Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. madātyayādicikitsitādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

छर्द्यादिचिकित्सितादनन्तरं मदात्ययचिकित्सितारम्भः| चिकित्सासामान्यहेतुर्यतस्तृष्णाया यथा वातपित्ते कारणं तथा मदात्ययस्यापि|

Adhikarana madAtyayAdicikitsitAdhyAyaH madAtyaye cikitsAprakAraH (2-1) · Śloka 1

आथातो मदात्ययादिचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्| कफस्थानानुपूर्व्या च तुल्यदोषे मदात्यये||१||

🔊 Audio coming soon

सं-यं दोषं-तत्र मदात्यये वातादिकं, उल्बणं पश्येत्-लक्षयेज्जानीयात्| तस्य-दोषस्य, आदौ-प्रथमत एव, प्रतिकारयेत्-प्रतिकारं कुर्यात्| एवं विषमदोषो मदात्ययश्चिकित्स्यः| तुल्यदोषे पुनर्मदात्यये कफस्थानानुपूर्व्या दोषान् प्रतिकारयेत्| किमेत्येवं क्रियते ? इत्याह-

Adhikarana tatra hetuH (2) · Śloka 2

पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः| |२|

🔊 Audio coming soon

सं-हि-यस्मात्, कालक्रमेण पित्तमारुतावसानो बाहुल्येन मदात्ययः स्यात्| प्रथमं कफस्याधिक्यम्| ततः पित्तमारुता वधिकौ भवतः| कफस्थानानुपूर्वीव्याख़्यानं ज्वरचिकित्सिते (श्लो.१४८) व्याख़्यातम्|

Adhikarana madyotpannavyAdhermadyamevauShadham (2-3) · Śloka 3

| हीनमिथ्यातिपीतेन यो व्याधिरुपजायते||२|| समपीतेन तेनैव स मद्येनोपशाम्यति| |३|

🔊 Audio coming soon

स०-हीनमिथ्यातिपीतेन मद्येन यो व्याधिरुत्पद्यते, सः-व्याधिः, तेनैव मद्येन समपीतेन-सम्यङ्मात्रया पीतेन, शाम्यति| "यावद् दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभते मनः| तावदेव विरन्तव्यं मद्यादात्मवता सदा||" (श्लो.१४) इत्येवं लक्षणं पानं सममेव पीतम्| येनैव मार्द्वीकेनाथवा माधवेन गाडादिना वा यो जातो व्याधिः स तेनैव मार्द्वीकादिना शाम्यति| कुत एवं स्यात् ? इत्याह-

Adhikarana madyasya viShasAdRuSyam (3) · Śloka 3

| मद्यस्य विषसादृश्यात्|३|

🔊 Audio coming soon

स०-यथा तीक्ष्णादिभिर्दशभिर्गुणैर्विषं युक्तं तथैव तत्सङ्ख्या तैरेव गुणैर्मद्यमपि युक्तम्| ततश्च मद्येनैव शान्तिर्युक्ता| ननु, यदि विषसादृश्यं मद्यस्य, ततो यथा विषस्य विषान्तरेण शान्तिस्तथा मद्यस्यापि मद्यान्तरेण शान्तिः प्राप्तेत्याशङ्ख्याह-

Adhikarana ataH viShajavyAdherapi viShAntaramauShadham (3-4) · Śloka 4

| विषं तूत्कर्षवृत्तिभिः||३|| तीक्ष्णादिभिर्गुणैर्योगाद्विषान्तरमपेक्षते| |४|

🔊 Audio coming soon

स०-सत्यमेतत्| एवं प्राप्तम्| किन्तु गुणैर्दशभिरुत्कर्षवृत्तिभिः-अधिकशक्तिस्वरूपैः, तीक्ष्णादिभिर्योगात्-सम्बन्धात्, विषं विषान्तरमपेक्षते| न तु तद्धीनात्तदेव स्वोत्थे रोगे प्रशमायालम्| मद्यं तु हीनवृत्तिभिर्दशभिर्गुणैर्योगान्न मद्यान्तरमपेक्षते| एवं तीक्ष्णादीनां गुणानां हीनोत्कर्षभेदाद्विषान्मद्यस्य वैलक्षण्यम्|

Adhikarana madyotpannavyAdhermadyauShadhatve upapattiH (4-7) · Śloka 7

| तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना||४|| मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः| यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान्||५|| मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः| सुतीव्रा वेदना याश्च शिरस्यस्थिषु सन्धिषु||६|| जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति| यौगिकं विधिवद्युक्तं मद्यमेव निहन्ति तान्||७||

🔊 Audio coming soon

सं-स्वभावत एव तीक्ष्णोष्णेन तथाऽतिमात्रेण तथाऽम्लविदाहिना मद्येन पीतेनान्नरसक्लेदो विदग्धः क्षारतां च गतो यन् मदादीन् कुर्यात्| तथा मारुतो मद्योत्क्लिष्टेन दोषेण स्रोतःसुरुद्धो या दारुणा मूर्धादिषु वेदनाः कुर्यात् तान्-मदादीन्, ताश्च वेदनाः मद्यमेव यौगिकं विधिना युक्तं निहन्ति| किम्भूतस्य पुरुषस्य ? जीर्णाममद्यदोषस्य, तथा प्रकाङ्क्षायां लाघवेसति, ते च ताश्च तान्, "पुमान् स्त्रिया" इत्येकशेषः| ननु, यदि मद्यमेव तान्निहन्ति ततश्चिकित्सान्तरारम्भो न युक्तः| मैवम्| बह्वयो हि चिकित्साः प्रतिरोगं प्रोक्ताः| तस्माच्चिकित्सान्तरोपन्यासो युक्त एव| ननु, कथं तान् मद्यमेव निहन्ति ? इत्याह-

Adhikarana atra hetuH (8) · Śloka 8

क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः| मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम्||८||

🔊 Audio coming soon

स०-यस्मात् क्षारोऽम्लोपसंहितो द्रागेव माधुर्यं याति| अम्लेषु मध्ये मद्यं दोषविष्यन्दनात् [अलं-] पर्याप्तम्|

Adhikarana guNayuktaM madyaM dhAtusAmyakaram (9) · Śloka 9

तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर्दीपनाद्यैस्तथा गुणैः| सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम्||९||

🔊 Audio coming soon

स०-पुरा-मदात्ययनिदानोक्तैस्तीक्ष्णोष्णाद्यैर्गुणैः (नि. अ. ६/१) तथा मद्यवर्गोक्तैर्दीपनाद्यैर्गुणैः (सू. अ. ५/६२) करणभूतैः, तदेव-मद्यं, सुष्ठु धातुसाम्यकरम्| धातुसाम्यकरमिति हेतौ टः|

Adhikarana pAnAtyayauShadhakAlaH (10) · Śloka 10

सप्ताहमष्टरात्रं वा कुर्यात्पानात्ययौषधम्| जीर्यत्येतावता पानं कालेन विपथाश्रितम्||१०||

🔊 Audio coming soon

स०-सप्ताहमथवाऽष्टरात्रं पानात्ययौषधं कुर्यात्-नाधिकं कालम्| यत एतावता कालेन विमर्गस्थं तत् पानं-मद्यपानं, परिणमति|

Adhikarana tataH paraM yathAyathaM rogauShadham (11) · Śloka 11

परं ततोऽनुबध्नाति यो रोगस्तस्य भेषजम्| यथायथं प्रयुञ्जीत कृतपानात्ययौषधः||११||

🔊 Audio coming soon

स०-ततः-तस्मात्कालात्, परं-ऊर्ध्वं, यो रोगोऽनुबध्नाति, तस्य-रोगस्य, कृतपानात्ययौषधश्च यथास्वं भेषजं प्रयुञ्जीत| इति सामान्येन चिकित्सितमुक्त्वा विशेषेणाह-

Adhikarana vAtAdike madAtaye piShTakRutaM madyam vAtAdike madAtaye mAMsarasAH vAtAdike madAtaye rAgaShADavAH vAtAdike madAtaye godhUmamAShAnnam vAtAdike madAtaye acCavArUNI vAtAdike madAtaye svarasakkAthAH vAtAdike madAtaye mastvAdi vAtAdike madAtaye aBya~ggAdi vAtAdike madAtaye prAvaraNam vAtAdike madAtaye dhUmo~anulepanaM ca vAtAdike madAtaye stryaH (12-19) · Śloka 19

