Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अतीसारचिकित्सितादनन्तरं ग्रहणीदोषचिकित्सितमुच्यते, निदानसामान्यात्| तथा च प्रागुक्तम् (हृ. चि. अ. ८/१६४)-"अर्शोतिसारग्रहणीविकाराः" इत्यादि, अत आह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अतीसारचिकित्सितादनन्तरं ग्रहणीदोषचिकित्सितमुच्यते, निदानसामान्यात्| तथा च प्रागुक्तम् (हृ. चि. अ. ८/१६४)-"अर्शोतिसारग्रहणीविकाराः" इत्यादि, अत आह-
Adhikarana grahaNIdoShacikitsitAdhyAyaH (2-3) · Śloka 3
अथातो ग्रहणीदोषचिकित्सितं व्याख़्यास्यमः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| )||३||
🔊 Audio coming soon
स०-ग्रहण्यामाश्रितो दोषो ग्रहणीदोषः,-तदाश्रितस्थानोदितकारी वाताद्यन्यतमः, तस्य चिकित्सितं ग्रहणीदोषचिकित्सितम्| शेषं पूर्ववत्|
Adhikarana grahaNIdoShe~ajIrNavadatIsAravaccopacAraH (1) · Śloka 1
ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत्| अतीसारोक्तविधिना तस्यामं च विपाचयेत्||१||
🔊 Audio coming soon
स०-ग्रहणिमाश्रितं दोषमजीर्णवदुपाचरेत्-तत्तुल्यसाधनेन लङ्घनो(नाद्यु)क्तोपचारादिनोपक्रमेत्| अतीसारोक्तविधिना तस्य-ग्रहणिदोषवतः पुंसो, यथादोषमां विपाचयेत्|
Adhikarana vAtaje grahaNIdoShe yavAgvAdyannam (2) · Śloka 2
अन्नकाले यवाग्वादि पञ्चकोलादिभिर्युतम्| वितरेत्पटुलघ्वन्नं पुनर्योगांश्च दीपनान्||२||
🔊 Audio coming soon
स०-अन्नकाले-सम्यग् जातायं क्षुधि, यवाग्वाद्यन्नं-पेयाविलेप्योदनलक्षणं, वितरेत्-दद्यात्| किम्भूतम् ? पञ्चकोलादिभिर्युतम्| आदिशब्देनान्यैरप्येवंप्रकारैर्द्रव्यैर्दीपनादिगुणयुक्तैर्युक्तम्| तथा, पटु-लवणम्, लघु-उभयथा मात्रया प्रकृत्या च| पुनः-भूयो, दीपनान् षाडवादीन् योगान् वितरेत्|
Adhikarana vAtaje sAme peyA, jalaM takraM ca (3) · Śloka 3
दद्यात्सातिविषां पेयामामे साम्लां सनागराम्| पानेऽतीसारविहितं वारि तक्रं सुरादि च||३||
🔊 Audio coming soon
स०-तथा, आमे सति पेयां दद्यात्| किम्भूताम् ? नागरातिविषायुताम्| तथा, साम्लां-ईषदम्लाम्| पानेऽतीसारविहितं वारि तक्रं सुरादि च सात्म्यादिवशाद् यथायोग्यं तस्मै दद्यात्|
Adhikarana vAtaje sAme takrasya tridoShaharatvam (4-5) · Śloka 5
ग्रहणीदोषिणां तक्रं दीपनग्राहिलाघवात्| पथ्यं, मधुरपाकित्वान्न च पित्तप्रदूषणम्||४|| कषायोष्णविकाशित्वाद्रूक्षत्वाच्च कफे हितम्| वाते स्वाद्वम्लसान्द्रत्वात्सद्यस्कमविदाहि तत्||५||
🔊 Audio coming soon
स०-ग्रहणिदोषिणां तक्रं पथ्यम्| कस्मात् ? दीपनग्राहिलाघवात्| दीपनग्राहिशब्दयोरत्र भावप्रधानयोर्निर्देशः, यथा "ह्येकयोर्द्विवचनैकवचने" इत्यत्र| अत एवैतौ भावप्रत्यान्तेन लाघवशब्देन सह निर्दिष्टौ| भाष्यकारस्त्वाह-"द्वन्द्वात्परो यः श्रूयते स सर्वैः सम्बध्यते|" इति| तेन दीपनग्राहिशब्दयोरपि भवप्रत्ययार्थसम्बन्धो भवतीति| मधुरपाकित्वात् पित्तप्रदूषणं च न भवति| नचपदेन प्रकर्षदूषणं पित्तस्य तक्रं निषिध्यते| तेनार्थात् किञ्चित् पित्तकरमित्युक्तं भवति| कषायोष्णविकाशित्वाद्रूक्षत्वाच्च कफे हितम्| तक्रं रूक्षत्वाच्चेति पृथङ्क्षिर्देशाद्रूक्षत्वस्य तक्रगतस्य यथा कफे हितत्वं द्रव्यस्वभावान्न तथा कषायादीनामेतद् द्योतयति| वाते स्वाद्वम्लसान्द्रत्वात्तक्रं पथ्यम्| किम्भूतम् ? सद्यस्कं-सद्योविलोडितम्, अत एव न विदाहि| ननु, ग्रहणीदोषिणां तक्रं पथ्यमित्येतावदस्तु| किं हेतुनिर्देशेन ? अत्रोच्यते| लघ्वादिगुणेभ्यः प्राङ्क्षिरूपित्तेभ्योऽधिकान् विकाशित्वमधुरपाकादीनभिधातुं दीपनादयोऽपि तत्प्रसङ्गान्निर्दिष्टाः| अपि च, ग्रहणीदोषिणां तक्रं पथ्यम् यथा दीपनादिगुणयोगात्तथान्यदपि यद्द्रव्यमेवंगुणं ग्रहणीदोषचिकित्सिते नोक्तं तदपि ग्रहणीदोषिणां पथ्यमिति हेतुनिर्देशेन द्योत्यते| द्रव्यस्वभावात्तु विशेषेण ग्रहणीदोषिणां तक्रं पथ्यमिति| एष च न्यायोऽनत्रापि सहेतुकद्रव्यकथने योज्यः| किञ्च यत्तदोर्नित्याभिसम्बन्धादेवंनिर्देशाच्चायमर्थोऽवतिष्ठते,- यदेवंविधं तक्रं तद् ग्रहणीदोषिणां पथ्यम्, नान्याद्रुशं यदनुद्धृतस्नेहमथवाऽर्धोद्धृतस्नेहं तथाऽतिजातत्वादम्लं तथाऽसद्यस्कं विदाहि च, तत्सर्वं ग्रहणीदोषिणामपथ्यमेव| तक्रे च रूक्षस्वाद्वम्लादयो गुणाः परस्परविरुद्धा आपि द्रव्यप्रभावात् कफविजयित्वं वातविजयित्वं च यथायोगं कुर्वन्त्येव स्वं स्वं कर्म, यथा सत्वरजस्तमःसंज्ञा गुणाः|
Adhikarana vAtaje sAme amlAdicUrNam (6-7) · Śloka 7
चतुर्णां प्रस्थमम्लानां त्र्यूषणाच्च पलत्रयम्| लवणानां च चत्वारि शर्करायाः पलाष्टकम्||६|| तच्चूर्णं शाकसूपान्नरागादिष्ववचारयेत्| कासाजीर्णारुचिश्वासहृत्पाण्डुप्लीहगुल्मनुत्||७||
🔊 Audio coming soon
