Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. rājayakṣmādicikitsitādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

श्वासहिध्माचिकित्सितादनन्तरं राजयक्ष्मचिकित्सितारम्भः| यतः कासश्वासक्षयादीनन्योन्यभेषजैरुपाचरेदित्युक्तम्| क्षयश्च राजयक्ष्मा| तस्मादेतदारभ्यते-

Adhikarana rAjayakShmAdicikitsAtAdhyAyaH yakShimaNaH shodhanam (2-1) · Śloka 1

अथातो राजयक्ष्मादिचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्| ऊर्ध्वाधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनम्||१||

🔊 Audio coming soon

स०-एवंभूतस्य राजयक्ष्मिण ऊर्ध्वाधः शोधनं-वमनं विरेचनं च कुर्यात्, अस्निग्धस्विन्नस्य शोधनानर्हत्वात्| स्निग्धस्विन्नग्रहणं त्वतिशयार्थम्| किम्भूतं शोधनम् ? सस्नेहं,-ईषत्स्निग्धम्, तथा यन्न कर्शनं-देहस्य न क्षपणम्| यक्ष्मण इति "द्वन्द्वोपताप" इत्यादिना इनिर्मित्वर्थांयः|

Adhikarana yakShimaNaH vamanam (2-3) · Śloka 3

तत्र वमनमाह पयसा फलयुक्तेन मधुरेण रसेन वा| सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया||२|| वमेत्| |३|

🔊 Audio coming soon

स०-पयसा-क्षीरेण मदनफलान्वितेन, राजयक्ष्मी वमेत्| एवं तेन वमनं कार्यम्| मधुरेण वा मांसरसेन मदनफलयुक्तेन वमेत्| अथवा, यवाग्वा ग़ृतवत्या तथा वमनद्रव्येण-मदनफलादिना, सिद्धया वमेत्|

Adhikarana yakShimaNaH virecanam (3-4) · Śloka 4

विरेचनं दद्यात्रिवृच्छ्यामानृपद्रुमान्| शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा||३|| द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्| |४|

🔊 Audio coming soon

स०-त्रिवृदादीनेकैकशः शर्करामधुसर्पिर्युतान् विरेचनं दद्यात्| अथवा पयसा त्रिवृदादीन् दद्यात्| तर्पणेन वा सह त्रिवृदादीन् विरेचनं दद्यात्| रसैरिति बहुवचननिर्देशाद् द्राक्षादीनां पृथग्रसैरिति बोध्यम्|

Adhikarana shuddhasya vidhiH (4-5) · Śloka 5

| शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम्||४|| हृद्यानि चान्नपानानि वातघ्नानि लघूनि च| |५|

🔊 Audio coming soon

स०-शुद्धकोष्ठस्य सतो यक्ष्मणो बृंहणं दीपनं च विधिं प्रयुञ्जीत| तथाऽन्नपानानि हृद्यानि-हृदयप्रियाणि तथा वातघ्नानि लघूनि च युञ्जीत| बाहुल्येनैतदुक्तम्|

Adhikarana yakShmaghnannapAnam (5-6) · Śloka 6

तथा चाह | शालिषष्टिकगोधूमयवमुद्गं समोषितम्||५|| |लघुम(चा)च्युतवीर्यं च सुजरं बलकृच्च यत्| ] आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित्| |६|

🔊 Audio coming soon

स०-तथा शाल्यादिकं वर्षोषितं युञ्जीत| आजं क्षीरं घृतं मांसं तथा क्रव्यान्मांसं च क्षयजित्|

Adhikarana kAkAdimAMsaBakShaNopAyaH (6-7) · Śloka 7

काकोलूकवृकद्वीपिगवाश्वनकुलोरगम्||६|| गृध्राभासख़रोष्ट्रं च हितं छद्मोपसंहितम्| ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे||७||

🔊 Audio coming soon

स०-काकोलूकादिकमेतन्मांसं हितम्| किम्भूतम् ? छद्मनोपसंहितम्-काकादयस्तित्तिर्यादिशब्देन देया इत्यर्थः| किमित्येवं क्रियते ? इत्याह-यस्मात्तत् जुगुप्सितं ज्ञातं सत् छर्दिषे सम्पद्यते, न बलाय न वौजसे|

Adhikarana mAMsapAkaprakAraHyUShAH (8-10) · Śloka 10

मृगाद्याः पित्तकफयोः पवने प्रसहादयः| वेसवारीकृताः पथ्या रसादिषु च कल्पिताः||८|| भृष्टाः सर्पषतैलेन सर्पिषा वा यथायथम्| रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः||९|| हिता मौलककौलत्थास्तद्वद्यूषाश्च साधिताः| |१०|

