Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अस्मादनन्तरमतिसारचिकित्सितं प्रारभ्यते, अर्शोतिसारयोः परस्परं निदानभूतत्वेन चिकित्सासामान्यात्| अत एवाह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अस्मादनन्तरमतिसारचिकित्सितं प्रारभ्यते, अर्शोतिसारयोः परस्परं निदानभूतत्वेन चिकित्सासामान्यात्| अत एवाह-
Adhikarana atIsAracikitsitAdhyAyaH AmAtIsAre pUrvaM la~gghanam (2-1) · Śloka 1
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) अतीसारो हि भूयिष्ठं भवत्यामाशयान्वयः| हत्वाऽग्निं वातजेऽप्यस्मात्प्राक् तस्मिंल्लङ्घनं हितम्||१||
🔊 Audio coming soon
स०-हि-यस्मात्, बाहुल्येनाग्निं हत्वा-मन्दीकृत्य, आमाशयान्वयो भवत्यतीसारः| अस्मात्कारणादस्मिन्-अतीसाराख्येव्याधौ, वातजेऽपि पूर्वं लङ्घनं हितम्| आमाशयोऽन्वयोजन्मभूरुत्पत्तिः यस्य स आमाशयान्वयः| अपिशब्दात्क्वचित्कफादिजे सुतरां लङ्घनं हितमिति द्योतयति| लङ्घनशब्देन चोपवास एवेह गृह्यते, शोधनादीनां लङ्घनानामवस्थावशादुच्यमानत्वात्| भूयिष्टग्रहणेन क्वचिद्भयजादावतीसारे व्यभिचारः, नासावामाशयान्वयः| प्राग्ग्रहणेन नोत्तरकाले लङ्ह्घनं हितम्| तदा हि रोगस्वभावाद्धात्वपचयोऽवश्यंभावी| लङ्घनमपि धात्वपचयहेतुः, अतस्तत्रायुक्तम्|
Adhikarana AmAtIsAre vamanam (2) · Śloka 2
शूलानाहप्रसेकार्तं वामयेदतिसारिणम्| |२|
🔊 Audio coming soon
स०-शूलादिभिरार्तमतीसारिणं वामयेत्, न तत्र प्राग् लङ्घनं हितम्| वमनं चैतत्सामान्यं पित्तजादिष्वप्येवंरूपेषु चिकित्सितं बोध्यम्, न केवलं वातजे|
Adhikarana AmAtIsAre upekShaNam (2-3) · Śloka 3
| दोषाः सन्निचिता ये च विदग्धाहारमुर्च्छिताः||२|| अतीसाराय कल्पन्ते तेषूपेक्षैव भेषजम्| भृशोत्क्लेशप्रवृत्तेषु स्वयमेव चलात्मसु||३||
🔊 Audio coming soon
स०-ये च दोषाः सन्निचिताः-अतिशयेन वृद्धिं गताः, तथा विदग्धेनपक्वापक्वरूपेण, आहारेण मूर्च्छिताः-एकतां प्राप्ताः, अतीसाराय कल्पन्तेसम्पद्यन्ते| तेषु तथोत्क्लेशनं-उत्क्लेशाख़्यविकारकरणं प्रत्युन्मुख़ताबीजस्याङ्कुरोत्पत्तावुच्छूनावस्थेव, अतिशयेनोस्क्लेशो भृशोत्क्लेशस्तेन प्रवृत्ताः-अतीसारकरणं प्रति समुद्यतास्तेषु, तथा स्वयमेव-यत्नं विना, चलात्मसु-चलस्वभावेषु, तेषु-तथाभूतेषु, उपेक्षापथ्याशित्वेन सम्यक् प्रवर्तनमेव भेषजम्, न तु पाचनादिकमित्यर्थः| सङ्ग्रहणौषधं कुटजत्वगादिकं व्याधिप्रतिपक्षभूतं कस्मादत्र न प्रयुज्यते ? अपि चाग्न्यसङ्ग्रहे पठिष्यति (हृ. उ. अ. ४०/४९)- "कुटजोऽतीसारे" इति| तस्मादत्र सङ्ग्राहौषधं दातुमुचितमिति यो मन्यते तं प्रत्याह-
Adhikarana AmAtIsAre pUrvaM na sa~ggrahaNam (4) · Śloka 4
न तु सङ्ग्रहणं योज्यं पूर्वमामातिसारिणि| |४|
🔊 Audio coming soon
स०-सङ्ग्रहणं भेषजं पूर्वमामातिसारिणि पुरुषे न योज्यम्| तुशब्दोऽवधारणार्थः| अत्र पूर्वग्रहणं पश्चादीषदामातिसारिणिदीयमानं युज्यत एवेति द्योतयति| सामे दोषेऽतीसारकारिणि प्रथममपि भेदनमौषधं दातुं(दत्तं) विशिष्टायामवस्थायां समानकार्यमपि कदाचिदतीसारिणो गुणाय सम्पद्यते नातीसारप्रतिपक्षभूतमपि च सङ्ग्रहणमौषधमिति कृत्वा|
Adhikarana vibaddhadoShe prANadA (4-5) · Śloka 5
| अपि चाध्मानगुरुताशूलस्तैमित्यकारिणि||४|| प्राणदा प्राणदा दोषे विबद्धे सम्प्रवर्तिनी| |५|
🔊 Audio coming soon
स०-विबद्धे-अल्पाल्पं कृत्वा प्रवर्तमाने, दोषेऽत एव विबन्धत्वादाध्मानादिकारिणि तथाभूतेऽस्मिन्दोषेऽसङ्ग्रहणमपथ्यमपि प्राणदा-हरीतकी, प्राणान् ददातीति-प्राणदा, भवतीति| एवं बहुदोषाणामतीसारिणां प्रायेणैष उपक्रमो बोध्यः|
Adhikarana madhyadoShe BUtIkAdi kvAthaH, bilvAdi kvAthaH, biDAdi kvAthaH, SuNThyAdi kvAthaH (5-7) · Śloka 7
मध्यदोषाल्पदोषयोस्त्वाह | पिबेत्प्रक्वथितास्तोये मध्यदोषो विशोषयन्||५|| भूतीकपिप्पलीशुण्ठीवचाधान्यहरीतकीः| अथवा बिल्वघनकामुस्तनागरवालकम्||६|| बिडपाठावचापथ्याकृमिजिन्नागराणि वा| शुण्ठीग़नवचामाद्रीबिल्ववत्सकहिङ्गु वा||७||
🔊 Audio coming soon
स०- मध्यदोषोऽतीसारी भूतीकादीः पिबेत्| किम्भूतास्ताः ? तोये प्रक्वथिताः| ननु, क्वथिता इत्येतावदेवास्तु, किं प्रशब्देन ? ब्रूमः| प्रकर्षेण क्वथिताः प्रमथ्यारूपेण शृताः प्रक्वथिता इत्यस्यार्थस्य प्रतिपादनार्थं प्रशब्दोकारि| प्रमथ्यायाश्च तन्त्रान्तरे लक्षणमुक्तम्| तथा- "शृतः कषायो निर्यूहः क्वाथो यूषोऽकृतश्च सः| कृतयूषः प्रमथ्या च द्रव्यात्कल्कीकृताच्छृतः||" इति| तदेवं द्रव्यं कल्कीकृत्य पिष्ट्वा यत्क्रियते स कृतयूषो भण्यते| स एव च प्रमथ्याशब्दवाच्यः| तस्मान्मध्यदोषोऽतीसारी भूतीकादीनि पिष्ट्वा प्रकर्षेण क्वाथयित्वा प्रमथ्यारूपेण पिबेदित्यवतिष्ठते| मुनिनाऽप्युक्तम् (च. चि. अ. १९/२२)- "प्रमथ्यां मध्यदोषेभ्यो दद्याद्दीपनपाचनीम्|" इति| किं कुर्वन् पिबेत् ? विशोषयन्,- लङ्घयन्, प्रकृतत्वादात्मानमेव| अथवा, बिल्वधनिकादीनि पिबेत्| अथवा, बिडादीनि शुण्ठ्यादीनि वा पिबेत्|
Adhikarana alpadoShe upavAsaH (8) · Śloka 8
शस्यते त्वलपदोषाणामुपवासोऽतिसारिणाम्| |८|
🔊 Audio coming soon
स०-अल्पदोषाणामतिसारिणामुपवासः शस्यते| तुशब्दोऽवधारणार्थः| अत्रोपवास एवाल्पदोषाणां शस्यते न बहुदोषमध्यदोषोक्तोऽपर उपक्रमः, स न तथा तेषां शस्यत इति| सर्वमतीसारिणं दोषदेशाद्यनुरोधेन कदाचिलङ्ग़येत्|
Adhikarana atIsAre pAnArthaM jalam (8-9) · Śloka 9
| वचाप्रतिविषाभ्यां वा मुस्तापपर्टकेन वा||८|| ह्नीबेरनागराभ्यां वा विपक्वं पाययेज्जलम्| |९|
🔊 Audio coming soon
स०-तृषि सञ्जातायां दोषदेशाद्यनुरोधेन कदाचिद्वचाप्रतिविषाभ्यां विपक्वं जलं पाययेत् कदाचिन्मुस्तापर्पटकेन कदाचिद्वालकनागराभ्याम्| पाययेदित्यत्र कर्त्रभिप्राये क्रियाफले परस्मैपदम्, अन्यथा "न पादम्य" इत्यादिना परस्मैपदनिषेधः स्यात्|
Adhikarana atIsAre annam (9-10) · Śloka 10
| युक्तेऽन्नकाले क्षुत्क्षामं लघ्वन्नप्रति भोजयेत्||९|| तथा स शीघ्रं प्राप्नोति रुचिमग्निबलं बलम्| |१०|
🔊 Audio coming soon