स०-अम्लानां चतुर्णां-कोलदाडिमवृक्षाम्लचुक्रिकाणां, प्रस्थम्| केचित्तु वृक्षाम्लाम्लवेतसदाडिमबदराणामित्याहुः| त्रिकटुकात् पलत्रयम्| लवणानां च चत्वारि पलानि| शरकरायाः पलान्यष्टौ| तदेतच्चूर्णं शाकादिष्ववचारयेत्-मिश्रयेत्| तच्च कासादिजित्|
Adhikarana vAtaje sAme nAgarAdikvAthakalkau, nAgaraharItakIcUrNe, vacAdicUrNam (8-9) · Śloka 9
नागरातिविषामुस्तं पाक्यमामहरं पिबेत्| उष्णाम्बुना वा तत्कल्कं नागरं वाऽथवाऽभयाम्||८|| ससैन्धवम् वचादिं वा तद्वन्मदिरयाऽथवा| |९|
🔊 Audio coming soon
स०-नागरादि पाक्यं क्वाथयित्वाऽऽमघ्नं पिबेत्| अथवा, तेषां-नागरादीनां, कल्कमुष्णाम्बुना पिबेत्| अथवा, शुण्ठीमुष्णाम्बुना पिबेत् हरीतकीं व| वचादिगणं वा सैन्धवान्वितं तद्वत्-उष्णाम्बुना, पिबेत्| वचादिमेव मदिरया वा पिबेत्|
Adhikarana vAtaje sAme sapravAhe biDalavaNAdi cUrNam (9-10) · Śloka 10
| वर्चस्यामे सप्रवाहे पिबेद्वा दाडिमाम्बुना||९|| बिडेन लवणं पिष्टं बिल्वचित्रकनागरम्| सामे कफानिले कोष्ठरुक्करे कोष्णवारिणा||१०||
🔊 Audio coming soon
स०-पुरीष आमे तथा सप्रवाहे बिडेनोपलक्षितं लवणं बिडलवणं पिष्टं दाडिमाम्बुना वा पिबेत्| सामे वातकफे कोष्ठरुजाकरे बिल्वादीनि कोष्णवारिणा पिबेत्|
Adhikarana vAtaje sAme kali~ggAdicUrNam pathyAdicUrNam (11-12) · Śloka 12
कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयम्| छर्दिहृद्रोगशूलेषु पेयमुष्णेन वारिणा||११|| पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्| |१२|
🔊 Audio coming soon
स०-छर्द्यादिषु कलिङ्गादिकं कोष्णेन वारिणा पेयम्| पथ्यादिकं चूर्णं समरिचमुष्णजलेन पिबेत्| पूर्वगुणम्|
Adhikarana vAtaje sAme pippalyAdicUrNam (12-14) · Śloka 14
| पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्||१२|| चित्रकं कौटजं क्षारं तथा लवणपञ्चकम्| चूर्णीकृतं दधिसुरातन्मण्डोष्णाम्बुकाञ्जिकैः||१३|| पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं परम्| |१४|
🔊 Audio coming soon
स०-पिप्पल्यादिकं सूक्ष्मरजीकृतं दध्यादिभिरग्निदीप्त्यर्थं पिबेत्| तस्याः सुराया मण्डस्तन्मण्डः| कोष्ठवातहरं चैतच्चूर्णं स्यात्|
Adhikarana vAtaje sAme lavaNapa~jcakAdi guTikA (14-15) · Śloka 15
| पटुनि पञ्च द्वौ क्षारौ मरिचं पञ्चकोलकम्||१४|| दीप्यकं हिङ्गुगुलिका बीजपूररसे कृता| कोलदाडिमतोये वा परं पाचनदीपनी||१५||
🔊 Audio coming soon
स०-लवणपञ्चकादिभिर्गुटिका बीजपूररसे कृता कोलदाडिमजले वा कृताऽतिशयेन पाचनी दीपनी च स्यात्|
Adhikarana vAtaje sAme tAlIsAdiguTikA (16-21) · Śloka 21
तालीसपत्रचविकामरिचानां पलं पलम्| कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठी पलत्रयम्||१६|| चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम्| गुडेन वटकान् कृत्वा त्रिगुणेन सदा भजेत्||१७|| मद्ययूषरसारिष्टमस्तुपेयापयोनुपः| वातश्लेष्मात्मनां छर्दिग्रहणीपार्श्वहृद्रुजाम्||१८|| ज्वरश्वयथुपाण्डुत्वगुल्मपानात्ययार्शसाम्| प्रसेकपीनसश्वासकासानां च निवृत्तये||१९|| अभयां नागरस्थाने दद्यात्तत्रैव विड्ग्रहे| छर्द्यादिषु च पैत्तेषु चतुर्गुणसितान्विताः||२०|| पक्वेन वटकाः कार्या गुडेन सितयाऽपि वा| परं हि वह्निसम्पर्काल्लघिमानं भजन्ति ते||२१||
🔊 Audio coming soon
स०-तालीसपत्रादीनां प्रत्येकं पलम्| पिप्पली पले द्वे| पिप्पलीमूलस्य द्वे| शुण्ठी पलत्रयम्| चतुर्जातमुशीरं च पृथक् कर्षभागम्| गुडेन त्रिगुणेन वटकान् कृत्वा मद्यादीन् पिबन् सदा भजेत्| किमर्थमित्याह-वातकफात्मकच्छर्द्यादीनां शान्त्यर्थम्| तत्र च (त्रैव)-एतेष्वेव च वटकेषु, विड्ग्रहे-विड्विबन्धे सति, अभयां नागरस्थाने दद्यात्| छर्द्यादिषु पूर्वोक्तेषु पित्तोद्भवेषु सत्सु गुडवर्जं चतुर्गुणसितया युक्ता वटकाः कार्याः| वटकानां विधानमाह-पक्वेन गुडेन वटकाः कार्याः, सितया वा पक्वया कार्याः| किमिति पक्वेन क्रियन्ते ? इत्याह-यस्मात्कारणादग्निसम्पर्कात् ते-वटकाः, परं लघुत्वं भजन्ति| लघोर्भावो लघिमा, "पृथ्वादिभ्य इमनिच्|" "टेः" इति टिलोपः|
Adhikarana vAtaje nirAme ghRutam, nirUhabastiH, virecanam (22-24) · Śloka 24
सामचिकित्सामुक्त्वा निरामचिकित्सां विशेषेणाह अथैनं परिक्वामं मारुतग्रहणीगदम्| दीपनीययुतं सर्पिः पाययेदल्पशो भिषक्||२२|| किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्| द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं नुरूहयेत्||२३|| तत एरण्डतैलेन सर्पिषा तैल्वकेन वा| सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||२४||
🔊 Audio coming soon