🔊 Audio coming soon

स०-मृगाद्याः-मृगविष्किरप्रतुदा[दय]ः, पित्तकफयोर्हिताः| वाते [प्रसहादयः-] प्रसहमहामृगापूचरादयो, हिताः| किम्भूताः ? वेसवारीकृताः-पिष्टाः, पथ्याः| तथा, रसादयो-मांसरसादयः कल्पिताः| तथा, सर्षपतैलेन भृष्टाः, सर्पिषा वा देशकालाद्यपेक्षया यथायथं भृष्टाः| तथा, रसिकाः-प्रशस्तरसवन्तः, प्रशंसायां ह्येष मत्वर्थीयः| मृदवो-न तीक्ष्णाः| तथा स्निग्धाः सैन्धवादिभिः कृतसंस्कारा हिताः| तद्वत्-तथैव, मूलकादिकृता यूषाः|

Adhikarana AjamAMsarasaH (10-11) · Śloka 11

| सपिप्पलीकं सयवं सकुलत्थं सनागरम्||१०|| सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत्| तेन षड्विनिवर्तन्ते विकाराः पीनसादयः||११||

🔊 Audio coming soon

स०-पिप्पल्यादिभिः संस्कृतमाजं मांसरसं घृतादिस्नेहेन स्निग्धं पिबेत्, इत्यत्र मांसानामवश्यं स्निग्धत्वेऽपि स्निग्धग्रहणमेषां घृतादिस्नेहेन स्निग्धत्वं कार्यमिति प्रतिपादयति| तेन रसेन पीतेन, षट् विकाराः पीनसादयः-"पीनसश्वासकासां समूर्धस्वररुजः" (हृंइ.अ.५/१३), शाम्यन्ति|

Adhikarana madyam pAnIyacatuShkam pAnIyamidamannapAke~api yojyam (12-14) · Śloka 14

पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम्| पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः||१२|| सिद्धं वा पञ्चमूलेन तामलक्याऽथवा जलम्| पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा||१३|| कल्पयेच्चानुकूलोऽस्य तेनान्नं शुचि यत्नवान्| |१४|

🔊 Audio coming soon

स०-अतितरां जीर्णं पुराणं, च मद्यं स्रोतोविशुद्धिकरं पिबेत्| पित्तादिषु पित्तकफवातेषु, यथायुक्त्या मध्वादीन् विशेषेण पिबेत्| अथवा, पञ्चमूलेन-ह्रस्वेन, सिद्धं जलं पिबेत्| तामलक्या वा जलं पर्णिनीभिश्चतसृभिर्वा जलं पक्वं पिबेत्| धान्यनागरकाभ्यां वा शृतं पिबेत्| अस्य च-यक्ष्मिणः, अनुकूलो यत्नवान् परिचारकोऽन्नं शुचि तेन-पञ्चमूलादिजलेन, कल्पयेत्| अनुकूलादिग्रहणमत्रातिशयार्थम्|

Adhikarana balAgarBaM ghRutaM pa~jcaprakAram (14-15) · Śloka 15

| दशमूलेन पयसा सिद्धं मांसरसेन वा||१४|| बलागर्भं घृतं योज्यं क्रव्यान्मांसरसेन वा| सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा||१५||

🔊 Audio coming soon

स०-दशमूलक्वाथेन तथा पयसाऽथवा मांसरसेन बलाकल्केन साधितं घृतं योज्यम्| क्रव्यान्मांसरसेन वा बलागर्भं पक्वं घृतं योज्यम्| क्षीरेण वा दशगुणेन बलागर्भं सिद्धं घृतं सक्षौद्रं योज्यम्|

Adhikarana jIvantyAdighRutam (16-17) · Śloka 17

जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च| पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम्||१६|| नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्| कल्कीकृत्य घृतं पक्वं रोगराजहरं परम्||१७||

🔊 Audio coming soon

स०-जीवन्त्यादीन् कल्कीकृत्य घृतं चतुर्गुणे जले पक्वं रोगराजहरं परम्|

Adhikarana kharjUrAdighRutam (18) · Śloka 18

घृतं खर्जूरमृद्वीकामधुकैः सपरूषकैः| सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||१८||

🔊 Audio coming soon

स०-कल्कीकृत्य पक्वमित्यनुवर्तते| खर्जूरादिभिः कल्कीकृत्य घृतं पक्वं पिप्पलीचूर्णेन युक्तं वैस्वर्यादिहरम्|

Adhikarana dashamUlAdighRutam (19-20) · Śloka 20

दशमूलशृतात्क्षीरात्सर्पिर्यदुदियान्नवम्| सपिप्पलीकं सक्षौद्रं तत्परं स्वरबोधनम्||१९|| शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्| पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्धृतम्||२०||