तत्र वातोल्बणे मद्यं दधातिपिष्टकृतं युतम्| बीजपूरकव्रुक्षाम्लकोलदाडिमदीप्यकैः||१२|| यवानीहपुषाजाजीव्योषत्रिलवणार्द्रकैः| शुल्यिर्मांसैर्हरितकैः स्नेहवद्भिश्च सकुभिः||१३|| उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः| आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः||१४|| गोधूममाषविकृतिर्मृदुश्चित्रा मुखप्रिया| आर्द्रिकार्द्रककुल्माषसुक्तमांसादिगर्भिणी||१५|| सुरभिर्लवणा शीता निर्गदा वाऽच्छवारुणी| सरसो दाडिमात् क्वाथः पञ्चमूलात्कनीयसः||१६|| शुण्ठीधान्यात्तथा मुस्तुसुक्ताम्भोच्छाम्लकाञ्जिकम् अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम्||१७|| घनश्चागुरुजो धूपः पङ्कश्चागुरुकुङ्कुमः| कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः||१८|| हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च| |१९|

🔊 Audio coming soon

स०-[तत्र-] तेषु मदात्ययेषु मध्ये, वाताधिके मदात्यये पिष्टकृतं मद्यं दद्यात्| बीजपूरकादिभिर्देशसात्म्यादिवशाद्यस्तैः समस्तैर्यथायोगयुक्तम्| तथा, मेद्यस्य-मेदुरस्य, मांसस्यरसा हिताः| किम्भूताः ? उष्णाः स्निग्धामललवणाश्च| तथा, रागाः षाडवाश्चाम्राम्रातकपेशीभिः संस्कृता हिताः| लक्षणमेषामृतुचर्यामुक्तम् (हृ.सू.अ.३/३०)| तथा, गोधूममाषयोर्विकृतिर्हिता| किम्भूता ? मृदुः-अतीक्ष्णा, चित्रा-नानाप्रकारा, मुखप्रिया-वदनरुचिकृत्| तथा, आर्द्रिकादिगर्भिणी| [तथा,] अच्छवारुणी च हिता| किम्भूता ? सुरभिर्लवणा शीता च| तथा निर्गदा-पुराणा| तथा, दाडिमात्स्वरसो हितः| पञ्चमूलात् कनीयसो-हृस्वात्, क्वाथः| शुण्ठीधान्याच्च क्वाथो हितः| तथा, मस्त्वादि हितम्| तथा, अभ्यञ्जनादि उष्णं हितम्| प्रावरणं-आच्छदनं, घनं हितम्, अगरुजश्च धूपो घनो-बहुलो, हितः| अगरुकुङ्कुमपङ्कानुलेपनं हितम्| तथा, प्रिया हर्षेण-प्रीत्या, आलिङ्गनं-परिष्वङ्गः, तत्र युक्ताः, संवाहनेषु-शरीरमर्दनेषु च, युक्ता हिताः| कुचाश्चोरवश्च श्रोणयश्च तेन शालन्ते यास्ता एवम्| तथा, यौवने नोष्णाऽङ्गयष्टिः-शरीरलता, यासां ता एवम्|

Adhikarana pittAdhike shArkarAdimadyam pittAdhike pAnakam (19-21) · Śloka 21

| पित्तोल्बणे बहुजलं शार्करं मधु वा युतम्||१९|| रसैर्दाडिमख़र्जूरभव्यद्राक्षापरूषजैः| सुशीतं ससितासक्तु योज्यं तादृक् च पानकम्||२०|| स्वादुवर्गकषायैर्वा युक्तं मद्यं समाक्षिकम्| |२१|

🔊 Audio coming soon

सं-पित्ताधिके मदात्यये बहुजलं शार्करं-मद्यविशेषं योज्यम्| मधु-मक्षिकं वा, रसैर्दाडिमादिजैर्युक्तम्| तच्च सुष्ठु शीतं कृत्वा योज्यम्| परुषकाण्यत्र मधुराणि योज्यानि नाम्लानि, तेषां कफपित्तकरत्वात्| तथा च मुनिः (च. सू. अ. २७/१३२) "अम्लं परुषकं द्राक्षा बदराण्यारुकाणि च| पित्तश्लेष्मप्रकोपीणि" इति| तादृक् च-सुशीतं, पनकं योज्यम्| किम्भूतम् ? सह सितासक्तुभिर्वतते यत्तदेवम्| सक्तवश्च लाजानां योज्याः, योग्यतरत्वात्, न तु यवानाम्| तथा, स्वादुवर्गस्य क्वाथेन संयुक्तं मद्यं समाक्षिकं योज्यम्|

Adhikarana pittAdhike shAlyAdyannam (21-22) · Śloka 22

| शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः||२१|| सतीनमुद्गामलकपटोलीदाडिमै रसैः| |२२|

🔊 Audio coming soon

स०-शालिषष्टिक भुञ्जीत| कैः सह ? शशादिजै रसैर्दे शादिसात्म्यवशात् सतीनादिजैश्च रसैः|

Adhikarana pittAdhike samutlkiShTakaPapitte vamanam,pittAdhike tataH saMsargIkramaH (22-24) · Śloka 24

| कफपित्तं समुक्त्लिष्टमुल्लिखेत्तृड्विदाहवान्||२२|| पीत्वाऽम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम्| द्राक्षारसं वा संसर्गी तर्पणादिः परं हितः||२३|| तथाऽग्निर्दीप्यते तस्य दोषशेषान्नपाचनः| |२४|

🔊 Audio coming soon

स०-तृड्विदाहवान् मदात्ययी कफपित्तं समुत्क्लिष्टं-समुत्थितं स्वस्थानाच्च्युताभासं, सम्यग्वमेत्| किं कृत्वा ? अम्बु शीतं पीत्वा, मद्यं वा भूरिणेक्षुरसेन संयुतं पीत्वा, अथवा द्राक्षारसं पीत्वा| परं-अनन्तरं, संसर्गी तर्पणादिः सुष्ठु हितः| कृतवमनादिकस्यानन्तरं पेयादिक्रमः संसर्गीत्युच्यते| एवं कृते सति तस्य-मदात्ययिनः, अग्निर्दीप्यते| किम्भूतः ? दोषशेषस्यान्नस्य-आहारस्य च, पाचनः|

Adhikarana pittAdhike saraktaniShThIvakAsAdau auShadham (24-26) · Śloka 26

| कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च||२४|| तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि| गुडूचीभद्रमुस्तानां पटोलस्याथव रसम्||२५|| सशृङ्गबेरं युञ्जीत तित्तिरिप्रतिभोजनम्| |२६|

🔊 Audio coming soon

सं-पित्तमदात्यये कासे रक्तनिष्ठीवसहिते पार्श्वादिरुजासु च तृष्णायां विदाहसितायां हृदय उरसि च सोत्क्लेशे सति गुडूच्यादीनां रसमथवा पटोलस्य रसं सनागरं युञ्जीत| अल्पस्तित्तिरिस्तित्तिरिप्रति| "सुप्प्रतिना मात्रार्थे" इत्यव्ययीभावः|

Adhikarana pittAdhike atitRuShNAdau pAnamannaM ca (26-27) · Śloka 27

| तृष्यते चाति बलवद्वातपित्ते समुद्धते||२६|| दद्याद् द्राक्षारसं पानं शीतं दोषानुलोमनम्| जीर्णेऽद्यान्मधुराम्लेन छागमांसरसेन च||२७||

🔊 Audio coming soon

स०-अतितृष्यते च पुरुषाय वातपित्तेऽधिके सति द्राक्षारसपानं दद्यात्| किम्भूतम् ? शीतलं तथा दोषानुलोमनम्| जीर्णे च तस्मिन् छागमांसरसेन मधुराम्लेनाश्नीयात्|

Adhikarana pittAdhike tRuShNAyAM pAnam (28-29) · Śloka 29

तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम्| मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम्||२८|| पाटल्युत्पलकन्दैर्वा स्वभावादेव वा हिमम्| |२९|

🔊 Audio coming soon

स०-तृषि सत्यामल्पं-मन्दं, मदं रक्षन् बहूदकं मद्यं पिबेत्| मुस्तादिजलं वा पिबेत्| पर्णिनीभिः क्वथितं वा पटो (पाट)ल्यादिशृतां वा सर्वमेतच्छीतं पात्व्यम्| यत्तोयं स्वभावादेव वा हिममिति|

Adhikarana pittAdhike abdhAtukShINAdau pAnam (29-30) · Śloka 30

| मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते||२९|| यः शुष्कगलतालोव्ष्ठो जिह्वां निष्कृष्य चेष्टते| पाययेत्कामतोऽम्भस्तं निशीथपवनाहतम्||३०||