स०-युक्ते-योग्ये, अन्नकाले क्षुत्क्षाममतिसारिणं लघ्वन्नप्रतिभोजयेत्, नापरव्याध्यार्तमिव लङ्ग़नोचितं सम्यग्लङ्ग़नादनन्तरमेव भोजयेत्| अपि तु सम्यग्लङ्ग़ितलक्षणोत्पन्नमप्यतीसारिणं किञ्चित्कालप्रतीक्षणं कृत्वा भोजयेदिति क्षामशब्देन द्योतयति| अल्पं लघ्वन्नं लघ्वन्नप्रति, "सुप्प्रतिना मात्रार्थे" इति समासोऽव्ययीभावः| एवं क्रियमाणे सः-अतिसारी, द्रागेव रुचिं प्राप्नोति, तथा वह्निबलं देहबलम् [च]|
Adhikarana atIsAre takrAdikam (10-11) · Śloka 11
एवं च भुञ्जानस्य पानमुपदिश्यते | तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा||१०|| सुरया मधुना वाऽथ यथासात्म्यमुपाचरेत्| |११|
🔊 Audio coming soon
स०-कदाचित्तक्रेण कदाचित्काञ्जिकेन कदाचित्पेयया कदाचित्तर्पणेन कदाचित्सुरया| कदाचिन्मार्द्वीकेणेति यथासात्म्यमुपाचरेत्|
Adhikarana atIsAre Bojyam (11-13) · Śloka 13
| भोज्यानि कल्पयेदूर्ध्वं ग्राहिदीपनपाचनैः||११|| बालबिल्वशठीधान्यहिङ्गुवृक्षाम्लदाडिमैः| पलाशहपुषाजाजीयवानीबिडसैन्धवैः||१२|| लघुना पञ्चमूलेन पञ्चकोलेन पाठया| |१३|
🔊 Audio coming soon
स०-अस्मात्क्रमादूर्ध्वं-अनन्तरं, भोज्यानि-भोक्तव्यानि,कल्पयेदतीसारिणे| ग्राहिदीपनपाचनैरेव सङ्ग्रहणानि दीपनानि पाचनानि च यानि द्रव्याणि तानि सर्वाण्यतीसारिणे पथ्यानीति| एवं सङ्क्षेपेण सामान्येन चिकित्सितमुक्तम्| तदेव दिङ्मात्रं दर्शयति-बालेत्यादि| बलबिल्वादिभिर्भोज्यानि कल्पयेत्|
Adhikarana kaPapittAdhike peyA (13-14) · Śloka 14
| शालिपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता||१३|| दाडिमाम्ला हिता पेया कफपित्ते समुल्बणे| |१४|
🔊 Audio coming soon
स०-शालिपर्ण्यादिभिः साधिता दाडिमाम्ला पेया कफपित्ताधिके हिता|
Adhikarana vAtAdhike peyA (14) · Śloka 14
| अभयापिप्पलीमूलबिल्वैर्वातानुलोमनी||१४||
🔊 Audio coming soon
स०-अभयादिभिः पेया वातानुलोमनी|
Adhikarana doShabahule virekaH (15-16) · Śloka 16
विबद्धं दोषबहुलो दीप्ताग्निर्योऽतिसार्यते| कृष्णाविडङ्गत्रिफलाकषायैस्तं विरेचयेत्||१५|| पेयां युञ्जयाद्विरिक्तस्य वातघ्नैर्दीपनैः कृताम्| |१६|
🔊 Audio coming soon
स०-यो बहुदोषो विबद्धं-अल्पाल्पं कृत्वा, अतिसार्यते स कृष्णादिकषायैर्विरेचयेत्| विरिक्तस्य च तस्य सतः पेयां वातघ्नैर्दीपनैश्च द्रव्यैः कृतां युञ्ज्यात्|
Adhikarana doShabahule peyA (16-22) · Śloka 22
| आमे परिणते यस्तु दीप्तेऽग्नावुपवेश्यते||१६|| सफेनपिच्छं सरुजं सविबन्धं पुनः पुनः| अल्पाल्पमल्पशमलं निर्विड्वा सप्रवाहिकम्||१७|| दधितैलघृतक्षीरैः स शुण्ठीं सगुडां पिबेत्| स्विन्नानि गुडतैलेन भक्षयेद्बदराणि वा||१८|| गाढविड्विहितैः शाकैर्बहुस्नेहैस्तथा रसैः| क्षुधितं भोजयेदेनं दधिदाडिमसाधितैः||१९|| शाल्योदनं तिलैर्माषैर्मुद्गैर्वा साधु साधितम्| शठ्या मूलकपोतायाः पाठायाः स्वस्तिकस्य वा||२०|| सूषायवानीकर्कारुक्षीरिणीचिर्भटस्य वा| उपोदकाया जीवन्त्या बाकुच्या वास्तुकस्य वा||२१|| सुवर्चलायाश्चुञ्चोर्वा लोणीकाया रसैरपि| कूर्मवर्तकलोपाकशिखितित्तिरिकौक्कुटैः||२२||
🔊 Audio coming soon
स०-यः-अतीसारी, आमे परिणते दीप्तेऽग्नौ सत्युपवेश्यते सफेनपिच्छं तथा सरुजं तथा सविबन्धं पुनः पुनस्तथाऽल्पमल्पं तथाऽल्पपुरीषं निर्विड्वा-पुरीषरहितम्, तथा सप्रवाहिकंमिस्तानिकासहितम्| "स्रुते रक्ते पुरीषे च वायुना विड्विवर्जितम्| प्रवाहितेति विख्यातं यत् फेनाभं प्रवर्तते||" इति प्रवाहिकालक्षणम्| य एवंविधोऽतीसारी स दधितैलघृतक्षीरैः समुदितैः शुण्ठीं सगुडां पिबेत्| अथवा, स्विन्नानि बदराणि गुडतैलेनाश्नीयात्| एवं दोषादिवशाच्छुण्ठीं पाययित्वा कदाचित् पूर्वोक्तानि बदराणि भक्षयित्वाऽनन्तरं क्षुधितं-अतिसञ्जातबुभुक्षं, एनं-अतीसारिणं, गाढविड्विहितैः-वास्तुकादिभिः, शाकैस्तथा मांसरसैर्बहुस्नेहैर्दधिदाडिमसंस्कृतैः शाल्योदनं भोजयेत्| अथवा तिलैर्माषैर्मुद्गैर्वा साधु-शोभनं कृत्वा, साधितं शाल्योदनं भोजयेत्| मूलकपोता-लौमूलकं पोतिकासंज्ञं देशान्तरे प्रसिद्धं कुरुक्षेत्रादौ देशे| अत्र भाष्यं कियत् त्यक्तम्|
Adhikarana pakvadoShe sapravAhike auShadham, annam, yavAgUH (23-24) · Śloka 24
बिल्वमुस्ताक्षिभैषज्यधाकीपुष्पनागरैः| पक्वातीसारजित्तक्रे यवागूर्दाधिकी तथा||२३|| कपित्थकच्छुराफञ्जीयूथिकावटशोलुजैः| दाडिमीशणकार्पासीशाल्मलीनां च पल्लवैः||२४||
🔊 Audio coming soon
स०-बिल्वादिभिस्तक्रे सिद्धा यवागूः पक्वातीसारजित्| दाधिकीति| कपित्थादिजैः पल्लवैर्दाडिमादीनां च पल्लवैर्दध्नि सिद्धा दाधिकी यवागूः| तथा-पक्वातीसारजित्|
Adhikarana pakvadoShe sapravAhike khalaH (25) · Śloka 25
कल्को बिल्वशलाटूनां तिलकल्कश्च तत्समः| दध्नः सरोऽम्लः सस्नेहः ख़लो हन्ति प्रवाहिकाम्||२५||
🔊 Audio coming soon
स०-तथा बिल्वशलाटूनां-स्तोककालजातानां लघूनां बिल्वानां, कल्कः| तथा तिलकल्कस्तत्समो-बिल्वशलाटुसमः| तथा दध्नः सरोऽम्लो-न मधुरः, सस्नेहो-देशाद्यनुरोधाद्धृतादिना स्नेहेन यथायथं युक्तः| अयं खलः सिद्धः प्रवाहिकां हन्ति|
Adhikarana pakvadoShe sapravAhike aparAjitaH khalaH (26-28) · Śloka 28
मरिचं धनिकाऽजाजी तित्तिडीकं शठी बिडम्| दाडिमं धातकी पाठा त्रिफला पञ्चकोलकम्||२६|| यावशूकं कपित्थाम्रजम्बूमध्यं सदीप्यकम्| पिष्टैः षङ्गुणबिल्वैस्तैर्दध्नि मुद्गरसे गुडे||२७|| स्नेहे च यमके सिद्धः ख़लोऽयमपराजितः| दीपनः पाचनो ग्राही रुच्यो बिम्बिशिनाशनः||२८||
🔊 Audio coming soon
स०-मरिचादिभिः पिष्टैः षड्गुणं बिल्वं-बिल्वमज्जा, येषां मरिचादीनां तैः सिद्धः| तथा परिपक्वश्च दध्नि तथा मुद्गरसे गुडे तथा यमके च स्नेहे| ख़लोऽयमपराजितो नाम दीपनादिगुणः| बिम्बिशिनाशनः-प्रवाहिकाघ्नः|
Adhikarana purIShakShaye yUShAH, annam, khalaH, vya~jjanam, saktavaH, mAShAH, mAMsarasaH (29-35) · Śloka 35