स०-मारुतग्रहणीगदा विद्यन्ते यस्येति "अर्शआदित्वात्(भ्योऽ)अच्"| एनं-मारुतग्रहणीगदवन्तं, दीपनीयौषधयुतं-पञ्चकोलप्रायद्रव्यान्वितं, वह्निसन्धुक्षणार्थमल्पमात्रया घृतं पाययेत्| किञ्चित्सन्धुक्षिते-मनाक् सन्दीपिते, त्वग्नौ सति सक्तविण्मूत्रपवनं नरं द्वे दिने त्रीणि वा सस्नेह्य-स्नेहयित्वा, अनन्तरं स्विन्नाभ्यक्तं कृत्वा निरुहयेत्| ततो-निरुहादनन्तरं, मारुते शान्ते सत्येरण्डतैलेनाथवा तैल्वकेन (हृ.चि.अ.२९१३२) घृतेन सक्षारेण स्रस्तदोषं-प्रच्युतदोषं, विरेचयेत्|
Adhikarana vAtaje nirAme anuvAsanam, anantaraM laghvannam (25-26) · Śloka 26
शुद्धरूक्षाशयं बद्धवर्चस्कं चानुवासयेत्| दीपनीयाम्लवातघ्नसिद्धतैलेन तं ततः||२५|| निरूढं च विरिक्तं च सम्यक्चाप्यनुवासितम्| लघ्वन्नप्रतिसंयुक्तं सर्पिरभ्यासयेत्पुनः||२६||
🔊 Audio coming soon
स०-शुद्धो रूक्ष आशयो यस्य स एवम्, तथा बद्धं वर्चः-पुरीषं यस्य तम्, शुद्धरूक्षाशयमितिहेतौ प्रथमा, शुद्धरूक्षाशयत्वेन वद्धवर्चस्कमित्यर्थः| तथाविधं नरमनुवासयेत्| केन ? दीपनीयानि-नागरादीनि, अम्लनि-वृक्षाम्लमातुलुङ्गदाडिमादीनि, वातघ्नानि-कुष्ठरास्रैरण्डादीनि, तैर्दीपनीयाम्लवातघ्नैः सिद्धतैलेन| निरूढं विरिक्तं च विधिना चानुवासितं मात्रयेत्यर्थः, सम्यक् चाप्यनुवासितं लघ्वन्नप्रतिसंयुक्तं पुनः सर्पिः शीलयेत्|
Adhikarana vAtaje nirAme pa~jcamUlAdighRutam (27-30) · Śloka 30
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः| रास्नाक्षारद्वयाजाजीविडाङ्गशठिभिर्घृतम्||२७|| शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च| शुष्कमूलककोलाम्लचुक्रिकादाडिमस्य च||२८|| तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः| काञ्जिकेन च तत्पक्वमग्निदीप्तिकरं परम्||२९|| शूलगुल्मोदरश्वासकासानिलकफापहम्| |३०|
🔊 Audio coming soon
स०-पञ्चमूलादिभिः कल्कैर्द्रव्यैः शुक्तादिभिर्द्रवद्रव्यैः सामान्यपरिभाषया घृतं पचेत्| पञ्चमूलमिह महद्ग्राह्यम्, सुतरां वातघ्नत्वात्| एतच्च घृतं परमग्निदीप्तिकरं शूलादिघ्नम्|
Adhikarana vAtaje nirAme bIjapUrakaghRutam (30) · Śloka 30
| सबीजपूरकरसं सिद्धं वा पाययेद्धृतम्||३०||
🔊 Audio coming soon
स०-बीजपूरकरसेन सह सिद्धं वा घृतं पाययेत्|
Adhikarana vAtaje nirAme aBya~jjanArthaM tailam (31) · Śloka 31
तैलमभ्यञ्जनार्थं च सिद्धमेभिश्चलापहम्| |३१|
🔊 Audio coming soon
स०-एभिः पञ्चमूलादिभिर्घृतौषधैः सिद्धं तैलं वाऽभ्यञ्जनार्थं हितम्|
Adhikarana vAtaje shleShmAvRutavAtAdau cUrNam (31-32) · Śloka 32
| एतेषामौषधानां वा पिबेच्चूर्णं सुख़ाम्बुना||३१|| वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते| |३२|
🔊 Audio coming soon
स०-एतेषामौषधानां पञ्चमूलादीनां चूर्णमुष्णाम्बुना वा पिबेत्| कस्यामवस्थायामित्याह-वाते| किम्भूते? श्लेष्मावृते, तथा सामे कफे वा, वातेनोद्धते सामे वा|
Adhikarana pittaje grahaNIdoShe vamanavirekau tiktAdyannaM cUrNasnehASca (32-33) · Śloka 33
अधुना पित्तग्रहणीरोगचिकित्सामाह | अग्नेर्निर्वापकं पित्तं रेकेण वमनेन वा||३२|| हत्वा तिक्तलघुग्राहिदीपनैरविदाहिभिः| अन्नैः सन्धुक्षयेदग्निं चूर्णैः स्नेहैश्च तिक्तकैः||३३||
🔊 Audio coming soon
स०-अग्निपित्तयोर्ग्रहण्याश्रयत्वाद् द्रवत्वाच्च यदग्नेः प्लावकं पित्तमूर्ध्वाधः प्रपन्नं तद्यथासन्नदेशं वमनेन विरेकेण वा हत्वा, आनन्तरं तमग्निमन्नैस्तिक्तलघुग्राहिदीपनैः सन्धुक्षयेत्| किम्भूतैः ? अविदाहिभिः,-न तु सामान्येन दीपनैः| न केवलमेवंविधैरन्नैरग्निं सन्धुक्षयेत्, तथा च चूर्णैः स्नेहैश्च तं सन्धुक्षयेत्| किम्भूतैः ? तिक्तकैः-तिक्तद्रव्यभूयिष्ठैश्चूर्णैस्तिक्तद्रव्यसाधितैः स्नेहैश्च|
Adhikarana pittaje grahaNIdoShe paTolAdi cUrNam (34-37) · Śloka 37
पटोलनिम्बत्रायन्तीतिक्तातिक्तकपर्पटम्| कुटजत्वक्फलं मूर्वा मधुशिग्रुफलं वचा||३४|| दार्वीत्वक्पद्मकोशीरयवानीमुस्तचन्दनम्| सौराष्ट्र्यतिविषाव्योषत्वगेलापत्रदारु च||३५|| चूर्णितं मधुना लेह्यं पेयं मद्यैर्जलेन वा| हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्||३६|| कामलां सन्निपातं च मुख़रोगांश्च नाशयेत्| |३७|
🔊 Audio coming soon
स०-मधुशिग्रुः-सोभाञ्जनकविशेषः, तस्य फलं श्वेतमरिचाख़्यम्| एतत्पटोलादिकं चूर्णितं मधुना लेह्यमथवा जलेन पेयं मद्यैर्वा| तच्च हृद्रोगादीन् नाशयेत्|
Adhikarana pittaje grahaNIdoShe BUnimbAdi cUrNam (37-39) · Śloka 39
| भूनिम्बकटुकामुस्तात्र्यूषणेन्द्रयवान् समान्||३७|| द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्| गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्||३८|| कामलाज्वरपाण्डुत्वमेहारुच्यतिसारजित्| |३९|
🔊 Audio coming soon
स०-भूनिम्बाद्यान् समभागान् चित्रकात् द्वौ कुटजत्वचां षोडश भागांश्चूर्णयेत्| तदेतच्चूर्णं गुडयुतेन शीताम्बुना पीतं ग्रहणीरोगादिहरम्|