🔊 Audio coming soon

स०-दशमूलक्वथितात् क्षीराद्यत्सर्पिरुदियात्-उद्गच्छेत्, तत्-प्रत्यग्रं, पिप्पलीक्षौद्रान्वितमतिशयेन स्वरबोधनं शिरःपार्श्वांसशूलघ्नं कासादिहरम्| अथवा, पञ्चभिः पञ्चमूलैः शृतात्क्षीरात् यदुद्भवेद्धृतं तत्पूर्वगुणम्|

Adhikarana pa~jcapa~jcamUlAdighRutam (21) · Śloka 21

पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे| सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||२१||

🔊 Audio coming soon

स०-पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गणे पक्वमेतद्यक्ष्मणः सप्तकं बलं-पीनसादिकं, एतद्धृतं जयेत्|

Adhikarana ShaTpalaM ghRutam (22-23) · Śloka 23

पञ्चकोलयवक्षारषट्पलेन पचेद्धृतम्| प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम्||२२|| गुल्मज्वरोदरप्लीहग्रहणीपाण्डुपीनसान्| श्वासकासाग्निसदनश्वयथूर्ध्वानिलञ्जयेत्||२३||

🔊 Audio coming soon

स०-पञ्चकोलादिना षट्पलेन कल्केन घृतप्रस्थं तुल्यक्षीरं पचेत्| तत्स्रोतसां विशोधनं स्यात्| अत्र चानुक्तमपि जलं स्नेहाच्चतुर्गुणं त्रिगुणं वा देयं पूर्वोक्तन्यायात्| तथा गुल्मादीन् जयेत्|

Adhikarana rAsnAdighRutam (24) · Śloka 24

रास्नाबलागोक्षुरकस्थिरावर्षाभुवारिणि| जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्धृतम्||२४||

🔊 Audio coming soon

स०-रास्नादिक्वाथे जीवन्तीपिप्पलीकल्कं क्षीरसहितं पक्वं घृतं शोषजित्|

Adhikarana ashvagandhaghRutam (25) · Śloka 25

अश्वगन्धाशृतात्क्षीराद्धृतं च ससितापयः| |२५|

🔊 Audio coming soon

स०-अश्वगन्धया शृतात् क्षीरादुद्भूतं घृतं शर्कराक्षीरयुतं पूर्वोक्तगुणम्|

Adhikarana mAMsaghRutam (25-27) · Śloka 27

| साधारणामिषतुलां तोयद्रोणद्वये पचेत्||२५|| तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः| साधयेत्सर्पिषः प्रस्थं वातपित्तामयापहम्||२६|| मांससर्पिरिदं पीतं युक्तं मांसरसेन वा| कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित्||२७||

🔊 Audio coming soon

स०-साधारणस्य-बिलेशयप्रसहानां मांसस्य, तुलां-पलशतं जलद्रोणद्वये पचेत्| तेनाष्टभागशेषेण क्वाथेन जीवनीयैः पालिकैः सर्पिषः प्रस्थं पचेत्| मांससर्पिःसंज्ञमेतत् केवलं पीतं मांसरसेन वा युक्तं पीतं वातपित्तघ्नं कासादिजित्|

Adhikarana elAdileharasAyanam (28-32) · Śloka 32

एलाजमोदात्रिफलासौराष्ट्रीव्योषचित्रकान्| सारानरिष्टगायत्रीशालबीजकसम्भवान्||२८|| भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम्| सलिले षोडशगुणे षोडशांशस्थितं पचेत्||२९|| पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन्पलानि षट्| तवक्षीर्याः क्षिपोत्र्निंशत्सिताया द्विगुणं मधु||३०|| घृतात्र्निजातात्र्निपलं ततो लीढं खजाहतम्| पयोनुपानं तत्प्राह्णे रसायनमयन्त्रणम्||३१|| मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात्| मेहगुल्मक्षयव्याधिपाण्डुरोगभगन्दरान्||३२||

🔊 Audio coming soon

स०-एलादि प्रत्येकमष्टपलप्रमाणं षोडशगुणे जले षोडशां शस्थितं-षोडशांशावशेषितं यथास्यात्तथा, पचेत्| तेन-क्वाथेन, पुनर्घ्रुतप्रस्थं पचेत्| सिद्धे चास्मिन् घृते तुगाक्षीर्याः पलानि षट्, सितायास्त्रिंशत्पलानि, माक्षिकं घृताद्द्विगुणं-प्रस्थौ द्वावित्यर्थः, त्रिजातकात् पलत्रयं तदेतस्मिन् क्षिपेत्| खजाहतं समीकरणाय दर्व्याऽऽलोडितं, पूर्वाह्णे लीढं पयोनुपानं रसायनमयन्त्रणं मेध्यादिगुणं च स्यात्| आश्वेव गुल्मादीन् हन्ति|