🔊 Audio coming soon

स०-मद्यातिपानाद्धेतोरब्धातौ क्षीणे-अल्पीभूते, तेजसि चोद्धते-क्षोभिते सति, यः पुरुषः शुष्कगलताल्वोष्ठः सन् जिह्वां निष्कृष्य-निःसार्य, चेष्टते-इतश्चेतश्च लुठ्ति, तं-नरं, कामतः-इच्छया, अम्भो निशीथे यः पवनस्तेनाहतं पाययेत्|

Adhikarana pittAdhike tRu~aNAnAshako mukhAlepaH (31) · Śloka 31

कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः| पञ्चाम्लको मुख़ालेपः सद्यस्तृष्णं नियच्छति||३१||

🔊 Audio coming soon

सं-कोलादिभिः पञ्चाम्लको मुख़ालेपो द्राक् तृष्णां शमयति|

Adhikarana pittAdhike dAhe~atishishiro vidhiH pittAdhike dAhe~arohiNIshirAvedhaH (32-33) · Śloka 33

त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्च्छितः| दाहं प्रकुरुते घोरं तत्रातिशिशिरो विधिः||३२|| अशाम्यति रसैस्तृप्ते रोहिणीं व्यधयेच्छिराम्| |३३|

🔊 Audio coming soon

स०-पानस्य मद्यस्योष्मा त्वचं प्राप्तः पित्तरक्ताभ्यामभिमूर्च्छितो-मिश्रितो, दाहं दारुणं प्रकर्षेण कुरुते| तत्र-दाहे, [अति] शीतो विधिः कार्यः| शीतोपचारेणाप्यशाम्यति सति दाहे मांसरसैस्तृप्ते नरे रोहिणीसंज्ञां शिरां व्यधयेत्, वैद्य इति शेषः| व्यधयेदिति 'घटादित्वान्मत्वे' ह्ऱस्वः|

Adhikarana kaPAdhike vamanopavAsau,kaPAdike shuNThyAdishItakashAyaH (33-34) · Śloka 34

| उल्लेख़नोपवासाभ्यां जयेच्छ्लेष्मोल्बणं पिबेत्||३३|| शीतं शुण्ठीस्थिरोदीच्यदुःस्पर्शान्यतमोदकम्| |३४|

🔊 Audio coming soon

स०-श्लेष्माधिकं मदात्ययं वमनोपवासाभ्यां जयेत्| शुण्ठ्याद्यन्यतमोदकं शीतकषायं पिबेत्|

Adhikarana kaPAdhike nirAmakShudhite shArkarAdimadyam (34-35) · Śloka 35

| निरामं क्षुधितं काले पाययेद्वहुमाक्षिकम्||३४|| शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा| रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्||३५||

🔊 Audio coming soon

स०-ततो निरामं जातक्षुधं सन्तं, काले-यतोचिते, शार्करं बहुमाक्षिकं-बहुक्षौद्रं, पाययेत्| मधु-मार्द्वीकं, वा बहुक्षौद्रम्| द्वयमप्येतत् पुराणम्| तथा, अरिष्टं-अभयादिकृतं, पाययेत्| सीधुं वा पाययेत्| किम्भूतम् ? रूक्षाये तर्पणास्तैः संयुक्तं [तथा] यवानीशुण्ठीभ्यां संयुक्तम्|

Adhikarana kaPAdike yavagodhUmAdyannaM mAMsarasaSca (36-37) · Śloka 37

यूषेण यवगोधूमं तनुनाऽल्पेन भोजयेत्| उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा||३६|| शुष्कमूलकजैश्च्छागै रसैर्वा धन्वचारिणाम्| साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः||३७||

🔊 Audio coming soon

स०-तथा कौलत्थेन यूषेण यवगोधूमं भोजयेत्| किम्भूतेन ? तनुना-स्वच्छेन| तथा, अल्पेनोष्णाम्लकटुतिक्तेनाल्पघृतेन| अथवा, शुष्कमूलकजै रसैश्छारैवा रसैर्धन्वचारिणां वा रसैर्भोजयेत्| किम्भूतैः ? सहाम्लवेतसतित्तिडीकपटोलपत्रत्रिकटुकदाडिमैः|

Adhikarana kaPAdike mAMsaM mAdhavapAnaM ca (38-40) · Śloka 40

प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम्| बीजपूररसाद्यम्लभृष्टनीरसर्वतितम्||३८|| करीरकरमर्दादि रोचिष्णु बहुशालनम्| प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम्||३९|| यथाग्नि भक्षयन् मांसं माधवं निगदं पिबेत्| |४०|

🔊 Audio coming soon

स०-मांसं यथाग्नि-अग्न्यनतिक्रमेण, भक्ष्यन् माधवं निगदंपुराणं, पिबेत्| किम्भूतं मांसम् ? विविधैः प्रकारैः कल्पितोनिष्पादितो, निमर्दको येन मांसेन तद्विकल्पितनिमर्दकम्| तदेव विविधप्रकारत्वं निमर्दकस्याह-प्रभूताः-उत्कटाः, शुण्ठी मरीचहरितार्द्रकपेशयो यस्मिंस्तदेवम्| हरितार्द्रकस्य शस्त्रकृता दीर्घाकारा अवयवाः पेशय उच्यन्ते| बीजपूररसादिभिरम्लस्तथा भृष्टो-यथायथं स्नेहादिना, नीरसः-शुष्कप्रायो, वर्तितोव्यञ्जनप्रकारो, यत्र तदेवम्| करीरादि रोचिष्णु-रोचनशीलं, बहु-प्रभूतं, शालनं-हरितकं, यस्मिन्| तथा, प्रकर्षेण व्यक्तं स्पष्टं, वक्ष्यमाणमष्टाङ्गलवणं यत्र| तदेवं विविधं कल्पनं कृतम्| क्रियाविशेषणान्येतानि|

Adhikarana kaPAdike aShTA~ggalavaNam (40-41) · Śloka 41

| सितासौवर्चलाजाजीतित्तिडीकाम्लवेतसम्||४०|| त्वगेलामरिचार्धांशमष्टाङ्गलवणं हितम्| स्रोतोविशुद्ध्यग्निकरं कफप्राये मदात्यये||४१||

🔊 Audio coming soon

स०-सिताद्यैरष्टाङ्गलवणमन्वर्थसंज्ञं मदात्यये हितम्| स्रोतःशुद्धिकृदग्निदीपनं च|

Adhikarana kaPAdike rUkShoShNodvartanAdi kaPAdike sakAmastrIBiryuttayAjAgaraNam (42-43) · Śloka 43

रूक्षोष्णोद्वर्तनोद्धर्षस्नानभोजनलङ्घनैः| सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च||४२|| मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति| |४३|

🔊 Audio coming soon

स०-रूक्षोष्णैरुद्वर्तनादिभिर्लङ्घनेन तथा युक्त्या-देशकालाद्यपेक्षिण्या, सकामाभिर्दयिताभिः सह यज्जागरणं तेन च कफाधिको मदात्ययो द्रागेव शमं याति|

Adhikarana sannipAte dashavidhe cikitsA (43-44) · Śloka 44

| यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति||४३|| सन्निपाते दशविधे तच्छ्हेषेऽपि विकल्पयेत्| |४४|

🔊 Audio coming soon

स०-"तत्र वातोल्बणे मद्यं" (श्लो. १२) इत्यादि| "पित्तोलबणे बहुजलं" (श्लो १९) इत्यादि, तथा "उल्लेखनोपवासाभ्यां जयेच्छ्लेष्मोल्बणं" (श्लो ३३) इत्यादि च त्रिविधं सन्निपातं पृथग्दोषबलं प्रति लक्षीकृत्य कर्म निर्दिष्टं कर्मदमुक्तम्| न केवलमत्र त्रिविधे सन्निपाते, शेषेऽपि दशविधे सन्निपाते विकल्पयेत्-विविधं कृत्वा कल्पयेत्,- कुर्याट्, वैद्य इति शेषः| एतदुक्तं भवति,-वातोल्बणे मदात्ययजे सन्निपाते यत्कर्म निर्दिष्टं तथा पित्तोल्बणे मदात्ययजे सन्निपाते यत्कर्म निर्दिष्टं तदेव वातपित्तोल्बणे कुर्यात्| एवं दोषबलमपेक्ष्य सर्वस्मिन् मदात्यये चिकित्सितं कुर्याट्| स दशविधः सन्निपातः शिष्यहिताय पद्येन प्रदर्श्यते,-"उत्कर्षेण त्वेको मद्येन द्वौ तदाऽऽदिमः| उत्कर्षेण यदा द्वौ तु मध्येनैको द्वितीयकः|| एको मध्येन दोषः स्याद् द्वावल्पेन तृतीयकः| उत्कर्षेणैक एव स्यादल्पेन द्वौ चतुर्थकः|| उत्कर्षेण यदा द्वौ तु अल्पेनैकश्च पञ्चमः| एकोऽल्पेन तु मध्येन द्वौ दोषाविति षष्ठकः|| उत्कर्षेण समस्ताः स्युरेवं भवति सप्तमः| मध्येन सर्वेऽपि यदा तदा भवति चाष्टमः|| अल्पेन सर्वेऽपि यदा तदा तु नवमः स्मृतः| अल्पेनेको मध्येनैकस्तदा त्वन्त्य इति स्फुटाः|| सन्निपातस्य मुनिना दश भेदाः प्रकीर्तताः|" इति|

