Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
रक्तपित्तचिकित्सितादनन्तरं कासचिकित्सितस्यारम्भः| तस्य च सम्बन्धो निदाने स्वयं ग्रन्थकृतैवोक्तः|
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
रक्तपित्तचिकित्सितादनन्तरं कासचिकित्सितस्यारम्भः| तस्य च सम्बन्धो निदाने स्वयं ग्रन्थकृतैवोक्तः|
Adhikarana kAsacikitsitAdhyAyaH vAtakAsacikitsA shuddhasya vAtakAsasya cikitsA sapittasya vAtakAsasya cikitsA sakaPasya vAtakAsasya cikitsA (2-3) · Śloka 3
अथातः कासचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| ) केवलानिलजं कासं स्नेहैरादावुपाचरेत्| वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः||१|| लेहैर्धूमैस्तथाऽभ्यङ्गस्वेदसेकावगाहनैः| बस्तिभिर्वद्धविड्वातं, सपित्तं तूर्ध्वभक्तिकैः||२|| ग़ृतैः क्षीरैश्च, सकफं जयेत्स्नेहविरेचनैः| |३|
🔊 Audio coming soon
स०-केवलानिलजं कासं-दोषान्तरासंसृष्टं, स्नेहैः-वातघ्नसिद्धैः, आदावुपाचरेत्| ननु,शुद्धस्य वातस्य स्नेहैरेव प्रधानोपक्रम आदिमध्यावसानेषु, न पुनरन्य उपक्रमः, तस्मादादाविर्यनेन नार्थः| अत्रोच्यते| वातः केवलो दोषान्तरावृतमार्गः कासस्य कारणम्, न त्वनावृतमार्गः| तथा च काससम्प्राप्तावुक्तम् (हृ. नि. अ. ३११९)-तत्राधो विहतोऽनिलः| ऊर्ध्वंप्रवृत्तः" इत्यादि| एवं वातस्य विहतौ यो दोषः कारणं कफादिः, तस्य रूक्षाद्युपक्रमेणैव शमं कृत्वाऽनन्तरं कासेन सहोपक्रममस्य भिषजः कुर्युरिति तेषां भ्रान्तिनिरसाऱ्थमादावित्युक्तम्| तथा, पेयादिभिरुपाचरेत्| तथा, बद्धौ विड्वातौ यस्मिन्कासे तं बस्तिभिरुपाचरेत्| सपित्तं च वातकासमूर्ध्वभक्तिकैः-भक्तसमनन्तरं पीयमानैर्ग़ृतैर्भोजयेत् क्षीरैश्च| ऊर्ध्वभक्तिकैरिति ऊर्ध्वभक्तादिभिः| मयुरव्यंसकादित्वात् समासः, अध्यात्मादिग्वाठ्ठञ्| तथा, वातघ्नसिद्धैरित्येष्वपि योज्यम्| तथा, सकफं वातकासं स्नेहविरेचनैरुपाचरेत्| अथ स्नेहानाह
Adhikarana guDUcyAdighRutaM vAtakAsanut (3-4) · Śloka 4
| गुडूचीकण्टकारीभ्यां पृथक्त्रिंशत्पलाद्रसे||३|| प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः| |४|
🔊 Audio coming soon
स०-गुडूच्याः कण्टकार्याश्च पृथक्-प्रत्येकं, त्रिंत्शल्पलं तस्माद्यो रसस्तस्मिन् घृतात् प्रस्थः सिद्धो वातकासादिजित्| तिस्रोऽपि पञ्चम्य एता अपेक्षितक्रियेऽपादाने बोध्याः|
Adhikarana kShArAdighRutaM kAsashvAsAdinut (4-6) · Śloka 6
| क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः||४|| द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्| दशमूलस्य निर्यूहे पीतो मण्डानुपायिना||५|| स कासश्वासह्रत्पार्श्वग्रहणीरोगगुल्मनुत्| |६|
🔊 Audio coming soon
स०-क्षारादिभिः पञ्चकोलयुतैर्द्विशाणमात्रैः कल्कैर्दशमूलक्वाथे सर्पिषः प्रस्थं पचेत्| स च-सर्पिःप्रस्थो, मण्डानुपायिना पीतः कासादिजित्|
Adhikarana rAsnAdighRutaM pa~jcakAsAdijit (6-9) · Śloka 9
| द्रोणेऽपां साधयेद्रास्नादशमूलशतावरीः||६|| पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम्| तुलार्घं चाजमांसस्य तेन साध्यं घृताढकम्||७|| समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत्| प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः||८|| पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम्| सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलान् जयेत्||९||
🔊 Audio coming soon
स०-रास्नादीनि पलोन्मितानि कुलत्थबदरयवान् द्विकुडवोन्मितान् आजमांसस्य च पञ्चाशत्पलानि जलद्रोणे पाचयेत्| तेन क्वाथेन घृताढकं साध्यं तुल्यक्षीरं पालिकैर्जीवनीयैः-जीवन्तीकाकोल्यादिभिः (हृ. सू. अ. १५/८), तद्धृतं समीक्ष्य देशकालादीनालोच्य, पानादिभिः प्रयुक्तं पञ्चकासादीन् जयति|
Adhikarana vidAryAdighRutaM kAsajit (10) · Śloka 10
विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्| |१०|
🔊 Audio coming soon
स०-विदार्यादिगणस्य क्वाथकल्काभ्यां च सिद्धं सर्पिः कासजित्|
Adhikarana ashokabIjAdilehaH (10-11) · Śloka 11
| अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः||१०|| सबिडैश्च घृतं सिद्धं तच्चूर्णं वा घृतप्लुतम्| लिह्यात्पयश्चानु पिबेदाजं कासातिपीडितः||११||
🔊 Audio coming soon
स०-अशोकबीजादिभिर्विडसहितैर्घृतं सिद्धं कासजित्| तेषां वा-अशोकबीजादीनां, चूर्णं घृतप्लुतं लिह्यात्| अनु पश्चाच्च, छागं क्षीरं कासेनातिपीडितः पिबेत्|
Adhikarana viDa~ggAdilehaH (12-13) · Śloka 13
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्| भार्ङ्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया||१२|| सकफेऽनिलजे कासे श्वासहिध्माहताग्निषु| |१३|
🔊 Audio coming soon
स०-अथवा विडङ्गादिचूर्णं घृतस्य मात्रया-यथायोगं ह्र्स्वमध्योत्तमया, पिबेत् वातजे सकफे कासे श्वासादिषु च|
Adhikarana durAlaBAdilehaH (13-14) · Śloka 14
| दुरालभां शृङ्गबेरं शठीं द्राक्षां सितोपलाम्||१३|| लिह्यात्कर्कटशृङ्गी च कासे तैलेन वातजे| |१४|
🔊 Audio coming soon
स०-दुरालभादीन् कर्कटाशृङ्गी च वातजे कासे तैलेन लिह्यात्|
Adhikarana duHsparshAdilehaH pippalIshuNThIlehaH BAr~ggIshuNThIlehaH (14-15) · Śloka 15
| दुस्पर्शां पिप्पलीं मुस्तां भार्ङ्गी कर्कटकीं शठीम्||१४|| पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत्| तद्वत्सकृष्णां शुण्ठीं च सभार्ङ्गी तद्वदेव च||१५||
🔊 Audio coming soon
स०-दुःस्पर्शादीनि चूर्णितानि वातजे कासे पुराणगुडतैलाभ्यामवेलहयेत्| तथैव पिप्पलीसहितां शुण्ठीं पुराणगुडतैलाभ्यां लिह्यात्| तद्वच्च पुराणतैलाभ्यां भार्ङ्गींसहितां शुण्ठीं लेहयेत्|
Adhikarana pippalyAdipAnapa~jcakam (16-17) · Śloka 17
पिबेच्च कृष्णं कोष्णेन सलिलेन ससैन्धवाम्| मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाम्||१६|| पिबेद्वदरमज्ज्ञो वा मदिरादधिमस्तुभिः| अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्||१७||
🔊 Audio coming soon
स०-पिप्पलीं कदुष्णेन जलेन सैन्धवसहितां पिबेत्| मस्तुना सशर्करां शुण्ठीं वा पिबेत्| अथवा दध्ना युक्तां पिप्पलीरेणुकां पिबेत्| अथवा बदरमज्ज्ञो मदिरादिभिः पिबेत्| बहुवचनोपादानाच्च मदिरया अथवा दध्ना मस्तुना वेत्येवं द्रष्टव्यम्, न तु दध्नो मस्तिवति| पिप्लीकल्कं वा घृतभृष्टं सैन्धवयुक्तं मदिरादिभिः पिबेत्|
Adhikarana sapInase kAse dhUmaH (18) · Śloka 18
कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्| हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः||१८||
🔊 Audio coming soon
स०-कासी पीनसी च स्नैहिकं धूमं विधिना पिबेत्| क्षीरमांसरसाशनो हिध्मोक्तान् श्वासोक्तांश्च धूमान् पिबेत्|
Adhikarana mAMsarasayUShAH (19) · Śloka 19
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्| रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्||१९||
🔊 Audio coming soon
स०-ग्राम्यादिजैर्मासरसैरथवा माषात्मगुप्तानां यूषैः शाल्यादीन् हितानाशयेत्| हितानिति देशकालादिसात्म्यवशात् यवा (शाल्या) द्यन्यतमं यत् पथ्यं तद्भुञ्जीतेति प्रतिपादयति|
Adhikarana yavAnyAdipeyA (20-21) · Śloka 21
यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः| रास्नाजाजीपृथक्पर्णीपलाशशठिपौष्करैः||२०|| सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्| कटिहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशनीम्||२१||