Adhikarana kShatakAsoktasarpirguDAtideshaH (33) · Śloka 33

ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षयेऽपि ते| |३३|

🔊 Audio coming soon

स०-ये च क्षते सर्पिर्गुडा गदितास्ते च क्षयेऽपि योज्याः|

Adhikarana tvagAdi (sitopala) cUrNam (33-34) · Śloka 34

| त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात्||३३|| चूर्णिता भक्षिताः क्षौद्रसर्पिषा वाऽवलेहिताः| स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनाः||३४||

🔊 Audio coming soon

स०-त्वगेलादयः क्रमेण द्विगुणाश्चूर्णिता भुक्ता माक्षिकसर्पिर्भ्यां वाऽवलेहिताः स्वर्याः-स्वराय हिताः स्युः, कासादिघ्नाश्च|

Adhikarana asya svarasAde nasyadhUmAdi (35) · Śloka 35

अथ स्वरसादचिकित्सितम्| विशेषात्स्वरसादेऽस्य नस्यधूमादि योजयेत्| |३५|

🔊 Audio coming soon

स०-अस्य-क्षयिणः, स्वरसादे विशेषेण नस्यधूमादि योज्यम्|

Adhikarana vAtaje svarasAde kAsamardAdighRutam vAtaje svarasAde ArtagalaghRutam (35-36) · Śloka 36

| तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम्||३५|| कासमर्दकवार्ताकीमार्कवस्वरसैर्घ्रुतम्| साधितं कासजित्स्वर्यं सिद्धमार्तगलेन वा||३६||

🔊 Audio coming soon

स०-[तत्र]-तेषु च स्वरसादेषु मध्ये, वातजे स्वरसादे कासमर्दादिस्वरसैः साधितमौत्तरभक्तिकं-भक्तादूर्ध्वं, घृतं पिबेत्| मार्कवो-भृङ्गराजः| तच्च सर्पिः कासजित् स्वर्यं च स्यात्| उत्तरभक्तादिति "मयूरव्यंसकादित्वात्" समासः, ततश्च "अध्यात्मादित्वात्" ठञ्| अथवा, आर्तगलेन-नीलपुष्पसहचरेण, सिद्धं घृतमेवं पिबेत्|

Adhikarana vAtaje svarasAde badarIpatrakalkaH (37) · Śloka 37

बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्| |३७|

🔊 Audio coming soon

स०-अथवा बदर्याः पत्रकल्कं घृतभृष्टं ससैन्धवं योजयेत्|

Adhikarana vAtaje svarasAde madhukAditailanasyam (37-38) · Śloka 38

तैलं वा- | मधुकद्राक्षापिप्पलीकृमिनुत्फलैः||३७|| हंसपाद्याश्च मूलेन पक्वं नस्तो निषेचयेत्| |३८|

🔊 Audio coming soon

स०-अथवा तैलं मधुकादिभिः पक्वं नस्तोऽवसेचयेत्| कृमिघ्नं(नुत्)-विडङ्गम्| फलं-मदनफलम्| हंसपादी-कीटमारिका| नस्त इति "नस्नासिकाया यत्तस्क्षुद्रेषु" इत्यनेन तसि नसादेशः|

Adhikarana vAtaje svarasAde guDaudanam,vAtaje svarasAde snigdhaH svedaH (38-39) · Śloka 39

| सुख़ोदकानुपानं च ससर्पिष्कं गुडौदनम्||३८|| अश्र्नीयात्पायसं चैवं स्निग्धं स्वेदं नियोजयेत्| |३९|

🔊 Audio coming soon

स०-तथा गुडौदनं सर्पिषा सह सुख़ोदकानुपानमश्नीयात्| पायसं चैवं ससर्पिष्कं सुख़ोदकानुपानमद्यात्| स्वेदं च स्निग्धं योजयेत्|

Adhikarana pittaje svarasAde kShIrivRukShA~gkurasiddhaM ghRutam pittaje sayaShTImadhukaM pAyasamannam (39-40) · Śloka 40

| पित्तोद्भवे पिबेत्सर्पिः शृतशीतपयोनुपः||३९|| क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम्| अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम्||४०||

🔊 Audio coming soon

स०-पित्तोद्भवे सर्पिः समाक्षिकं क्षीरिवृक्षाङ्कुरादिक्वाथकल्कसिद्धं शृतशीतक्षीरानुपः पिबेत्| मधुयष्टिकान्वितं पायसं ससर्पिष्कं भुञ्जीत|

Adhikarana pittaje balAdidhRutaM nasyam (41) · Śloka 41

बलाविदारिगन्धाभ्यां विदार्या मधुकेन च| सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम्||४१||

🔊 Audio coming soon

स०-बलादिभिः सिद्धं सर्पिः ससैन्धवं परं स्वर्यं स्यान्नस्यम्| विदारिगन्धा-शालिपर्णी|