Adhikarana sannipAte tvAgAdi pAnakam (44-46) · Śloka 46

| त्वङ्नागपुष्पमगधामरिचाजाजिधान्यकैः||४४|| परुषकमधूकैलासुराह्वैश्च सितान्वितैः| सकपित्थरसं हृद्यं पानकं शशिबोवितम्||४५|| मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम्| |४६|

🔊 Audio coming soon

स०-त्वगादिभिः शर्करान्वितैः कपित्थरसयुक्तं कर्पूरकृताधिवासं पानकं सर्वेषु मदात्ययेषु पातव्यं रुच्यग्निवृद्धिकरम्|

Adhikarana sannipAte harShaNI kriyA (46-47) · Śloka 47

| नाविक्षोभ्य मनो मद्यं शरीरमविहन्य वा||४६|| कुर्यान्मदात्ययं तस्मादिष्यत हर्षणी क्रिया| |४७|

🔊 Audio coming soon

स०-मद्यं यस्मान्मानसं नाविक्षोभ्य-अपि तु मनसः प्रक्षोभणं कृत्वा, न च शरीरस्य विहननमकृत्वा, एवमेव यथा कथञ्चिन्मदात्ययं कुर्यात्| यतश्चैवं तस्माद्धेतोर्हर्षोत्पादिका क्रिया एष्टव्या| नाक्षोभ्येत्ययं पाठो न श्रेयान्, ल्यबादेशस्यात्र दुर्लभत्वात्|

Adhikarana sannipAte eBirashAnte payaH pAnam (47-49) · Śloka 49

| संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि||४७|| न चेच्छाम्येत्कफे क्षीणे जाते दौर्वल्यलाघवे| तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च||४८|| ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः| |४९|

🔊 Audio coming soon

स०-संशुद्धिशमनाद्येषूपक्रमेषु कृतेष्वपि यदि मददोषोमद्योत्थो व्याधिः, न शाम्येत्, तस्य मद्येन विदग्धस्यात एव च कफे सौ-यधातौ क्षीणेऽत एव जाते दौर्बल्यलाघवे-अल्पप्रमाणत्वे कार्श्ये च सति, तदानीं सामर्थ्याद्वातपित्तयोरतिरिक्तता, वातपित्तधिकस्य च क्षीणौजस्त्वात्तथा पयः पथ्यम्| यथा ग्रीष्मोपतप्तस्य तरोर्वर्षम्| वर्षमिति कृद्विधौ "भयादीनामुपसङ्ख्यानम्" इत्यच्|

Adhikarana payaH pAne upapattiH (49-50) · Śloka 50

मद्यक्षीणस्य हि क्षीणं क्षीरमाश्वेव पुष्यति||४९|| ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः|५०|

🔊 Audio coming soon

स०-हि-यस्मात्, तस्य-तुल्यं गुणैः सर्वैः-गुर्वादिभिरोजसः क्षीरं, मद्याच्च विपरीतं गुणैः| तथा च मुनिः (च. सू. अ. २७/२१७)-"स्वादु शीतं मृदु स्निग्धं बहलं श्लक्ष्णपिच्छिलम्| गुरु मन्दं प्रसन्नं च गव्यं दशगुणं पयः|| तदेवंगुणमेवौजः सामान्यादभिवर्धयेत्|" इति| यतश्चैवं तस्मान्मद्यक्षीणस्व क्षीणमोजः क्षीरमाश्चेव पुष्यति-वृद्धि प्रापयति, न त्वपरं, द्रव्यं, यथोक्तहेत्वभावात्|

Adhikarana payasAvihate roge madyapAnam (50-51) · Śloka 51

| पयसा विहते रोगे बले जाते निवर्तयेत्||५०|| क्षीरप्रयोगं, मद्यं च क्रमेणाल्पाल्पमाचरेत्| न विक्षयध्वंसकोत्थैः स्पृशेतोपद्रवैर्यथा||५१||

🔊 Audio coming soon

स०-पयसा रोगे-मदात्ययाख्ये, निवर्तिते बले जाते सति मद्योचितः पुमान् क्षीरप्रयोगं निवर्तयेत्| मद्यं चाल्पाल्पं क्रमेणोपयुञ्जीत| यथा विक्षयध्वंसकोद्भवैरुपद्रवैरसौ न स्पृशेत| विक्षयोद्भवा विकाराः-कायशिरोरोगाद्याः (हृंइ.अ.६/२२), ध्वंसकोपद्रवाः-श्लेष्मनिष्ठीवादयः (हृंइ.अ.६/२२)|

Adhikarana vikShayadhvaMsakayoScikitsA (52-53) · Śloka 53

तयोस्तु स्याद्धृ क्षीरं बस्तयो बृंहणाः शिवाः| अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित्||५२|| युक्तमद्यस्य मद्योत्थो न व्याधिरुपाजायते| अतोऽस्य वक्ष्यते योगो यः सुख़ायैव केवलम्||५३||

🔊 Audio coming soon

स०-तयोर्विक्षयध्वंसकयोर्घृतं क्षीरं च चिकित्सितं स्यात्| तथा बस्तयो बृंहणाः शिवाः-निरपायाः| तथा, आब्याङ्गादीनि यच्च वातजिदन्नपानं तच्च स्यात्| स०-युक्तमद्यस्य पुंसो मद्योत्थो व्याधिर्नोपजायते, युक्तमद्यत्वात्| अतः-अस्माद्धेतोः, अस्य-मद्यस्य, संयोगो वक्ष्यते| यः केवलं सुखायैव स्यात्| अधुना सुरां सम्पन्नामाह-

Adhikarana surApAnasya guNAH stutiSca (54-67) · Śloka 67

आश्विनं या महत्तेजो बलं सारस्वतं च या| दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवं च या||५४|| अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या| सौत्रामण्यां द्विजमुख़े या हुताशे च हूयते||५५|| या सर्वौषधिसम्पूर्णान्मथ्यमानात्सुरासुरैः| महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह||५६|| मधुमाधवमैरेयसीधुगौडासवादिभिः| मदशक्तिमनुज्ज़न्ती या रूपैर्बहुभिः स्थिता||५७|| यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति| कुलाङ्गनाऽपि यां पीत्वा नयत्युद्धतमानसा||५८|| अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि| तरङ्गभङ्गभ्रुकुटीतर्जनैर्मानिनीमनः||५९|| एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम्| यथाकामं भटावाप्तिपरिहृष्टाप्सरोगणे||६०|| तृणवत्पुरुषा युद्धे यामास्वाद्य त्यजन्त्यसून्| यां शीलयित्वाऽपि चिरं बहुधा बहुविग्रहाम्||६१|| नित्यं हर्षातिवेगेन तत्पूर्वमिव सेवते| शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते||६२|| गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना| स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया||६३|| अप्रसन्नाऽपि या प्रीत्यै प्रसन्ना स्वर्ग एव या| अपीन्द्रं मन्यते दुःस्थं हृदयस्थितया यया||६४|| अनिर्देश्यसुख़ास्वादा स्वयंवेद्यैव या परम्| इति चित्रास्ववस्थासु प्रियामनुकरोति या||६५|| प्रियाऽतिप्रियतां याति यत्प्रियस्य विशेषतः| या प्रीतिर्या रतिर्वा वाग्या पुष्टिरिति च स्तुता||६६|| देवदानवगन्धर्वयक्षराक्षसमानुषैः| पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत्||६७||

