Adhikarana adhyAyopakramaH · Śloka
ग्रहणीदोषचिकित्सितादनन्तरं मूत्राघातचिकित्सितमारभ्यते| सम्बन्धश्चास्य समसम्बन्धनत्वात्| तथा च प्रागध्यैष्ट (हृंइ.अ.९|१)- "बस्तिबस्तिशिरोमेढ्रकटीवृषणपायवः| एकसम्बन्धनाः प्रोक्ता गुदास्थिविवराश्रयाः||" इति|
Adhikarana mUtrAghAtacikitsitAdhyAyaH vAtaje mUtrakRucchre svedaH (2-1) · Śloka 1
तेनेदमाह अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
) कृच्छ्रे वातघ्नतैलाक्तमधोनाभेः समीरजे|
सुस्निग्धैः स्वेदयेदङ्गं पिण्डसेकावगाहनैः||१||
स०-कृच्छ्रे-मूत्रकृच्छ्रे, आदिपदलोपं कृत्वा निर्दिष्टम्| यथा-मांसरसे रस इति| मूत्रकृच्छ्रे वातोत्थे, अङ्गं-शरीरं, वातघ्नतैलेन-बलातैलादिना, अभ्यक्तमधो नामेः समन्तात् स्वेदैः पिण्डादिभिः सुष्ठु स्निग्धैः-न रूक्षैः, स्वेदयेत्|
Adhikarana vAtaje dashamUlAdisiddhAH snehAH (2-3) · Śloka 3
दशमूलबलैरण्डयवाभीरुपुनर्नवैः|
कुलत्थकोलपत्तूरवृश्चीवोपलभेदकैः||२||
तैलसर्पिर्वराहर्क्षवसाः क्वथितकल्कितैः|
सपञ्चलवणाः सिद्धाः पीताः शूलहराः परम्||३||
स०-दशमूलादिभिः क्वथितकल्कितैस्तैलसर्पिर्वराहर्क्षवसाः सिद्धाः-पक्वाः, सह पञ्चलवणैर्वर्तन्त इति सपञ्चलवणाः पीताः परं-सुष्ठु, शूलहराः|
Adhikarana vAtaje dashamUlAdInAM pAnAnnasvedeShvapyupayogaH (4) · Śloka 4
द्रव्याण्येतानि पानान्ने तथा पिण्डोपनाहने|
सह तैलफलैर्युञ्ज्यात्साम्लानि स्नेहवन्ति च||४||
स०-एतानि-दशमूलादीनि, द्रव्याणि पानान्ने तद्विजयाय, तथा पिण्डोपनाहाख़्यं स्वेदद्वयं तैलफलैः सह युञ्ज्यात्| तैलार्थानि फलानि नालिकेराक्षोडादीनि तैलफलानि, यथा-यूपाय दारु, तैः सह| केचित्तु तैलफलानि तिलानाहुः| किम्भूतानि? साम्लानि, सहाम्लैः-तक्रारनालादिभिः, वर्तन्त इति साम्लानि| तथा, स्नेहवन्ति-बहुस्नेहानि| "भूम्नि मतुप्"|
Adhikarana vAtaje madirA (5) · Śloka 5
सौवर्चलाढ्यां मदिरां पिबेन्मूत्ररुजापहाम्|
|५|
स०-तथा मदिरां बहुसौवर्चलां मूत्ररुजापहां पिबेत्|
Adhikarana pittaje mUtrakRucCre sekalepAdi (5) · Śloka 5
|
पैत्ते युञ्जीत शिशिरं सेकलेपावगाहनम्||५||
स०-पैत्ते मूत्रकृच्छ्रे शीतलं सेकलेपावगाहनं युञ्जीत|
Adhikarana pittaje mUtrakRucCre shatAvaryAdikvAthaH (6) · Śloka 6
पिबेद्वरीं गोक्षुरकं विदारीं सकसेरुकाम्|
तृणाख़्यं पञ्चमूलं च पाक्यं समधुशर्करम्||६||
स०-तथा शतावर्यादिकं पाक्यं कृत्वा समधुशर्करं पिबेत्|
Adhikarana pittaje mUtrakRucCre vRuShakAdikalkaH (7) · Śloka 7
वृषकं त्रपुसैर्वारुलट्वाबीजानि कुङ्कुमम्|
द्राक्षाम्भोभिः पिबन् सर्वान् मूत्राघातानपोहति||७||
स०-वृषकादिकं कल्कीकृत्य द्राक्षाजलेन पिबन् सर्वान् मूत्राघातान् पराकरोति| अपोहतीति "उपसर्गादस्यत्यूह्योर्वा वचनम्" इति परस्मैपदम्| वृषकः-पाषाणभेदकः| लट्वाबीजं-कुसुम्भबीजम्|