कोलानां बालबिल्वानां कल्कैः शालियवस्य च| मुद्गमाषतिलानां च धान्ययूषं प्रकल्पयेत्||२९|| एकध्यं यमके भृष्टं दधिदाडिमसारिकम्| वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत्||३०|| दध्नः सरं वा यमके भृष्टं सगुडनागरम्| सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रयोजयेत्||३१|| फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा| भृष्टान्वा यमके सक्तुन् स्वादेह्योषावचूर्णितान्||३२|| माषान् सुसिद्धांस्तद्वद्वा ऋतमण्डोपसेवनान्| रसं सुसिद्धपूतं वा छागमेषान्तराधिजम्||३३|| पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम्| रक्तशाल्योदनं तेन भुञ्जानः प्रपिबंश्च तम्||३४|| वर्चःक्षयकृतैराशु विकारैः परिमुच्यते| |३५|
🔊 Audio coming soon
स०-कोलादीनां कल्कैः शालेर्यवस्य च कल्कैर्मुद्गादीनां चकल्कैरेकध्यं-व्यतिमिश्रं, धान्ययूषं प्रकल्पयेत्| किम्भूतम् ? यमके भृष्टं तथा दधिदाडिमसारिकम्| वर्चःक्षये-पुरीषक्षये सति, शुष्कमुखं-मुखशोषोपद्रवान्वितमतीसारिणं, तेन-यूषेण, शाल्यन्नं भोजयेत्| शालिग्रहणेन रक्तशाल्यादिनां ग्रहणम्| अथवा, दध्नः सरं यमके पक्वं गुडनागरसहितं व्यञ्जनार्थं प्रकल्पयेत्| अथवा, यमके भृष्टां सुरां व्यञ्जनार्थं प्रकल्पयेत्| अथवा गृञ्जनकस्य-हरितकविशेषस्य, यूषं फलैः-दाडिमादिभिरम्लैः, अम्लं-अम्लीकृतं, व्यञ्जनार्थं प्रकल्पयेत्| यमके स्नेहद्वये, वा सक्तून् भृष्टन् व्योषावचूर्णितान् भक्षयेत्| तथैव माषान् सुस्विन्नान् घृतमण्डोपसेवनान् खादेत्| अथवा, छागमेषयोरन्तराधिजं रसं सुसिद्धपूतं शोभनं कृत्वा पूर्वं सिद्धं पश्चात्पूतं-निर्मलीकृतं, तथा दाडिमसारेणाम्लं धान्यकस्नेहशुण्ठीयुतं व्यञ्जनार्थं पचेत्| तेन रसेन रक्तशाल्यन्नं भुञ्जानस्तमेवमांसरसं प्रपिबन् वर्चःक्षयकृतैर्विकारैः-"पुरीषे वायुरन्त्राणि" (हृ. सू. अ. ११/२१) इत्यादिभिः सुत्रस्थानोदितैः, मुच्यते| प्रवाहिका वर्चःक्षये सति स्यात्| तस्मात्तयाऽपि मुच्यते|
Adhikarana vAte pratihate bAlabilvAdilehaH (35-36) · Śloka 36
| बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम्||३५|| लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः| |३६|
🔊 Audio coming soon
सं-वाते प्रतिहते प्रवाहिकाशूलवान् बालबिल्वादिकं लिह्यात्|
Adhikarana vAte shAbaratvagAdi (36-37) · Śloka 37
| वल्कलं शाबरं पुष्पं धातक्याबदरीदलम्||३६|| पिबेद्दधिसरक्षौद्रकपित्थस्वरसाप्लुतम्| |३७|
🔊 Audio coming soon
स०-रोध्रत्वक् धातकीपुष्पं बदरीपत्रमेतत् दधिसरादिभिराप्लुतं-आलोडितं, पिबेत्|
Adhikarana vibaddhavAtAdau kShIrasauhityam, dhAroShNaM kShIram, eraNDashRutaM kShIram, bAlabilvaSRutaM kShIram (37-39) · Śloka 39
| विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः||३७|| सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति| यमकस्योपरि क्षीरं धारोष्णं वा प्रयोजयेत्||३८|| शृतमेरण्डमूलेन बालबिल्वेन वा पुनः| |३९|
🔊 Audio coming soon
स०-विबद्धे वातवर्चसी यस्य, तथा प्रभुते शूलप्रवाहिके यस्य, तथा सहरक्तेन पिच्छया च यो वर्तते, तथा तृष्णयाऽऽर्तः, एवंविधो नरः क्षीरसौहित्यं-दुग्धतृप्तिं, अर्हति| अथवा, यमकं पीत्वाऽनु धारोष्णं क्षीरं प्रयोजयेत्| एरण्डमूलेन वा शृतं बालबिल्वेन वा शृतं क्षीरं प्रयोजयेत्|
Adhikarana Ame savedane mustA kShIram (39-40) · Śloka 40
| पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणेऽम्भसि||३९|| क्षीरावशिष्टं तत्पीतं हन्यादामं सवेदनम्| |४०|
🔊 Audio coming soon
स०-क्षीरे त्रिगुणेऽम्भसि मुस्ताविंशतिं प्रक्वाथ्य क्षीरावशिष्टं पीतमामं सरुजं हन्यात्| अत्र च विंशतिभिर्मुस्तैः प्रायेण पलं भवति| सामान्यकल्पनया च मुस्तापलं षोडशभिर्द्रवपलैरुत्क्वाथ्य चत्वारि पलानि चतुर्भागावशेषतया कार्याणि| तदेवं क्षीरपलानि चत्वारि पानीयपलानि द्वादश मुस्ताविंशतिं दत्वा क्षीरावशिष्टं पेयमित्ययमत्र क्वाथक्रमो वेद्यः|
Adhikarana cirakAlapravAhikAyAM pippalIcUrNaM marIcacUrNaM ca (40-41) · Śloka 41
| पिप्पल्याः पिबतः सूक्ष्मं रजो मरिचजन्म वा||४०|| चिरकालानुषक्ताऽपि नश्यत्याशु प्रवाहिका| |४१|
🔊 Audio coming soon
स०-पिप्पल्याः सूक्ष्मं चूर्णं जलेन पिबतो मरिचस्य वा सूक्ष्मं चूर्णं जलेन पिबतो बहुकालानुषक्ताऽपि प्रवाहिका नश्यति|
Adhikarana nirAmashUlAdau sakShAraM ghRutam (41-42) · Śloka 42
| निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम्||४१|| रूक्षकोष्ठमपेक्ष्याग्निं सक्षारं पाययेद् घृतम्| |४२|
🔊 Audio coming soon
स०-निरामरूपं तथा शूलेन पीडितं लङ्घनाद्यैः कर्षितं तथा रूक्षकोष्ठं वह्निमपेक्ष्य क्षारसहितं घृतं पाययेत्|
Adhikarana nirAmashUlAdau dadhyAditailam (42-43) · Śloka 43
| सिद्धं दधिसुरामण्डे दशमूलस्य चाम्भसि||४२|| सिन्धूत्थपञ्चकोलाभ्यां तैलं सद्योर्तिनाशनम्| |४३|
🔊 Audio coming soon
स०-दधिसुरामण्डे दशमूलक्वाथे च सैन्धवपञ्चकोलकल्केन तैलं सिद्धं सद्यो रुजापहम्|
Adhikarana nirAmashUlAdau shuNThyAditailam (43-44) · Śloka 44
| षड्भिः शुण्ठ्याः पलैर्द्वाभ्यां द्वाभ्यां ग्रन्थ्यग्निसैन्धवात्||४३|| तैलप्रस्थं पचेद्दध्ना निःसारकरुजापहम्| |४४|
🔊 Audio coming soon
स०-शुण्ठीपलैः षड्भिः पिप्पलीमूलपलद्वयेन चित्रकपलद्वयेन सैन्धवपलद्वयेन च तैलप्रस्थं दध्ना पचेत्| तन्निःसारकरुजापहम्|
Adhikarana nirAmashUlAdau mAMsadugdhAjyam (44-45) · Śloka 45
| एकतो मांसदुग्धाज्यं पुरीषग्रहशूलजित्||४४|| पानानुवासनाभ्यङ्गप्रयुक्तं तैलमेकतः| तद्धि वातजितामग्र्यं शूलं च विगुणोऽनिलः||४५||
🔊 Audio coming soon
स०-एकतः-एकस्मिन् पुरीषग्रहशूलजित्त्वपक्षे, मांसदुग्धाज्यं त्रयमेतत् प्रयुक्तं पुरीषग्रहशूलजित्| एकतः-एकस्मिन् शूलजित्त्वपक्षे, पानानुवासनाभ्यङ्गैः प्रयुक्तं तैलं पुरीषग्रहशूलजित् 'सम्पद्यते' इति वाक्यशेषः| कथमेवम् ? इत्याह-तद्धीत्यादि| तत्-तैलं, यस्मात्सर्वेषां वातजितामग्न्यं-प्रधानम्| शूलं च विगुणोऽनिलः-प्रकुपितः पवनो, नापरः कश्चित्| शूलानिलयोः कार्यकारणभावाह्यतिरेके सत्यपि शूलस्य वातकार्यस्य वातप्रकोपे सत्यविनाभावित्वं सूचयितुं शूलं च विगुणोऽनिल इत्येवमुक्तम्| कुपितश्चेद्वायुरुत्पन्नमेव शूलमित्यर्थः|