Adhikarana pittaje prapauNDarIkAdighRutaM nasyam (42) · Śloka 42

प्रपौण्डरीकं मधुकं पिप्पली बृहती बला| साधितं क्षीरसर्पिश्च तत्स्वर्यं नावनं परम्||४२||

🔊 Audio coming soon

स०-पित्तजे स्वरसादे प्रपौण्डरीकादिसाधितं क्षीरोद्भवं सर्पिः श्रेष्ठं नस्यम्|

Adhikarana pittaje madhuradravyA cUrNa lehaH (43) · Śloka 43

लिह्यान्मधुरकाणां च चूर्णं मधुघृताप्लुतम्| |४३|

🔊 Audio coming soon

स०-मधुरकाणां च-मधुररसद्रव्याणां, चूर्णं मधुघृतान्वितं लिह्यात्|

Adhikarana kaPaje kaTudravyANAm mUtreNa pAnam kaPaje rUkShamannam kaPaje kaTPalAdilehaH kaPaje vyoShAdilehaH (43-44) · Śloka 44

| पिबेत्कटूनि मूत्रेण कफजे रूक्षभोजनः||४३|| कटूफलामलकव्योषं लिह्यात्तैलमधुप्लुतम्| व्योषक्षाराग्निचविकाभार्गीपथ्यामधूनि वा||४४||

🔊 Audio coming soon

स०-कफोद्भवे कटूनि-कटुकरसानि द्रव्याणि, मूत्रेण पिबेत्| रूक्षभोजनश्च स्यात्| तथा, कटूफलादिकं तैलमधुप्लुतं लिह्यात्| व्योषादीनि वा एवं लिह्यात्|

Adhikarana kaPaje yavAnAM yavAgUH kaPaje BojanAnte pippalIshuNThyau kaPaje kiMvA tIkShNaM vamanam (2) · Śloka 2

यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्| भुक्त्वाऽद्यात्पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत्||२||

🔊 Audio coming soon

स०-यवैरुपादानैर्यमके-स्नेहद्वये, कणाधात्रीकृतां-एतत्क्वाथे सिद्धां, यवागूं पिबेत्| तथा, भुक्त्वा पिप्पलीं शुण्ठीं वाऽद्यात्| अथवा, तीक्ष्णं वमनं भजेत्|

Adhikarana uccaBAShaNakRutasvarasAde madhuradravyasiddaM payaH (46-47) · Śloka 47

शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह| पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः||४६|| इति स्वरसादचिकित्सितम्|४७|

🔊 Audio coming soon

स०-यस्योच्चैर्भाषमाणस्य स्वरोऽभिहतः स मधुरैः-जीवनीयैः सह, शृतानि शर्करामाक्षिकमिश्राणि पयांसि पिबेत्|

Adhikarana arocake sAmAnyacikitsA (47-49) · Śloka 49

अथारोचकचिकित्सितम्| विचित्रमन्नमरुचौ हितैरुपहितं हितम्| बहिरन्तर्मृजा चित्तनिर्वाणं हृद्यमौषधम्||४७|| द्वौ कालौ दन्तपवनं भक्षयेन्मुख़धावनैः| कषायैः क्षालयेदास्यं धूमं प्रायोगिकं पिबेत्||४८|| तालीसचूर्णवटकाः सकर्पूरसितोपलाः| शशाङ्ककिरणाख़्याश्च भक्ष्या रुचिकराः परम्||४९||

🔊 Audio coming soon

स०-अरोचके विचित्रं-नानाविधमन्नं, हितं-पथ्यम्| किम्भूतम् ? हितैः-पथ्यैः, उपहितं-मिश्रितम्| एवमरुच्याख़्यो व्याधिविशेषः सर्वव्याधिभ्यो गरीयान्| येनापथ्यमपि यदन्नं तस्मै तदपि देयं प्राणसन्धारणार्थम्, "अन्नमेव प्राणिनां प्राणाः" इत्याहुः| एवं च सर्वव्याधिष्वरुचिरेव पूर्वं जेतव्या, ततो ज्वरादय इत्यर्थादुक्तं भवति| बहिर्मृजा-बहिःशुद्धिः स्नानादिना बहिः परिमार्जनम्| अन्तर्मृजा-अन्तःशुद्धिः| तथा, चित्तनिर्वाणमरुचौ हितं ह्रुद्यमौषधं च| तथा, द्बौ कालौ-सायंप्रातराख़्यौ, दन्तधावनं भक्षयेत्| तथा, मुख़धावनैः कषायैरास्यं क्षालयेत्| प्रायोगिकं-स्नैहिकं, धूमं पिबेत्| तथा, तालीसचूर्णवटकाश्च| तथा, सकर्पूरशर्कराः शशाङ्ककिरणाख़्या भक्ष्याः परं-अतिशयेन, रुचिकराः|