Adhikarana pittaje mUtrakRucCre ervArubIjakalkaH, drAkShAkalkaH (8) · Śloka 8
एर्वारुबीजयष्ट्याह्वदार्वीर्वा तण्डुलाम्बुना|
तोयेन कल्कं द्राक्षायाः पिबेत्पर्युषितेन वा||८||
स०-एर्वारुबीजादिकं वा तण्डुलाम्भसा पिबेत् पूर्वगुणम्| पर्युषितेन वा जलेन द्राक्षाकल्कं पिबेत्|
Adhikarana kaPaje mUtrakRucCre vamanasvedAdi (9) · Śloka 9
कफजे वमनं स्वेदं तीक्ष्णोष्णकटुभोजनम्|
यवानां विकृतीः क्षारं कालशेयं च शीलयेत्||९||
स०-कफजे मूत्रकृच्छ्रे वमनादीनि शीलयेत्|
Adhikarana kaPaje mUtrakRucCre sUkShmailAyogaH, sArasAsthyAdiyogaH, kaNTakArIsvarasaH, kara~jjabIjacUrNam, dhavAdikvAthaH, dhavAdisiddhA peyA, pravAlacUrNam, pATalAkShAraH (10-13) · Śloka 13
पिबेन्मद्येन सूक्ष्मैलां धात्रीफलरसेन वा|
*सारसास्थिश्वदंष्ट्रैलाव्योषं वा मधुमूत्रवत्||१०||
स्वरसं कण्टकार्या वा पाययेन्माक्षिकान्वितम्|
शितिवारकबीजं वा तक्रेण श्लक्ष्णचूर्णितम्||११||
धवसप्ताह्वकुटगुडूचीचतुरङ्गुलम्|
केम्बुकैलाकरञ्जं च पाक्यं समधु साधितम्||१२||
तैर्वा पेयां प्रवालं वा चूर्णितं तण्डुलाम्बुना|
सतैलं पाटलाक्षारं सप्तकृत्त्वोऽथवा स्रुतम्||१३||
स०-तथा मद्येन सूक्ष्मैलां पिबेत्| आमलकरसेन वा सूक्ष्मैलां पिबेत्| [अथवा,] सारसास्थ्यादीनि मधुयुक्तानि गोमूत्रेण पिबेत्| अथवा, कण्टकार्याः स्वरसं समाक्षिकं पाययेत्| [अथवा,] शितिवारकस्य-करञ्जस्य, बीजं श्लक्ष्णपिष्टं तक्रेण सह पाययेत्| धवादिभिः कृतं पाक्यं-क्वाथं, वा समधु पाययेत्| तैर्वा-धवादिभिः, साधितां पेयां पाययेत्| प्रवालं-विद्रुमं, रजीकृतं तण्डुलाम्भसा [वा] पाययेत्| पाटलायाः क्षारं सप्तवारान् स्रुतं तैलेन वा पाययेत्|
Adhikarana kaPaje mUtrakRucCre kShArayuktA madirA, pATalyAdikShArAH (14-15) · Śloka 15
पाटलीयावशूकाभ्यां पारिभद्रात्तिलादपि|
क्षारोदकेन मदिरां त्वगेलोषकसंयुताम्||१४||
पिबेद्गुडोपदंशान्वा लिह्यादेतान् *पृथक् पृथक्|
|१५|
स०-पाटलीयवक्षाराभ्यां क्षारोदकेन तथा पारिभद्रतिलक्षारोदकेन मदिरां त्वगेलोषकसंयुक्तां पिबेत्| ऊषकः-कल्लरः| गुडोपदंशान्वेति| अथवा गुडमुपदंश्य एतान्-त्वगादीन्, पृथक् पृथक् लिह्यात्|
Adhikarana tridoShajamUtrakRucCrAdau yathAvastham (15-16) · Śloka 16
|
सन्निपातात्मके सर्वं यथावस्थमिदं हितम्||१५||
अश्मन्यप्यचिरोत्थाने वारबस्त्यादिकेषु च|
|१६|
स०-सन्निपातात्मके मूत्रकृच्छ्रे सर्वमिदं-पूर्वोक्तं पृथग्दोषात्मकमूत्रकृच्छ्रनिर्दिष्टं, यथावस्थं-अवस्थामपेक्ष्य, हितम्| न केवलं सन्निपातात्मके कृच्छ्रे प्राङ् निर्दिष्टं पृथग्दोषात्मकमूत्रकृच्छ्रचिकित्सकं हितम्| यावदश्मर्यामप्यचिरोत्थाने, अचिरकालं उत्थानं-जन्म, यस्य तस्मिन् हितम्| चशब्दाद्वातबस्त्यादिकेषु मूत्राघातेषु हितम्| आदिशब्देन वातकुण्डलिकादयो गृह्यन्ते|
Adhikarana ashmaryAH sAdhyatvAdi (16-17) · Śloka 17
|
अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः||१६||
तरुणो भेषजैः साध्यः प्रवृद्धश्छेदमर्हति|
|१७|
स०-अश्मरी दारुणो व्याधिरन्तकप्रतिमः-तत्तुल्यो मतः, शीघ्रं प्राणहारित्वात्| स चाश्मरी तरुणः-अचिरोत्पन्नः, औषधैः साध्यः-साधयितुं शक्यः| प्रवृद्धः पुनश्छेदनं-पाटनं, शस्त्रेणार्हति|
Adhikarana ashmaryAH pUrvarUpeShu snehAdikramaH (17) · Śloka 17
|
तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते||१७||
स०-तस्य-आश्मर्याख़्यस्य व्याधेः, प्राग्रूपेषु स्नेहादिक्रम इष्यते| आदिशब्दः स्वेदनवमनादीनां ग्रहाय| अथ स्नेहमाह-
Adhikarana vAtAshmaryA pAShANabhedAdi ghRutam (18-20) · Śloka 20
पाषाणभेदो वसुको वशिरोऽश्मन्तको वरी|
कपोतवङ्कातिबलाभल्लूकोशीरकच्छकम्||१८||
वृक्षादनी शाकफलं व्याघ्र्यौ गुण्ठस्त्रिकण्टकः|
यवाः कुलात्थाः कोलानि वरुणः कतकात्फलम्||१९||
ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम्|
भिनत्ति वातसम्भूतां तत्पीतं शीघ्रमश्मरीम्||२०||
स०-पाषाणभेदादीनां क्वाथे घृतं शृतमूषकादिगणोक्तद्रव्यप्रतिवापं-तत्कल्कं सत्, पीतं वातजामश्मरीं भिनत्ति| वसुकः-ईश्वरमल्लिका| वशिरं-सामुद्रलवणम्| अश्मन्तको-मालुकपर्णः| कपोतवङ्का-सुवर्चला| भल्लूकः-श्योनाकः|
Adhikarana vAtAshmaryAM eraNDamUlAdikalkaH (21) · Śloka 21
गन्धर्वहस्तबृहतीव्याघ्रीगोक्षुरकेक्षुरात्|
मूलकल्कं पिबेद्दध्ना मधुरेणाश्मभेदनम्||२१||
स०-गन्धर्वहस्तादीनां समाहारद्वन्द्वः, अनित्यमागमशासनमिति तु प्रकृतम्| एरण्डादीनां द्रव्याणां यन्मूलं तत्कल्कीकृत्य मधुरेण दध्ना पिबेदश्मभेदनम्,-प्रकृतत्वाद्वाताश्मरीभेदनं गम्यते|
Adhikarana pittAshmaryAM kushAdighRutam (22-24) · Śloka 24
कुशः काशः शरो गुण्ठ इत्कटो मोरटोऽश्मभित्|
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः||२२||
भल्लूकः पाटली पाठा पत्तूरः सकुरण्टकः|
पुनर्नवे शिरीषश्च तेषां क्वाथे पचेद्धृतम्||२३||
पिष्टेन त्रपुसादीनां बीजेनेन्दीवरेण च|
मधुकेन शिलाजेन तत्पित्ताश्मरिभेदनम्||२४||
स०-कुशादीनां क्वाथे त्रपुसादीनां-पूर्वोक्तानां (श्लो.७) त्रपुसैर्वारुलट्वानां, बीजेन नीलोत्पलबीजेन मधुकेन च पिष्टेन शिलाजतुना च घृतं पचेत्| तत्पित्ताश्मरीभेदनं भवति| शोधनादिगणसङ्ग्रहोक्तास्तु (हृ. सू. अ. १५|१) त्रपुसादयोऽत्र न गृह्यन्ते, तदन्तःपातिनां पित्तविरोधिनां सर्पिरा(सर्षपा)दीनां द्रव्याणां तत्र पाठात्|
Adhikarana kaPAshmaryAM varUNAdighRutam (25-26) · Śloka 26
वरुणादिः समीरघ्नौ गणावेलाहरेणुका|
गुग्गुलुर्मरिचं कुष्ठं चित्रकः ससुराह्वयः||२५||
तैः कल्कितैः कृतावापमूषकादिगणेन च|
भिनत्ति कफजामाशु साधितं घृतमश्मरीम्||२६||