Adhikarana nirAmashUlAdau pAnAdiprayuktaM tailaM shreShTham, shreShThatve kAraNam (46-47) · Śloka 47
वायोर्वैगुण्ये कोपे धातुक्षय एवात्र हेतुः| अत एवाह धात्वन्तरोपमर्देद्धश्चलो व्यापी स्वधामगः| तैलं मन्दानलस्यापि युक्त्या शर्मकरं परम्||४६|| वाय्वाशये सतैले हि बिम्बिसी नावतिष्ठते| |४७|
🔊 Audio coming soon
स०-वायुमपेक्ष्यान्ये पित्तश्लेष्मादयो-धात्वन्तराः, तेषामुपमर्दः-अन्यथाभावः, तेन इद्धः-उद्धतः, चलो-वाय्वाख़्यः, स व्यापी-सकलशरीरव्यापनशीलोऽपि, स्वधामगः-पक्वाशयस्थः, तत्राधिक्येन तस्य वृत्तेः, अस्यामवस्थायामस्यातीसारिणस्तैलं मन्दानलस्यापि युक्त्या-योगविशेषेण, परं-अतिशयेन, शर्मकरम्, रोगस्य दुःख़हेतोः शमनात्| अपिशब्दात्किमुदीप्ताग्नेरतीसारिणो न सुख़करं भवति ? अत्रैव हेतुमाह-वाय्वाशये-पक्वाशयाख़्ये, सतैले बिम्बिसी-प्रवाहिका, नावतिष्ठतेस्थितिं न प्राप्नोति|
Adhikarana shreShThatve kAraNantarAni (47) · Śloka 47
क्षीणे मले स्वायतनच्युतेषु दोषान्तरेष्वीरण एकवीरे| को निष्टनन्प्राणिति कोष्ठशूली नान्तर्बहिस्तैलपरो यदि स्यात्||४७||
🔊 Audio coming soon
स०-मले-पुरीषाख़्ये, क्षीणे तथा दोषान्तरेषु-वातविवर्जितेषु पित्तकफादिषु, आयतनच्युतेषु-स्वाधारभ्रष्टेषु, व्यक्त्यपेक्षया बहुवचनम्, ईरणे-वायौ, एकवीरे-एकनायके, शेषदोषाणां स्वस्थानभ्रष्टत्वात्कोऽतीसारी निष्टनन्-प्रवाहिकां कुर्वन्, प्राणिति ?-न कश्चिज्जीवति| यदि नान्तर्बहिः-उभयत्र, पानानुवासनाभ्यङ्गैः, तैलपरः-अतिशयेन तैलसैवी, न स्यात्| आक्रन्दनपूर्वं सशूलमुपवेशनं-निष्ठनन्नुच्यते| इन्द्रवज्रावृत्तम्|
Adhikarana gudashUlaBraMshayorGRutam (48-49) · Śloka 49
| गुदरुग्भ्रंशयोर्युञ्ज्यात्सक्षीरं साधितं हविः||४८|| रसे कोलाम्लचाङ्गेर्योर्दध्नि पिष्टे च नागरे| |४९|
🔊 Audio coming soon
स०-गुदरुजि गुदभ्रंशे च घृतं सक्षीरं कोलादिरसे दध्नि नागरे च कल्किते पक्वं युञ्ज्यात्| अत्र च क्षीरं सर्पिःप्रमाणं घृतात्कोलादिरसादिकं चतुर्गुणं शुण्ठीतश्चतुर्गुणं घृतमिति पाकक्रमः|
Adhikarana gudashUlaBraMshayoranyadghRutam (49-50) · Śloka 50
तैरेव चाम्लैः संयोज्य सिद्धं सुश्लक्ष्णकल्कितैः||४९|| धान्योषणबिडाजाजीपञ्चकोलकदाडिमैः| |५०|
🔊 Audio coming soon
स०-तैरेव- पूर्वोक्तैः कोलादिभिरम्लैः, संयोज्य सूक्ष्मरजीकृतैश्च धान्यकादिभिः सिद्धं घृतं पूर्वगुणम्|
Adhikarana gudashUlaBraMshayorsnehabastiH (50-51) · Śloka 51
| योजयेत्स्नेहबस्तिं वा दशमूलेन साधितम्||५०|| शठीशताह्वाकुष्ठैर्वा वचया चित्रकेण वा| |५१|
🔊 Audio coming soon
स०-गुदशूली च दशमूलेन साधितं हविः-घृतं, स्नेहबस्तिं वा योजयेत्| शठ्यादिभिर्वा साधितं वचया वा साधितं चित्रकेण वा साधितं योजयेत्| तच्च पूर्वगुणम्|
Adhikarana pravAhaNAdau anuvAsanam (51-52) · Śloka 52
| प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे||५१|| मधुराम्लैः शृतं तैलं घृतं वाऽप्यनुवासनम्| |५२|
🔊 Audio coming soon
स०-प्रवाहणादिषु मधुराम्लैः शृतं तैलं घृतं वाऽनुवासनं योजयेत्|
Adhikarana gudaBraMSe~antaHpraveSaH goH PaNAbandhaH (52-53) · Śloka 53
| प्रवेशयेह्गुदं ध्वस्तमभ्यक्तं स्वेदितं मृदु||५२|| कुर्याच्च गोःफणाबन्धं मध्यच्छिद्रेण चर्मणा| |५३|
🔊 Audio coming soon
स०-गुदं ध्वस्तं सधभ्यक्तं स्वेदितं च मृदु कृत्वाऽन्तः प्रवेशयेत्| गोःफणाबन्धं चर्मणा मध्यच्छिद्रवता कुर्यात्|
Adhikarana gudaBraMSe pa~jcamUlAditailam (53-54) · Śloka 54
| पञ्चमूलस्य महतः क्वाथं क्षीरे विपाचयेत्||५३|| उन्दुरं चान्त्ररहितं तेन वातघ्नकल्कवत्| तैलं पचेद्गुदभ्रंशं पानाभ्यङ्गेन तज्जयेत्||५४||
🔊 Audio coming soon
स०-महतः पञ्चमूलस्य-बिल्वादेः क्वाथं तैलसमं कृत्वा क्षीरे विपाचयेत्| उन्दुरुं चान्त्ररहितं तस्मिन्नेव क्षीरे विपाचयेत्| तेनैव क्षीरेण् तैरेण तैलं पचेत्| किम्भूतम्? वातघ्नकल्कवत्| वातघ्नानां-रास्नैरण्डादीनां कल्कः, स यस्यास्ति वातघ्नकल्कवत्| उन्दुरोरत्र रास्नाद्यघ्रुतानुसारेण प्रमाणं निरुप्य कार्यम्| तत्रैवं पठ्यते (चरके चि.अ.१८/४२)-"तुलार्धं चाजमांसस्य" इति| एवं मायुरादिष्वपि घृतेषु (हृ.उ.अ.२४/४७) मयूरादीनां प्रमाणं चिन्त्यम्| तेन तैलं पचेदिति वचनाच्च क्षीरं तैलाच्चतुर्गुणं कार्यम्| अत्र द्रवस्यापरस्याभावात्तैलाच्च द्रवं चतुर्गुणं कार्यमिति पाकक्रमः| तस्मान्नान्यस्नेहवदत्र क्षीरं ग्राह्यम्| अन्यत्र ह्येवमधीतम्-"द्रव्याच्चतुर्गुणः स्नेहः स्नेहात्क्वाथश्चतुर्गुणः| क्षीरं स्नेहसमं" इति| बहुक्षीरत्वेन वातकार्यस्य गुदभ्रंशाख़्यस्य शीघ्रं शमं करोति, इति चतुर्गुणमेवात्र क्षीरं न्याय्यम्|
Adhikarana pittAtisAre sAme la~gghanam (55) · Śloka 55
पैत्ते तु सामे तीक्ष्णोष्णवर्ज्यं प्रागिव लङ्घनम्| |५५|
🔊 Audio coming soon
स०-पैत्ते त्वतीसारे सामे प्रागिव-यथा वातातीसारे पूर्वं लङ्घनं शरीरलाघवं कर्तुं यत्कर्म द्रव्यं वा निर्दिष्टं तत्सर्वं, तीक्ष्णोष्णवर्ज्यं 'अस्मिन् कार्यम्' इति शेषः|
Adhikarana pittAtisAre sAme pAnIyam, annam (55-56) · Śloka 56
| तृड्वान् पिबेत् षडङ्गाम्बु सभूनिम्बं ससारिवम्||५५|| पेयादि क्षुधितस्यान्नमग्निसन्धुक्षणं हितम्| बृहत्यादिगणाभीरुद्विबलाशूर्पपर्णिभिः||५६||
🔊 Audio coming soon
स०-स पित्तातीसारी तृड्वान् षडङ्गाम्बु-ज्वरचिकित्सितोक्तं (हृ. चि. अ. १/१५), भूनिम्बसारिवाभ्यां सहितं पिबेत्, अर्धमष्टाङ्गजलं तेन पेयमित्यवतिष्ठते| क्षुधितस्य-अतिशयेन बुभुक्षितस्य, पेयाद्यन्नमग्निसन्धुक्षणं हितम्| [ किम्भूतम्? ] बृहत्यादिना गणेनाभीरुणा तथा बलाद्वयेन शूर्पपर्णीद्वयेन च साधितम्|
Adhikarana pittAtisAre sAme kuTajAdicUrNam, pAThAdicUrNam, ativiShAbilvAdikvAthaH, ativiShAmUrvAdikvAthaH, ativiShAshuNThyAdikvAthaH (57-59) · Śloka 59
पाययेदनुबन्धे तु सक्षौद्रं तण्डुलाम्भसा| कटुजस्य फलं पिष्टं सवल्कं सघुणप्रियम्||५७|| पाठावत्सकबीजत्वग्दार्वीग्रन्थिकशुण्ठि वा| क्वाथं वाऽतिविषाबिल्ववत्सकोदीच्यमुस्तजम्||५८|| अथवाऽतिविषामूर्वानिशेन्द्रयवतार्क्ष्यजम्| समध्वतिविषाशुण्ठीमुस्तेन्द्रयवकट्फलम्||५९||