Adhikarana pittaje grahaNIdoShe nAgarAdicUrNam (39-41) · Śloka 41
| नागरातिविषामुस्तापाठाबिल्वं रसाञ्जनम्||३९|| कुटजत्वक्फलं तिक्ता धातकी च कृतं रजः| क्षौद्रतण्डुलवारिभ्यां पैत्तिके ग्रहणीगदे||४०|| प्रवाहिकार्शोगुदरुग्रक्तोत्थानेषु चेष्यते| |४१|
🔊 Audio coming soon
स०-नागरादिद्रव्यं चूर्णितं क्षौद्रतण्डुलजलाभ्यां सह पैत्तिकग्रहणीरोग इष्यते, प्रवाहिकादिषु च|
Adhikarana pittaje grahaNIdoShe candanAdighRutam, kuShThoktaMtiktakaghRutam (41-44) · Śloka 44
| चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्||४१|| षड्ग्रन्थासारिवास्फोतासप्तपर्णाटारूषकान्| पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्||४२|| कटुकां रोहिणीं मुस्तां निम्बं च द्विपलांशकान्| द्रोणेऽपां साधयेत्तेन पचेत्सर्पिः पिचून्मितैः||४३|| किराततिक्तेन्द्रयववीरामागधिकोत्पलैः| पित्तग्रहण्यां तत्पेयं कुष्ठोक्तं तिक्तकं च यत्||४४||
🔊 Audio coming soon
स०-चन्दनादिद्रव्यं प्रत्येकं द्विपलांशकमपां द्रोणे पचेत्| तेन क्वाथेन पिचुप्रमाणैश्च किराततिक्तादिभिः कल्कैः सर्पिः पचेत्| कुटन्नटः-श्योनाकः| आस्फोता-उत्पलसारिवा| कपीतनो-वानीरः| अत्र च सर्पिःप्रमाणं क्वाथापेक्षया द्वात्रिंशत्पलानि कल्प्यानि, न तु कल्कापेक्षया पञ्च पलानि| क्वाथादिद्रवद्रव्यस्य स्नेहपाके प्राधान्यात्| यतः क्वाथादिद्रवमन्तरेण स्नेहपाकोऽपि नोपपद्यते, न तु तथा कल्कं विना| तस्मात् क्वाथस्य प्राधान्यात् क्वाथापेक्षयैव सर्पिर्ग्राह्यम्| तत्-एतद्घृतं, पित्तग्रहण्यां पेयम्| यच्च कुष्ठचिकित्सिते (चि. अ. १९/२) गदितं तिक्तकं घृतं तच्च पेयम्| चशब्दो महातिक्तकस्यापि ग्रहणार्थः|
Adhikarana shleShmaje grahaNIdoShe vamanam, kaTvamlAdiBiragnivardhanam (45) · Śloka 45
ग्रहण्यां श्लेष्मदुष्टायां तीक्ष्णैः प्रच्छर्दने कृते| कट्वम्ललवणक्षारैः क्रमादग्निं विवर्धयेत्||४५||
🔊 Audio coming soon
स०-श्लेष्मदुष्टायां ग्रहण्यां तीक्ष्णैर्द्रव्यैः प्रच्छर्दने-वमने, कृते सति प्रथमं कट्वम्ललवणक्षारैरग्निं विवर्धयेत्|
Adhikarana shleShmaje grahaNIdoShe pa~jcakolAdisiddhaM peyAdyannam (46) · Śloka 46
पञ्चकोलाभयाधान्यपाठागन्धपलाशकैः| बीजपूरप्रगाढैश्च सिद्धैः पेयादि कल्पयेत्||४६||
🔊 Audio coming soon
स०-पञ्चकोलादिभिः सिद्धैः-क्वथितैः, पेयादिकं कल्पयेत्| गन्धपलाशं-गन्धपत्रम्|
Adhikarana shleShmaje madhUkapuShpAdyAsavaH (47-50) · Śloka 50
द्रोणं मधूकपुष्पाणां विडङ्गं च ततोऽर्धतः| चित्रकस्य ततोऽर्धं च तथा भल्लातकाढकम्||४७|| मञ्जिष्ठाऽष्टपलं चैतज्जलद्रोणत्रये पचेत्| द्रोणशेषं शृतं शीतं मध्वर्धाढकसंयुतम्||४८|| एलामृणालागुरुभिश्चन्दनेन च रूषिते| कुम्भे मासं स्थितं जातमासवं तं प्रयोजयेत्||४९|| ग्रहणीं दीपयत्येष बृंहणः पित्तरक्तनुत्| शोषकुष्ठकिलासानां प्रमेहाणां च नाशनः||५०||
🔊 Audio coming soon
स०-मधूककुसुमानां द्रोणम्| ततो-मधूकपुष्पेभ्यः, अर्धेन विडङ्गम्| ततो-विडङ्गात्, चित्रकस्यार्धम्| भल्लातकस्य चाढकम्| मञ्जिष्ठायाः पलान्यष्टौ| एतत्सर्वं पानीयद्रोणत्रये पचेत्| एतच्च द्रोणशेषं शृतं शीतं मधुनोऽर्धाढकेन संयुक्तमेलादिभिः कुम्मे रूषिते-लिप्ते, मासं स्थितं तं-एवंविधं जातं, आसवं प्रयोजयेत्| एषः-आसवो, ग्रहणीं दीपयति बृंहणो रक्तपित्तादिनाशनः|
Adhikarana shleShmaje grahaNIdoShe madhUkapuShpasvarasAsavaH (51-52) · Śloka 52
मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्| क्षौद्रपादयुतं शीतं पूर्ववत्सन्निधापयेत्||५१|| तत्पिबन् ग्रहणीदोषान् जयेत्सर्वान् हिताशनः| |५२|
🔊 Audio coming soon
स०-मधूकपुष्पाणां कुडवस्वरसं च क्वथितमर्धक्षयीकृतं-अर्धावशेषं, शीतं माक्षिकचतुर्थभगयुतं पूर्ववत्-पूर्वेण तुल्यमेलादिरूषिते भाण्डे मासं यावत्, सन्निधापयेत्-सम्यक् स्थापयेत्| "मधूकपुष्पकुडवं" इत्यादि योऽयं परिमाणनिर्देशः स इह मात्रादिक्प्रदर्शनपरः| अनया दिशाऽयं सन्धातव्यो बहुः, न त्वेतावान्| अन्यथा ह्यल्पसम्भृतत्वादयमासवो न शोभनः स्यात्| अन्यत्र त्वासवारिष्टलेहादौ परिपूर्णत्वात् यथानिर्दिष्टैव मात्रा यथोक्तगुणकलापं करोति, न न्यूनाधिकेति वेद्यम्| तत् एतत्, पिबन्नातुरो हितभोजी सन् सर्वान् ग्रहणीदोषान् जयति|
Adhikarana shleShmaje grahaNIdoShe drAkShAdisvarasAsavAH (52) · Śloka 52
| तद्वद्द्राक्षेक्षुख़र्जूरस्वरसानासुतान् पिबेत्||५२||
🔊 Audio coming soon
स०-[तद्वत्-] यथैष मधूकपुष्पक्वाथ आसुतस्तथैव, द्राक्षादिस्वरसानासुतान् पिबेत्| यथा च मधूकपुष्पाणां क्वाथ आदिष्टो ग्रन्थकृता तथैव द्राक्षादीनां स्वरसाभवे क्वाथो ग्राह्याः, तस्य दिक्प्रदर्शनपरत्वात्|