🔊 Audio coming soon
स०-यवान्यादिभिः सिद्धां स्निग्धामम्ललवणां पेयां वातजेकासे पिबेत्| किम्भूताम् ? कट्याद्यार्तिश्वासहिध्माप्रणाशनीम्|
Adhikarana dashamUlAdipeyA (22) · Śloka 22
दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम्| पिबेत्पेयां|२२|
🔊 Audio coming soon
स०-तद्वत्-पूर्वोक्तगुणाम्, दशमूलक्वाथे सिद्धां पञ्चकोलगुडयुतां पेयां पिबेत्|
Adhikarana kShaireyIpeyA (22) · Śloka 22
| समतिलां क्षैरेयीं वा ससैन्धवाम्||२२||
🔊 Audio coming soon
स०-क्षैरेयीं-क्षीरसंस्कृतां वा पेयां, वातजे कासे पिबेत्| किम्भूताम् ? समतिलां,-तिलसहितां| तथा, ससैन्धवाम्|
Adhikarana mAMsapeyA (23) · Śloka 23
मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम्| |२३|
🔊 Audio coming soon
स०-अथवा मात्स्याद्यैर्मांसैः साधितां सघृतसैन्धवां पेयां पिबेत्|
Adhikarana shAkAni (23-24) · Śloka 24
| वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः||२३|| कण्टकार्याः फलं पत्रं बालं शुष्कं च मूलकम्| |२४|
🔊 Audio coming soon
स०-वास्तुकादयः शाकविशेषाः|
Adhikarana snehAH BakShyAH (24) · Śloka 24
| स्नेहास्तैलादयोभक्ष्याः क्षीरेक्षुरसगौडिकाः||२४||
🔊 Audio coming soon
स०-तैलादयः स्नेहाः| सं-भक्ष्याः क्षीरादिसम्बन्धिनो हिताः| क्षीरं चेक्षुरसश्च गुडश्च, तेषामिमे क्षीरेक्षुरसगौडिकाः| "द्वन्द्वान्ते पदं यच्छ्रूयते तत्सर्वैः सम्बध्यते " इति भाष्यकारवचनात् सर्वैरप्यत्र सम्बन्धः| तेन क्षीरसम्बन्धिन इक्षुरससम्बन्धिनो गुडसम्बन्धिनश्च भक्ष्या हिता इत्यवतिष्ठते|
Adhikarana pAnAni (25) · Śloka 25
दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत्| |२५|
🔊 Audio coming soon
स०-तथा, दधिमस्त्वादीनि पिबेत्| इति वातजे कासे प्रायेणोपयोग्यन्नपानमुद्दिष्टम्|
Adhikarana pittakAsacikitsA sakaPe pittakAse vamanam (25-26) · Śloka 26
| पित्तकासे तु सकफे वमनं सर्पिषा हितम्||२५|| तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः| फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः||२६||
🔊 Audio coming soon
स०-पित्तजे कासे, किम्भूते ? सकफे-कफयुक्ते, तु सर्पिषा वमनं हितम्| अत एव वक्ष्यति (श्लो.२७)-"पित्तकासे तनुकफे त्रिवृतां" इति| तस्मादत्रार्थात् बहुकफत्वं बोध्यम्| न केवलं सर्पिषा वमनं हितम्| यावन्मदनादिभिः क्वथितैर्जलैर्वमनमवस्थावशाद्धितम्, अथवा मदनफलमधुककल्कैर्विदार्यादिरसाप्लुतैर्वमनं हितम्|
Adhikarana tanukaphe pittakAse virecanam,ghanakaphe pittakAse virecanam (27) · Śloka 27
पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्| युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः||२७||
🔊 Audio coming soon
स०-पित्तजे कासे तनुकफे-घनश्लेष्मणि, त्रिवृतां मधुरैर्युतां विरेकाय युञ्ज्यात्| घने तु कफे तिक्तकैः सह त्रिवृतां युञ्ज्यात्|
Adhikarana tanukaPe pittakAse saMsarjanam ghanakaPe pittakAse saMsarjanam (28) · Śloka 28
हृतदोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत्| घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्||२८||
🔊 Audio coming soon
स०-हृतदोषो नरो हिमं मधुरं स्निग्धं संसर्जनं-विरेकादनन्तरं पेयादिक्रमं, भजेत्| घने तु कफे शीतं तथा रूक्षं तिक्तयुतं संसर्जनं भजेत्|
Adhikarana shuddhepittakAse lehaH sakaPe pittakAse lehaH savAte pittakAse lehaH (29) · Śloka 29
लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः| सकफे साब्दमरिचः सघृतः सानिले हितः||२९||
🔊 Audio coming soon
स०-पित्तकासे सितादिभिर्लेहो हितः| सकफे पित्ते साब्द मरिचो लेहो हितः| सानिले पित्ते सघृतो लेहो हितः|
Adhikarana mRudvIkAdilehaH (30) · Śloka 30
मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम्| लेहयेन्मधुना|३०|
🔊 Audio coming soon
स०-तथा, मृद्वीकागुलिकाः पञ्चाशत् त्रिंशत्पिप्पलीः शर्करापलं च मधुना लेहयेत्|
Adhikarana goshakRudrasalehaH (30) · Śloka 30
| गोर्वा क्षीरपस्य शकृद्रसम्||३०||
🔊 Audio coming soon
स०-गोर्वा वत्सस्य क्षीरपस्य-क्षीरवृत्तेः, शकृद्रसं मधुना लेहयेत्|
Adhikarana tvagelAdilehaH (31-32) · Śloka 32
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः| लाजमुस्ताशठीरास्नाधात्रीफलबिभीतकैः||३१|| शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा| |३२|
🔊 Audio coming soon
स०-त्वगेलादिभिर्लेहो हृद्रोगकासहा भवति|
Adhikarana ghanakaPa pittakAse annapAnaM tanukaPe pittakAse annapAnam (32-34) · Śloka 34
| मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः||३२|| मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः| घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः||३३|| शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः| |३४|
🔊 Audio coming soon
स०-घनश्लेष्मणि पित्तकासे जाङ्गलै रसैर्मधुरैस्तथा मुद्गकुलत्थादियूषैस्तथा तिक्तैः शाकैश्च सह यवादयो मात्रया-परिमिताः, हिताः| घनश्लेष्मणि लेहाश्च तिक्तद्रव्ययुक्ताः| तनुकफे पित्ते शालयः षष्टिकाश्च रसादिभिर्हिताः स्युः-भवेयुः|
Adhikarana anupAnAni (34) · Śloka 34
| शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसाः पयः||३४||
🔊 Audio coming soon
स०-अनुपानार्थं शर्कराम्भो हितम्, द्राक्षेक्षुस्वरसाः पयश्च|
Adhikarana mAMsarasakShIrapeyAyUShAH (35) · Śloka 35
काकोलीबृहतीमेदाद्वयैः सवृषनागरैः| पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत्||३५||
🔊 Audio coming soon
स०-काकोल्यादिभिर्मांसरसादीन् पित्तकासे प्रकल्पयेत्|
Adhikarana kShIrAntaraM peyAntaram (36-37) · Śloka 37
द्राक्षां कणां पञ्चमूलं तृणाख़्यं च पचेज्जले| तेन क्षीरं शृतं शीतं पिबेत्समधुशर्करम्||३६|| साधितां तेन पेयां वा सुशीतां मधुनाऽन्विताम्| |३७|
🔊 Audio coming soon
स०-पित्तकासे तथा द्राक्षादीन् चतुर्गुणे जले पचेत्| तेन पादावशिष्टेन द्राक्षादीनां क्वाथेन, समं क्षीरं क्वथितं [ शीतं ] मधुशर्करायुतं पिबेत्| तेन वा-जलेन, साधितां पेयां सुशीतां माक्षिकयुतां पिबेत्|
Adhikarana pAnakam (37-38) · Śloka 38
| शठीह्नीबेरबृहतीशर्कराविश्वभेषजम्||३७|| पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्| |३८|
🔊 Audio coming soon
स०-शठ्यादीन् जले पिष्ट्वा वस्त्रेण पूतं रसं घृतमिश्रितं पिबेत्|
Adhikarana ghRutacUrNakvAthAH (38-40) · Śloka 40
| मेदां विदारीं काकोलीं स्वयंगुप्ताफलं बलाम्||३८|| शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम्| कल्कीकृत्यपचेत्सर्पिः क्षीरेणाष्टगुणेन तत्||३९|| पानभोजनलेहेषु प्रयुक्तं पित्तकासजित्| लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत्||४०||
🔊 Audio coming soon
स०-शर्करादीन् कल्कीकृत्याष्टगुणेन क्षीरेण सर्पिः पचेत्| तच्च सर्पिः पानादिषु युक्तं पित्तकासजित्| एतेषां वा-शर्करादीनां, चूर्णं लिह्यात्| अथवैषामेव कषायं पिबेत्|
Adhikarana kaPakAsacikitsA kaPakAse snehaH (41) · Śloka 41
कफकासी पिबेदादौ सुरकाष्ठात् प्रदीपितात्| स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम्||४१||
🔊 Audio coming soon