🔊 Audio coming soon
स०-एवं लङ्घनपेयादिके कृतेऽप्यनुबन्धेऽतीसारस्य सति, तमतीसारिणं कुटजस्य फलं-शक्रयवाख्यं, पिष्टं सवल्कं-प्रकृत्त्वात्तस्यैव कुटजस्य त्वचा युक्तं, तथा सघुणप्रियं तथा सक्षौद्रं तण्डुलाम्भसा पाययेत्| अथवा, पाठादिपिष्टं तण्डुलाम्भसा सक्षौद्रं तमतीसारिणं पाययेत्| अथवा, क्वाथमतिविषादिजं तं पाययेत्| अथवा, अतिविषामूर्वादिजं पाययेत्| तार्क्ष्यं-रसाञ्जनम्| समध्वित्यादि| समाक्षिकमतिविषादिकं क्वाथीकृतं वा पाययेत्|
Adhikarana pittAtisAre sAme vatsakabIjakvAthaH, mustAkvAthaH, shAlmalIvRuntakvAthaH (60-61) · Śloka 61
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्| यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम्||६०|| मुस्ताकषायमेवं वा पिबेन्मधुसमायुतम्| सक्षौद्रं शाल्मलीवृन्तकषायं वा हिमाह्वयम्||६१||
🔊 Audio coming soon
स०-वत्सकबीजस्य वा पलं जलेन क्वाथयित्वा तद्रसं यो मांसरसाशी सन् पिबेत् स पित्तजमतीसारं जयेत्| एवं प्राग्वत्, मुस्ताकषायं-मुस्तानां पलं श्रपयित्वा, मधुसमायुतं रसाशी सन् क्वाथं पिबेत् स पैत्तं जठरामयं जयेत्| शाल्मलीवृन्तकषायं वा हिमाह्वयं-शीतकषायं, सक्षौद्रं वा पिबेत्|
Adhikarana pittAtisAre sAme kirAtatiktakAdicUrNam, kaTa~gkaTeryAdi cUrNam, tilAdicUrNam, nAgarAdicUrNam (62-64) · Śloka 64
किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम्| कटङ्कटेरी ह्रीबेरं बिल्वमध्यं दुरालभा||६२|| तिला मोचरसं रोध्नं समङ्गा कमलोत्पलम्| नागरं धातकीपुष्पं दाडिमस्य त्वगुत्पलम्||६३|| अर्धश्लोकैः स्मृता योगाः सक्षौद्रास्तण्डुलाम्बुना| |६४|
🔊 Audio coming soon
स०-किराततिक्तादयश्चत्वारो योगा अर्धश्लोकैः स्मृताः समाक्षिकास्तण्डुलजलेन योज्याः|
Adhikarana pittAtisAre pakve nishAdikvAthaH (64) · Śloka 64
| निशेन्द्रयवरोध्नैलाक्वाथः पक्वातिसारजित्||६४||
🔊 Audio coming soon
स०-निशादिक्वाथः पक्वातीसारजित्|
Adhikarana pittAtisAre pakve rodhrAdigaNakvAthaH, ambaShThAdigaNakvAthaH, priya~ggvAdigaNakvAthaH (65) · Śloka 65
रोध्राम्बष्ठाप्रियङ्ग्वादिगणांस्तद्वत् पृथक् पिबेत्| |६५|
🔊 Audio coming soon
स०-रोध्रादीन् गणान् पृथक् [तद्वत्-] समाक्षिकांस्तथैव तण्डुलाम्भसा, पिबेत्|
Adhikarana pittAtisAre pakve peyAvilepI khalAH (65-66) · Śloka 66
| कट्वङ्गवल्कयष्ट्याह्वफलिनीदाडिमङ्कुरैः||६५|| पेयाविलेपीख़लकान् कुर्यात्सदधिदाडिमान्| तद्वद्दधित्थबिल्वाम्रजम्बुमध्यैः प्रकल्पयेत्||६६||
🔊 Audio coming soon
स०-कट्वङ्गत्वगादिभिः पेयादीन् सदधिदाडिमान् कुर्यात्| तथैव दधित्थादिभिः पेयादीन् सदधिदाडिमान् कल्पयेत्| दधित्थः-कपित्थः|
Adhikarana pittAtisAre pakve ajApayaH, virecanam (67) · Śloka 67
अजापयः प्रयोक्तव्यं निरामे, तेन चेच्छमः| दोषाधिक्यान्न जायेत बलिनं तं विरेचयेत्||६७||
🔊 Audio coming soon
स०-अजापयः पथ्यं निरामे स्मृतम्| तेन-अजाक्षीरेण, यदि दोषाधिक्याद्धेतोः शमो न भवेत् तदा तं बलवन्तं विरेचयेत्-न दुर्बलम्|
Adhikarana pittAtisAre pakve virekArtham palAshaPalakvAthaH (68-69) · Śloka 69
व्यत्यासेन शकृद्रक्तमुपवेश्येत योऽपि वा| पलाशफलनिर्यूहं युक्तं वा पयसा पिबेत्||६८|| ततोऽनु कोष्णं पातव्यं क्षीरमेव यथाबलम्| प्रवाहिते तेन मले प्रशाम्यत्युदरमयः||६९||
🔊 Audio coming soon
स०-व्यत्यासः-परस्परक्षेपणम्, शकृद्रक्तं क्षिपति रक्तं शकृत्क्षिपत्येवं व्यत्यासः, तेन य उपवेश्येत स पलाशफलक्वाथं केवलं पिबेदथवा पयसा युक्तम्| ततः-तत्कषायं पीत्वाऽनन्तरं, कोष्णं क्षीरमेव यथा-बलं-बलानतिक्रमेण, पेयम्| तेनक्षीरेण, मले प्रवाहिते-निःसारिते सति, अतीसारः शाम्यति|
Adhikarana pittAtisAre pakve trAyamANAkvAthaH (70) · Śloka 70
पलाशवत्प्रयोज्या वा त्रायमाणा विशोधनी| |७०|
🔊 Audio coming soon
स०-पलाशं यथा तथा त्रायमाणा विशोधनाय प्रयोज्या|
Adhikarana pittAtisAre pakve anuvAsanam (70-71) · Śloka 71
| संसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते||७०|| स्रुतदोषस्य तं शीघ्रं यथावह्न्यनुवासयेत्| |७१|
🔊 Audio coming soon
स०-स्रुतदोषस्य-अपचितमलस्यातीसारिणः, संसर्ग्यां क्रियमाणायां-पेयादिके क्रमे विधीयमाने, यदि शूलमनुवर्ततेनिर्वृत्तिं न याति, तं-आतुरं, आशु यथावह्नि-अग्न्यनतिक्रमेण, अनुवासयेत्|
Adhikarana pittAtisAre pakve anuvAsanaghRutam (71-72) · Śloka 72
| शतपुष्पावरीभ्यां च बिल्वेन मधुकेन च||७१|| तैलपादं पयोयुक्तं पक्वमन्वासनं घृतम्| |७२|
🔊 Audio coming soon
स०-शतपुष्पादिभिस्तैलपादं क्षीरयुतं घृतं पक्वमनुवासनं स्यात्|
Adhikarana pittAtisAre pakve picCAbastiH (72) · Śloka 72
| अशान्तावित्यतीसारे पिच्छाबस्तिः परं हितः||७२||
🔊 Audio coming soon
स०-इति-अनेन प्रकारेण कृतेन, अतीसारस्याशान्तौ सत्यां परं-अनन्तरं, पिच्छाबस्तिः-वक्ष्यमाणो, हितः| अल्पया मात्रया निरुहाख़्यो बस्तिः-पिच्छाबस्तिः|
Adhikarana pittAtisAre pakve picCAbastyarthaM dravyaM vidhistatPalaM ca (73-76) · Śloka 76
परिवेष्ट्य कुशैराद्रैरार्द्रवृन्तानि शाल्मलेः| कृष्णमृत्तिकयाऽऽलिप्य स्वेदयेद्गोमयाग्निना||७३|| मृच्छोषे तानि सङ्क्षुद्य तत्पिण्डं मुष्टिसम्मितम्| मर्दयेत्पयसः प्रस्थे पूतेनास्थापयेत्ततः||७४|| नतयष्ट्याह्वकल्काज्यक्षौद्रतैलवताऽनु च| स्नातो भुञ्जीत पयसा जाङ्गलेन रसेन वा||७५|| पित्तातिसारज्वरशोफगुल्म समीरणास्रग्रहणीविकारान्| जयत्ययं शीघ्रमतिप्रवृत्तिं विरेचनास्थापनयोश्च बस्तिः||७६||
🔊 Audio coming soon