स०-"वरुणसैर्यक" (हृ.सू.अ.१५|२१) इत्यादिर्वरुणादिर्गणः, समीरघ्नौ गणौ-"वीरतरादिः (हृ.सू.अ.१५|२४) . तथा विदार्यादिः (हृ.सू.अ.१५|९) , एतैर्वरुणादिभिर्द्रव्यैः कल्किकृतैस्तथोषकादिगणेन-"ऊषकस्तुत्थकं" (हृ.सू.अ.१५|२३) इत्यादिना, कृतावापं-कल्कवत्कृत्वा, घृतं साधितमाशु कफजामश्मरीं हन्ति|
Adhikarana ashmaryAM kShArakShIrayavAgvAdayaH (27) · Śloka 27
क्षारक्षीरयवाग्वादि द्रव्यैः स्वैः स्वैश्च कल्पयेत्|
|२७|
स०-क्षारादि च स्वैः स्वैः-तद्योग्यैर्द्रवैः कल्पयेत्|
Adhikarana sharkarAyAM picukAdikvAthaH (27-28) · Śloka 28
|
पिचुकाङ्कोल्लकतशाकेन्दीवरजैः फलैः||२७||
पीतमुष्णाम्बु सगुडं शर्करापातनं परम्|
|२८|
स०-पिचुकादिभिरुष्णाम्बु सगुडं पीतं शर्करायाः परं शातनम्| पिचुकः-शितिवारकः|
Adhikarana SarkarAyAM krau~jcAsthyAdicUrNam (28-29) · Śloka 29
|
क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालपत्रिका||२८||
अजमोदा कदम्बस्य मूलं विश्वस्य चौषधम्|
पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा||२९||
स०-क्रौञ्चास्थ्यादीनि पीतानि सुरयोष्णजलेन वा शर्करां हन्युः|
Adhikarana ashmaryAM nRutyakuNDakacUrNam (30) · Śloka 30
नृत्यकुण्डकबीजानां चूर्णं माक्षिकसंयुतम्|
अविक्षीरेण सप्ताहं पीतमश्मरिपातनम्||३०||
स०-तुम्बरीबीजानां चूर्णं माक्षिकान्वितमविक्षीरेण सप्ताहं पीतमश्मरिपातनम्| अत्राश्मरीशब्दस्य "ढ्यापोः संज्ञाछन्दसोः" इति ह्रस्वः|
Adhikarana ashmaryAM shigrumUlakvAthaH (31) · Śloka 31
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरीपातनः|
|३१|
स०-सोभाञ्जनकमूलक्वाथश्च कोष्णः पीतोऽश्मरिपातनः|
Adhikarana ashmaryAM tilAdikShAraH (31-32) · Śloka 32
|
तिलापामार्गकदलीपलाशयवसम्भवः||३१||
क्षारः पेयोऽविमूत्रेण शर्करास्वश्मरीषु च|
|३२|
स०-तिलादिसम्भवः क्षारोऽविमूत्रेण शर्करास्वश्मरीषु च विषये पेयः|
Adhikarana ashmarIvedanAyAM kapotava~gkA cUrNam, kapotava~gkasiddhaM kShIram, harItakyasthisiddhaM kShIram, punarnavAsiddhaM kShIram, mayUrashikhAmUlacUrNam (32-34) · Śloka 34
|
कपोतवङ्कामूलं वा पिबेदेकं सुरादिभिः||३२||
तत्सिद्धं वा पिबेत्क्षीरं वेदनाभिरुपद्रुतः|
हरीतक्यस्थिसिद्धं वा साधितं वा पुनर्नवैः||३३||
क्षीरान्नभुग्बर्हिशिख़ामूलं वा तण्डुलाम्बुना|
|३४|
स०- कपोतवङ्काया मूलं केवलं सुख़ोष्णजलादिभिः पिबेत्| तया-कपोतवङ्कया, सिद्धं-शृतं, वा क्षीरं वेदनोपद्रुतः पिबेत्| हरीतक्यस्थिभिः सिद्धं वा क्षीरमथवा पुनर्नवपक्वं क्षीरं पिबेत्| मयूरशिख़ामूलं तण्डुलाम्भसा पिबेत्| किम्भूतः ? क्षीरान्नाशी सन्|
Adhikarana mUtrAghAteShu kriyAviBAgaH (34) · Śloka 34
|
मुत्राघातेषु विभजेदतः शेषेष्वपि क्रियाम्||३४||
स०-अतः-अस्मात्पूर्वोक्ताञ्चिकित्सितात्, यथायोगं शेषेष्वपि मूत्राघातेषु-मूत्रातीतादिष्वपि, क्रियां विभजेत्-निरूप्य कुर्यात्|
Adhikarana mUtrAghAteShu bRuhatyAdigaNasya kvAthAdi (35) · Śloka 35