🔊 Audio coming soon

स०-या-सुरा, अश्विनं महत्तेजो-दीप्तं, दधाति| आश्विनमित्यश्विनोरिदमित्यण्, "नस्तद्धिते" इति टिलोपे प्राप्ते "इनण्यनपत्ये" इति प्रकृतिभावः| या च सुरा सारस्वतं बलं उत्साहं, एन्द्रं च वीर्यं-शक्ति, वैष्णवं च प्रभावं-माहात्म्यं, दधाति| या च मदनस्यास्त्रं-प्रहरणं, बलभद्रस्य या पुरुषाऱ्थः-परं प्रयोजनम्| या च सौत्रामाण्यां यज्ञे द्विजास्ये हुताशे च हूयते| या च महोदधेः सर्वौषधिसम्पूर्णाद्देवदानवैर्विलोड्यमानात् लक्ष्म्यादिभिः सहोत्पन्ना| या च सुरा मदशक्तिमत्यजन्ती बहुभिर्मध्वादिभिराकारैः स्थिता| यां सुरां पीत्वा विलासिन्यो मृगलोचनाः, यथार्थं-अन्वर्थं, नाम बिभ्रति विलासो विद्यते यासामिति| या पीत्वा कुलवामलोचनाऽप्युद्धतमानसा सत्यनङ्गालिङ्गितैरङ्गैर्मुनेरपि चेतः क्वापि नयति| तरङ्गभङ्गा-कुटिला, भ्रुकुटिस्तया तर्जनानि-प्रणयकलहविशेषाः, तैर्मानित्या मानसमेकं प्रसाद्य द्वयोरपि-स्त्रीपुंसयोः, निर्वृतिं-सौख्यं, या सुरा करोति| यां सुरामास्वाद्य नराः समरे तृणमिव प्राणांस्त्यजन्ति| कीदृषि युद्धे ? यथेच्छं भटस्य-शूरपुरुषस्य, याऽवाप्तिस्तया परिहृष्टो-मुदितः, अप्सरःसङ्घो यस्मिन्नाहवे तस्मिन्| यांसुरां, बहुभिः प्रकारैः-आहारादिमध्यावसानलक्षणैः, तथा यां बहुविग्रहां-मधुमाधवादिभिरनेकशरीरां, शीलयित्वाऽपि नित्यं हर्षस्यातिवेगेन तत्पूर्वमिव-तत्प्रथममिव, सेवते| यां दृष्ट्वा उपलभ्यास्वादादिना, शोकादिभिर्नाभिभूयते| यस्याः सुराया ऋते गोष्ठ्यादिर्न शोभते| यया च वियुक्तः शोचते| शोचत इति नङिभ्यस्तङ्| या चाप्रसन्ना-कलुषाऽपि प्रीत्यै, प्रसन्नास्वच्छा सती, स्वर्ग एव स्यात्| यया चान्तःस्थितयेन्द्रमपि दुःस्थितं मन्यते| अनिर्देश्यं-अभणनीयं सुखं यस्मिन्नास्वादे स तथाविध आस्वादो यस्याः सैवम्| या केवलमात्मनैव वेद्या| इति-पूर्वोक्तेन प्रकारेण, चित्रासु-नानाविधास्ववस्थासु, प्रियांवल्लभां, अनुकरोति-अनुहरति| प्रियापक्षे नर्माथः-प्रणयकलहार्थः| अप्रसन्ना-कुपिता| प्रसन्ना-त्यक्तकोपा| अनिर्देश्यः सुखास्वादः-सुखोपलम्भो, यस्या इति योज्यम्| एवं "यां शीलयित्वा" इत्यादिः सर्वोऽपि ग्रन्थः प्रियायामपि योज्यः| तथा, यत्-यस्मात्, सुरा प्रिया-इष्टा, अतिप्रियतां-सुष्ठु वल्लभत्वं, याति| यत्प्रियस्य-प्रकृतत्वात्सुराप्रियस्य, विशेषेण प्रियतां याति| या सुरा प्रीतिरिति या वागिति या पुष्टिरिति या च देवादिभिः स्तुता| पानप्रवृत्तौ सत्यां येषां पानाधिकारोऽस्ति धर्मशास्त्रेष्वनिषिद्धत्वात् तां पूर्वोक्तगुणां सुरां विधिना-वक्ष्यमाणेन (श्लो. ७५) , पिबेत्|

Adhikarana madyasya medonilakaPajaroganAshakatvam (68) · Śloka 68

सम्भवन्ति न ते रोगा मेदोनिलकफोद्भवाः| विधियुक्तादृते मद्याद्ये न सिध्यन्ति दारुणाः||६८||

🔊 Audio coming soon

स०-ते मेदोनिलकफोद्भवा रोगा न सम्भवन्ति| दारुणाः दुःसहाः| ये विधियुक्तान्मद्यादृते न सिध्यन्ति| विधियुक्तेन मद्येन सर्वे मेदोनिलकफजा रोगाः सिध्यन्तीति भावः|

Adhikarana madyasyAvashyakatvam (69) · Śloka 69

अस्ति देहस्य साऽवस्था यस्यां पानं निर्वायते| अन्यत्र मद्यान्निगदाद्विविधौषधसंस्कृतात्||६९||

🔊 Audio coming soon

स०-देहस्य साऽवस्था-प्रक्लिन्नदेहमेहादिका (हृ.सू.अ.८/५४) अस्ति, यस्यां पानं निवार्यते, मद्यादन्यत्र| किम्भूतात् ? निगदात्, तथा विविधौषधसंस्कृतात्| मद्यमेवंविधं वर्जयित्वा पानं निषिध्यत इत्यर्थः|

Adhikarana madyaMvinA AnUpAdimAMsaM kathaM pariNamet (70) · Śloka 70

आनूपं जाङ्गलं मांसं विधिनाऽप्युपकल्पितम्| मद्यं सहायमप्राप्य सम्यक् परिणमेत्कथम्||७०||

🔊 Audio coming soon

स०-आनूपं जाङ्गलं मांसं विधानेनाप्युपकल्पितं मद्यं विनो पयुक्तं कथं सम्यक् परिणमति ?

Adhikarana madyaMvinA lashunaprayoge kiyAn guNaH (71) · Śloka 71

सुतीव्रमारुतव्याधिघातिनो लशुनस्य च| मद्यमांसवियुक्तस्य प्रयोगे स्यात्कियान् गुणः||७१||

🔊 Audio coming soon

पुनरपि मद्यमेव श्लाघयन्नाह- स०-लशुनस्य च दारुणतरवातव्याधिविनाशिनः मद्यमांसरहितस्य प्रयोगे कियान् गुणः स्यात् ? अल्प एवेत्यर्थः|

Adhikarana shastrAdikarmaNi madasyAvasyAvasyakatA (72) · Śloka 72

निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि| पीतमद्यो विषहते सुख़ं वैद्यविकत्थनाम्||७२||

🔊 Audio coming soon

स०-तथा निगूढस्य-अत्यर्थं प्रणष्टस्य, शल्यस्याहरणे आकर्षणे, तथा शस्त्रादिकर्मणि पीतमद्यो नरः सुखं-अक्लेशेन, वैद्यविकत्थनां-कदर्थनां, सहते|

Adhikarana madyasya shreShThatA (73) · Śloka 73

अनलोत्तेजनं रुच्यं शोकश्रमविनोदकम्| न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत्||७३||

🔊 Audio coming soon

स०-तथा, अनलस्य-अग्नेः उत्तेजनं शोकादिघ्नम्| न च कदाचित् त(अ)स्मान्मद्यात् परं-अन्यत्, श्रेष्ठमस्त्यारोग्यादिकृत्|

Adhikarana tasmAdAtmavatA madyaM peyam (74) · Śloka 74

रक्षता जीवितं तस्मात्पेयमात्मबता सदा| आश्रितोपाश्रितहितं परमं धर्मसाधनम्||७४||

🔊 Audio coming soon

स०-यत एवं महागुणं मद्यम्, तस्माज्जिवितं रक्षता नरेण तथाऽऽत्मवता-सुधीमता, सदा पेयम्| आश्रितानामुपाश्रितानां च हितम्| परमं धर्मसाधनं-धर्मोपायः| अथास्य पाने विधिनाह-