स०-कफकासी पूर्वं सुरकाष्ठात् प्रदीपितात् यः स्रुतः स्नेहस्तं व्योषयवक्षारावचूर्णितं पिबेत्|
Adhikarana kaPakAse vamanavirecananasyAni (42) · Śloka 42
स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः| तीक्ष्णैर्विरेकैर्बलिनं|४२|
🔊 Audio coming soon
स०-स्निग्धं च सन्तमनन्तरं विरेचयेत् ऊर्ध्वमधो मूर्ध्नि च| युक्तितो-यथाबलहानिर्न स्यादिति भावः| कैर्विरेचयेत् ? तीक्ष्णैर्विरेकैः| किम्भूतमातुरम् ? बलवन्तम्|
Adhikarana kaPakAse saMsarjanam (42-44) · Śloka 44
| संसर्गी चास्य योजयेत्||४२|| यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः| कासमर्दकवार्ताकव्याघ्रीक्षारकणान्वितैः||४३|| धान्वबैलरसैः स्नेहैस्तिलसर्षपनिम्बजैः| |४४|
🔊 Audio coming soon
स०-संसर्गी च-पेयादिपरिपाटीं च, अस्य योजयेत्| यवादिभिर्यथायोगमुष्णरूक्षैस्तथा कटूत्कटैः-प्रभूतकटुकैः, कासमर्दकादियुक्तैः| धन्वनि भवा धान्वाः-जाङ्गलाः, बिलेषु भवा बैलाः-बिलेशयाः, तेषां रसास्तैर्मासरसैः सहेत्यर्थः| तथा, स्नेहैस्तिलदिजैः सह|
Adhikarana kaPakAse udakapAnaM kaPakAse uShitodakapAnam (44-45) · Śloka 45
दशमूलाम्बु घर्माम्बु मद्यं मध्वम्बु वा पिबेत्||४४|| मूलैः पौष्करशम्याकपटोलैः संस्थितं निशाम्| पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु||४५||
🔊 Audio coming soon
स०-दशमूलाम्ब्वादीन्(नि) पिबेत्| अथवा, मूलैः पौष्करादिभिर्निशां संस्थितं-रात्रिस्थितं, वारि क्षौद्रेण सह प्रातः पिबेत्| अथवा, अन्नस्य त्रिषु कालेषु-आदिमध्यावसानलक्षणेषु, पिबेत्|
Adhikarana kaPakAsepippalyAdayastrayo lehAH (46-47) · Śloka 47
पिप्पली पिप्पलीमूलं शृङ्गबेरं बिभीतकम्| शिख़िकुक्कुटपिच्छानां मषी क्षारो यवोद्भवः||४६|| विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः| कफकासहरा लेहास्त्रयः श्लोकार्धयोजिताः||४७||
🔊 Audio coming soon
स०-पिप्पल्यादयस्त्रयो लेहाः श्लोकार्धैर्योजिता मधुना सह कफकासहरा भवन्ति|
Adhikarana kaPakAse madhunetyAdayo~aShTau lehAH (48-49) · Śloka 49
मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम्| पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान्||४८|| कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च| |४९|
🔊 Audio coming soon
स०-तथा कफकासे मधुना मरिचं लिह्यात्| माक्षीकेणैवा गुरुं लिह्यात्| व्याघ्र्यादीनाम् रसान् पृथक्पृथक् मधुना लिह्यात्|
Adhikarana vAtAnuge kaPe lehatrayam (49-51) · Śloka 51
| देवदारुशठीरास्नाकर्कटाख़्यादुरालभाः||४९|| पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला| लाजाः सितोपला सर्पिः शृङ्गी धात्रीफलोद्भवा||५०|| मधुतैलयुता लेहास्त्रयो वातानुगे कफे| |५१|
🔊 Audio coming soon
स०-देवदार्वादयो मधुतैलयुता लेहास्त्रयः-श्लोकार्धगदिताः, वातानुगे कफे स्युः| अत्र शृङ्गीधात्रीफलोद्भवेति केचिद्विशिष्टमामलकमाहुः| अन्ये तु शृङ्गी कर्कटशृङ्गीति व्याचक्षते|
Adhikarana dADimAdyaM cUrNam,guDakShArAdicUrNam (51-53) · Śloka 53
| द्वे पले दाडिमादष्टौ गुडाद्व्योषात्पलत्रयम्||५१|| रोचनं दीपनं स्वर्यं पीनसश्वासकासजित्| गुडक्षारोषणकणादाडिमं श्वासकासजित्||५२|| क्रमात्पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम्| |५३|
🔊 Audio coming soon
स०-दाडिमस्य पले द्वे तु गुडादष्टौ त्रिकटुकात् पलत्रयमित्येतद्दाडिमाद्यं चूर्णं रोचनादिगुणं पीनसादिजित्| सं-गुडादिकं क्रमेण पलद्वयमर्धकर्षं कर्षं अर्धकर्षं पलप्रमाणं पूर्वोक्तगुणम्|
Adhikarana pAcanam (53) · Śloka 53
| पिबेज्जवरोक्तं पथ्यादि सशृङ्गीकं च पाचनम्||५३||
🔊 Audio coming soon
स०-तथा ज्वरचिकित्सितोक्तं (श्लो. ६२)- "पथ्याकुस्तुम्बरी" इत्यादिकं पाचनं कर्कटशृङ्गीसहितं पिबेत् पूर्वगुणम्|
Adhikarana pAcanAntaram (54) · Śloka 54
अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम्| सकणं क्वथितं मूत्रे कफकासी जलेऽपि वा||५४||
🔊 Audio coming soon
स०-दीप्यकादिकं गोमूत्रे क्वथितं जलेऽथवा क्वथितं पिप्पलीसहितं कफकासी पिबेत्|
Adhikarana shamanam (55) · Śloka 55
तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम्| पाययेत्कफकासघ्नं कुलत्थसलिलाप्लुतम्||५५||
🔊 Audio coming soon
स०-पिप्पलीकल्ककर्षं सशर्करं तैलेन पक्वं कुलत्थसलिलाप्लुतं कफकासघ्नं पाययेत्|
Adhikarana dashamUlaghRutam (56-57) · Śloka 57
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्| पुष्कराह्वशठीबिल्वसुरसाव्योषहिङ्गुभिः||५६|| पेयानुपानं तत्सर्ववातश्लेष्मामयापहम्| |५७|
🔊 Audio coming soon
स०-दशमूलक्वाथाढके घृतस्य प्रस्थं पुष्करमूलादिभिः प्रत्येकं कर्षप्रमाणैः कल्कीकृतैः पचेत्| तत् पेयानुपानं सर्ववातकफामयघ्नम्|
Adhikarana nirguNDIghRutam (57) · Śloka 57
| निर्गुण्डीपत्रनिर्याससाधितं कासजिद्धृतम्||५७||
🔊 Audio coming soon
स०-निर्गुण्डीपत्रस्वरससाधितं घृतं कासजित्स्यात्|
Adhikarana viDa~ggaghRutam (58) · Śloka 58
घृतं रसे विडङ्गानां व्योषगर्भं च साधितम्| ५७ १/२| |५८|
🔊 Audio coming soon
स०-विडङ्गानां रसे व्योषगर्भं च साधितं घृतं पूर्वोक्तगुणम्|
Adhikarana punarnavAdighRutam (58) · Śloka 58
पुनर्नवशिवाटिकासरलकासमर्दामृता- पटोलबृहतीफणिज्जकरसैः पयःसंयुतैः| घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्||५८||
🔊 Audio coming soon
स०-पुनर्नवादिरसैः पयसा युतैस्त्रिकटुना कल्केन च सिद्धं घृतमुपयुज्य-पीत्वा, कासादिभ्यो भयं न जायते| "वसुग्रहयुता जसौ जसयलाश्च पृथ्वी गुरुः|" अत्र पुनर्नवादिरसो घृताच्चतुर्गुणः क्षीरं घृतसमं घृतं व्योषाच्चतुर्गुणमिति पाकक्रमः|
Adhikarana kaNTakArIghRutam (59-63) · Śloka 63
समूलफलपत्रायाः कण्टकार्या रसाढके||५९|| घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः| सौवर्चलयवक्षारमूलामलकपौष्करैः||६०|| वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः| मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः||६१|| शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत्| कल्कैस्तत्सर्वकासेषु श्वासहिध्मासु चेष्यते||६२|| कण्टकारीघृतं चैतत्कफव्याधिविनाशनम्| |६३|
🔊 Audio coming soon
स०-कण्टकार्याः समूलफलपत्राया रसाढके बलादिभिः कल्कैघृताच्चतुर्थांशप्रमाणैर्घृतप्रस्थं पचेत्| तच्च सर्पिः सर्वकासाधिष्विष्यते-अभिहितम्| इदं च कण्टाकारीघृतं कफव्याधिविनाशनम्|
Adhikarana vyAghrIlehaH (63-67) · Śloka 67
| पचेव्याघ्रीतुलां क्षुण्णां वहेऽपामाढकस्थिते||६३|| क्षिपेत् पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान्| शृङ्गीभार्ङ्गीघनग्रन्थिधन्वयासान् पलार्धकान्||६४|| सर्पिषः षोडशपलं चत्वारिंशत्पलानि च| मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्||६५|| दर्वीलेपिनि शीते च पृथक् द्विकुडवं क्षिपेत्| पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च||६६|| लेहोऽयं गुल्महृद्रोगदुर्नामश्वासकासजित्| |६७|
🔊 Audio coming soon
स०-व्याघ्र्यास्तुलां क्षुण्णां-मर्दितां, जलस्य वहे-चतुर्द्रोणे, पचेत्| आढकस्थिते जले सञ्चूर्ण्य व्योषादीनि अर्धपलप्रमाणानि प्रत्येकं क्षिपेत्| अग्निरेवाग्निकः-चित्रकः| घृतस्य च षोडश पलानि, मत्स्यण्डिकायाः,-विमलायाः, चत्वारिंशत्पलानि, भूयश्च तत्सर्वं पचेत्| दर्वी लिम्पतीति दर्वीलेपी तस्मिन् दर्वीलेपिनि, अवलेहे शीते सति प्रत्येकं द्विकुडवप्रमाणं पिप्पल्यादि क्षिपेत्| अयं लेहो गुल्मादिजित्|
