्गयूषं च त्रिकटुपटोलनिम्बपल्लवान्वितं पिबेत्| यवान्नं तीक्ष्णकवलं तीक्ष्णनस्यं तीक्ष्णलेहं च शीलयेत्| शिम्बीधान्यम्| कच्छकः-तुमु(तूणी)कः| वङ्गसेने (तृषा-श्लो.२२)-"बिल्वाढकीधातकीपञ्चकोलदर्भेषु सिद्धं कफजां निहन्ति| "इति| योगरत्ने-"बिल्वाढकी[कन्यक] पञ्चमूलदर्भेषु सिद्धं कफजां निहन्ति|" इति| कच्छक(धातकि)-पञ्चकोलयोः स्थाने लघु [पञ्चमूलम्]| वङ्गसेने(तृषा. श्लो.२३)-"सजीरकाण्यार्द्रकशृङ्गबेरसौवर्चलान्यर्धजलप्लुतानि| मद्यानि हृद्यानि च गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम्||" इति|
Adhikarana sannipAtajAyAM auShadham,AmrajAyAM auShadham (75) · Śloka 75
सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा| त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः||७५||
🔊 Audio coming soon
स०-सर्वैरामाच्च तृष्णायां सत्यां तद्धन्त्री सन्निपातघ्न्यामघ्नी च क्रियेष्टा| तथा च वमनमिष्टम्| त्र्यूषणारुष्करवचादियुक्तेन फलाम्लेनोष्णजलेन वा मस्तुना वा इष्टम्|
Adhikarana upavAsajAyAM auShadham (76) · Śloka 76
अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्| |७६|
🔊 Audio coming soon
स०-अन्नात्ययात्-अन्नविरहात्, तृष्णायां सत्यां मण्डमुष्णं शीतं मन्थं च कालप्रकृतिसात्म्यादिवित् पिबेत्| वातकफप्रकृतिना उष्णो मण्डः पेयः| पित्तश्लेष्मप्रकृतिना वातपित्तप्रकृतिना च हिमो मन्थः पेयः| एवं कालसात्म्यादिषु निरुप्यम्| "सक्तवः सर्पिषाऽभ्यक्ताः शीतोदकपरिप्लुताः| नातिद्रवा नाति सान्द्रा मन्थ इत्यभिधीयते||" इति|
Adhikarana shramajAyAM auShadham (76) · Śloka 76
| तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत्||७६||
🔊 Audio coming soon
स०-श्रमात्तृषि जातायां मांसरसं मद्यं वा सशर्करं पिबेत्|
Adhikarana AtapajAyAM tRuShNAyAmau (77) · Śloka 77
आतपात्ससितं मन्थं यवकोलजसक्तुभिः| सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः||७७||
🔊 Audio coming soon
स०-आतपात्तृषि यवकोलोद्भवैः सक्तुभिः सशर्करं मन्थं पिबेत्| सर्वाणि चाङ्गानि तिलपिण्याककाञ्जिकैर्लिम्पेत्|
Adhikarana shItasnAnajAyAM tRuShNAyAmau (78) · Śloka 78
शीतस्नानाच्च मद्याम्बु पिबेत्तृण्मान् गुडाम्बु वा| |७८|
🔊 Audio coming soon
स०-शीतस्नानाच्च तृण्मान् मद्याम्बु पिबेत्| तृण्मानिति मतुपि मय इति णत्वे रूपम्| गुडजलं वा पिबेत्|
Adhikarana madyajAyAM tRuShNAyAmau (78) · Śloka 78
| मद्यादर्धजलं मद्यं स्नातोऽम्ललवणैर्युतम्||७८||
🔊 Audio coming soon
स०-मद्यात्तृण्मानर्धजलं मद्यं स्नातश्चाम्ललवणाभ्यां युतं पिबेत्|
Adhikarana snehatIkShNAgnijAyAM tRuShNAyAmau (79) · Śloka 79
स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम्| |७९|
🔊 Audio coming soon
स०-स्नेहेन तीक्ष्णतरोऽग्निर्यस्य स नरस्तृण्मान्निसर्गशीतलं जलं पिबेत्|
Adhikarana ajIrNasnehajAyAM tRuShNAyAmau (79) · Śloka 79
| स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः||७९||
🔊 Audio coming soon
स०-स्नेहात् पुनरजीर्णात् पिपासित उष्णाम्बु वा पिबेत्| जीर्णात्तु स्नेहत्तृषि मण्डं पिबेत्|
Adhikarana snigdhAnnajAyAM tRuShNAyAmau (80) · Śloka 80
पिबेत्स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्| |८०|
🔊 Audio coming soon
स०-स्निग्धान्नेन भुक्तेन तृषितो हिमस्पर्धि-तुहिनशीतलं, गुडोदकं पिबेत्|
Adhikarana gurvAdyannajAyAM tRuShNAyAmau (80) · Śloka 80
| गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिख़ेत्||८०||
🔊 Audio coming soon
स०-गुर्वाद्यन्नेन भुक्तेन तृषितः पीत्वोष्णाम्बु तत्-गुर्वाद्यन्नं, उद्वमेत्|
Adhikarana rasakShayajAyAM tRuShNAyAmau (81) · Śloka 81
क्षयजायां क्षयहितं सर्वं बृंहणमौषधम्| |८१|
🔊 Audio coming soon
स०-क्षयजायां तृषि क्षये हितं यद् बृंहणमौषधं तत्सर्वं हितं-शस्तम्|
Adhikarana kRushAdijAyAM tRuShNAyAmauShadham (81) · Śloka 81
| कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा||८१||
🔊 Audio coming soon
स०-कृशादीनां तृषि जातायं क्षीरं हितम्| अथवा छागो रसो हितः|
Adhikarana sordhvavAtAyAM tRuShNAyAmauShadham (82) · Śloka 82
क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम्| |८२|
🔊 Audio coming soon
स०-सोर्ध्ववातायां तृषि क्षयकासहरैः शृतं क्षीरं हितम्| चशब्दान्मांसरसश्च|
Adhikarana rogopasargajAyAM tRuShNAyAmauShadham (82-83) · Śloka 83
| रोगोपसर्गाज्जातायां धान्याम्बु ससितामधु||८२|| पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया| |८३|
🔊 Audio coming soon
स०-रोगोपसर्गाज्जातायां तृषि धान्याम्बु ससितामाक्षिकं पाने प्रशस्तम्| सर्वा च क्रिया रोगाद्यपेक्षया शस्ता|
Adhikarana pUrvAmayakShINajAyAM tvaritaM auShadham (6) · Śloka 6
| तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि||८३|| मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं ततः| सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुरा||८४|| तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम्| ८४ १/२| इति तृष्णारोगचिकित्सितम्| इति श्रिवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने छर्दिहृद्रोगतृष्णाचिकित्सितं नाम षष्ठोऽध्यायः||६||
🔊 Audio coming soon
स०-पूर्वामयेन क्षीणः सन् तृष्णक्-पिपासितो, यदि जलं न लभेत तदा मरणं दीर्घरोगं वा प्राप्नुयात्| ततश्च हेतोस्त्वरितं-शीघ्रतरं, तस्य-नरस्य, पूर्वमन्येभ्यो रोगेभ्यः सात्म्यान्न पानभेषजैस्तृषं जयेत्, ततोऽपरं रोगम्| किमेवं क्रियते ? इत्याह-तस्यां तृषि जितायां सत्यामन्योऽपि रोग उपक्रमितुं शक्यः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने छर्दिहृद्रोगतृष्णाचिकित्सितं नाम षष्ठोऽध्यायः समाप्तः|| ६||