Adhikarana shleShmaje grahaNIdoShe hi~ggvAdikShAraH (53-56) · Śloka 56
हिङ्गुतिक्तावचामाद्रीपाठेन्द्रयवगोक्षुरम्| पञ्चकोलं च कर्षांशं पलांशं पटुपञ्चकम्||५३|| घृततैलद्विकुडवे दध्नः प्रस्थद्वये च तत्| आपोथ्य क्वाथयेदग्नौ मृदावनुगते रसे||५४|| अन्तर्धूमं ततो दग्ध्वा चूर्णीकृत्य घृताप्लुतम्| पिबेत्पाणितलं तस्मिन् जीर्णे स्यान्मधुराशनः||५५|| वातश्लेष्मामयान् सर्वान् हन्याद्विषगरांश्च सः| |५६|
🔊 Audio coming soon
स०-हिङ्ग्वादि कर्षप्रमाणं लवणानि पञ्च पलप्रमाणानि| तदेतद्घृततैलयोः कुडवद्वये दधिप्रस्थद्वये चापोथ्य-सङ्क्षुद्य, मृदावग्नौ क्वाथयेत्| रसे चानुगते-प्रविष्टे सति, अनन्तरमन्तर्धूमं कलशे दग्ध्वा ततश्चूर्णीकृत्य कर्षमात्रं घृतालोडितं पिबेत्| तस्मिन् जीर्णे मधुरभोजी स्यात्| स च-क्षारो, वातकफरोगादीन् हन्ति|
Adhikarana shleShmaje grahaNIdoShe BUnimbAdikShAraH (56-57) · Śloka 57
| भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्||५६|| दग्ध्वा माहिषमूत्रेण पिबेदग्निविवर्धनम्| |५७|
🔊 Audio coming soon
स०-भुनिम्बादीनि दग्ध्वा माहिषमूत्रेण पिबेत्| तच्च पीतं वह्निं वर्धयति|
Adhikarana shleShmaje grahaNIdoShe haridrAdikShAraH (57-58) · Śloka 58
| द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी||५७|| मुस्ता च छागमूत्रेण सिद्धः क्षारोऽग्निवर्धनः| |५८|
🔊 Audio coming soon
स०-कटुरोहिणी-कटुका| हरिद्राद्वयादेश्छागमूत्रेण सिद्धः पूर्ववदग्निवृद्धिकृत् क्षारः|
Adhikarana shleShmaje grahaNIdoShe sudhAkANDAdikShAraguTikA (58-60) · Śloka 60
| चतुष्पलं सुधाकाण्डात्रिपलं लवणत्रयात्||५८|| वार्ताककुडवं चार्कादष्टौ द्वे चित्रकात्पले| दग्ध्वा रसेन वार्ताकाद्गुटिका भोजनोत्तराः||५९|| भुक्तमन्नं पचन्त्याशु कासश्वासार्शसां हिताः| विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः||६०||
🔊 Audio coming soon
स०-सुधास्तम्भाच्चत्वारि पलानि, लवणत्रयात्रीणि पलानि, पक्वशुष्कवार्ताककुडवम्, अर्कादष्टौ पलानि, चित्रकपले द्वे, एतत्सर्वं दग्ध्वा, ततो वार्ताकानां रसेन कृता गुलिका भुक्तं उपयुक्तं, भोजनं पचन्त्याशु| कासादिभ्यो हिताः| विसूचिकादिघ्न्यश्च स्मृताः|
Adhikarana shleShmaje grahaNIdoShe mAtulu~ggAdicUrNam (61-62) · Śloka 62
मातुलुङ्गशठीरास्नाकटुत्रयहरीतकि| स्वर्जिकायावशूकाख़्यौ क्षारौ पञ्चपटूनि च||६१|| सुख़ाम्बुपीतं तच्चूर्णं बलवर्णाग्निवर्धनम्| |६२|
🔊 Audio coming soon
स०-मातुलुङ्गादिकं चूर्णमुष्णोदकेन पीतं बलादिवर्धनम्|
Adhikarana shleShmaje savAte mAtulu~ggAdighRutam, dhAnvantarAdighRutAni (62-63) · Śloka 63
| श्लैष्मिके ग्रहणीदोषे सवाते तैर्घृतं पचेत्||६२|| धान्वन्तरं षट्पलं च भल्लातकघृताभयम्| |६३|
🔊 Audio coming soon
स०-श्लैष्मिके ग्रहणीदोषे वातान्विते तैः-मातुलुङ्गादिभिः, घ्रुतं पचेत्| अथवा, धान्वन्तरं घृतं-प्रमेहचिकित्सिते "दशमूलशठी" (चि. अ. १२/१९) इत्यादिकम्| षट्पलं-राजयक्ष्यचिकित्सिते "पञ्चकोलयवक्षार" (चि. अ. ५/२२) इत्यादिकम्| भल्लातकघृतं-गुल्मोक्तं "भल्लातकानां द्विपलं" (चि. अ. १४/८०) इत्यादिकम्| अभय्घृतं-उदरचिकित्सिते "हरीतकीसूक्ष्मरजः" (चि. अ. १५/२८) इत्यादिकम्|
Adhikarana shleShmaje savAte biDAdikShAraghRutam (63-65) · Śloka 65
| बिडकाचोषलवणस्वर्जिकायावशूकजान्||६३|| सप्तलां कण्टकारीं च चित्रकं चैकतो दहेत्| सप्तकृत्वः स्रुतस्यास्य क्षारस्यार्धाढके पचेत्||६४|| आढकं सर्पिषः पेयं तदग्निबलवृद्धये| |६५|
🔊 Audio coming soon
स०-बिडलवणं काचलवणं-कृष्णलवणं, क्षारलवणं स्वर्जिकादींश्चैकस्मिन् कृत्वा दहेत्| सप्तवारानस्य क्षारस्य स्रुतस्य चार्धाढके सर्पिष आढकं पचेत्| तद्घृतमग्निबलादिवृद्धये पेयम्|
Adhikarana sanipAtaje grahaNIdoShe pa~jcakarmANi (65) · Śloka 65
| निचये पञ्चकर्माणि युञ्ज्याच्चैतद्यथाबलम्||६५||
🔊 Audio coming soon
स०-निचये-सन्निपातजे ग्रहणीदोषे, पञ्चकर्माणि-वमनविरेचनास्थापनानुवासननस्यानि, यथाबलं युञ्ज्यात्| यद्यपि शिरोविरेचनाख़्यस्य कर्मणो बाहुल्येन ग्रहणीदोषे प्रयोजनं न तथा दृश्यते यथा वमनादीनाम्, तथाऽपि भूयस्त्वमुररीकृत्य पञ्चकर्माणीत्युक्तम्| चशब्दाद्यदेतद्धहणीत्रये प्रतिदोषमाश्रित्योक्तं कर्म तदपि निचयोत्थे ग्रहणीदोषे युञ्ज्यात्|
Adhikarana mandAgnau pratidoShaM pratyavasthaM ca cikitsitam (66-68) · Śloka 68
इति ग्रहणिदोषस्य चतुर्विधस्य चिकित्सामाभिधायेदानीं प्रतिपुरुषं प्रतिदोषं मन्दाग्नित्वमाश्रित्य यथावस्थं चिकित्सितं निर्दिशन्नाह प्रसेके श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकम्| योज्यं कृशस्य व्यत्यासात्स्निग्धरूक्षं कफोदये||६६|| क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम्| दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम्||६७|| स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते| |६८|