Adhikarana madyasya pAne vidhiH (75-85) · Śloka 85

स्रातः प्रणम्य सुरविप्रगुरून् यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य| आपानभूमिमथ गन्धजलाभिषीक्ता- माहारमण्डपसमीपगतां श्रयेत||७५|| स्वास्त्रूतेऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः| स्वं यशः कथकचारणसङ्घै रुद्धतं निशमयन्नतिलोकम्||७६|| विलासिनीनां च विलासशोभि गीतं सनृत्यं कलतूर्यघोषैः| काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम्||७७|| मणिकनकसमुत्थैरावनेयैर्विचित्रैः सजलविविधलेखक्षो-मवस्त्रावृताङ्गैः| अपि मुनिजनचित्तक्षोभसम्पादिनीभि- श्चकितहरिणलोलप्रेक्षणीभिः प्रियाभिः||७८|| स्तननितम्बकृतादतिगौरवा- दलसमाकुलमीश्वरसम्भ्रमात्| इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम्||७९|| यौवनासवमत्ताभिर्विलासाधिष्ठितात्मभिः| सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः||८०|| तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीब शीतलैः| दर्शनेऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः||८१|| चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया च सनाथम्| स्फाटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम्||८२|| तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयःस्थापनं वा| तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च||८३|| घृतिमान् स्मृतिमान्नित्यमनूनाधिकमाचरन्| उचितेनोपचारेण सर्वमेवोपपादयन्||८४|| जितविकसितासितसरो जनयनसङ्क्रान्तिवर्धितश्रीकम्| कान्टमुखमिव सौरभ- हृतमधुपगणं पिबेन्मद्यम्||८५||

🔊 Audio coming soon

स०-स्रातो नरः सुरादीन् प्रणम्य यथास्वं-यथायोग्यं, समस्तस्य परिकरस्य वृत्तिं कृत्वा, अथ पानभूमिं गन्धजलेन-कर्पूरोशीरादिना वा सिरेनाम्बुना, आभिषिक्तामाश्रयेत्| कीदृशीम् ? आहारमण्डपस्य निकटस्थिताम्| पीतमद्यस्य दूरं व्रजत आयासादि स्यात्| वसन्ततिलकं वृत्तम्| अथ-भूमिश्रयणादनन्तरं, शयनीये स्थितो मद्यं पिबेदिति वक्ष्यमाणेन सम्बन्धः| किम्भूते ? सुष्ठु आस्तृते-प्रदत्तप्रच्छदपटे| तथा, कमनीये-रम्ये| मित्रादिसहितः| स्वं यश इत्यादि| किं कुर्वन् ? स्वं-आत्मीयं, यशः कथकादिसङ्गैर्निशमयन्-श्रावयन्| कीदृशम् ? उद्धतं तथाऽतिलोकं-अद्भुतरुपम्| स्वागतावृत्तम्| तथा विलासिनीनां सम्बन्धि गीतं निशमयन्| किम्भूतम् ? सह नृत्येन सनृत्यम्| द्वयमपि बिलसशोभि| विलासलक्षणं चोक्तम्-"स्थानासनयमनानां हर्षभ्रूनेत्रकर्मणां चैव| उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात्||" इति| तथा तद्गीतं मधुरतूर्यशब्दैस्तथा कञ्चीकलापैः स्फुटास्तथा स्फुरन्त्यः किङ्किण्यः-सूक्ष्मघण्टिकाः, येषां तैस्तथाविधैस्तथा क्रीडाविहङ्गैः-सारसादिभिश्च, कृतानुनादम्| उपजातिवृत्तम्| आवनेयैः-डोलुङ्गकैः, तन्वङ्गीभिर्युगपदितस्ततः सञ्चार्यमाणम्| एवं ह्युनुभूयमानं रामणीयकं धत्ते| किम्भूतैरावनेयैः ? मणिकनकसमुत्थैः, तथा विचित्रैः-नानाविधैः, तथा सजलं नानाप्रकारलेखं यत् क्षौ-वस्त्रं तेनावृत्तमङ्गं येषां तैः| किम्भूताभिस्तन्वङ्गीभिः ? मुनिजनचित्तक्षोभसम्पादिनीभिः| तथा, चकितः-त्रस्तो, यो हरिणस्तद्वन्नेत्रेः साधु प्रेक्षन्ते यास्ताभिः| बाहुलकात् कर्तरि ल्युट्| तथा, बल्लभाभिः| मालिनीवृत्तम्| तथा, गतमिति| असंस्थितं-अनवस्थितस्वरूपं, दधतीभिः| यतः स्तनाभ्यां नितम्बेन च कृतादधिकं गौरवादलसम्| तथा, ईश्वरस्य-प्रभोः, यः सम्भ्रमो-भयं, तस्मादाकुलं [गतं-]| अत एव च तरुणचित्तानां विलोभने कार्मणंवशीकरणम्|" द्रुतविलम्बितमाह नभौ भरौ|" तथा, तन्वङ्गीभिरितस्ततो युगपत्सञ्चार्यमाणम्| किम्भूताभिः ? यौवनासवाभ्यां मत्ताभिः| तथा विलासेनाधिष्ठित आत्मा-चित्तं, यासां ताभिः| तथा च कीदृशं मद्यम् ? तालवृन्तादिभिरतिशीतैः शीतलीकृतम्| दर्शनेऽप्येवंरूपं मद्यं कामस्य वशानुगं जनं विदधत् कन्दर्पोद्दीपनत्वात्| किमुत-किंपुनः, पीतं सत्कामवशं जनं कुर्यात्| "रान्नरौ लगयुता रथोद्धता|". तथा, चूतरसादिभिः कृताधिवासं-सुगन्धीकृतम्| तथा, मल्लिकया-पुष्पविशेषेण, उज्जवलया-विकसितया, सनाथंयुक्तम्| तथा, स्फटिकस्य विकारा स्फाटिकी, स्फाटिकी चासौ शुक्तिश्च, तस्यां गतं-स्थितम्| स्फटिकस्येयं स्फाटिकीति व्युत्पत्तौ पुंवद्भावो दुर्निवारः स्यात्| तथा, सतरङ्गम्| एवं च कान्तं-रम्यं, अङ्गमुद्वहन्| उत्प्रेक्षते| अनङ्गं [इव]-पञ्चशरमिव, चारुतरत्वेन कामोत्पादकत्वात्| दोधकवृत्तम्| प्राक्-पूर्वं, तालीसाद्यं चूर्णमेलादिकं वा हृद्यमथव वयः-स्थापनं-रसायनोक्तं, प्राश्य-भक्षयित्वा| तथा, सुमृष्टे-उपलिप्ते तत्प्रार्थिभ्यो-मद्यपानाधिकृतेभ्यो देवदानवकूषमाण्डादिभ्यः, तोयोन्मिश्रं मद्यं दापयित्वा पश्चाज्जलं दापयित्व्यमित्यर्थः| ततश्च-अनन्तरं, पिबेत्| शालिनीवृत्तम्| किं कुर्वन् ? अनूनाधिकं-पूर्वोक्तं, नित्यमाचरन्| धृतिमान् स्मृतिमांश्च सन् उचितेन-योग्येन, उपचारेण सर्वमेवोपपादयेत्(यन्)| किम्भूतं मद्यम् ? विकसितं च तत् असितं सरोजं च विकसितासितसरोजम्| जितं-न्यक्कृतं, विकसितासितसरोजं याभ्यां नयनाभ्यां ते तथाविधे, तयोः सङ्क्रान्तिः-प्रतिबिम्बत्वं, तया संवर्धिता श्रीर्यस्य सरकस्य तदेवम्| तथा, सौरभेण हृतो रम्यगतित्वाद् भ्रमरसार्थो येन तदेवम्| सुरमेर्भावः सौरभम्, "इगन्ताच्च लघुपूर्वात्" इत्यण्| तच्च कान्तामुखमिव| यतो जितविकसितासितसरोजनयनयोर्या सङ्क्रान्तिः-सञ्चारः सकटाक्षेक्षितादिना. तया संवर्धिता श्रीः-शोभा, यस्य तदेवम्| सकटाक्षेक्षितं हि मुखं नितरां राजते| तथा, उत्तमस्त्रीणां मुखं सुगन्धि भवतीति सौरभहृतमधुपगणम्| "विपुला तु याऽन्यथा पादभाक्|"

Adhikarana pAnAnantaraM Bojanam BojanAnantaraM punH pAnam nishi madyapAnamalpameva (86) · Śloka 86

पीत्वैवं चषकद्वयं परिजनं सन्मान्य सर्वं ततो गत्वाऽऽहारभुवं पुरः सुभिषजो भुञ्जीत भूयोऽत्र च| मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलै- र्द्विस्त्रिर्वा निशि चाल्पमेव वनितासंवल्गनार्थं पिबेत्||८६||

🔊 Audio coming soon

स०-एवं-अनेन प्रकारेण, चषकद्वयं पीत्वा तत-अनन्तरं, परिजनं सर्वं-वेश्यादिकमपि, सन्मान्य तथाऽऽहारभुवं गत्वा सुभिषजः-शोभनवैद्यस्य, पुरः-अग्रे, भुञ्जीत| अत्रे च-आहारभुवि, मांसापूपादिभिर्युक्तं द्विस्त्रिर्वा सरकं पिबेत्| मांसापूरेति केचित् पेठुः| निशि तु कान्तायाः संवल्गनार्थं-रञ्जनार्थं, अल्पमेव पिबेत्-न तु बहु| शार्दुलविक्रीडितम्| कान्तारञ्जनपानं श्लाघयन्नाह-