स०-आर्द्रैः-अशुष्कैर्दर्भैः, शाल्मलेरार्द्रवृन्तानि-कुसुमबन्धनानि, परिवेष्ट्य ततः कृष्णमृत्तिकयाऽऽलिप्य गोमयाग्निना स्वेदयेत्| मृच्छोषे सति तानि सङ्क्षुद्य-सञ्चूर्ण्य, तं पिण्डं मुष्टिसम्मितं-पलप्रमाणं, पयसः प्रस्थे मर्दयेत्| तेन च पूतेनानन्तरं नतादिमताऽऽस्थापयेत्| नतं-तगरम्| पुटपाकानां च सर्वेषामयमेव विधिः| आस्थापितश्च पश्चात्| स्नातः पयसा भुञ्जीत, सात्म्यादिवशाज्जाङ्गलरसेन वा| अयं-बस्तिः प्रयुक्तं, पित्तातीसारादीन् विरेचनास्थापनयोश्चातिप्रवृत्तिं-दोषाणामतियोगं, जयति| एतदुक्तं भवति,-बहुदोषस्य या प्रवृत्तिर्विरेचनविषये आस्थापनविषये वा तां च प्रयुक्ताऽयं जयति| उपजातिः|
Adhikarana pittAtisAre pakve kuTajaPANitam (77) · Śloka 77
फाणितं कुटजोत्थं च सर्वातीसारनाशनम्| वत्सकादिसमायुक्तं साम्बष्ठादि समाक्षिकम्||७७||
🔊 Audio coming soon
स०-कुटजोत्थं च फाणितं वत्सकादियुक्तमम्बष्ठादिसहितं माक्षीकयुक्तं सर्वातीसारः-आमातीसारः पक्वातीसारश्च, तस्य नाशनं स्यात्|
Adhikarana pittAtisAre cirotthitAdau puTapAkAH (78) · Śloka 78
नीरुङ्निरामं दीप्ताग्नेरपि सास्रं चिरोत्थितम्| नानावर्णमतीसारं पुटपाकैरुपाचरेत्||७८||
🔊 Audio coming soon
स०-नीरुक् चासौ निरामश्च नीरुङ्निरामस्तमतीसारं, अपि सास्रं-अपिशब्दात्किमुत निरस्रम्?, तं तथाभूतं चोरोत्थितं, तथा नानावर्णं-अनेकवर्णं, दीप्ताग्नेः पुटपाकैरुपाचरेत्|
Adhikarana pittAtisAre dIrghavRuntapuTapAkaH (79-80) · Śloka 80
त्वक्पिण्डाद्दीर्घवृन्तस्य श्रीपर्णीपत्रसंवृतात्| मृल्लिप्तादग्निना स्विन्नाद्रसं निष्पीडितं हिमम्||७९|| अतीसारी पिबेद्युक्तं मधुना सितयाऽथवा| |८०|
🔊 Audio coming soon
स०-त्वचः पिण्डस्त्वक्पिण्डः, दीर्घवृन्तस्य त्वक्पिण्डः, तस्मात्, काश्मर्यपत्रसञ्छादितात् मृल्लिप्तात् सामान्योक्तावपि कृष्णमृत्तिकया लिप्तादिति वेद्यम्| प्रागुक्तं हि (श्लो.७३)-"कृष्णमृत्तिकयाऽऽलिप्य" इति| अनन्तरमग्निना स्विन्नाद्रसं निष्पीडितं शीतं कृत्वाऽतीसारी मधुना युक्तमथवा सितया युक्तं पिबेत्| दीर्घवृन्तः-श्योनाकः|
Adhikarana pittAtisAre kShIridrumapuTapAkAH, kaTva~ggayogaH (80-81) · Śloka 81
| एवं क्षीरिद्रुमत्वग्भिस्तत्प्ररोहैश्च कल्पयेत्||८०|| कट्वङ्गत्वग्घृतयुता स्वेदिता सलिलोष्मणा| सक्षौद्रा हन्त्यतीसारं बलवन्तमपि द्रुतम्||८१||
🔊 Audio coming soon
स०-एवं-अनेन प्रकारेण, क्षीरिद्रुमाणां त्वग्भिस्तत्प्ररोहैः-कोमलैर्विगतमूलैश्च, कल्पयेत्| प्ररोहाः-अङ्कुरा इत्यन्ये| श्योनाकत्वक् घ्रुतयुता तथोष्णसलिलोष्मणा स्वेदिता माक्षिकयुक्ताऽतीसारं बलवन्तमपि शीघ्रं हन्ति|
Adhikarana raktAtisare nidAnalakShaNe, padmotpalAdishRutaM CAgapayaH, pAne Bojane gudasecane ca (82-84) · Śloka 84
पित्तातिसारी सेवेत पित्तलान्येव यः पुनः| रक्तातिसारं कुरुते तस्य पित्तं सतृड्ज्वरम्||८२|| दारुणं गुदपाकं च तत्र छागं पयो हितम्| पद्मोत्पलसमङ्गाभिः शृतं मोचरसेन च||८३|| सारिवायष्टिरोध्रैर्वा प्रसवैर्वा वटादिजैः| सक्षौद्रशर्करं पाने भोजने गुदसेचने||८४||
🔊 Audio coming soon
स०-पित्तातीसारी पित्तलान्येवान्नपानानि यः सेवते, तस्य पित्तं कर्तृ रक्तातीसारं कुरुते| किम्भूतम्? तृष्णाज्वरयुतम्| तथा दारुणं गुदपाकं करोति| तत्र-एवंविधेऽतीसारे, छागं क्षीरं पद्मादिभिर्मोचरसेन च शृतं हितम्| अथवा, सारिवादिभिः शृतं छागं क्षीरं हितम् अथवा, वटादिजैः पल्लवैः शृतं क्षौद्रशर्करान्वितं पाने भोजने गुदसेके च छागं पयो हितम्|
Adhikarana raktAtisAre pAnAdau rasayUShAdayo~anamlAH, kAshmaryaPalayUShaH (85) · Śloka 85
तद्वद्रसादयोऽनम्लाः साज्याः पानान्नयोर्हिताः| काश्मर्यफलयूषश्च किञ्चिदम्लः सशर्करः||८५||
🔊 Audio coming soon
स०-तथैव रसयूषादयोऽनम्लाः सघृताः पानान्नयोर्हिताः| काश्मर्यफलयूषश्च किञ्चिदम्लः सशर्करो हितः|
Adhikarana raktAtisAre peyA, navanItaM prAgBaktam (86-87) · Śloka 87
पयस्यर्धोदके छागे ह्रीबेरोत्पलनागरैः| पेया रक्तातिसारघ्नी पृश्निपर्णीरसान्विता||८६|| प्राग्भक्तं नवनीतं वा लिह्यान्मधुसितायुतम्| |८७|
🔊 Audio coming soon
स०-छागे पयस्यर्धोदके वालकोत्पलनागरैः पृश्निपर्णीक्वाथेन च युक्ता पेया रक्तातीसारं हन्ति| अथवा नवनीतं प्राग्भक्तं मधुशर्करान्वितं लिह्यात्|
Adhikarana raktAtisAre AjaM mArgaM vA raktam, kShIrodbhavaM ghRutam (87-88) · Śloka 88
| बलिन्यस्रेऽस्रमेवाजं मार्गं वा घृतभर्जितम्||८७|| क्षीरानुपानं क्षीराशी त्र्यहं क्षीरोद्भवं घृतम्| कपिञ्जलरसाशी वा लिहन्नारोग्यमश्रुते||८८||
🔊 Audio coming soon
स०-प्रवृद्धे रक्ते छागं रक्तमथवा मार्गं-मृगसम्बन्धि रक्तं, घृतभर्जितं भुञ्जीत, एवकारान्न त्वपरं किञ्चिदजस्य मृगस्य चेति गम्यते| उभयमपि क्षीरानुपानं क्षीराशी च सन् भुञ्जीत| अथवा, क्षीरोद्भवं घृतं त्र्यहं लिहन् कपिञ्जलरसाशनो नर आरोग्यं प्राप्नोति|
Adhikarana raktAtisAre shatAvarIkalkaH (89) · Śloka 89
पीत्वा शतावरीकल्कं क्षीरेण क्षीरभोजनः| रक्तातिसारं हन्त्याशु तया वा साधितं घृतम्||८९||
🔊 Audio coming soon
स०-शतावरीकल्कं क्षीरेण पीत्वा क्षीराशी सन् रक्तातीसारं द्रागेव पराकरोति| अथवा, तया-शतावर्या, पक्वं घृतं रक्तातीसारं हन्ति|
Adhikarana raktAtisAre lAkShAdisiddhaM ghRutam (90-91) · Śloka 91
लाक्षानागरवैदेहीकटुकादार्विवल्कलैः| सर्पिः सेन्द्रयवैः सिद्धं पेयामण्डावचारितम्||९०|| अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्| |९१|
🔊 Audio coming soon
स०-लाक्षादिभिः सिद्धं घ्रुतं पेयामण्डेनावचारितं शीघ्रं त्रिदोषमप्यतीसारं घोरं जयति| अपिशब्दाद्रक्तातीसारमपि|
Adhikarana raktAtisAre kRuShNamRudAdikam, priya~ggukalkaH (91-92) · Śloka 92
| कृष्णमृच्छङ्ख़यष्ट्याह्वक्षौद्रासृक्तण्डुलोदकम्||९१|| जयत्यस्रं प्रियङ्गुश्च तण्डुलाम्बुमधुप्लुता| |९२|
🔊 Audio coming soon
स०-कृष्णमृदादिकं तण्डुलजलालोडितं रक्तं जयति| तथा, तण्डुलाम्बुमधुयुक्ता प्रियङ्गू रक्तं जयति|
Adhikarana raktAtisAre kRuShNatilakalkaH (92-93) · Śloka 93
| कल्कस्तिलानां कृष्णानां शर्करापाञ्चभागिकः||९२|| ओजेन पयसा पीतः सद्यो रक्तं नियच्छति| |९३|
🔊 Audio coming soon
स०-पञ्चमो भागः पञ्चभागः, स यस्यास्ति स पाञ्चभागिकः| कोऽसौ? कृष्णातिलानां कल्कः, शर्करायाः पाञ्चभागिकः कृष्णतिलानां कल्कः छगलीक्षीरेण पीतः सन् सद्यो रक्तं नियच्छति|