बृहत्यादिगणे सिद्धं द्विगुणीकृतगोक्षुरे|
तोयं पयो वा सर्पिर्वा सर्वमूत्रविकारजित्||३५||
स०-बृहत्यादिगणे द्विगुणीकृतगोक्षुरे जलं पक्वं क्षीरं वा सर्पिर्वा सर्वान् मूत्रविकारान् जयति|
Adhikarana mUtrAghAteShu devadArvAdicUrNam (36) · Śloka 36
देवदारुं घनं मूर्वां यष्टीमधु हरीतकीम्|
मूत्रघातेषु सर्वेषु सुराक्षीरजलैः पिबेत्||३६||
स०-देवदार्वादीन् सुरादीनामन्यतमेन सर्वेषु मूत्राघातेषु पिबेत्|
Adhikarana mUtrAghAteShu dhanvayAsasvarasaH, kakuBakvAthaH, triPalAkalkaH, yavAgUH vyAghryAdisiddhA, vIratarAdisiddhA, tAmracUDarasasiddhA, shilAjatu vIratarAdi BAvitam (37-39) · Śloka 39
रसं वा धन्वयासस्य कषायं कुकुभस्य वा|
सुख़ाम्भसा वा त्रिफलां पिष्टां सैन्धवसंयुताम्||३७||
व्याघ्रीगोक्षुरकक्वाथे यवागूं वा सफाणिताम्|
क्वाथे वीरतरादेर्वा ताम्रचूडरसेऽपि वा||३८||
अद्याद्वीरतराद्येन भावितं वा शिलाजतु|
|३९|
स०-धन्वयवासकस्य रसं वा ककुभस्य क्वाथं वा त्रिफलामुष्णोदकेन पिष्टां सैन्धवान्वितां वा पिबेत्| कण्टकारिकागोक्षुरक्वाथसिद्धां वा यवागूं सफाणितां पिबेत्| वीरतरादेः क्वाथे वा सिद्धां पेयां पिबेत्| अथवा, ताम्रचूडस्य-कुक्कुटस्य, मांसरसे सिद्धां पेयां पिबेत्| शिलाजतु वीरतराद्येन वा गणेन भावितमद्यात्|
Adhikarana ashmarIcyutau rathAdigamanam (39-40) · Śloka 40
|
मद्यं वा निगदं पीत्वा रथेनाश्वेन वा व्रजेत्||३९||
शीघ्रवेगेन सङ्क्षोभात्तथाऽस्य च्यवतेऽश्मरी|
|४०|
स०-अथवा, पुराणं मद्यं पीत्वा रथेन वाऽश्वेन वा शीघ्रवेगेन गच्छेत्| तथा-तेन प्रकारेण, सङ्क्षोभितस्यतस्य्नाश्मरी च्यवते|
Adhikarana mUtrAghAteShu vIratarAdiH, virecanArthaM tailvakaM sarpiH, bastikarma (40-41) · Śloka 41
|
सर्वथा चोपयोक्तव्यो वर्गो वीरतरादिकः||४०||
रेकार्थे तैल्वकं सर्पिर्बस्तिकर्म च शीलयेत्|
विशेषादुत्तरान् बस्तीन्|४१|
स०-[सर्वथा-] सर्वेण च प्रकारेण क्वाथपेयाजलादिषु, वीरतरादिको योज्यः| विरेचनार्थं तैल्वकं-"शम्याकेन" (हृ.चि.अ.३|१५२) इत्यादिना साधितं सर्पिरुपयोक्तव्यम्| तथा, बस्तिकर्म-"प्राक् स्नेह एकः" (हृ.सू.अ.१९|६३) इत्यादिकं शीलयेत्| विशेषेणोत्तरबस्तीनभ्यसेत्|
Adhikarana mUtrAghAteShu uttarabastirvisheShataH, shukrAshmaryAM pramadAsevanam (41-43) · Śloka 43
|
शुक्राश्मर्यां तु शोधिते||४१||
तैर्मूत्रमार्गे बलवान् शुक्राशयविशुद्धये|
पुमान् सुतृप्तो वृष्याणां मांसानां कुक्कुटस्य च||४२||
कामं सकामाः सेवेत प्रमदा मददायिनीः|
|४३|
स०-शुक्राश्मर्यां च तैः-उत्तरबस्तिभिः, मूत्रमार्गे शोधिते सति पुमान् वृष्याणां द्रव्याणां कुक्कुटस्य मांसानां च सुहितः सन् यथेच्छं मददायिनीः प्रमदाः सेवेत शुक्राशयविशुद्धये| कुक्कुटस्य वृष्यत्वेनैव सिद्धे ग्रहणेऽतिशयेन कुक्कुटस्यात्र पथ्यत्वमिति ज्ञापनार्थं [ पुनः ] उपादानम्|
