Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
कासचिकित्सितादनन्तरं श्वासहिध्माचिकित्सितं व्याख्यायते| सम्बन्धोऽत्र निदान एवोक्तः |
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
कासचिकित्सितादनन्तरं श्वासहिध्माचिकित्सितं व्याख्यायते| सम्बन्धोऽत्र निदान एवोक्तः |
Adhikarana shvAsahidhmAcikitsitAdhyAyaH shvAsacikitsitaM hidhmAsvapi kartavyam (2-1) · Śloka 1
अथातः श्वासहिध्माचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| श्वासहिध्मा यतस्तुल्यहेत्वाद्याः, साधनं ततः| तुल्यमेव|१|
🔊 Audio coming soon
स०-यस्मात् श्वासहिध्मास्तुल्यहेत्वाद्याः| आदिग्रहणात् प्राग्रूपादयो गृह्यन्ते| निदाने ह्युक्तम् (हृंइ.अ.४/१८)-"श्वासैकहेतुप्राग्रूपसङ्ख्याप्रकृतिसंश्रयाः|" इति| ततः-तस्माद्धेतोः, साधनं- चिकित्सितं, श्वासहिध्मयोस्तुल्यमेव विहितम्|
Adhikarana tatra prathamaM svedaH (1-2) · Śloka 2
| तदार्थं च पूर्वं स्वेदैरुपाचरेत्||१|| स्निग्धैर्लवणतैलाक्तं| |२|
🔊 Audio coming soon
स०-तदार्तं-श्वासहिध्मातुरं, पूर्वं-उपक्रमेभ्यः सर्वेभ्योऽपि प्राक्, स्वेदैरुपाचरेत्| किम्भूतैः ? स्निग्धैः-न रूक्षैः, वातकोपभयात्| किम्भूतम् ? लवणान्वितेन तैलेनाभ्यक्तम्|
Adhikarana svedaPalam (2-3) · Śloka 3
किमेवं सति स्यात् ? इत्याह तैः ख़ेषु ग्रथितः कफः| सुलीनोऽपि विलीनोऽस्य कोष्ठं प्राप्तः सुनिर्हरः||२|| स्रोतसां स्यान्मृदुत्वं च मरुतश्चानुलोमता| |३|
🔊 Audio coming soon
सं-तैः-स्वेदैः, ख़ेषु-स्रोतःसु, योऽस्य-श्वासहिध्मावतो, ग्रथितः-पिण्डितः, कफः सुलीनोऽपि-अतिशयेन श्लिष्टोऽन्त र्भूतः, अनयेतिकर्तव्यतया विलीनोऽस्य कोष्ठं प्राप्तः सुनिर्हरः स्यात्-सुख़ेन निर्हर्तुं शक्यते| तथा, स्रोतसां-वायुस्तब्धानां, मृदुत्वं च स्यात्| मरुतश्चानुलोमता-स्वमार्गगामित्वं स्यात्|
Adhikarana svinnaBojanam (3-5) · Śloka 5
| स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः||३|| दध्युत्तरेण वा, दद्यात्ततोऽस्मै वमनं मृदु| विशेषात्कासवमथुहृद्ग्रहस्वरसादिने||४|| पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत्| |५|
🔊 Audio coming soon
स०-स्निन्नं च सन्तमातुरं स्निग्धं-शाल्यादिकं न रूक्षं यवादिकम्, आनूपजैः-सूकरादिमांसजै रसैः सह, भोजयेत्| अथवा स्वेदादनन्तरमस्मै-श्वासहिध्मावते, दध्युत्तरेण-दधिसरेण, वमनं मृदु दद्यात्| विशेषेण कासादिमते वमनं दद्यात्| तच्च वमनं पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि-वातं न करोति, यत्तद्दद्यात्|
Adhikarana vamanaPalam (5-6) · Śloka 6
| निर्हृते सुख़माप्न्पोति स कफे दुष्टविग्रहे||५|| स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः| |६|
🔊 Audio coming soon
स०-निर्हृते कफेऽसौ (सः)-श्वासहिध्मावान्, सुख़मश्रुते, रुङ्क्षिवृत्तेः| किम्भूते कफे ? दुष्टो विग्रहः-शरीरं, येन तस्मिन्| तथा, स्रोतःसु विशुद्धेषु-उपलेपादिरहितेषु, वायुरविहतो-न केनचिद्रुद्धगतिः, स्रोतःसु चरति|