Adhikarana dhUmaH (67) · Śloka 67
| शमनं च पिबेद्धूमं शोधनं बहले कफे||६७||
🔊 Audio coming soon
स०-तथा कफकासे शमनं धूमं पिबेत्| घनश्लेष्मणि शोधनं धूमं पिबेत्| घनश्लेष्मणि शोधनं धूमं पिबेत्| अथ तमेव धूममाह-
Adhikarana dhUmAntaram (68-69) · Śloka 69
मनःशिलालमधुकमांसीमुस्तेङ्गुदीत्वचः| धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु||६८|| निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः| वातश्लेष्मोत्तरान् कासानचिरेण चिरन्तनान्||६९||
🔊 Audio coming soon
स०-एतेषां सम्बन्धिनं धूमं कासघ्नविधिना-सूत्रोदितेन, पीत्वाऽनु-पश्चात्, निष्ठ्यूतान्ते कोष्णं क्षीरं गुडान्वितं पिबेत्| स धूमः पीतो वातश्लेष्मोत्तरान् कासांश्चिरन्तनान् आश्वेव हन्ति| चिरन्तनानिति "सायं चिरं" इत्यादिना ठ्युः|
Adhikarana tamakopadrave pratIkAra (70) · Śloka 70
तमकः कफकासे तु स्याच्चेत्पित्तानुबन्धजः| पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्||७०||
🔊 Audio coming soon
स०-कफकासे यदि तमकः पित्तानुबन्धजः स्यात्| तत्रतमके, पित्तकासक्रियामवस्थावशात् प्रयोजयेत्|
Adhikarana anubandhaBedAccikitsA (71-72) · Śloka 72
कफानुबन्धे पवने कुर्यात्कफहरां क्रियाम्| पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम्||७१|| वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरुक्षणम्| कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम्||७२||
🔊 Audio coming soon
स०-पवने कफानुबन्धे सति कफकासहरां क्रियां कुर्यात्| पित्तानुबन्धयोर्वातकफयोः पित्तकासनाशिनीं क्रियां विदध्यात्| वातश्लेष्मात्मके शुष्के कासे स्निग्धं कर्म| आर्द्रे तु कासे विरूक्षणं कर्म| कफजे तु कासे सपित्ते तिक्तसंयुतं विरूक्षणं कर्म|
Adhikarana uraHkShate auShadham (73) · Śloka 73
उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत्| क्षीरेण|७३|
🔊 Audio coming soon
स०-अन्तःक्षत उरसि सति सद्यः-शीघ्रमेव, लाक्षां माक्षिकयुक्तां क्षीरेण पिबेत्| उरःसन्धानजनेन लाक्षायाः प्राधान्यात्| तथा चाग्र्यं सङ्ग्रहे (सू.अ.१३)-"लाक्षा सद्यःक्षतघ्नानाम्|" इति|
Adhikarana jIrNaiShadhe Bojanam (73) · Śloka 73
| शालीन् जीर्णेऽद्यात्क्षीरेणैव सशर्करान्||७३||
🔊 Audio coming soon
स०-जीर्णे-परिणते तस्मिन्नौषधे, क्षीरेणैव सह शालिम(लीन) द्यात् सशर्करम्(रान्)|
Adhikarana pArshvarujAdyanvite auShadham (74) · Śloka 74
पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम्| |७४|
🔊 Audio coming soon
स०-पार्श्वबस्त्यादिरुगल्पाग्निश्च तां-लाक्षां, सुरायुतां पिबेत्|
Adhikarana BinnaviTke auShadham (74) · Śloka 74
| भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम्||७४||
🔊 Audio coming soon
स०-भिन्नपुरीषो नरो मुस्तातिविषापाठावत्सकान्वितां लाक्षां पिबेत्|
Adhikarana dIptAnale auShadham (75) · Śloka 75
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयं गणं सिताम्| त्वक्क्षीरी समितं क्षीरे पक्त्वा दीप्तानलः पिबेत्||७५||
🔊 Audio coming soon
स०-लाक्षादीनि हि क्षीरे पक्त्वा तत् क्षीरं दीप्ताग्निः पिबेत्|
Adhikarana sandhAnArthaM payaH (76) · Śloka 76
इक्ष्वारिकाबिसग्रन्थिपद्मकेसरचन्दनैः| शृतं पयो मधुयुतं सन्धानार्थं पिबेत्क्षती||७६||
🔊 Audio coming soon
स०-इक्ष्वारिकादिभिः शृतं क्षीरं मधुयुतं सन्धानार्थमुरसि क्षतः पुमान् पिबेत्|
Adhikarana jvaradAhe auShadhadvayam (77) · Śloka 77
यवानां चूर्णमामानां क्षीरे सिद्धं घृतान्वितम्| ज्वरदाहे सिताक्षौद्रसक्तून्वा पयसा पिबेत्||७७||
🔊 Audio coming soon
स०-यवानामामानां चूर्णं क्षीरे सिद्धं घृतयुतं ज्वरदाहे पिबेत्| अथवा, शर्करामाक्षिकयुतान् सक्तून् पयसा पिबेत्|
Adhikarana kAse auShadhacatuShTayam (78-79) · Śloka 79
कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम्| गुडोदकं वा क्वथितं सक्षौद्रमरिचं हितम्||७८|| चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम्| रसायनविधानेन पिप्पलीर्वा प्रयोजयेत्||७९||
🔊 Audio coming soon
स०-कासवांश्च मधुरौषधैः साधितं सर्पिः पिबेत्| अथवा, गुडोदकं क्वथितं सक्षौद्रमरिचं शीतं पिबेत्| आमलकानां वा चूर्णं क्षीरे सिद्धं सर्पिर्युक्तं पिबेत्| रसायनोक्तविधिना वा पिप्पलीः प्रयोजयेत्|
Adhikarana kAse parvAsthishUle cauShadham (80) · Śloka 80
कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः| मधूकमधुकद्राक्षात्वक्क्षीरिपिप्पलीबलाः||८०||
🔊 Audio coming soon
स०-कासी पर्वास्थिशूलवांश्च सघृतमाक्षिका मधूकादीर्लिह्यात्|
Adhikarana elAdi (trijAtakAdi)guTikA (81-83) · Śloka 83
त्रिजातमर्धकर्षांशं पिप्पल्यर्धपलं सिता| द्राक्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम्||८१|| मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम्| कासश्वासारुचिच्छर्दिमूर्च्छाहिध्मामदभ्रमान्||८२|| क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान्| रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि||८३||
🔊 Audio coming soon
स०-त्रिजातकमर्धकर्षप्रमाणं कणा कर्षद्वयमात्रा सितादिकं प्रत्येकं पलांशं श्लक्ष्णचूर्णितं मधुना कृता गुटिका वृष्याः पित्त शोणितादीन् घ्नन्ति|
Adhikarana raktaShThIve auShadhadvayam (84-85) · Śloka 85
वर्षाभूशर्करारक्तशालितण्डुलजं रजः| रक्तष्ठीवी पिबेत्सिद्धं द्राक्षारसपयोग़ृतैः||८४|| मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्| |८५|
🔊 Audio coming soon
स०-पुनर्नवादिचूर्णं द्राक्षारसपयोग़ृतैः सिद्धं रक्तष्ठीवी पिबेत्| अथवा, मधूकादिभिः सिद्धं तण्डुलीयकं पिबेत्|
Adhikarana atra raktapittauShadhamapi (85) · Śloka 85
| यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम्||८५||
🔊 Audio coming soon
स०-मार्गेण-मुख़ादिना, विसृते रक्ते यथायथं रक्तपित्त चिकित्सितोक्तमौषधं कुर्यात्|
Adhikarana mUDhavAte auShadham (86) · Śloka 86
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्| |८६|
🔊 Audio coming soon
स०-मूढवातस्तु पुरुषोऽजाया मेदः सुरया भृष्टमीषत्सैन्धवसहितमद्यात्|
Adhikarana kShAmakShINAdau auShadham (86-87) · Śloka 87
| क्षामः क्षीणः क्षतोरस्को मन्दनिद्रोऽग्निदीप्तिमान्||८६|| शृतक्षीरसरेणाद्यात्सघृतक्षौद्रशर्करम्| |८७|
🔊 Audio coming soon
स०-क्षामः क्षीणः क्षतोरस्को मन्दनिद्रो दीप्ताग्निः शृतक्षीरस्य सम्बन्धिना सरेण सघृतक्षौद्रशर्करमजामेदोऽद्यात्|
Adhikarana kShINakShatakRutakRusheShu auShadham (87-88) · Śloka 88
| शर्करायवगोधूमं जीवकर्षभकौ मधु||८७|| शृतक्षीरानुपानं वा लिह्यात्क्षीणः क्षतः कृशः| |८८|
🔊 Audio coming soon
स०-अथवा क्षीणः क्षतः कृशो वा शर्करादिकं लिह्यात्| कथम् ? शृतक्षीरानुपानम्|
Adhikarana kShINakShatakRuteShu auShadham (88-89) · Śloka 89
| क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः||८८|| पिप्प्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्| |८९|
🔊 Audio coming soon
स०-स च-क्षीणादिः, क्रव्यात्पिशितस्य निर्यूहं घृतेन भृष्टं पिबेत्| किम्भूतम् ? पिप्पलीक्षौद्रान्वितम्| तच्च मांसशोणितवर्धनं स्यात्|