Adhikarana vAtaje arocake auShadham vAtaje arocake vamanam (50-51) · Śloka 51

सामान्येनारुचौ चिकित्सितान्युक्त्वा विशेषमाह वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया| हरेणुकृष्णाकृमिजिद्द्राक्षासैन्धवनागरात्||५०|| एलाभार्गीयवक्षारहिङ्गुयुक्ताद्धृतेन वा| छर्दयेद्वा वचाम्भोभिः|५१|

🔊 Audio coming soon

स०-वातेनारुचौ सत्यां हरेण्वादिभ्यश्चूर्णं प्रसन्नया पिबेत्| एलाभार्ग्यादियुक्तघृतेन वा पेयम्| वचाजलैर्वा वमेत्|

Adhikarana pittaje arocake vamanam pittaje arocake sharkarAdi lehaH (51-52) · Śloka 52

| पित्ताच्च गुडवारिभिः||५१|| लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम्| |५२|

🔊 Audio coming soon

स०-पित्तादरुचौ गुडवारिणा वमेत्| शर्करादिकं [वा] लिह्यात्|

Adhikarana kaPaje arocake vamanam kaPaje arocake pAnam kaPaje arocake cUrNam (52-53) · Śloka 53

| कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम्||५२|| पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः| पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा||५३||

🔊 Audio coming soon

स०-कफादरोचके निम्बजलैर्वमेत्| दीप्यककर्णिकारयोरुदकं पानं समाक्षिकम्| अरिष्टाश्च तीक्ष्णाः समार्द्वीकमाधवाः पानम्| हरेण्वादिचूर्णं च पूर्वोक्तं (श्लो.५०)उष्णाम्बुना पिबेत्|

Adhikarana samasharkaraM cUrNam (54-55) · Śloka 55

एलात्वङ्नागकुसुमतीक्ष्णकृष्णामहौषधम्| भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम्||५४|| प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान्| |५५|

🔊 Audio coming soon

स०-एलादिकं चूर्णं क्रमेण भागवृद्धं समशर्करं प्रसेकादीन् हन्ति|

Adhikarana yavAnyAdi cUrNam (55-58) · Śloka 58

| यवानीतित्तिडीकाम्लवेतसौषधदाडिमम्||५५|| कृत्वा कोलं च कर्षाशं सितायाश्च चतुष्पलम्| धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्||५६|| पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च| चूर्णमेतत्परं रुच्यं हृद्यं ग्राहि, हिनस्ति च||५७|| विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान्| |५८|

🔊 Audio coming soon

स०-यवानीत्यादि कोलान्तानि प्रत्येकं कार्षिकाणि, शर्करायाः पलानि चत्वारि, धान्यकादिकमर्धकार्षिकं, शतमेकं पिप्पलीनां, द्वे शते मरिचस्य च, चूर्णमिदं परं रुच्यं तथा हृदयाय हितं ग्राहि, विबन्धादीन् हन्ति|

Adhikarana tAlIsAdi cUrNam (58-61) · Śloka 61

| तालीसपत्रं मरिचं नागरं पिप्पली शुभा||५८|| यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके| तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम्||५९|| कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलनुत्| पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम्||६०|| इत्यरोचकचिकित्सितम्|६१|

🔊 Audio coming soon

स०-तालीसपत्रादयो यथोत्तरं-उत्तरोत्तरं, भागवृद्धाः कार्याः| त्वक् च एला च एतेऽर्धभागप्रमाणे| एतच्चूर्णं पिप्पल्यष्टगुणशर्करं दीपनं कासादिजिच्च, पाण्ड्वादिघ्नं मूढवातानुलोमनं च|

Adhikarana upadravANAM cikitsA praseke cikitsA (61-62) · Śloka 62

अर्कामृताक्षारजले शर्वरीमुषितैर्यवैः| प्रसेके कल्पितान्सक्तून् भक्ष्यांश्चाद्याद्वली वमेत्||६१|| कटुतिक्तैस्तथा शूल्यं भक्ष्येज्जाङ्गलं पलम्| शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः||६२||

🔊 Audio coming soon

स०-अर्कादिजले रात्रिस्थितैर्यवैः सक्तून् कल्पितान् भक्ष्यांश्च प्रसेके भक्षयेत्| बलवान् कटुतिक्तकैर्वमेत्| तथा, शूल्यं जाङ्गलं मांसं भक्षयेत्| शुष्कांश्च भक्ष्यान् भोजयेत्| भोज्यविशेषान् लघुतरान् भक्षयेत्| चणकादिरसमनु-पश्चात्, पिबेत्|

Adhikarana praseke cikitsAntaram (63) · Śloka 63

श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति| कफप्रसेकं तं विद्वान्स्निग्धोष्णैरेव निर्जयेत्||६३||