🔊 Audio coming soon
स०-प्रसेको द्विविधः-वातिकः श्लैष्मिकश्च| तत्र मन्दाग्नेः श्लैष्मप्रकोपजे प्रसेके दीपनं रूक्षतिक्तं यद् द्रव्यं तत्प्रयोज्यम्, न घृतं नापि मधुराम्ललवणादिकम्| श्लेष्मजप्रसेकस्य च लक्षणम् (हृ.चि.अ.५/६३)- "श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति|" इत्यादि| कृशस्य पुनर्मन्दाग्नेः कफोदये सति व्यत्यासात् पर्यायेण व्यतिकर्मव्यवहारार्थः| व्यत्यासात् स्निग्धरूक्षं योज्यम्,-स्निग्धं योजयित्वा रूक्षं योज्यं रूक्षं योजयित्वा स्निग्धं योज्यमित्यर्थः| यदि हि कृशे बहुकफे रूक्षे च नरे रूक्षमेव युञ्ज्यात्, ततो रूक्षे केवले युज्यमाने कार्श्यस्य वृद्धिः स्यात्| अथ स्नेहमेव युञ्जयात्, ततः स्नेहे केवले युज्यमाने कफवृद्धिः स्यात्| इति व्यत्यासेन स्निग्धरूक्षमुपयोज्यम्| क्षीणक्षामशरीरस्य तु कफोदये दीपनं द्रव्यं-पञ्चकोलादिकं, स्नेहैः-घृतादिभिः, संयुतं स्नेहसंयुक्तं युञ्ज्यात्| बहुपित्तस्य मन्दाग्रेस्तिक्तं मधुरकैर्द्रव्यैर्युक्तं दीपनं योज्यम्| बहुवातसय् मन्दाग्नेर्नरस्य स्नेहोऽम्ललवणैर्युक्तः प्रायेण शस्यते|
Adhikarana mandAgnau sneha eva shreShThaM BeShajam (68-69) · Śloka 69
स्नेहस्य मन्दाग्निविषयेभ्योऽन्यद्रव्येभ्यः प्रायेण प्राधान्यं सर्वपुरुषं प्रति द्योतयितुमिदं ब्रूते | स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्||६८|| नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि| |६९|
🔊 Audio coming soon
स०-एवेत्यवधारणे| परं-प्रधानं, स्नेहमेव मन्दाग्रेर्विद्यात्, न ततोऽन्यद् द्रव्यम्| तस्मान्मन्दाग्नेर्दोषप्रतिपक्षभुतैरौषधैर्युक्तः स्नेहो बाहुल्येन पथ्यः| अत एवेदं कारणं निर्दिशन्नाह-नालमित्यादि| यस्मात् स्नेहोद्दीपितस्याग्रेः सुष्ठु गुर्वप्यन्नं शमाय नालं-पर्याप्तम्| तस्मात् स्नेह एव दुर्बलानलदीपनाय श्रेष्ठः|
Adhikarana mandAgnau kaphe kShINe ghRutam (69-71) · Śloka 71
| योऽऽल्पाग्नित्वात्कफे क्षीणे वर्चः पक्वमपि श्लथम्||६९|| मुञ्चेत्पट्वौषधयुतं स पिबेदल्पशो घृतम्| तेन स्वमार्गमानीतः स्वकर्मणि नियोजितः||७०|| समानो दीपयत्यग्निमग्नेः सन्धुक्षको हि सः| |७१|
🔊 Audio coming soon
स०-यः-नरः, अल्पाग्नित्वात्कफे क्षीणे सति पुरीषं पक्वमपि शिथिलं मुञ्चेत्, सः-नरः, अल्पमल्पं घृतं पिबेत्| किम्भुतम् ? पट्वौषधयुतं-सैन्धवशुण्ठीयुक्तम्| तेन-सर्पिषा, समानः स्वमार्गमानीय स्वकर्मणि-अन्नपचनाख़्ये, नियोजितोऽग्निं सन्दीपयति| यतोऽसौ-समानः, अग्ने सन्धुक्षकः|
Adhikarana mandAgnau kaThinamale lavaNaghRutam (71-72) · Śloka 72
| पुरीषं यश्च कृच्छ्रेण कठिनत्वाद्विमुञ्चति||७१|| स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्| |७२|
🔊 Audio coming soon
स०-यश्च-पुरुषः, पुरीषं काठिन्यात्-संहतत्वाद्धेतोः,कृच्छ्रेण मुञ्चति| सः-नरः, लवणैः पञ्चभिर्युक्तं घृतं पिबेत्| किम्भूतम् ? अन्नावग्रहं,-अन्नेनावग्रहः सहसोर्ध्वकायगमनप्रतिबन्धोऽवष्टम्भो यस्य तदेवम्| घृतं पीत्वाऽन्नं भोक्तव्यमित्यर्थः|
Adhikarana mandAgnau rUkShatve dIpanaM ghRutaM tailaM vA (72) · Śloka 72
| रौक्ष्यान्मन्देऽनले सर्पिस्तैलं वा दीपनैः पिबेत्||७२||
🔊 Audio coming soon
स०-रौक्ष्याद्धेतोर्मन्देऽग्नौ सति सर्पिरथवा तैलं दीपनीयैर्युतं पिबेत्|
Adhikarana mandAgnau snehAtiyoge kShArAdayaH (73) · Śloka 73
क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः| |७३|
🔊 Audio coming soon
स०-स्नेहातिपानाद्धेतोर्मन्देऽग्नौ सति क्षारादीन् पिबेत्|
Adhikarana mandAgnau udAvartaje nirUhasneha bastayaH (73) · Śloka 73
| उदावर्तात्तु योक्तव्या निरूहस्नेहबस्तयः||७३||
🔊 Audio coming soon
स०-उदावर्तात्पुनर्मन्देऽग्नौ सति निरूहस्नेहबस्तयः प्रयोक्तव्याः|
Adhikarana mandAgnau doShAtivRuddhije SuddhiH peyAdikramaSca (74) · Śloka 74
दोषातिवृध्द्या मन्देऽग्नौ संशुद्धोऽन्नविधिं चरेत्| |७४|
🔊 Audio coming soon
सं-दोषाऽतिवृद्धया मन्देऽग्नौ सति वमनविरेचनादिभिर्हृ तदोषः कृतसंशुद्धिरन्नविधिं-पेयादिक्रमं, आचरेत्|
Adhikarana mandAgnau vyAdhimuktasya GRutameva (74) · Śloka 74
| व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम्||७४||
🔊 Audio coming soon
स०-व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव दीपनं स्यात्, नान्यत्तथद्रव्यम्|
Adhikarana mandAgnau adhvAdije yavAgUghRutam (75) · Śloka 75
अध्वोपवासक्षमत्वैर्यवाग्वा पाययेद्धृतम्| अन्नावपीडितं बल्यं दीपनं बृहणं च तत्||७५||