Adhikarana dayitAyA madyApAne prashaMsA (87-88) · Śloka 88

रहसि दयितामङ्के कृत्वा भुजान्तरपीडना- त्पुलकिततनुं जातस्वेदां सकम्पपयोधराम्| यदि सरभसं शीधोर्वारं न पाययते कृती किमनुभवति क्लेशप्ऱ्यं ततो गृहतन्त्रताम्||८७|| वरतनुवक्रसङ्गतिसुगन्धितरं सरकं द्रुतमिव पद्मरागमणिमासवरूपधरम्| भवति रतिश्रमेण च मदः पिबतोऽल्पमपि क्षयमत ओजसः परिहरन् स शयीत परम्||८८||

🔊 Audio coming soon

स०-कृती-प्रवीणो, यदि प्रियां मधोः सरकं न पाययते, ततः किं-कस्मात्, गृहतन्त्रतां-गृहोपकरणसम्पादनक्लेशं, अनुभवति ? किं कृत्वा ? रहस्यङ्के-उत्सङ्गे, दयितां कृत्वा| किभूताम् ? भुजान्तरपीडनात् पुलकितशरीराम्, तथा जातस्वेदाम्, तथा सवेपथुकुचाम्| रोमाञ्चस्वेदकम्पाः सात्विका भावाः शृङ्गारस्याविर्भाविकाः| दयितामिति "गतिबुद्धि" इत्यादिना कर्मत्वम्| पाययते इति "निगरणचलनार्थेभ्यश्च" इति परस्मैपदे प्राप्ते "न पादम्य" इत्यादिना निषिद्धे च स्वेत्याद्यात्मनेपदम्| "भवति हरिणी व्सौ म्रौ स्लौ गोरसोदधिसप्तिभिः|" सं-किम्भूतं मद्यम् ? वरतनुवदनसङत्या सुरभितरम्| तथा पद्मरागमणिं-द्रवत्वमिव, प्राप्तमासवरूपधरम्| यतश्च रतिश्रमेणाल्पमपि मद्यं पिबतो मदो भवति, ततो मद्यमोजसश्च क्षयहेतुः| आत ओजःक्षयं परिहरन् सः-मद्यपायी, पानानन्तरं शयीत-स्वप्यात्| "नजभजजा लगौ च यदि नर्कुटकं तु तदा|"

Adhikarana madyapAnasukhasya surairapi spRuhaNIyatvam (89-90) · Śloka 90

इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते| असारसंसारसुख़ं परमं चाधिगच्छति||८९|| एश्वर्यस्योपभोगोऽयं स्पृहणीयः सुरैरपि| |९०|

🔊 Audio coming soon

स०-इत्थं-एवंप्रकारया, युक्त्या मद्यं पिबन् पुरुषस्त्रिवर्गात्-धर्मार्थकामलक्षणात्, यस्मान्न हीयते| हीयत इति कर्मकर्तरि तङ्| असारसंसारस्य परमं सुखं चाधिगच्छतिप्राप्नोति| अयं-मद्यपानलक्षणः, एश्व्र्यस्योपभोगः सुरैरपि स्पृहणीयः|

Adhikarana madyapAnarahitasya nindA,tasmAdvyavasthayA pAnaM hitam (90-92) · Śloka 92

| अन्यथा हि विपत्सु स्यात्पश्चात्तापेन्धनं धनम्||९०|| उपभोगेन रहितो भोगावानिति निन्द्यते| निर्मितोऽतिकदर्योऽयं विधिना निधिपालकः||९१|| तस्माह्यवस्थया पानं पानस्य सततं हितम्| जित्वा विषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम्||९२||

🔊 Audio coming soon

स०-अन्यथा-एवमपि भोगमकुर्वतो, हि विपत्सु सतीषु धनं-द्रव्यं, पश्चात्तापेन्धनं स्यात्| स ह्येवं विपदि चिन्तयति,-किं मया धनं प्राप्योपभोगोऽस्मिन् कृतः ? उपभोगं विनाभोगवानिति सोल्लुण्ठमुच्यमानो गर्ह्यते| निन्दितत्वमेवास्य प्रकटयति-निर्मित इत्यादि| अयमतिकदर्यः-कुस्वामी, विधिना निधिपालको निर्मितः-कृतः| यत एवं तस्मात् पानस्य-मद्यस्य, व्यवस्थया नियमेन पानं हितम्| ननु, कथं निसर्गतो विषयलुब्धेष्विन्द्रियेषु व्यवस्था पालयितुं शक्यते ? इत्याह-जित्वेत्यादि| विषयाभिलाषिणामिन्द्रियाणां स्वातन्त्रयं जित्वा नियमेन व्यवस्थया पानं कर्तुं शक्यत इत्यर्थः|

Adhikarana eSha dhaninAM vidhiH (93) · Śloka 93

विधिर्वसुमतामेष भविष्यद्वसवस्तु ये| यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्||९३||

🔊 Audio coming soon

स०-वसुमतां-धनिनां, एष विधिः| ये तु भविष्यद्वसवस्तेषां च तैर्यथोपपत्ति-यथायुक्ति, हितं मद्यं मात्रया पातव्यम्|

Adhikarana draridrANAM vidhiH madyapAnasya samayogaH (14) · Śloka 14

यावद् दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभते मनः| तावदेव विरन्तव्यं मद्यादात्मवता सदा||१४||

🔊 Audio coming soon

स०-यावदेव दृष्टेर्न सम्भ्रान्तिर्यावदेव मनो न क्षोभं याति, तावदेव मद्यात् धीमता सर्वदा विरन्तव्यं-निवृत्तिः कार्या| एष एव समयोगः| एतदतिक्रमोऽतियोगः| यथोक्तात्समयोगाद्धीनस्वलक्षणो हीनयोगः| दोषदेशप्रकृत्यादीनपरीक्षय मिथ्यायोगः|

Adhikarana vAtAdhikasya madyapAnaprakAraH (15) · Śloka 15

अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः| स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत्||१५||

🔊 Audio coming soon

स०-वाताधिको नरोऽभ्यङ्गोद्वर्तनादिभिः स्निग्धोष्णैर्भावितोऽन्नैश्च मद्यं पिबेत्|

Adhikarana paittikasya madyapAnaprakAraH (16) · Śloka 16

शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः| पैत्तिको भवितश्चान्नैः पिबन्मद्यं न सीदति||१६||

🔊 Audio coming soon

स०-पैत्तिको विविधैः शीतोपचारैः-चन्दनानुलेपनादिभिः, मधुरस्निग्धशीतलैश्चान्नैः सह मद्यं पिबन् न सीदति|

Adhikarana shlaiShmikasya madyapAnaprakAraH (17) · Śloka 17

उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्| ष्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह||१७||

🔊 Audio coming soon

स०-श्लैष्मिको यवगोधूमभुक् सन् मद्यमशिशिरैरुपचारैस्तथा मांसैर्धन्वोद्भवैर्मरिचसंस्कृतैः सह पिबेत्|

Adhikarana vAte hitaM madyam,pitte hitaM madyam,kaPe hitaM madyam (98) · Śloka 98

तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिकम्| पित्ते साम्भोमधु, काफे मार्द्वीकारिष्टमधवम्||९८||

🔊 Audio coming soon

स०-तत्र-तेषु मद्येषु मध्ये, वाताधिके नरे प्रायो-बाहुल्येन, मद्यं पैष्टिकं गौडिकं च हितम्| पित्ते सजलं समाक्षिकं च मद्यं हितम्| कफे मार्द्वीकारिष्टमाधवं हितम्|

Adhikarana shlaiShmikasya madyapAnakAlaH paittikasya madyapAnakAlaH vAtikasya madyapAnakAlaH samadoShasya madyapAnakAlaH (19-2) · Śloka 2

प्राक् पिबेच्छ्लैष्मिको मद्यं, भुक्तस्योपरि पैत्तिकः| वातिकस्तु पिबेन्मध्ये, समदोषो यथेच्छया||१९|| इति मदात्ययचिकित्सितम्||२||

🔊 Audio coming soon

स०-श्लैष्मिकः प्राग्भक्तं मद्यं पिबेत्| पिबेत् भक्तं भुक्त्वा पिबेत्| वातोत्तरः पुनर्मध्ये भक्तस्य पिबेत्| समदोषो यथेच्छया-भक्तस्य पूर्वं मध्येऽन्ते वा, पिबेत्|