Adhikarana kShINakShatakRuteShu auShadhAntaram kShatoraske auShadham (89-91) · Śloka 91
| न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः||८९|| तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः| साश्वकर्णैः शृतात्क्षीरादद्याज्जातेन सर्पिषा||९०|| शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः| |९१|
🔊 Audio coming soon
स०-न्यग्रोधादिभिः शृतात्क्षीरात् समुद्भूतेन सर्पिषा शाल्योदनं क्षतोरस्कः क्षीणशुक्रादिश्च नरोऽद्यात्|
Adhikarana vAtapittArdite ghRutABya~ggaH (91-92) · Śloka 92
| वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्मतः||९१|| तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना| |९२|
🔊 Audio coming soon
स०-वातपित्तपीडिते गात्रमेदे वाऽभ्यङ्गोघृतैर्मतः| मातरिश्वना-वातेन, पीडिते सति तैलैर्वातरोगघ्नैरभ्यङ्गो मतः| चशब्दाद्धृतैरपीति द्योतयति|
Adhikarana hratpArshvArtau auShadham (92) · Śloka 92
| हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः|९२|
🔊 Audio coming soon
स०-हृत्पार्श्वपीडासु जीवनीयस्य सर्पिषः पानं स्यात्| इति सम्भावनायां लिङ्|
Adhikarana atra vAtavyAdhyuktamapi (92) · Śloka 92
| हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः||९२||
🔊 Audio coming soon
स०-हृत्पार्श्वपीडासु जीवनीयस्य सर्पिषः पानं स्यात्| इति सम्भावनायां लिङ्|
Adhikarana kShate auShadham (93-94) · Śloka 94
| यष्ट्याह्ननागबलयोः क्वाथे क्षीरसमे घृतम्||९३|| पयस्यापिप्पलीवांशीकल्कैः सिद्धं क्षते हितम्| |९४|
🔊 Audio coming soon
स०-यष्ट्याह्वयस्य नागबलायाश्च क्वाथे क्षीरतुल्ये पयस्यादिकल्कैः सिद्धं घृतं क्षतकासेहितम्|
Adhikarana amRutaprAshaM ghRutam (94-101) · Śloka 101
| जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा||९४|| बलाभार्ङ्गीस्वगुप्तर्द्धिशठीतामलकीकणाः| शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लघु||९५|| द्राक्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम्| तैः पचेत्सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्णकल्कितैः||९६|| क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम्| प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः||९७|| पलार्धकं च मरिचत्वगेलापत्रकेसरम्| विनीय चूर्णितं तस्माल्लिह्यान्मात्रां यथाबलम्||९८|| अमृतप्राशमित्येतन्नराणाममृतं घृतम्| सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||९९|| नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्| स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||१००|| कासहिध्माज्वरश्वासदाहतृष्णास्रिपित्तनुत्| पुत्रदं छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम्||१०१||
🔊 Audio coming soon
स०-जीवनीयो गणस्तथा शुण्ठ्यादयस्तैर्जीवनीयादिगणादिभिः कर्षांशैः सूक्ष्मचूर्णितैः क्षीरधात्र्यादिरसयुक्तं घृतस्य प्रस्थंद्वात्रिशत्पलानि पचेत्| द्राक्षाक्षोडादीन्य(त्य)त्रादिशब्देन नारिकेलनिकोचादिपरिग्रहः| शीते घृते माक्षिकस्य षोडशपलानि, शर्कराचूर्णपलानि पञ्चाशत्, मरिचादीनि द्विकार्षिकाणि चूर्णितानि प्रक्षिप्य तस्मान्मात्रां यथाबलं लिह्यात्| अमृतप्राशमेतत्संज्ञं घृतं नराणाममृततुल्यम्, महागुणत्वात्| यथा नागानां सुधा देवानाममृतम्| अत एवैतत् सुधामृतरसम्| प्राश्यं-भोज्यं, क्षीरमांसरसाशिना| एतच्च घृतं नष्टशुक्रादीन् बृंहयेत्| कासादिनुत्| पुत्रदम्| छर्द्यादिघ्नम्| अत्र च मधुरस्निग्धबृंहणानां द्राक्षादीनामपि यथालाभं कर्षप्रमाणमधिकं वा योज्यम्| यथा सामान्यपरिभाषोक्ता कर्षमात्रा परिपूर्णा स्यादिति|
Adhikarana shvadaMShTrAdighRutam (102-105) · Śloka 105
श्र्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्| दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिराम्||१०२|| पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे| कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः||१०३|| शतावर्यर्द्धिमृद्वीकाशर्कराश्रावणीबिसैः| प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्||१०४|| मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः| धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः||१०५||
🔊 Audio coming soon
स०-श्वदंष्ट्रादीनि पालिकानि, तेषां रसे क्षीरचतुर्गुणे स्वगुप्तादिभिः कल्कैर्घृतात् प्रस्थः सिद्धो वातपित्तहृद्रोगशूलनुत्| मूत्रकृच्छ्रादिघ्निः| तथा, धनुरादिखिन्नानां बलमांसदः|
Adhikarana samasaktu madhukAdi ghRutam (106-107) · Śloka 107
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद्धृतम्| पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले||१०६|| पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्| समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम्||१०७||
🔊 Audio coming soon
स०-मधुयष्ट्या अष्टौ पलानि, द्राक्षायाः षोडश, एतत्क्वाथे पिप्पल्यष्टपलेघृतप्रस्थं पचेत्| घृते च सिद्धे सुशीते सति क्षौद्रशर्करयोः पृथगष्टपलं विमिश्रयेत्| एतच्च घृतं समसक्तु क्षत क्षीणे रक्तगुल्मे च हितम्|
Adhikarana dhAtrIPalAdi ghRutam (108-110) · Śloka 110
धात्रीफलविदारीक्षुजीवनीयरसाद्धृतात्| गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत्||१०८|| सिद्धशीते सिताक्षौद्रं द्विप्रस्थं विनयेत्ततः| यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्||१०९|| वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्| |११०|
🔊 Audio coming soon
स०-धात्र्यादिरसस्य पृथक् प्रस्थं गव्याजयोः क्षीरयोः प्रस्थौ ग़ृतस्य प्रस्थं च विपाचयेत्| सिद्धपूते च ततस्तस्मिन् ग़ृते शर्कराक्षौद्रयोः प्रस्थौ द्वौ विनयेत्-क्षिपेत्| तत इति "अव्ययादित्वात्" तसिः| एतच्च घृतं यक्ष्मादिहरं तथा वयःस्थापनादिगुणम्|
Adhikarana ghRutalehapAnayorviShayaBedaH (110-111) · Śloka 111
| घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्||११०|| लीढं निर्वापयेत्पित्तमल्पत्वाद्धन्ति नानलम्| आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च||१११||
🔊 Audio coming soon
स०-पित्तेऽभ्यधिके घृतं लिह्यात्| वातेऽधिके घृतं पिबेत्| लीढं तु घृतं निर्वापयेत्-संशमयेत्| अनलं च न हन्ति लीढं घृतम्| कुतः ? अल्पत्वात्| अत्रायं सद्भावार्थः,-किल पीतेनाधिकेन द्रवतया वह्नेर्मान्द्येनावश्यं भवितव्यम्| तथा च वक्ष्यति (हृ.चि.अ.१०/३२)-"अग्नेर्निर्वापकं पित्तं रेकेण वमनेन वा|" इति| तच्चाभ्यधिकं पित्तं लीढं घृतं संशमयति| अल्पत्वाच्च हेतोरग्निं न हन्ति-मन्दस्याग्नेरधिकं मान्द्यं न जनयति| पीतं सद्धृतमनिलमाक्रामति-प्रसह्य जयति| ऊष्माणं-जाठरं वह्निं जाज्वल्यमानं, रुणद्धि-आश्वेव स्थगयति, शमं किञ्चिन्नयति|
Adhikarana sarpirguDAH (112-113) · Śloka 113
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु| त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्||११२|| सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात्पयोऽनु च| रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्||११३||
🔊 Audio coming soon