🔊 Audio coming soon
स०-अध्वोपवासक्षामत्वैर्मन्देऽग्नौ यवाग्वा सह घृतं पाययेत्, वैद्य इति शेषः| किम्भूतम् ? अन्नेनावपीडितमन्नावपीडितम्, मध्यभक्तं घृतमित्यर्थः| एवं पीतं बल्यं बृहणं दीपनं च तद्भवति|
Adhikarana mandAgnau dIrghakAlaje sAmlA mAMsarasAH (76-77) · Śloka 77
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्| प्रसहानां रसैः साम्लैर्भोजयेत्पिशिताशिनाम्||७६|| लघूष्णकटुशोधित्वाद् दीपयन्त्याशु तेऽनलम्| मांसोपचितमांसत्वात्परं च बलवर्धनाः||७७||
🔊 Audio coming soon
स०-दीर्घकालप्रसङ्गात्तु मन्देऽग्नौ सत्यसम्यगाहाररसपरिणत्या हेतुभूतया क्षामक्षीणकृशान्नरान् पिशिताशिनां-प्रसहादीनां, रसैः साम्लैर्भोजयेत्| कस्मात्तानेतान् भोजयेत्? इत्याह-लघूष्णेत्यादि| लघुत्वादुष्णत्वात्कटुत्वाच्छोधनत्वाच्च ते रसाः शीघ्रमग्निं दीपयन्ति| भावप्रधाननिर्देशः पूर्ववच्चात्र योज्यः| ननु, प्रागभ्यधायि (हृ. सू. अ. ६/६१)- "गुरुष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्|" इति| इह च प्रसहानां लघुत्वमुच्यते| तदिमे वचसी परस्परं व्याघ्नाते| अत्र ब्रूमः| लाघवशब्दोऽत्र क्रियाविशेषार्थः| धावनप्लवनलङ्घनादिका चेष्टा, तस्याः पाटवविशेषो लाघवम्| यथा च प्रागध्यगीष्ट (हृ. सू. अ. २/१०)-"लाघवं कर्मसामर्थ्य" इति| एवं चात्राविरोधः| हेतुनिर्देशादन्येऽप्येवंप्राया ये मां सरसास्तानप्येतान् भोजयेदिति| ते च-प्रसहाः, मांसोपचितमांसत्वाद्धेतोः सुष्ठु बलं वर्धयन्ति|
Adhikarana mandAgnau yathAvasthaM snehAdayaH (78) · Śloka 78
स्नेहासवसुरारिष्टचूर्णक्वाथाहिताशनैः| सम्यक् प्रयुक्तैर्देहस्य बलमग्नेश्च वर्धते||७८||
🔊 Audio coming soon
स०-स्नेहादिभिः सम्यक् प्रयुक्तैः शरीरस्याग्नेश्च बलं वर्धते| तस्मात् स्नेहादयो यथावस्थं प्रयोज्या इति भावः|
Adhikarana mandAgnau sasneha AhAraH (79) · Śloka 79
अधुना स्नेहस्याग्निवृद्धिकरत्वं दृष्टान्तेन दर्शयति दीप्तो यथैव स्थाणुश्च बाह्योऽग्निः सारदारुभिः| सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः||७९||
🔊 Audio coming soon
स०-यथा-येन प्रकारेण, सारदारुभिः-शमीख़दिरादिभिः, सस्नेहैर्बाह्योऽग्निदीप्तः स्थाणुः-स्थिरश्च, जायते| तथैव कोष्ठगोऽग्निः सस्नेहैः पथ्यरूपैराहारैः पटुतरः स्थिरश्च सम्पद्यते|
Adhikarana mandAgnau aBojanAtiBojananiShedhaH (80) · Śloka 80
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्| यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः||८०||
🔊 Audio coming soon
स०-नाभोजनेन कायाग्निर्दीप्यते| न चातिभोजनेन| अत्रैव दृष्टन्तमाह-यथा बाह्योऽग्निर्निरिन्धनो न दीप्यते नश्यति| अल्पोऽग्निर्बाह्योऽतीन्धनेन-बहुभिर्दारुभिः, आवृतो नश्यति,-न दीप्यते| एवं कोष्ठाग्निरप्यभोजनातिभोजनाभ्यां नश्यति,-न दीप्यत इत्यर्थः|
Adhikarana atyagneH (Basmakasya) saMprAptiH, lakShaNam (81-82) · Śloka 82
यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगम्| प्रवृद्धं वर्धयत्यग्निं तदाऽसौ सानिलोऽनलः||८१|| पक्त्वाऽन्नमाशु धातूंश्च सर्वानोजश्च सङ्क्षिपन्| मारयेत्स्यात्स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति||८२||
🔊 Audio coming soon
स०-यस्मिन् काले कफे क्षीणे-क्षयं याते, अत एव स्वस्थाने-आमाशयाख़्ये, पित्तं वृद्धम्| किम्भूतम् ? पवनानुगम्| मारुतेन गमनस्वभावेन पश्चाद्युक्तम्| अत एव तत्पित्तमग्निं वर्धयति| तदा-तस्मिन्काले, असावनलो-जाठराग्निः, सानिलः-पवनसहितो, अन्नं पक्त्वाऽनन्तरं पक्तव्याभावात् सर्वान् धातून् पक्त्वा, आशु पुरुषं मारयेत्| किं कुर्वन् ? ओजश्च सङ्क्षिपन्-संहरन्, विनाशयन्नित्यर्थः| ननु, पित्तानिलयोर्द्वयोः प्रकृतत्वात् सपित्तानिलोऽनल इति वक्तुं युक्तं स्यात्| मैवम्| "पित्तं वह्निर्वह्निजं वा" (हृ. शा. अ. ३/९०) इति कृत्वा तदानीं जठराग्निना सहैकतां प्राप्तं पित्तमिति सानिलोऽनल इति निर्दिष्टम्| सः-अत्यग्निपीडितो, ना-पुरुषो, भुक्ते स्वस्थः स्यात्| जीर्णे तु ताम्यति-उपतप्यते| अनेकार्थत्वाद्धातूनामुप तापार्थस्ताम्यतिः| तमकलक्षणेऽपि प्रागध्यगीष्ट|
Adhikarana atyagneH upadravAH (83) · Śloka 83
तृट्कासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः| |८३|
🔊 Audio coming soon
स०-तृष्णादयो रोगा अत्यग्नेः सम्भवन्ति|
Adhikarana atyagneH gurUsnigdhAdyannapAnAni (83-84) · Śloka 84
तमत्यिग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः||८३|| अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः| |८४|
🔊 Audio coming soon
स०-तमत्यग्निं-भस्मकाख़्यं, गुरुस्निग्धादिभिरन्नपानैः शान्ति नयेत्| कमिव ? दीप्तं-इद्दमग्निं बाह्यं, यथा जलैः|