Adhikarana evamupashamABAve rAj~jaH prashrnapUrvakaM shastrAvacAraNam (43-44) · Śloka 44
|
सिद्धैरुपक्रमैरेभिर्न चेच्छान्तिस्तदा भिषक्||४३||
इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत्|
|४४|
स०-एभिः-पूर्वोक्तैः, उपक्रमैः सिद्धैः-अश्मरीहरैः, यदि शमो न स्यात्, तदेति राजानमापृच्छ्याश्मर्याहरणं शस्त्रं साध्ववचारयेत्|
Adhikarana prashrnaprakAraH (44-45) · Śloka 45
किमापृच्छ्य ? इत्याह |
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्||४४||
निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः|
|४५|
स०-हे नृपते जातव्याधावक्रियायां-चिकित्सां विना, ध्रुवः-आवश्यं, मृत्युः स्यात्| अपरं च क्रियायां-चिकित्सायां क्रियमाणायां, निश्चितस्यापि-शास्त्रार्थविदोऽपि, वैद्यस्य तथा बहुशः-अनेकशः, सिद्धकर्मणो-निष्पन्नक्रियाक्रमस्यापि, संशयो भवेत्-कदाचिज्जीवति न वा, एवंप्रकारेण राजानमापृच्छय|
Adhikarana shastrakarmavidhiH (45-55) · Śloka 55
|
अथातुरमुपस्निग्धशुद्धमीषच्च कर्शितम्||४५||
अभ्यक्तस्विन्नवपुषमभुक्तं कृतमङ्गलम्|
आजानुफलकस्थस्य नरस्याङ्ग्के व्यापाश्रितम्||४६||
पूर्वेण कायेनोत्तानं निषण्णं वस्त्रचुम्भले|
ततोऽस्याकुञ्चिते जानुकूर्परे वाससा दृढम्||४७||
सहाश्रयमनुष्येण बद्धस्याश्वासितस्य च|
नाभेः समन्तादभ्यज्यादधस्तस्याश्च वामतः||४८||
मृदित्वा मुष्टिनाऽऽक्रामेद्यावदश्मर्यधोगता|
तैलाक्ते वर्धितनख़े तर्जनीमध्यमे ततः||४९||
अदक्षिणे गुदेऽङ्गुल्यौ प्रणिधायानुसेवनि|
आसाद्य बलयत्नाभ्यामश्मरीं गुदमेढ्रयोः||५०||
कृत्वाऽन्तरे तथा बस्तिं निर्वलीकमनायतम्|
उत्पीडयेदङ्गुलिभ्यां यावद्ग्रन्थिरिवोन्नतम्||५१||
शल्यं स्यात्सेवनीं मुक्त्वा यवमात्रेण पाटयेत्|
अश्ममानेन न यथा भिद्यते सा तथाऽऽहरेत्||५२||
समग्रं सर्पवक्रेण, स्त्रीणां बस्तिस्तु पार्श्वगः|
गर्भाशयाश्रयस्तासां शस्त्रमुत्सङ्गवत्ततः||५३||
न्यसेदतोऽन्यथा ह्यासां मूत्रस्रावी व्रणो भवेत्|
मूत्रप्रसेकक्षणनान्नरस्याप्यपि चैकधा||५४||
बस्तिभेदोऽश्मरीहेतुः सिद्धिं याति न तु द्विधा|
|५५|
स०-अथ-राजपृच्छनादनन्तरम्, आतुरमुपस्निग्धादिरूपं कृत्वा ततोऽस्य नाभेरधोऽभ्यज्यात्| पूर्वमुपस्निग्धः पश्चाच्छुद्धस्तमुपस्निग्धशुद्धम्| तथा, अभुक्तं-अकृताहारम्| तथा, मनाक् कर्शितम्| तथा, अभ्यक्तस्विन्नशरीरं च| तथा, कृतमङ्गलं-विहितस्वस्त्ययनम्| तथा, नरस्यान्यस्याङ्कमाश्रितम्| किम्भूतस्य ? आजानुफलकस्थस्य| फलकः-आसनविशेषः, आजानुजानुप्रमाणो यः फलकस्तस्मिन् स्थितस्य| तथा, पूर्वेण कायेनोत्तानम्| तथा, वस्त्रचुम्भले निषणणम्| चुम्भलः-तृणमयो घटादीनां चलनरक्षणार्थमाधारविशेषो यः क्रियते स उच्यते, तथारूपो वस्त्रमयचुम्भलो वस्त्रचुम्भलः,-वस्त्रं वेष्टयित्वा कृत आसनविशेषः, तस्मिन्नुपविष्टम्| [ततोऽस्य-] तथाभूतस्यानन्तरं, आकुञ्चिते-ईषत्कुटिलीकृते, जानुकूर्परे