स०-क्षामाणां क्षीणानां कृशाङ्गानां च नृणामेतान्येव पूर्वोक्तानि घृतानि स्त्यानानि त्वकक्षीरीशर्करालाजचूर्णैः सह योजयेत्| सर्पिर्मिश्रान् गुडान् समध्वंशान् कृत्वा च दद्यात्| शर्करायाः पलानि पञ्चाशत् मधुनः पलानि षोडशात्र देयानि| मुनिना ह्येवमुक्तम् (च.चि.अ.११/६०)-धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात्पचेत्| शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च|| क्षिप्त्वा सर्पिर्गुडान् कुर्याद्धिक्काश्वासज्वरापहान्|" इति| पय इत्यादि| अनन्तरं पयः पिबेत्| तैः_सर्पिर्गुडैः, रेतोवीर्यादीन् शीघ्रतरं प्राप्नोति|
Adhikarana kUShmANDakarasAyanam (114-118) · Śloka 118
वीतत्वगस्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्| घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णेऽत्र च क्षिपेत्||११४|| खण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि| त्रिजातधान्यमरिचं पृथगर्धपलांशकम्||११५|| अवतारितशीते च दत्वा क्षौद्रं घृतार्धकम्| खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम्||११६|| कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्| उरःसन्धानजननं मेधास्मृतिबलप्रदम्||११७|| अश्विभ्यां विहितं हृद्यं कूष्माण्डकरसायनम्| |११८|
🔊 Audio coming soon
स०-वीतानि-अपासितानि, त्वगस्थीनि यस्मात्कूष्माण्डात् तस्य तुलां स्निन्नां सतीं पुनः सर्पिषः प्रस्थे घट्टयन् पचेत्| अत्र च कूष्माण्डे माक्षिकवर्णे जाते सति खण्डाच्छतं, फणाशुण्ठ्योर्द्विपलं, जीरकाच्च पलद्वयं, त्रिजातकादि प्रत्येकमर्धपलांशकं, क्षिपेत्| अवतारिते शीते चास्मिन् क्षौद्रस्य षोडश पलानि दत्वा, खजेन-दर्व्या, आमथ्य-विलोड्य, पश्चाद्भाण्डे स्थाप्यम्| एवं ह्यस्य सम्यग् घृतादिसमयोगः स्यात्| उपयोजितं च तत् कासादीन् हन्ति| उरःसन्धानं करोति| मेधादिप्रदम्| अश्विभ्यां-दस्राभ्यां, निर्दिष्टं कूष्माण्डकाख्यं रसायनम्|
Adhikarana nAgabalArasAyanam maNDUkaparNIrasAyanam yaShTIrasAyanam shuNThIrasAyanam (118-120) · Śloka 120
| पिबेन्नागबलामूलस्यार्धकर्षाभिवर्धितम्||११८|| पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्| एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम्||११९|| मण्डूकपर्ण्याः कल्पोऽयं यष्ट्या विश्वौषधस्य च| |१२०|
🔊 Audio coming soon
स०-नागबलामूलस्य पलं क्षीरयुतं पिबेत्| किम्भूतम् ? अर्धकर्षादिवर्धितं मासं यावत्| किम्भूतो नरः ? क्षीरवर्तनोऽनन्नादः सन्| अयं प्रयोगः सुष्ठु पुष्ट्यादिकरः| एवमेव कल्पो मण्डूकपर्ण्याः यष्ट्याः शुण्ठ्याश्च कार्यः|
Adhikarana nAgabalAsarpiH (120-125) · Śloka 125
| पादशेषं जलद्रोणे पचेन्नागबलातुलाम्||१२०|| तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्| पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः||१२१|| प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः| अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः||१२२|| काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः| मृणालबिसखर्जूरशृङ्गाटककसेरुकैः||१२३|| एतन्नागबलासर्पिः पित्तरक्तक्षतक्षयान्| जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम्||१२४|| वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम्| उपयुज्य च षण्मासान् वृद्धोऽपि तरुणायते||१२५||
🔊 Audio coming soon
स०-नागबलायास्तुलां वारिद्रोणे पादशेषं यथा भवति तथा पचेत्| तेन-नागबलाक्वाथेन, तुल्याशं ऋतं तथा क्षीरं तथा पलार्धप्रमाणैरतिबलादिभिः कल्कैश्च साधयेत्| एतन्नागबलासर्पिः पित्तरक्तादीन् जयेत्| तथा, सुष्ठु बलादिकरम्| तथा, वर्णाय हितमायुष्यमोजस्यं वलीपलितघ्नं च| तथा, षण्मासा नुपयुज्येदं घृतं वृद्धोऽपि तरुण इवाचरति|
Adhikarana dIpte~agnau eShavidhiH (126) · Śloka 126
दीप्तेऽग्नौ विधिरेष स्यात्| |१२६|
🔊 Audio coming soon
स०-दीप्ते-समिद्धे, अग्नौ सत्येष विधिः स्यात्|
Adhikarana mande~agnau dIpanapAcanAdiH drave male grAhI (126) · Śloka 126
मन्दे दीपनपाचनः| यक्ष्मोक्तः क्षतिनां शस्तो, ग्राही शकृति तु द्रवे||१२६||
🔊 Audio coming soon
स०-मन्देऽग्नौ दीपनपाचनः| यक्ष्मोक्तो-राजयक्ष्मण्युक्तः, क्षतिनां शस्त उपक्रमः| द्रवे तु शकृति ग्राही उपक्रमः|
Adhikarana agastyaharItakI rasAyanam (127-132) · Śloka 132
दशमूलं स्वयंगुप्तां शङ्खपुष्पीं शठीं बलाम्| हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्||१२७|| भार्ङ्गी पुष्करमूलं च द्विपलांशं यवाढकम्| हरीतकीशतं चैकं जलपञ्चाढके पचेत्||१२८|| यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्| पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्||१२९|| तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्| लेहं द्वे चाभये नित्यमतः खादेद्रसायनात्||१३०|| तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम्| पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम्||१३१|| मेहगुल्मग्रहण्यर्शोहृद्रोगारुचिपीनसान्| अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम्||१३२||
🔊 Audio coming soon
स०- दशमूलादिपुष्करान्तं पृथक् द्विपलप्रमाणम्| यवानामाढकं-चतुःषष्टिपलानि| हरीतकीफलानामेकं शतम्| एतत्सर्वं जलस्य पञ्चाढके पचेत्| यवस्वेदे च सति तं कषायं पूतंगालितं, तच्च स्विन्नमभयाशतं गुडतुलां दत्त्वा तथा घृततैलपिप्पलीचूर्णानां प्रत्येकं कुडवं दत्त्वा पचेत्| सिद्धे शीते च लेहे माक्षिककुडवं दत्त्वा, अतो-लेहाख्याद्रसायनात्, सत्रिभागपलमात्रं द्वे च हरीतक्यौ नित्यं खादेत्| तच्च भुक्तं वलीपलितं हन्यात्| वर्णादिवर्धनं तथा पञ्चकासादीन् हन्ति| अगस्त्येन महर्षिणा निर्मितमेतद्रसायनं धन्यं-श्रेष्ठमेतत्| अत्र च तैल घृतमधूनां समांशानामप्यविरोधः, पाकाच्छक्तयन्तरोत्पत्तेः|
Adhikarana vasiShThaharItakI (133-141) · Śloka 141
दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम्| पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः||१३३|| बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात्| पयस्यां कुटजं हिंस्त्रां पुष्पं सारं च बीजकात्||१३४|| बोटस्थविरभल्लातविकङ्कतशतावरीः| पूतीकरञ्जशम्याकचन्द्रलेख़ासहाचरम्||१३५|| सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्| पथ्यासहस्रं सशतं यवानां चाढकद्वयम्||१३६|| पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्| पूते क्षिपेत्सपथ्ये च तत्र जीर्णगुडात्तुलाम्||१३७|| तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः| अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च||१३८|| शीते प्रस्थद्वयं क्षौद्रात्पिप्पलीकुडवं क्षिपेत्| चूर्णीकृतं त्रिजाताच्च त्रिपलं निख़नेत्ततः||१३९|| धान्ये पुराणकुम्भस्थं मासं ख़ादेच्च पूर्ववत्| रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकम्||१४०|| स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते| |१४१|
🔊 Audio coming soon
स०-दशमूलादि इक्षुरकान्तं पलप्रमाणम्| बोटः-अलम्बुसा| स्थविरं-शैलेयम्| चन्द्रलेखा-बाकुची| हरीतकीनामेकादशशतानि यवानामाढकौ द्वौ अष्टगुणे जले पएत्| यवस्वेदे सति चावतारयेत्| तस्मिन् क्वाथे पूते पथ्यासहितां पुराणगुडात्तुलां तैलादीनां पृथक्पृथक् प्रस्थं क्षिपेत्| ततः-अनन्तरं, पुनः पचेत्| मृदौ वह्नौ दर्वीलेपे सत्यवतार्य शीते सति प्रस्थद्वयं क्षौद्रात् पिप्पलीनां चतुष्पलं चूर्णितं त्रिजाताच्च त्रिपलं क्षिपेत्| ततः-अनन्तरं, पुराणकुम्भस्थं-घृतरूढभाण्डस्थं, धान्यमध्ये मासं निखनेत्| मासादूर्ध्वं पूर्ववत् खादेत्| एतद्रसायनं वसिष्ठेन कथितम्| अगस्त्यलेहाद्गुणैरधिकं स्वस्थानां निष्परीहारं सर्वर्तुष्विष्यते, तन्त्रकृद्भिरिति शेषः|