Adhikarana atyagneH ajIrNe~api Bojanam (84-85) · Śloka 85
| मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्||८४|| निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्| |८५|
🔊 Audio coming soon
स०-मुहुर्मुहुः-क्षणेक्षणे, अजीर्णेऽपि भोज्यनि-कृशरादीनि, उपहारयेत्-आहारार्थ प्रकल्पयेत्| अजीर्णेऽपीत्यपिशब्दात् किमुत जीर्णे भोज्यानुपहारयेदिति| किमित्येवं क्रियते ? इत्याह-यस्मात्तस्मात्तथा तेन प्रकारेणाजीर्णेऽपि पुनः पुनराहा रोपयोगेन निरिन्धनोऽग्निरन्तरं-अवकाशं, लब्ध्वा यथा एनं न विपादयेत्|
Adhikarana atyagneH kRusharAdyannam audakAnUpamAMsAni visheShato matsyAH (85-86) · Śloka 86
| कृशरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम्||८५|| अश्नीयादौदकानूपपिशितानि भृतानि च| मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये||८६||
🔊 Audio coming soon
स०-कृशरामित्यादीनि भुञ्जीत| गुडवैकृतमिति| विकृतमेव वैकृतम्, प्रज्ञादित्वादण्| तथैदकानां-मत्स्यकच्छपादीनां पिशितानि, तथाऽऽनूपानि-वराहादीनाम्, भृतानि-मेदुराणी, भक्षयेत्| विशेषेण मत्स्यान्| श्लक्ष्णान्-अपरुषान्| चशब्दाद्ये च स्थिरतोयचराः-अवहज्जलाश्रिताः, तानप्यश्नीयात्|
Adhikarana atyagneH AvikaM mAMsam (87) · Śloka 87
आविकं सुभृतं मांसमद्यादत्यग्निवारणम्| |८७|
🔊 Audio coming soon
स०-आविकं मांसं सुभ्रुतं-अतीवमेदुरं, अत्यग्निवारणमद्यात्|
Adhikarana atyagneH tRuShAyAM payoghRutAdipAnam, shyAmAdivirecanam, pAyasaBojanam (87-89) · Śloka 89
| पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत्||८७|| गोधूमचूर्णं पयसा बहुसर्पिःपरिप्लुतम्| आनूपरसयुक्तान् वा स्नेहांस्तैलविवर्जितान्||८८|| श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्| असकृत्पित्तहरणं पायसप्रतिभोजनम्||८९||
🔊 Audio coming soon
स०-तथा, तृषितः सन् पयः पिबेत्| किम्भुतम् ? सहमधूच्छिष्टं-समदनं, सर्पिर्वा एवंभुतं पिबेत्| गोधूमचूर्णं बहुघृतं क्षीरेणालोडितं पिबेत्| अथवा, आनुपमांसरसान्वितान् स्नेहान् पिबेत्| किम्भूतान् ? तैलविवर्जितान्| तैलस्य पित्तकृत्त्वान्निषेधः| अथवा, श्यामात्रिवृन्द्यां विपक्वं क्षीरं विरेचनं दद्यात्| तथा, पुनः पुनः पित्तस्य हरणं पायसस्य प्रतिभोजनं हितम्|
Adhikarana atyagneH sAmAnyacikitsA (90) · Śloka 90
यत्किञ्चिद्गुरु मेद्यं च श्लेष्मकारि च भोजनम्| सर्वं तद्यग्निहितं भुक्त्वा च स्वपनं दिवा||९०||
🔊 Audio coming soon
स०-यत्किञ्चिद्गुरु भोजनं यन्मेदस्करं श्लेष्मकरं च, तदत्यग्नये हितम्| भुक्त्वा च यद्दिवा स्वपनं तच्च हितम्|
Adhikarana atyagneH AhAradoShAdiH pacanakramaH (91) · Śloka 91
आहारमग्निः पचति दोषानाहारवर्जितः| धातून् क्षीणेशु दोषेषु जीवितं ढातुसङ्क्षये||९१||
🔊 Audio coming soon
स०-अग्निः पूर्वमाहारं पचति| आहाररहितस्त्वग्निर्दोषान् पचति| तदभावाद्धातून् पचति| धातुसङ्क्षये सति जीवितं पचति-नाशयतीत्यर्थः|
Adhikarana agnibalasya shaktiH agneH pAlanam tasya phalam (10) · Śloka 10
एतत्प्रकृत्यैव विरुद्धमन्नं संयोगसंस्कारवशेन चेदम्| इत्याद्यविज्ञाय यथेष्टचेष्टाश्चरन्ति यत्साऽग्निबलस्य शक्तिः||९२|| तस्मादग्निं पालयेत्सर्वयत्नै स्तस्मिन्नष्टे याति ना नाशमेव| दोषैर्ग्रस्ते ग्रस्यते रोगसङ्घैर्युक्ते तु स्यान्नीरुजो दीर्घजीवी||९३|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सित स्थाने ग्रहणिदोषचिकित्सितं नाम दशमोऽध्यायः||१०||
🔊 Audio coming soon
स०-एतदन्नं प्रकृत्या[एव]-स्वभावेनैव, विरुद्धमपथ्यम् यथा-करमर्दकदधिसर्षपशाकफाणितशुष्कमांसविरूढकाममूल-कलकुचादिकम्| संयोगविरुद्धं यथा-क्षीरमम्लेन सह, आनूपमामिषं माषैः सह, इत्यादि| संस्कारविरुद्धं यथा-हारीतमांसं हारिद्रशूलप्रोतं हारिद्रवह्निना पाचितमित्यादि| एवमिदं प्रकृत्या दिविरुद्धं संयोगस्य संस्कारस्य च वशेन-सामर्थ्येन, चेदं विरुद्धम्| आदिग्रहणान्मात्राकालादिपरिग्रहः| तत्र मात्राविरुद्धं यथा-मधुघृतं समांशम्| कालवशेनेदं यथा-रात्रिपर्युषिता काकमाची| पात्रवशेनेदं यथा-कांस्ये दशाहमुषितम् सर्पिः| इत्याद्यविज्ञाय-अबुद्ध्वाऽपर्यालोच्य, यथेष्टचेष्टाः-यथाभिलाषमा हारमासेवमानाः, यच्चरन्ति साऽग्निबलस्य शक्तिः-सामर्थ्यम्| यत एवं तस्मादग्निं पालयेत्, सर्वयत्नैः-अखिलक्रियानुष्ठानैः, तस्मिन्-अग्नौ, नष्टे-क्षीणे, ना-पुरुषो, नाशं याति| दोषैर्ग्रस्ते वह्नौ ना-पुरुषो, रोगसङ्घैर्ग्रस्यते-पीड्यते| युक्ते-स्वस्थे, पुनरग्नौ नीरुजो दीर्घजीवी च भवेदिति| उपजातिशालिन्यौ वृत्ते| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने ग्रहणीदोषचिकित्सितं नाम दशमोऽध्यायः समाप्तः|| १०||