सति| जानुनी च कर्पूरे च जानुकर्पूरं, तस्मिन्| तथा, आश्रयमनुष्येण सह वाससा सूत्रैर्वा बद्धस्य-दृढं कृत्वा एवंयन्त्रितस्य, आश्रयश्चासौ मनुष्यश्च| कस्याश्रयः ? प्रकृतत्वादातुरस्य, तमाश्रित्यातुरस्य स्थितत्वात्| तथा, आश्वासितस्य-निरामयो भवस्रीत्येवंप्रायाभिर्वाग्भिः शीतपवनादिभिश्च सान्त्वितस्य| ततो नाभेरधः समन्तात्-परितः, अभ्यज्यात्| तस्याश्च-नाभेः, वामतो-वामपार्श्वे, मृदित्वा मुष्टिनाऽऽक्रामेत्-पीडयेत्, तावद्यावदश्मर्यधो गता-अधः प्रतिपन्ना| ततः-अनन्तरं, अदक्षिणे-वामे, तर्जनीमध्याङ्गुल्यौ वर्धितनखे तथा तैलाभ्यक्ते कृत्वा गुदे प्रणिधायानुसेवनि| अनन्तरं बलयत्नाभ्यां आसाद्य-अश्मरीं प्राप्य, गुदमेढ्रयोरन्तरे-मध्ये कृत्वा, कथम् ? कृत्वा-तत्र नीत्वा, तथा बस्तिं निर्वलिकं कृत्वा, तथा तमनायतं-अविस्तीर्णं सन्निवेश्य, अनन्तरमङ्गुलिभ्यां-वामहस्ततर्जनीमध्यमाभ्यां, प्रकृतत्वादश्मरीमुत्पीडयेत्| तावद्यावच्छल्यं-अश्मर्याख्यं, ग्रन्थिरिवोन्नतं स्यात्| अनन्तरं सेवन्या वामपार्श्वे सेवनीं यवमात्रेण त्य(मु)क्त्वा-वर्जयित्वा, पाटयेच्छस्त्रेण| कियन्मात्रम् ? अश्ममानेन,-अश्मरीप्रमाणेन, न तु ततोऽधिकमूनं वा| व्रणं च कृत्वाऽश्मरीं समग्रं-निरवशेषं यथा भवत्येवं, सर्पफणवदग्रवक्रेण यन्त्रेणाहरेत्,-तथा चाकर्षेद्यथा सा ह्रियमाणा न भिद्यते| भिन्ना हि पुनर्वृद्धिमियात्| स्त्रीणां तु बस्तिः पार्श्वतो भवन् गर्भाशयाश्रयो यस्मात्तत उत्सङ्गवदधः शस्त्रं न्यसेत्-पातयेत्| अतः-अस्माच्छस्त्रपातनविधानात्, अन्यथाऽश्मर्याहरणार्थं शस्त्रपातनेन मूत्रस्रावी व्रणो भवेत्| न केवलं स्त्रीणां मूत्रप्रसेकक्षणनान्मूत्रस्रावी व्रणो भवेत्| यावद् दीर्घकालानुबन्धी मूत्रप्रसेकक्षणनान्नरस्यापि| अपि च-अन्यच्च, एकधा-एकतो, बस्तिभेदोऽश्मरीहेतुः-तन्निमित्तः, सिध्यति क्रियाभ्यासान्नित्यमतिवृद्धत्वाच्च शल्यस्येति, न तु सहसा शस्त्राद्यभिघातहेतुज एकतो भिन्नोऽपि बस्तिः सिध्यति| मर्मविभागेऽप्यवादीत् (हृ. शा. अ. ४|१०)- "धनुर्वक्रो बस्तिः सद्यो निहन्ति" इति| अश्मरीहेतुरपि यो बस्तिभेदो द्विधा-उभयतः, सोऽपि म सिध्यति, व्रणस्वभावात्|
Adhikarana vishalyasya vidhiH (55-56) · Śloka 56
|
विशल्यमुष्णपानीयद्रोण्यां तमवगाहयेत्||५५||
तथा न पूर्यतेऽस्त्रेण बस्तिः, पूर्णे तु पीडयेत्|
मेढ्रान्तः क्षीरिवृक्षाम्बु|५६|
स०-विशल्यं-निर्गताश्मरीकं, उष्णपानीयद्रोण्यां तं-आतुरं, अवगाहयेत्| तथा-तेनवगाहनेन, बस्तिरस्रेण न पूर्यते| एवमपि कृते दैवदस्रेण तु पूर्णे बस्तौ क्षीरिवृक्षाम्बु मेढ्रान्तः-मेढ्रे, पीडयेत्| क्षीरिवृक्षकषायेणोत्तरबस्तिं दद्यादित्यर्थः| न्यग्रोधोदुम्बराश्वत्थकपीतनप्लक्षाः-क्षीरिणः|
Adhikarana mUtrasaMshuddhau guDasauhityam, yavAgUH, odanam, mAMsarasAH (56-58) · Śloka 58
|
मूत्रसंशुद्धये ततः||५६||