Adhikarana raktAtisAre candanakalkaH (93-94) · Śloka 94
| पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्बुना||९३|| दाहतृष्णाप्रमोहेभ्यो रक्तस्रावाच्च मुच्यते| |९४|
🔊 Audio coming soon
स०-तण्डुलजलेन चन्दनं शर्करामाक्षिकान्वितं पीत्वा दाहादिभ्यो मुच्यते| मुच्यत इति कर्मकर्तरि तङ्|
Adhikarana raktAtisAre gudadAhapAkayoH seka lepAH (94) · Śloka 94
| गुदस्य दाहे पाके वा सेकलेपा हिता हिमाः||९४||
🔊 Audio coming soon
स०-गुदस्य दाहे पाके च सति सेकलेपा हिमा हिताः|
Adhikarana raktAtisAre sashUlaraktAdau picCAbastiH (95-96) · Śloka 96
अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते| यदा विबद्धो वायुश्च कृच्छ्राच्चरति वा न वा||९५|| पिच्छाबस्तिं तदा तस्य पूर्वोक्तमुपकल्पयेत्| |९६|
🔊 Audio coming soon
स०-अल्पमल्पं पुनः पुनः शूलेन सह यश्च बहुशो रक्तमुपवेश्यते| वायुश्च यद विबद्धो-नानुलोमगः, अत एव कृच्छ्रेण चरति न वा चरति तदा तस्य-पुरुषस्य, पूर्वोक्तं-"त्वक्पिण्डात्" (श्लो.७९) इत्यादिकं पिच्छाबस्तिमुपकल्पयेत्|
Adhikarana raktAtisAre shiMshipAdikvAthasya picCAbastiH (96-98) · Śloka 98
| पल्लवान् जर्जरीकृत्य शिंशिपाकोविदारयोः||९६|| पचेद्यवांश्च स क्वाथो घृतक्षीरसमन्वितः| पिच्छास्रुतौ गुदभ्रंशे प्रवाहणरुजासु च||९७|| पिच्छाबस्तिः प्रयोक्तव्यः क्षतक्षीणबलावहः| |९८|
🔊 Audio coming soon
स०-शिंशिपाकोविदारयोः पल्लवान् जर्जरीकृत्य यवांश्च पचेत्| स क्वाथो घृतक्षीरसंयुक्तः पिच्छास्रुत्यादिषु पिच्छाबस्तिः प्रयोक्तव्यः| स च क्षतक्षीणानां बलप्रदः|
Adhikarana raktAtisAre anuvAsanArthaM ghRutam (98) · Śloka 98
| प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासनम्||९८||
🔊 Audio coming soon
स०-प्रपौण्डरीकपक्वेन घृतेनानुवासनं च प्रयोक्तव्यम्|
Adhikarana raktAtisAre shatAvarIghRutalehaH (99) · Śloka 99
रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते| शतावरीघृतं तस्य लेहार्थमुपकल्पयेत्||९९||
🔊 Audio coming soon
स०-रक्तं विशा सहितमथवा पूर्वं पश्चाद्वा योऽतिसार्यते तस्य लेहार्थं शतावरीघृतकल्पयेत्|
Adhikarana raktAtisAre navanItasharkarAmadhuyogaH (100) · Śloka 100
शर्करार्धांशकं लीढं नवनीतं नवोद्धृतम्| क्षौद्रपादं जयेच्छीघ्रं तं विकारं हिताशिनः||१००||
🔊 Audio coming soon
स०-नवनीतं नवं शर्कराया आर्धभागेन युक्तं माक्षिकचतुर्थप्रमाणं माक्षिकस्य चतुर्थभगेनान्वितं लीढं तं-पूर्वोक्तं, विकारं हिताहारस्य जयेत्|
Adhikarana raktAtisAre nyagrodhAdighRutam (101-102) · Śloka 102
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत्| अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत्||१०१|| तदर्धशर्करायुक्तं लेहयेत्क्षौद्रपादिकम्| अधो वा यदि वाऽयूर्ध्वं यस्य रक्तं प्रवर्तते||१०२||
🔊 Audio coming soon
स०-अधो वा ऊर्ध्वं वा यस्य रक्तं प्रवर्तते, स न्यग्रोधादीनां शुङ्गान् आपोथ्य-जर्जरीकृत्य, तप्ते जलेऽहोरात्रं वासयेत्| तेनाम्बुना घृतं पचेत्| तच्च-घृतं, शर्कराया अर्धभागेन युक्तं माक्षिकचतुर्थाशकं लेहयेत्| पूर्वगुणम्|
Adhikarana shleShmAtisAre vAtoktaM pAcanam, bilvAdikvAthaH, vacAdikvAthaH, pippalImUlAdikvAthaH (103-105) · Śloka 105
श्लेष्मातिसारे वातोक्तं विशेषादामपाचनम्| कर्तव्यमनुबन्धेऽस्य पिबेत्पक्त्वाऽग्निदीपनम्||१०३|| बिल्वकर्कटिकामुस्तप्राणदाविश्वभेषजम्| वचाविडङ्गभूतीकधानकामरदारु वा||१०४|| अथवा पिप्पलीमूलपिप्पलीद्वयचित्रकम्| |१०५|
🔊 Audio coming soon
स०-श्लेष्मतीसारे वातातीसारोक्तं यदामपाचनं तद्विशेषात्तत्र कर्तव्यम्, न तथा वातातीसारोक्तोऽन्य उपक्रमः कार्य इति विशेषशब्दस्यार्थः| अस्य-अतीसारस्य, अनुबन्धे-चिकित्सायां सम्यक् कृतायामप्यशमे सति, बिल्वकर्कटिकादिकं पकत्वा पानमग्निदीपनं पिबेत्| अथवा, वचादीनि पिबेत्| अथवा, पिप्पलीमूलादिकं पक्त्वाऽग्निदीपनं पिबेत्|
Adhikarana shleShmAtisAre pAThAdikvAthaScUrNaM vA (105-106) · Śloka 106
| पाठाग्निवत्सकग्रन्थितिक्ताशुण्ठीवचाभयाः||१०५|| क्वथिता यदि वा पिष्टाः श्लेष्मातीसारभेषजम्| |१०६|
🔊 Audio coming soon
स०-एते पाठादयः क्वथिताः पाचनन्यायेन, चूर्णिता वा श्लेष्मातीसारभेषजमिति| अत्रापि वक्ष्यमाणं सिंहावलोकनन्यायेन' कोष्णवारिणा इत्येतत्सम्बध्यते|
Adhikarana shleShmAtisAre sauvarcalAdi cUrNam (106-107) · Śloka 107
| सौवर्चलवचाव्योषहिङ्गुप्रतिविषाभयाः||१०६|| पिबेच्छ्लेष्मातिसारार्तश्चूर्णिताः कोष्णवारिणा| |१०७|
🔊 Audio coming soon
स०-सौवर्चलादींश्चूर्णितान् कोष्णजलेन श्लेष्मतीसारार्तः पिबेत्|
Adhikarana shleShmAtisAre kapitthAdilehaH, kaTPalalehaH (107-108) · Śloka 108
| मध्यं लीढ्वा कपित्थस्य सव्योषक्षौद्रशर्करम्||१०७|| कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्| |१०८|
🔊 Audio coming soon
स०-कपित्थस्य मध्यं सव्योषमाक्षिकशर्करं लीढ्वा, अथवा कट्फलं माक्षिकान्वितं लीढ्वा, जठररोगान्मुच्यते|
Adhikarana shleShmAtisAre kaNAlehaH, takrapAnam, bAlabilvAni (108-109) · Śloka 109
| कणां मधुयुतां लीढ्वा तक्रं पीत्वा सचित्रकम्||१०८|| भुक्त्वा वा बालबिल्वानि व्यपोहत्युदरामयम्| |१०९|
🔊 Audio coming soon
स०-कणां माक्षिकान्वितां लीढ्वा तक्रं च सचित्रिकं पीत्वा बालबिल्वानि वा भुक्त्वा जठररोगं व्यपोहति| "उपसर्गादस्यत्यूह्योर्वा वचनम् (र्वेति वाच्यम्)" इति वाऽतङ्|
Adhikarana shleShmAtisAre pAThAdicUrNam (109-110) · Śloka 110
| पाठामोचरसाम्भोदधातकीबिल्वनागरम्||१०९|| सुकृच्छ्रमप्यतीसारं गुडतक्रेण नाशयेत्| |११०|
🔊 Audio coming soon
स०-पाठादि गुडतक्रेण पीत्वाऽतीसारं सुकृच्छ्रमपि नाशयेत्| श्लेष्मातीसारे प्रकृतेऽतीसारग्रहणमन्यस्यापि निरामस्य तन्नाशनमिति द्योतनार्थम्|
Adhikarana shleShmAtisAre kapitthAShTakam (110-113) · Śloka 113