Adhikarana ShADavaM cUrNam (141-144) · Śloka 144
| पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले||१४१|| कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्| एकैकां मरिचाजात्योर्धान्यकाद् द्वे चतुर्थिके||१४२|| शर्करायाः पलान्यत्र दश द्वे च प्रदाययेत्| कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत्||१४३|| रुच्यं तद्दीपनं बल्यं पार्श्वार्तीश्वासकासजित्| |१४४|
🔊 Audio coming soon
स०-सैन्धवं-लवणं, पलप्रमाणम्| शुण्ठी पलप्रमाणा| पालिकमिति पलं परिमाणमस्येति ठक्| पालिकं पालिकी चेति "नपुंसकमनपुंसकेन" इत्येकशेषः| सौवर्चललवणाच्च द्वे पले| कुडवप्रमाणानि वृक्षाम्लादीनि| आर्जकं-कुठेरकम्, तस्मात्पत्रम्| एकामेकां मरिचाजाज्योश्चतुर्थिकां-पलसंज्ञाम्, धान्यकात् द्वे चतुर्थिके, शर्करापलानि च द्वादशात्र देयानि| तथा च मुनिः (च. चि. अ. ११/८२)- "पालिकं सैन्धवं शुण्ठी" इत्यारभ्य यावत् "शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्| कृत्वा चूर्णमतो मात्रा" इत्यादि| तस्मादत्राप्ययं ग्रन्थो निर्दिष्टो बोध्यः| प्रमादाच्च केचिन्न पठन्ति| अयं चात्रैवं वक्ति-"रुच्यं तद्दीपनं" इत्यादि| शर्करामन्तरेण तु रुच्यत्वमस्य कथमिवोपपद्यते ? तस्माद्युक्तोऽत्र शर्कराप्रयोग इति| एतच्चूर्ण कृत्वा, अतः- अस्माच्चूर्णात्, मात्रां यथोचितामन्नपानेषु दापयेत्, वैद्य इति शेषः| एतच्चूर्णं रुच्यं दीपनं बल्यं पार्श्वाद्यार्तिजित्|
Adhikarana ShADavAntaram (144-146) · Śloka 146
| एकां षोडशिकां धान्याद् द्वे द्वे चाजाजिदीप्यकात्||१४४|| ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विः सौर्वचलात्पलम्| शुण्ठ्याः कर्षं दधित्थस्य मध्यात्पञ्च पलानि च||१४५|| तच्चूर्णं षोडशपलैः शर्कराया विमिश्रयेत्| षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्||१४६||
🔊 Audio coming soon
स०-धान्यकादेकां षोडशिकां-कर्षसंज्ञाम्| अजाजीदीप्यकाट् द्वे द्वे षोडशिके| ताभ्यां-अजाजीदीप्यकाभ्यां मिश्रिताभ्यां सकाशात्, दाडीमवृक्षाम्ले द्विर्द्विः-प्रत्येकं चतस्रः षोडशिका इत्यर्थः| एवमष्टौ कर्षा दाडिमस्य, अष्टौ वृक्षाम्लस्य| तथा सौवर्चलात् पलं, शुण्ठ्याः कर्षं, कपित्थस्य मज्जतः पञ्च पलानि| तत्-एतत्, चूर्णं शर्करायाः षोडशपलैः सम्मेलयेत्| अयं षोडवोऽन्नपानेषु पूर्ववत् प्रदेयः स्यात्| अर्हार्थे कृत्यः| केचित् षोडशिकां पलमित्याहुः|
Adhikarana kShate yakShmokto~api vidhiH (147) · Śloka 147
विधिश्च यक्ष्मविहितो यथावस्थं क्षते हितः| |१४७|
🔊 Audio coming soon
स०-क्षते चावस्थावशाद्यक्ष्मणि यो विहितो विधिः स हितः|
Adhikarana dhUmapAnam (147-148) · Śloka 148
| निवृत्ते क्षतदोषे तु कफे वृद्धे उरः शिरः||१४७|| दाल्यते कासिनो यस्य स ना धूमान् पिबेदिमान्| |१४८|
🔊 Audio coming soon
स०-क्षतदोषे च निवृत्ते-शान्ते सति, कफे वृद्धे यस्य कासवतः पुंस उरः शिरश्च दाल्यते-पाट्यत इव, सः-कासी, धूमानिमान्-द्विमेदादीनां, पिबेत्|
Adhikarana dvimedAdidhUmaH (148-149) · Śloka 149
| द्विमेदाद्विबलायष्टिकल्कैः क्षौमे सुभाविते||१४८|| वर्ति कृत्वा पिबेद्धूमं जीवनीयघृतानुपः| |१४९|
🔊 Audio coming soon
स०-द्विभेदादिभिः कल्कैः क्षौमे-सुभाविते वर्ति कृत्वा धूमं पिबेत्| जीवनीयाख्यं घृतमनु-पश्चात्, पिबेत्|
Adhikarana anyo manaHshilAdidhUmaH (149-151) · Śloka 151
| मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः||१४९|| तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम्| पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया||१५०|| ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्| |१५१|
🔊 Audio coming soon
स०-मनःशिलादिभिस्तद्वदेव-द्विमेदादिभिर्यथा धूमं पिबेत्| अनु शर्करोदकमिक्षुरसं गुडोदकं वा पिबेत्| उदकसादृश्यादिक्षुरसोऽपीक्षूदकशब्देन गृहीतः| स०-मनः शिलामार्द्रया वटशुङ्गया तुल्यां पिष्ट्वा सह सर्पिषा धूमं सतित्तिरिप्रतिभोजनं पिबेत्|
Adhikarana kShayakAsacikitsA kShayakAse prathamopacAraH (151) · Śloka 151
| क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम्||१५१||
🔊 Audio coming soon
स०-क्षयजे कासे पूर्वोक्तं बृंहणं कुर्यादग्निसन्दीपनं च|
Adhikarana bahudoShe virecanam (1) · Śloka 1
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्||१||
🔊 Audio coming soon
स०-बहुदोषाय-प्रभूतादोषाय क्षयकासिने, सह स्नेहेन मृदु विरेचनं दद्यात्| तदेवाह-
Adhikarana tadeva virecanam (152-153) · Śloka 153
| शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया||१५२|| तिल्वकस्य कषायेण विदारीस्वरसेन च| सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्||१५३||
🔊 Audio coming soon
स०-शम्याकेन्-कर्णिकारेण, अथवा त्रिवृतया द्राक्षारसयुक्तया तिल्वकस्य कषायेण विदारीस्वरसेन च सर्पिः सिद्धं युक्त्यादेशकालादिवलेन, क्षीणदेहो विशोधनं पिबेत्|
Adhikarana kShINapittAdiShu karkaTakyAdighRutam (154) · Śloka 154
पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान्| घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्||१५४||
🔊 Audio coming soon
स०-पित्ते क्षीणे कफादिषु च क्षीणेषु क्षयकासी कर्कटक्यादिपक्वं घृतं पिबेत्|
Adhikarana kShINapittAdiShu vidAryAdighRutaM payaSca (155) · Śloka 155
विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितम्| घृतं पयश्च|१५५|
🔊 Audio coming soon
स०-विदारीभिरिति बहुवचनं क्षीरविदार्यादिव्यक्तिविशेषाणां ग्रहणार्थम्| एवं कदम्बैरित्यत्रापि धाराकदम्बादिग्रहणार्थम्| जातौ बहुवचनमित्यन्ये| तालसस्यैः-तालफलैर्वा, साधितं घृतं पयो वा पिबेत्|
Adhikarana mUtravaivarNyAdike~anuvAsanam (155-156) · Śloka 156
| मूत्रस्यवैवर्ण्ये कृछ्रनिर्गमे||१५५|| शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे| घृतमण्डेन लघुनाऽनुवास्यो मिश्रिकेण वा||१५६||
🔊 Audio coming soon
स०-मूत्रस्य वैवर्ण्ये कृछ्रनिर्गमे सति तथा मेढ्रे शूने सवेदने पायौ श्रोण्यां वङ्क्षणे चैवंविधे सति नरो लघुना घृतमण्डेनानुवास्यः| मिश्रिकेण वा-घृततैलेन, अनुवास्यः|
Adhikarana anuvAsanashuddhasya mAMsopacAraH (157-158) · Śloka 158
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः| क्रमशः प्रसहास्तद्वत्प्रयोज्याः पिशिताशिनः||१५७|| औष्ण्यात्प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते| कफं शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग् वहन् रसः||१५८||
🔊 Audio coming soon
स०-अनुवासानान्तरं जाङ्गलैर्मासैः-हरिणैणाजादिभिः, तदभावात्तत्सदृशैरपि| प्रतिभुक्तस्यानन्तरं तथैव पिशिताशिनः प्रसहाः-द्वीपिव्याघ्रादयः, प्रयोज्याः| नानुवासितमात्रस्य जाङ्गलमांसप्रतिभुक्तस्यैव प्रसहाः पिशिताशिनश्च योज्याः, अग्निमान्द्यभयात्| ते प्रसहाः प्रमाथिभावात् तथौष्ण्यात् कफोपलिप्तेभ्यः स्रोतोभ्यः कफं च्यावयन्ति| प्रमाथिद्रव्यलक्षणं च खारणदादौगदितम्| यथा-"स्रोतांसि दोषलिप्तानि प्रमथ्य यत्| प्रविश्य सौक्ष्म्यात्तैक्ष्ण्याच्च तत्प्रमाथीति संज्ञितम्||" इति| तैश्च-स्रोतोभिः,शुद्धैः सम्यग्वहन् रसः पुष्टिं कुर्यात्|