Adhikarana madamUrcCAyeShu sAmAnyacikitsA (100) · Śloka 100

अथ मदमूर्च्छायचिकित्सितम्| मदेषु वातपित्तघ्नं प्रायो मूर्च्छासु चेष्यते| सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत्||१००||

🔊 Audio coming soon

स०-मदेषु प्रायेण वातपित्तघ्नं चिकित्सितम्, मूर्च्छासु-मूर्च्छायेषु चेष्यते| सर्वत्रैव-मदे मूर्च्छाये च, पित्तमेवाधिकं जानीयात्| अत एव तेषामुपक्रमः-

Adhikarana madamUrcCAyeShu sAmAnyacikitsAvistaraH (101-104) · Śloka 104

शीताः प्रदेहा मणयः सेका व्यजनमारुताः| सिता द्राक्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः||१०१|| सिद्धं मधुरवर्गेण रसा यूषाः सदाडिमाः| षष्टिकाः शालयो रक्ता यवाः सर्पिश्च जीवनम्||१०२|| कल्याणकं महातिक्तं षट्पलं पयसाऽग्निकः| पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः||१०३|| त्रिफला वा प्रयोक्तव्या सऋतक्षौद्रशर्करा| |१०४|

🔊 Audio coming soon

स०-शीताः प्रदेहाः| पयो मधुरवर्गेण-द्राक्षादिना, सिद्धम्| तथा,रसाः-मांसरसादयः| यूषाश्च दाडिमान्विताः| तथा, शालयो-रक्तशालय इत्यर्थः| षष्टिकादयश्च| तथा, घृतं कल्याणकादिकम्| [कल्याणकं-] उन्मादप्रतिषेधोक्तम् (हृ.उ.अ.)| महातिक्तं-कुष्टचिकित्सितोक्तम् (हृ.उ.अ.६/२६)| महातिक्तं-कुष्ठचिकित्सितोक्तम् (हृ.चि.अ.१९/८)| षट्पलं-राजयक्ष्मचिकित्सितोक्तम् (हृ.चि.अ.५/२२)| तथा, क्षीरेण चित्रकम्| तथा, पिप्पल्यो रसायनविधानेन| अथवा, शिलाजतु रसायनविधानेन| अथवा, त्रिफला सघ्रुतक्षौद्रशर्करा प्रयोक्तव्या|

Adhikarana prasaktavegeShu visheShaH (104-107) · Śloka 107

| प्रसक्तवेगेषु हितं मुखनासावरोधनम्||१०४|| पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम्| मृणालबिसकृष्णा वा लिह्यात्खौद्रेण साभयाः||१०५|| दुरालभां वा मुस्तं वा शीतेन सलिलेन वा| पिबेन्मरिचकोलास्थिमज्जोशीराहिकेसरम्||१०६|| धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम्| |१०७|

🔊 Audio coming soon

स०-प्रसक्तवेगेषु मदादिषु मुखस्य नासायाश्च पाण्यादिनाऽवरोधनं हितम्| मानुष्या वा क्षीरं पिबेत्| तेन च मानुषीक्षीरेण, नस्यं दद्यात्| मृणालादीन् सहरीतकीन् माक्षिकेण वा लिह्यात्| अतवा धन्वयवासं मुस्तं वा मधुना लिह्यात्| अथवा शीतेन जलेन मरिचादीन् पिबेत्| अहिकेसरं-नागकेसरम्| अथवा, आमलकरसे सिद्धं घृतं हरीत कीक्काथेन वा सिद्धं पिबेत्|

Adhikarana madamUrcCAyeShu visheShacikitsA (107) · Śloka 107

| कुर्यात्क्रियां यथोक्तां च यथादोषबलोदयम्||१०७||

🔊 Audio coming soon

स०-यथोक्तां च क्रियां दोषबलोदयानुसारेण कुर्यात्|

Adhikarana madamUrcCAyeShu shodhanam (108) · Śloka 108

पञ्चकर्माणि चेष्टानि सेचनं शोणितस्य च| |१०८|

🔊 Audio coming soon

स०-पञ्चकर्माणी-वमनविरेकास्थापनाव्वासननस्याख्यानि, चेष्टानि रक्तमोक्षश्च|

Adhikarana madamUrcCAyeShu satvAvajayaH (108) · Śloka 108

| सत्त्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च||१०८||

🔊 Audio coming soon

स०-सत्त्वस्यालम्बनं-आश्रयणम्| तथा, ज्ञानं-महाभूतेन्द्रियतन्मात्रमनोबुध्द्यहङ्कारपुरुषादीनाम्| विषयेष्वगृद्धिः अनभिलाषः|

Adhikarana madamUrcCAyeShu atipravRuddheShu auShadham (109) · Śloka 109

मदेष्वतिप्रवृद्धेषु मूर्च्छायेषु च योजयेत्| तीक्ष्णं सन्न्यासविहितं|१०९|

🔊 Audio coming soon

स०-मदेषु मूर्च्छायेषु अतिप्रवृद्धेषु तीक्ष्णं नस्यादि सन्न्या सोक्तं योजयेत्|

Adhikarana madamUrcCAyeShu viShajeShu auShadam (109-3) · Śloka 3

| विषघ्नं विषजेषु च||१०९|| इति मदमूर्च्छायचिकित्सितम्||३||

🔊 Audio coming soon

स०-तथा विषजेषु मदेषु विषघ्नं चिकित्सितं योजयेत्|

Adhikarana saMnyAse auShadham (110-113) · Śloka 113

अथ सन्न्यासचिकित्सितम्| आशु प्रयोज्यं सन्न्यासे सुतीक्ष्णं नस्यमञ्जनम्| धूमः प्रधमनं तोदः सूचीभिश्च नखान्तरे||११०|| केशानां लुञ्चनं दाहो दंशो दशनवृश्चिकैः| कट्वम्लगालनं वक्रे कपिकच्छ्ववघर्षणम्||१११|| उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्| खादेत्सव्योषलवणं बीजपूरककेसरम्||११२|| लघ्वन्नप्रति तीक्ष्णोष्णमद्यात्स्रोतोविशुद्धये| |११३|

🔊 Audio coming soon

स०-सन्न्यासे शीघ्रं सुष्ठु नस्यमञ्जनं धूमः प्रधमनं च प्रयोज्यम्| सूचीतोदादिकं च नखमध्ये| तथा, वक्रे कटूनां मरीचादीनां, अम्लानां-मातुलुङ्गादीनां, च गालनं प्रयोज्यम्| तथा| कपिकच्छ्ववघर्षणम्| एवमुपक्रान्तः समुत्थितो लब्धचेतनश्च सन् लशुनस्वरसं पिबेत्| तथा, बीजपूरककेसरं सव्योषलवणं भक्षयेत्| स्रोतोविशोधनार्थं लघ्वन्नप्रति भुञ्जीत| कीदृशम् ? तीक्ष्णोष्णम्| लघ्वन्नप्रतीति अल्पलघ्वन्नम्| "सुप्प्रतिना मात्रार्थे" इति समासः|

Adhikarana manasaH saMrakShaNam (7) · Śloka 7

विस्मापनैः संस्मरणैः प्रियश्रवणदर्शनैः||११३|| पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः| स्रंसनोल्लेख़नैर्धूमैः शोणितस्यावसेचनैः||११४|| उपाचरेत्तं प्रततमनुबन्धभयात्पुनः| तस्य संरक्षितव्यं च मनः प्रलयहेतुतः||११५|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसईहितायां चतुर्थे चिकित्सित- स्थाने मदात्ययादिचिकित्सितं नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon

स०-तं-मदादिमन्तं, उपाचरेत्| कैः ? संस्मरणैः| विस्मापनैः-विस्मयकारिभिः| विपूर्वात् स्मिङो णिचि "नित्यं स्मयतेः" इत्यात्वे पुकि ल्युटि च विस्मापनैरिति रूपम्| तथा, प्रियस्य श्रवणेन दर्शनेन च गीतवादित्रशब्दैः पटुभिः-मनोहरैः| तथा, व्यायामशीलनैः| तथा वमनविरेचनाभ्यां धूमेन शोणितस्रावेण चानुबन्धभयाच्च कारणात् तस्य-आतुरस्य, प्रलेयहेतुतो मनः सम्यग्रक्षितव्यं-तत इदं कार्यमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने मदा- त्ययादिचिकित्सितं नाम सप्तमोऽध्यायः समाप्तः|| ७||