| यवानीपिप्पलीमूलचातुर्जातकनागरैः||११०|| मरीचाग्निजलाजाजीधान्यसौवर्चलैः *समैः| *वृषाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकैः||१११|| त्रिगुणैः षड्गुणसितैः *कपित्थाष्टगुणैः कृतः| चूर्णोऽतीसारग्रहणीक्षयगुल्मगलामयान्||११२|| कासश्वासाग्निसादार्शःपीनसारोचकान् जयेत्| |११३|
🔊 Audio coming soon
स०-यवान्यादिभिर्द्रव्यैः समैर्वृक्षाम्लादिभिस्त्रिगुणैर्मूलद्रव्यापेक्षया| किम्भूतैरेतैः ? षड्गुणा सिता येषां वृक्षाम्लादीनां त एवं तैः| षड्गुणसितैश्चूर्णः कृत इति योज्यम्| एवं शर्कराभागानां शतमष्टाधिकं भवति| क्व(कैः) कृतश्चूर्णः ? मूलद्रव्यापेक्षयाऽष्टागुणैः कपित्थैः कपित्थैः| केचित्त्वेवं पठन्ति-'षड्गुणसिते कपित्थेऽष्टगुणे' इति| तत्र चेदं व्याख़्यानम्-मूलद्रव्यापेक्षया कपित्थेऽष्टगुणे| तथा च किम्भुते ? षड्गुणसिता यस्मात्तथा तस्मिन्, एवं शर्कराभागा अष्टचत्वारिंशत्स्युरिति| अयं चूर्णोऽतीसारादिन् जयेत्|
Adhikarana shleShmAtisAre dADimAShTakam (113-115) · Śloka 115
| कर्षोन्मिता तवक्षीरी चातुर्जातं द्विकार्षिकम्||११३|| यवानीधान्यकाजाजीग्रन्थिव्योषं पलांशकम्| पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः||११४|| गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः| भोज्यो वातातिसारोक्तैर्यथावस्थं ख़लादिभिः||११५||
🔊 Audio coming soon
स०-तुगाक्षीरी चतुर्जातं च कर्षोन्मितं-कर्षप्रमाणम्| यवानी च धान्यकं चाजाजी च यवानीचान्यकाजाजि द्विकार्षिकम्| ग्रन्थिश्च व्योषं च तत्पलांशकं-पलभागिकम्| पलानि दाडिमादष्टौ, चशब्दात्सिताया अप्यष्टौ पलानि| एवमयमेकतः-एकस्मिन्, कृतश्चूर्णो दाडिमाष्टकः-एतत्संज्ञः| तेन चतुर्जातकमेकमेवास्य समुदायाद्यथोक्त एक एव भागः| व्योषमप्येकमेवास्यापि समुदायाद्यथोक्त एक एव भागः| एवं द्रव्य समुदायस्यैकत्वे कल्पनाऽप्यत्राप्याचार्यस्याभिमतैव| यथा (हृ. चि. अ. १९/४३)-"त्रिकटूत्तमातिलरुष्कराज्यमाक्षिकसितोपलाविहिता| गुलिका रसायनं कुष्ठजिच्च वृष्या च सप्तसमा||" इति| सप्तचेति तुगाक्षीर्येका, चतुर्जातं द्वितीयम्, यवानी तृतीया, धान्यकं चतुर्थम्, अजाजी पञ्चमी, पिप्पली-मूलं षष्थम्, व्योषं सप्तमम्, दाडिममष्टममिति| अन्ये त्वेवं व्याचक्षते,-पलमिति प्रकृतम्| दाडिममष्टकं-अष्टपलप्रमाणं, यस्मिन् चूर्णे स दाडिमाष्टक इति| यथा चाक्षिरोगे (हृ.उ.अ. १६/५)-"सितमरिचभागमेकं चतुर्मनोह्वं" इत्यत्र| तच्चर्णं वातातीसारोक्तैरवस्थावशात् खलपेयादिभिः सह भोजनीयम्|
Adhikarana shleShmAtisAre khalaH (116) · Śloka 116
सविडङ्गः समरिचः सकपित्थः सनागरः| चाङ्गेरीतक्रकोलाम्लः ख़लः श्लेष्मातिसारजित्||११६||
🔊 Audio coming soon
स०-खलः श्लेष्मातीसारजित्| किम्भूतः ? विडङ्गादियुतः चाङ्गेरीतक्रकोलैरम्लः|
Adhikarana shleShmAtisAre kShINekaPe amlAdighRutam (117) · Śloka 117
क्षीणे श्लेष्मणि पूर्वोक्तमम्लं लाक्षादि षट्पलम्| पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम्||११७||
🔊 Audio coming soon
स०-क्षीणे श्लेष्मणि पूर्वोक्तमम्लं घृतं-"गुदरुग्भ्रंशयोर्युञ्जयात् सक्षीरं साधितं हविः|" (श्लो.४८) इत्यादि, तथा लाक्षादि-"लाक्षानागरवैदेही" (श्लो. ९०) इत्यादि, षट्पलं-यक्ष्मोक्तम् (हृ. चि. अ. ५/२२), पुराणं वा घृतं यवागूमण्डमिश्रितं, दद्यात्|
Adhikarana kaPavAtAdhike picCAbastiH (118-119) · Śloka 119
वातश्लेष्मविबन्धे वा स्रवत्यति कफेऽपि वा| शूले प्रवाहिकायां वा पिच्छाबस्तिः प्रशस्यते||११८|| वचाबिल्वकणाकुष्ठशताह्वलवणान्वितः| |११९|
🔊 Audio coming soon
स०-वातकफविबन्धे, वाऽतिशयेन कफे स्रवति, तथा शूले सति, प्रवाहिकायां वा सत्यां, पिच्छाबस्तिः-पूर्वोक्त एव "पल्लवान् जर्जरीकृत्य" (श्लो. ९६) इत्यादिको, वचादिभिर्युक्तः प्रशस्यते|
Adhikarana kaPavAtAdhike anuvAsanam (119-120) · Śloka 120
| बिल्वतैलेन तैलेन वचाद्यैः साधितेन वा||११९|| बहुशः कफवातार्ते कोष्णेनान्वासनं हितम्| |१२०|
🔊 Audio coming soon
स०-बिल्वमज्जभ्य उत्पन्नं तैलं बिल्वतैलम्| तेन वचाद्यैः पक्वेन, अथवा तैलेन-तिलतैलेन वचाद्यैः साधितेन, उभयेनाप्युष्णेन बहुशोऽनुवासनं कफवातार्ते हितम्|
Adhikarana kShINakaPAdau vAyoH prabalatvam, prabalo vAyuH SIghraM cikitsyaH, tridoShANAM cikitsAkramaH (120-122) · Śloka 122
| क्षीणे कफे गुदे दीर्घकालातीसारदुर्बले||१२०|| अनिलः प्रबलोऽवश्यं स्वस्थानस्थः प्रजायते| स बली सहसा हन्यात्तस्मात्तं त्वरया जयेत्||१२१|| वायोरनन्तरं पित्तं पित्तस्यानन्तरं कफम्| जयेत्पूर्वं त्रयाणां वा भवेद्यो बलवत्तमः||१२२||
🔊 Audio coming soon
स०-कफे क्षीणे गुदे च दीर्घकालो योऽतीसारस्तेन दुर्बले-बलहीने सति, अनिलः स्वस्थानस्थितः-पायुस्थितः, अवश्यं प्रबलो जायते| सः-वायुः, बलवान् सहसा-ज़टित्येव, व्यापादयेत्| तस्मात्तं-वायुं, शीघ्रं जयेत्| तं वायुं जित्वाऽनन्तरं पित्तं जयेत्| पित्तस्यानन्तरं कफं जयेत्| अथवा, त्रयाणां मध्ये यो बलवत्तमो दोषस्तमेव पूर्वं जयेत्|
Adhikarana BayashokAtIsArayoScikitsA (123) · Śloka 123
भीशोकाभ्यामपि चलः शीघ्ऱं कुप्यत्यतस्तयोः| कार्या क्रिया वातहरा हर्षणाश्वासनानि च||१२३||
🔊 Audio coming soon
स०-भयशोकाभ्यामप्यनिलो यस्मात् कुप्यति, अतस्तयोः-भयशोकातीसारयोः, वातहर क्रिया कार्या| न केवलं वातहरा, हर्षणाश्वासनानि च कार्याणि, भयशोकनिवृत्तये|
Adhikarana atIsAramuktalakShaNam (9) · Śloka 9
यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते| दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः||१२४|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सित- स्थानेऽतीसारचिकित्सितं नाम् नवमोऽध्यायः||९||
🔊 Audio coming soon
स०-यस्य-अतीसारिणः पुरुषस्य, उच्चारात्-मलप्रवृत्तेः, विना मूत्रमथवा वातः प्रवर्तते दीप्ताग्नेर्लौकोष्ठस्य सतः, तस्य जठररोगः शान्त इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सित स्थानेऽतीसारचिकित्सितं नाम नवमो ऽध्यायः समाप्तः|| ९||