Adhikarana virecanam (6-7) · Śloka 7
| ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः||६|| हिङ्गुपीलुबिडैर्युक्तमन्नं स्यादनुलोमनम्| ससैन्धवं फालाम्लं वा कोष्णं दद्याद्विरेचनम्||७||
🔊 Audio coming soon
स०-ध्मानं-आनाहः| उदावर्तः-शकृदादीनामप्रवृत्तिः| तमकः-श्वासविशेषः| ध्मानं चोदावर्तश्च तमकश्च ध्मानोदावर्ततमकम्, तस्मिन्-प्रकृतत्वात् तथाविधे हिध्माश्वासवति| मातुलुङ्गाद्यैस्तथा हिङ्गुपीलुबिडैर्युक्तमन्नमनुलोमकारि स्यात्| अथवा, अस्यामवस्थायां सैन्धवेन सह फलाम्लं फलेन-वातानुलोमनेन बीजपूरादिना, अम्लं-अम्लीकृतं, तथा कोष्णं-ईषदुष्णं, विरेचनं दद्यात्|
Adhikarana shodhane yuktiH (8-9) · Śloka 9
स्रोतःशुद्ध्यर्थं किमेवं क्रियते ? इत्याह एते हि कफसंरुद्धगतिप्राणप्रकोपजाः| तस्मात्तन्मार्गशुद्ध्यर्थमूर्ध्वाधः शोधनं हितम्||८|| उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्| यथा तथाऽनिलस्तस्य मार्गमस्माद्विशोधयेत्||९||
🔊 Audio coming soon
स०-यस्मादेते-हिध्माश्वासाः| कफेन संरुद्धा गतिर्यस्य स एवम्, कफसंरुद्धगतिश्वासौ प्राणाश्च, तस्य प्रकोपः, ततो जाताः| यत एवं तस्माद्धेतोस्तन्मार्गशुद्ध्यर्थं-तस्य प्राणस्य वायोर्मार्गविशुद्धिनिमित्तं, ऊर्ध्वमधश्च शोधनं हितम्| एतच्च दृष्टान्तद्वारेण स्पष्टयति-उदीर्यत इत्यादि| यथा मार्गस्य रोधाज्जलं वहत् भृशतरं-सुतरां, उदीर्यते-वृद्धिं याति| तथाऽनिलः स्वभावतो वहन् मार्गरोधात्-मार्गस्यावरणात्, भृशतरमुदीर्यते| तस्य-वायोः, मार्गमस्मात्-यथोक्तात्कारणात्, विशोधयेत्|
Adhikarana shodhanenAshAntau dhUmaH kartavyaH (10) · Śloka 10
अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्| |१०|
🔊 Audio coming soon
स०-पूर्वस्यां क्रियायां कृतायामप्यशमे सति, कृतसंशुद्धेः-श्वासहिध्मार्तस्य, लीनं-सूक्ष्मस्रोतःश्लिष्टं, मलं-कफाख़्यं, धूमैः-वक्ष्यमाणैः, हरेत्|
Adhikarana dhUmaprayogAH (10-14) · Śloka 14
| हरिद्रापत्रमेरण्डमूलं लाक्षां मनःशिलाम्||१०|| सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्| तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान्||११|| मधूच्छिष्टं सर्जरसं घृतं वा गुरु वाऽगुरु| चन्दनं वा तथा शृङ्गं वालान्वा स्नाव वा गवाम्||१२|| ऋक्षगोधकुरङ्गैणचर्मशृङ्गखुराणि वा| गुग्गुलुं वा मनोह्वां वा शालिनिर्यासमेव वा||१३|| शल्लकीं गुग्गुलुं लोहं पद्मकं वा घृताप्लुतम्| |१४|
🔊 Audio coming soon
स०-हरिद्रादीनि पिष्ट्वा जलेन वर्तिं प्रकल्पयेत्| तां-वर्ति, घृताक्तां कृत्वा धूमं पिबेत्, सामर्थ्यादग्निप्लुष्टाम्| अथवा यवान् घृताक्तान् धूमं पिबेत्| मधूच्छिष्टं-सिक्थकं, सर्जरसं घृतं वा एकीकृत्य धूमं पिबेत्| अथवा, गुरु-श्रेष्ठं, अगुरु कृष्णागरु, धूमं पिबेत्| अथवा, चन्दनम् [ धूमं पिबेत् ]| अथवा, गवां शृङ्गं धूमं पिबेत्| अथवा, गवां वालान्-गलकम्बलजानि रोमणि, धूमं पिबेत्| स्नाव वा-स्नायु वा गवामेव, धूमं पिबेत्| रूक्षादीनां चर्मादीनि वा धूमं पिबेत्| खुरशब्दस्यार्धर्चादित्वान्नपुंसकत्वम्| गुग्गुलुं वा, अथवा मनः शिलां शालनिर्यासं वा धूमं पिबेत्| शल्लक्यादि घृताप्लुतं वा|