कुर्याट्गुडस्य सौहित्यं मध्वाज्याक्तव्रणः पिबेत्|
द्वौ कालौ सघृतां कोष्णां यवागूं मूत्रशोधनैः||५७||
त्र्यहं, दशाहं पयसा गुडाढ्येनाल्पमोदनम्|
भुञ्जीतोर्ध्वं फलाम्लैश्च रसैर्जाङ्गलचारिणाम्||५८||
स०-ततः-अनन्तरं, मूत्रस्य संशुद्ध्यर्थं गुडस्य सौहित्यं-तृप्तिं, कुर्यात्| ततो मध्वाज्याक्तव्रणो नरो द्वौ कालौ [ मूत्रशोधनैः- ] त्रपुसैर्वारुकूष्माण्डगोक्षुरादिभिः कृतां, यवागूं सघृतां कोष्णां त्र्यहं पिबेत्| अनन्तरं दशाहं गुडाढ्येन-बहुगुडेन, क्षीरेणाल्पमोदनमद्यात्| उर्ध्वं-दशाहादनन्तरं, जाङ्गलचारिणां प्राणिनां रसैर्मांसरसौदनं च मात्राया भुञ्जीत| फलाम्लैरिति कोलदाडिमाद्यम्लैः, न तु मस्तुकाञ्जिकाद्यम्लैरित्यर्थः|
Adhikarana ashmarIvraNe prakShAlanam, lepaH, tailam (59-60) · Śloka 60
क्षीरिवृक्षकषायेण व्रणं प्रक्षाल्य लेपयेत्|
प्रपौण्डरीकमञ्जिष्ठायष्ट्याह्वनयनौषधैः||५९||
व्रणाभ्यङ्गे पचेत्तैलमेभिरेव निशान्वितैः|
|६०|
स०-क्षीरिवृक्षकषायेण व्रणं प्रक्षाल्य प्रपौण्डरीकादिभिर्लेपयेत्| नयनौषधं-पाट्टिकारोध्रम्| एभिरेव-प्रपौण्डरीकादिभिः, हरिद्रान्वितैर्व्रणाभ्यङ्गविषये तैलं पचेत्|
Adhikarana ashmarI vraNe svedaH, agacCati mUtre dAhaH, gacCatimUtre bastayaH (60-62) · Śloka 62
|
दशाहं स्वेदयेच्चैनं, स्वमार्गं सप्तरात्रतः||६०||
मूत्रे त्वगच्छति दहेदश्मरीव्रणमग्निना|
स्वमार्गप्रतिपत्तौ तु स्वादुप्रायैरुपाचरेत्||६१||
तं बस्तिभिः|
|६२|
स०-एनं च व्रणं दशाहं स्वेदयेत्| स्वेदनादनन्तरं तु- पुनः, सप्तरात्रेण स्वमार्गं मूत्रेऽगच्छति सत्यश्मरीव्रणमग्निना दहेद्वैद्य इति| मूत्रस्य स्वमार्गप्रतिपत्तौ सत्यां तं-आतुरं, स्वादुप्रायैः-मधुरभूयिष्ठद्रव्यसाधितैः, बस्तिभिः-उत्तरबस्त्यादिभेदभिन्नैः, उपाचरेत्-उपक्रमेत्|
Adhikarana rUDhavraNe~api varShaparyantaM nagAdyArohaNaniShedhaH (62) · Śloka 62
न चारोहेद्वर्षं रूढव्रणोऽपि सः|
नगनागाश्ववृक्षस्त्रीरथान्नाप्सु प्लवेत च||६२||
स०-रूढव्रणोऽपि [सः-] अश्मर्यातुरो, वर्षं यावन्नगादीन्नारोहेत्| अप्सु च न प्लवेत|
Adhikarana shastrakarmaNi varjyAni marmANi (11) · Śloka 11
मूत्रशुक्रवहौ बस्तिवृषणौ सेवनीं गुदम्|
मूत्रप्रसेकं योनिं च शस्त्रेणाष्टौ विवर्जयेत्||६३||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने मूत्राघातचिकित्सितं नामैकादशोऽध्यायः||११||
स०-अश्मरीव्रणावसरे तदर्थमन्यार्थमपि मूत्रवहादीनि [ अष्टौ ] मर्माणि शस्त्रेण वर्जयेत्| तत्र मूत्रवहस्रोतश्छेदान्मूत्रपूर्णबस्तेर्मरणं स्यात्, शुक्रवहस्रोतश्छेदानमरणं क्लैव्यं वा, बस्तिगुदच्छेदात्सद्यो मरणम्, वृषणस्रोतश्छेदात् ध्वजभङ्गः, सेवनीयोनिच्छेदाद्रुजाप्रादुर्भावः, मूत्रप्रसेकस्रोतश्छेदान्मूत्रप्रस्रवणमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने मूत्राघातचिकित्सितं नामैकादशोऽध्यायः समाप्तः|| ११||