Adhikarana mAMsAyogyasya cavikAdi ghRutam (159-161) · Śloka 161
चविकात्रिफलाभार्गीदशमूलैः सचित्रकैः| कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले||१५९|| शृतैर्नागरदुःस्पर्शापिप्पलीशठिपौष्करैः| पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्||१६०|| सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च| दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः||१६१||
🔊 Audio coming soon
स०-चविकादिभिर्जले शृतैर्नागरादिभिः पिष्टैः समैः सर्पिर्विपाचयेत्| सिद्धेऽस्मिन् घृते क्षारौ द्वौ, पञ्च-सैधवादीनि लवणानि च, दत्त्वा मात्रां प्रकृतत्वात् घृतस्य पिबेत्, कफकासार्तः पुरुषः|
Adhikarana kAsamardAdighRutaM kAsajvArArUciharam (162-163) · Śloka 163
कासमर्दाभयामुस्तापाठाकट्फलनागरैः| पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च||१६२|| अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके| पचेच्छोशज्वरप्लीहसर्वकासहरं शिवम्||१६३||
🔊 Audio coming soon
स०-कासमर्दादिभिरक्षप्रमाणैः क्षीरद्राक्षारसयोर्मिश्रितयोराढके घृतप्रस्थं पचेत्| शोषादिहरं शिवं च-आरोग्यकरम्|
Adhikarana vRuShAdighRutam kAsajvarAruciharam (164) · Śloka 164
वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात्| रसकल्कैर्घृत पक्वं हन्ति कासज्वरारुचीः||१६४||
🔊 Audio coming soon
स०-वृषादीनां प्रत्येकं पत्रमूलफलाङ्कुरात् रसकल्कैः पक्वं घृतं कासादीन् हन्ति|
Adhikarana dviguNadADimarasasiddhaM ghRutam pippalIguDasiddaM ghRutam (165-166) · Śloka 166
द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम्| पिबेदुपरि भुक्तस्य यवक्षार्रयुतं नरः||१६५|| पिप्पलीगुडसिद्धं वा छागक्षीरयुतं घृतम्| |१६६|
🔊 Audio coming soon
स०-अथवा दाडिमस्वरसे द्विगुणे व्योषकल्कसंयुतं सिद्धं घृतं भुक्तस्याहारस्योपरि यवक्षारयुतं पिबेत्| पिप्पलीगुडाभ्यां वा चतुर्गुणे घृते घृताच्चतुर्गुणे जले घृतसमे छागक्षीर इति पक्वं पिबेत्|
Adhikarana uktaghRutAnAM dIpanatvaM strotaH shodhanatvaM ca (166-167) · Śloka 167
| एतान्यग्निविवृद्ध्यर्थं सर्पिषि क्षयकासिनाम्||१६६|| स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये| |१६७|
🔊 Audio coming soon
स०-एतानि पूर्वोक्तानि चव्यादिभिर्विपक्वानि घृतान्यग्निवर्धनानि क्षयकासिनां स्युः| दोषोपलिप्तकण्ठोरःस्रोतसां च विशुद्धये स्युः|
Adhikarana harItakIlehaH (167-139) · Śloka 139
| प्रस्थोन्मिते यवक्वाथे विंशति विजयाः पचेत्||१६७|| स्विन्ना मृदित्वा तास्तस्मिन्पुराणात्षट्पलं गुडात्| पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात्||१३८|| दत्त्वाऽर्धाक्षं पचेद्भूयः स लेहः श्वासकासजित्| ||१३९||
🔊 Audio coming soon
स०-यवक्वाथे प्रस्थप्रमाणे हरीतकीविशतिं पचेत्| स्विन्नास्ताः-हरीतकीः, तस्मिन्-यवक्वाथे, मृदुत्वा पुराणाद् गुडात् षट्पलं, पिप्पल्या द्विपलं, कर्षं मनःशिलायाः, रसाञ्जनादर्धकर्षं दत्त्वाऽस्मिन्क्वाथे पुनः पचेत्| स लेहः श्वासकासजित्|
Adhikarana shvAvitsUcIkShAralehaH mayUracaraNakShAralehaH eraNDapatrakShAralehaH surasairaNDapatrakShAralehaH tryUShaNacUrNalehaH (169-171) · Śloka 171
| श्वाविधां सूचयो दग्धाः सघृतक्षौद्रशर्कराः||१६९|| श्वासकासहरा, बर्हिपादौ वा मधुसर्पिषा| एरण्डपत्रक्षारं वा व्योषतैलगुडन्वितम्||१७०|| लेहयेत्, क्षारमेवं वा सुरसैरण्डपत्रजम्| लिह्यात् त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा||१७१||
🔊 Audio coming soon
स०-श्वाविधां सम्बन्धिभ्यः सुचयो दग्धा घृतक्षौद्रशर्करान्विताः श्वासकासहराः बर्हिणो-मयूरस्य, वा पादौ दग्धौ मधुसर्पिषा सह श्वासकासहरौ| अथवा, एरण्डपत्रस्य क्षारंव्योषतैल्लगुडयुरं लेहयेत्| एवं-पूर्वोक्तेन प्रकारेण, सुरसैरण्डपत्रजं क्षारं व्योषतैलगुडान्वितं लेहयेत्| अथवा त्र्यूषणचूर्णं पुराणौडसर्पिषा लिह्यात्|
Adhikarana samasharkaraM cUrNaM maricacUrNaM tadvat (172-173) · Śloka 173
पद्मकं त्रिपला व्योषं विडङ्गं देवदारु च| बला रास्ना च तच्चूर्णं समस्तं समशर्करम्||१७२|| खादेन्मधुघृताभ्यां वा लिह्यात्कासहरं परम्| तद्वन्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्||१७३||
🔊 Audio coming soon
स०-पद्मकादीनां समस्तं चूर्णं समशर्करम्| पद्मकादीनां चूर्णमेकतः, एकतः शर्कराचूर्णम्, तदुभयं संयोज्य खादेत्भक्षयेत्| अथवा, समशर्करमेव मधुघृताभ्यां मिश्रयित्वा लिह्यात्| तथैव मरिचचूर्णं घृतक्षौद्रशर्करायुतं लिह्यात्|
Adhikarana pathyAdiguTikA mukhe dhAraNArthaMbiBItakadhAraNam (174) · Śloka 174
पथ्याशुण्ठीघनगुडैर्गुटिकां धारयेन्मुखे| सर्वेषु श्वासकासेषु, केवलं वा बिभीतकम्||१७४||
🔊 Audio coming soon
स०-पथ्याशुण्ठीघनगुडैर्गुटिकां मुखे धारयेत् सर्वेष्वेव श्वासकासेषु| केवलं वा बिभीतकं मुखे धारयेदिति योज्यम्|
Adhikarana peyAmutkArikAM ca (175) · Śloka 175
पत्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम्| पेया वोत्कारिका छर्दितृट्कासामातिसारजित्||१७५||
🔊 Audio coming soon
स०-पत्रकल्कं तिल्वकस्य घृते भृष्टं सशर्करं छर्दिटृडादिजित्| पेया वा पत्रस्य कल्के सिद्धा तद्वत्| अथवा, उत्कारिका पत्रकल्ककृता छर्द्यादिजित्|
Adhikarana mudgayUShaH (176) · Śloka 176
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः| सगौरामलकः साम्लः सर्वकासभिषग्जितम्||१७६||
🔊 Audio coming soon
स०-कण्टकार्याः क्वाथे मुद्गयूषः सुसंस्कृतो-हिङ्गुसैन्धवादिना, सगौरामलकाम्लः सर्वकासेषु भिषग्जितं-औषधम्|
Adhikarana kShIrayUSharasAH (177) · Śloka 177
वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि| वैष्किरान् प्रातुदान् बैलान् दापयेत्क्षयकासिने||१७७||
🔊 Audio coming soon
स०-वातघ्नौषधानां निःक्वाथे सिद्धं क्षीरमथवा यूषान् रसांश्च विष्किरमांसजान् प्रतुदजान् वा| तथा, बिलेषु भवा बैलाः प्राणिनस्तेषां रसान् क्षयकासिने वैद्यो दापयेत्|
Adhikarana kShayakAsoktA bRuMhaNAdi (178-179) · Śloka 179
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः| क्षयकासेऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि||१७८|| बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम्| व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते||१७९||
🔊 Audio coming soon
स०-क्षतकासे च ये धूमाः-द्विमेदेत्यादयः, सानुपाना उक्ताः, ते च क्षयकासेऽपि योज्याः| तच्च यक्ष्मणि वक्ष्यते बृंहणमग्निदीपनं स्रोतोविशोधनं, तच्च क्षयकासिने योज्यम्| तथा, क्षयकासिभ्यो व्यत्यासेन सर्वं चिकित्सितं बल्यं प्रशस्यते|
Adhikarana kShayakAse sarvadoShAvirodhi kartavyam (3) · Śloka 3
सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः| यथादोषबलं तस्य सन्निपातहितं हितम्||१८०|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सित- स्थाने कासचिकित्सितं नाम तृतीयोऽध्यायः||३||
🔊 Audio coming soon
स०-सन्निपातोद्भवः क्षयकासो घोरो-दारुणो, यतो भवति, तस्माद् यथादोषबलं तस्य यत्सन्निपाते हितं तदत्र हितमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने कासचिकित्सितं नाम तृतीयोऽ- ध्यायः समाप्तः|| ३||