🔊 Audio coming soon

स०-वायुः श्लेष्माणं क्षिपति श्लेष्मणोऽतिप्रसेकेन हेतुभूतेन तं कफप्रसेकं विद्वान् स्निग्धोष्णैरेव निर्जयेत्|

Adhikarana CardipInasayoH praseka cikitsA (64) · Śloka 64

पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत्| |६४|

🔊 Audio coming soon

स०-इमं-कफप्रसेकोक्तं, क्रियाक्रमं पीनसे वमथौ-छर्दिषि च, प्रयोजयेत्|

Adhikarana pInase visheShaH (64-65) · Śloka 65

विशेषात्पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत्||६४|| स्निग्धानुत्कारिकापिण्डैः शिरःपार्श्वगलादिषु| लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान्||६५||

🔊 Audio coming soon

स०-विशेषेण पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च स्निग्धान् शीलयेत्| कैः ? उत्कारिकापिण्डैः| केषु ? शिरःपार्श्वगलादिषु| लवणादींश्च रसान् स्नेहोपसंहितान् शीलयेत्|

Adhikarana shiroMsapArshvashUleShu cikitsA vAtajeShu pArshvashUleShu visheShaH (66-67) · Śloka 67

शिरोंसपार्श्वशूलेषु यथादोषविधिं चरेत्| औदकानूपपिशितैरुपनाहाः सुसंस्कृताः||६६|| तत्रेष्टाः सचतुःस्नेहाः| |६७|

🔊 Audio coming soon

स०-शिरोंसपार्श्वशूलेषु दोषानुसारेणोपक्रमः कार्यः| तेष्वौदकानूपमांसैश्च्तुःस्नेहयुताः सुसंस्कृता उपनाहा इष्टाः|

Adhikarana saMsargeShu pArshvashUleShu visheShaH (67-68) · Śloka 68

दोषसंसर्ग इष्यते| प्रलेपो नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः||६७|| बलारास्नातिलैस्तद्वत्ससर्पिर्मधुकोत्पलैः| पुनर्नवाकृष्णगन्धाबलावीराविदारिभिः||६८||

🔊 Audio coming soon

स०-दोषसंसर्गे च-द्वन्द्वे, तगरादिभिः प्रलेप इष्यते| तथैव बलादिभिः घृतमधुकोत्पलयुतैः, [तथा] पुनर्नवादिभिः|

Adhikarana nasyAdIni (69) · Śloka 69

नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः| तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम्||६९||

🔊 Audio coming soon

स०-नस्यं तथा धूमपानानीष्यन्ते| तथा, औत्तरभक्तिकाश्च स्नेहाः| तैलान्यभ्यङ्गयोगीनि-अभ्यङ्गयोगप्रशस्तानि| तथा बस्तिकर्म-"प्राक्स्नेहः" (हृ.सू.अ.१९/६३) इत्यादिकम्, परं-चेष्टम्|

Adhikarana raktaduShTau visheShaH (70-72) · Śloka 72

शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक्| प्रदेहः सघृतैः श्रेष्ठः पद्मकोशीरचन्दनैः||७०|| दूर्वामधुकमञ्जिष्ठाकेसरैर्वा घृताप्लुतैः| वटादिसिद्धतैलेन शतधौतेन सर्पिषा||७१|| अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना| |७२|

🔊 Audio coming soon

स०-शृङ्गाद्यैः-शृङ्गजलौकोलाबुभिः, यथादोषं-वातपित्तकफदुष्टं, रक्तमेषां-यक्ष्मिणां, हरेत्| प्रलेपः पद्मकादिभिः सघ्रुतैः श्रेष्ठः, दूर्वादिभिर्वा घृताप्लुतैः| वटादिना-न्यग्रोधादिना, सिद्धेन तैलेनाभ्यङ्गः शस्तः| शतधौतेन वा घृतेन तथा क्षीरेण सेकः शस्तः| मधुयष्टिकाजलेन वा|

Adhikarana atIsAre cikitsA (72-73) · Śloka 73

| प्रायेणोपहताग्नित्वात्सपिच्छमतिसार्यते||७२|| तस्यातिसारग्रहणीविहितं हितमौषधम्| |७३|

🔊 Audio coming soon

स०-बाहुल्येनोपहताग्नित्वात्कारणात् पिच्छया सहातिसार्यते यक्ष्मी| तस्यातिसारे ग्रहण्यां च यदुक्तमौषधं तद्धितम्|

Adhikarana shuShyato yakShmiNaH purISharakShaNam tatra hetuH (73-74) · Śloka 74

| पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः||७३|| सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्| |७४|

🔊 Audio coming soon

स०-तथा, राजयक्ष्मिणः शुष्यतः सतः पुरीषं यत्नेन रक्षेत्| किमित्याह-यस्मात्तस्य-शोषिणः, सर्वधातुक्षयार्तस्य सतो विड्बलमेव बलं-न धात्वादिजं बलम्|

Adhikarana mAMsamadyaprayogaH (74-76) · Śloka 76

| मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतोऽनु च||७४|| अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम्| सुरां समण्डां मार्द्वीकमरिष्टान्सीधुमाधवान्||७५|| यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्| स्रोतोविबन्धमोक्षार्थ बलौजःपुष्टये च तत्||७६||

🔊 Audio coming soon

स०-मांसमेव युक्त्या-देशकालसात्म्यादिलक्षणया, भक्षयतो मार्द्वीकं च पश्चात् पिबतो वेगमधारयतो यक्ष्मा अन्तरं-अवकाशं, न लभते| तथा, सुरादीननुपानार्थं पिबेत्| मांसानि भक्षयेत्| तत्-सुराद्यनुपानं मांसभक्षणं च, स्रोतोविबन्धभोक्षार्थं बलायौजसश्च पुष्टये|

Adhikarana avagAhAdIni (77-78) · Śloka 78

स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्| उत्तीर्णं मिश्रकैः स्नेहैर्भूयोऽभ्यक्तं सुख़ैः करैः||७७|| मृद्गीयात्सुख़मासीनं सुख़ं चोद्वर्तयेत्परम्| |७८|

🔊 Audio coming soon

स०-स्नेहादिकोष्ठेषु स्वभ्यक्तं सन्तमवगाहयेत्-निमग्नं स्थापयेत्| ततः कोष्ठादुत्तीर्णं भूयः पुनर्मिश्रकैः स्नेहैः-गुल्मोक्तैः (हृ.चि.अ.१४/८९), अभ्यक्तं सुख़ैः-सुख़ावहैर्न दुष्करैः, करैः सुख़ेन तिष्ठन्तं मृद्गीयात्| परं-अतिशयेन, सुख़ं यथा भवति तथोद्वर्तयेत्|

Adhikarana udvartanayogaH (78-81) · Śloka 81

| जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||७८|| अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्| विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम्||७९|| माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्| यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम्||८०|| एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम्| |८१|

🔊 Audio coming soon

स०-जीवन्त्यादिकं किण्वपर्यन्तं सर्वमेकत्र चूर्णयेत्| विकसा-मञ्जिष्ठा| यवचूर्णं सर्वेभ्यस्त्रिगुणं दध्ना युक्तं समाक्षिकमेतदुद्वर्तनं कार्यं पुष्ट्यादिप्रदम्|

Adhikarana snAnIyaM jalaM kalkaSca (81-82) · Śloka 82

| गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः||८१|| स्नायादृतुसुख़ैस्तोयैर्जीवनीयोपसाधितैः| |८२|

🔊 Audio coming soon

स०-गौरसर्षपाणं कल्केन स्नानीयैः-स्नानार्हैर्गन्धद्रव्यविशेषैः, औषधिभिश्च-सहदेव्यादिभिः, ऋतौ-हेमन्तादिके, सुख़ावहैः-उष्णादिभिः, तोयैर्जीवनीयद्रव्यशृतैः स्नायात्|

Adhikarana anulepanAdIni (82) · Śloka 82

| गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत्||८२||

🔊 Audio coming soon

स०-तथा, गन्धैः-चन्दनकुङ्कुमादिभिः, माल्यैः-कुसुमैः, आदिशब्देनालङ्कारादिग्रहणं, तैर्भूषामलक्ष्मीघ्नीं सेवेत|

Adhikarana suhRuddarshanAdIni (5) · Śloka 5

सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतिः| बस्तयः क्षीरसर्पीषि मद्यमांससुशीलता||८३|| दैवव्यपाश्रयं तत्तदथर्वोक्तं च पूजितम्| ८३ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने राजयक्ष्मादिचिकित्सितं नाम पञ्चमोऽध्यायः||५||

🔊 Audio coming soon

स०-तथा, सुहृदां-बन्धूनां, दर्शनम्| गीतस्य वादित्राणां तथोत्सवस्य-पुत्रजन्मविवाहादेः, संश्रवणम्| तथा, बस्तयः क्षीरसर्पीषि-क्षीराणां घृतानि, मद्यमांसानां सुशीलता| तथा, दैवव्यपाश्रयं-बलिमङ्गलहोमप्रायश्चित्तादिकम्| तथा, अथवोक्तं-अथर्ववेदविहितं यागादिकं च, पूजितं-प्रशस्तमेतदत्रेत्यर्थः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने राजयक्ष्मादिचिकित्सितं नाम पञ्चमोऽध्यायः समाप्तः|| ५||