Adhikarana svedaprayogAH (14-16) · Śloka 16
| अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम्||१४|| स्वेदयेत्ससिताक्षीरसुख़ोष्णस्नेहसेचनैः| उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः||१५|| उरः कण्ठं च मृदुभिः| |१६|
🔊 Audio coming soon
स०-अवश्यं स्वेदनीयानां तथाऽस्वेदार्हाणामपि क्षणमुरः कण्ठं च मृदुभिः स्वेदैः स्वेदयेत्| कैः ? सशर्कराक्षीरैः सुख़ोष्णैः स्नेहसेचनैः| तथा, स्वेदाध्याये यान्युक्तानि द्रव्याणि तत्कृतैरुत्कारिकोपनाहैश्च स्वेदयेत्|
Adhikarana sAme AmavidhiH (16) · Śloka 16
सामे त्वामविधिं चरेत्| |१६|
🔊 Audio coming soon
स०-सामे च श्वासहिध्मावत्यामविधिं-लङ्घनपाचनादिकं, चरेत् निरामीकरणाय|
Adhikarana shleShmauShadhAtiyoddatavAtasyauShadham (16-17) · Śloka 17
| अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः||१६|| स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्| |१७|
🔊 Audio coming soon
स०-अतियोगाद्वमनविरेचनयोर्नराणामुद्धतं वातं दृष्ट्वा पवननाशनैः स्निग्धै रसाद्यैः-मांसरसघृतक्षीरादिभिराहारैः, तथा किञ्चिदुष्णैरभ्यङ्गैश्च शमं नयेत्|
Adhikarana shodhanAnarhANAM shamanam kShayAdyutpannasyauShadham (17-18) · Śloka 18
| अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्||१७|| वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्| कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः||१८||
🔊 Audio coming soon
स०-अनुत्क्लिष्टकफानामस्विन्नानां दुर्बलानां च शोधनाद्धेतोः पवनो लब्धास्पदः सन् अन्यस्थानाश्रयवशादासादित सामर्थ्योऽत एवामन्दः शोषणस्वभावत्वाद् मर्म-हृदयाख़्यं, संशोष्य शीघ्रमसून् हरेत्| तस्मादेवंविधान् हिध्माश्वासवतो न शोधयेत्| अतोऽन्यथाभूतांश्च शोधयेदित्यर्थादुक्तं भवति| तथा च तेषां संशोधनादारोग्यं सम्पद्यते| अनुत्क्लिष्टकफादीनां शोधनायोग्यानां तर्हि किं कार्यम् ? इत्याह-कषायेत्यादि| यतो यस्मात्ते संशोधनायोग्यास्तस्मात्तेषां कषायादिभिः संशमयेत्, श्वासहिध्मा इति शेषः|
Adhikarana kShayAdyutpannasyauShadham (19) · Śloka 19
क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान्| मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत्||१९||
🔊 Audio coming soon
स०-क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान् हिध्माश्वासान् मधुरादिभिरुपक्रमेत्|
Adhikarana annapAnAni tatra rasAH (20) · Śloka 20
कुलत्थदशमूलानां क्वाथे स्युर्जाङगला रसाः| यूषाश्च|२०|
🔊 Audio coming soon
स०-कुलत्थदशमूलानां क्वाथे जाङ्गलरसा यूषाश्च स्युः|
Adhikarana yUShAH yUShAntaram yUShAntaram (20-22) · Śloka 22
| शिग्रुवार्ताककासघ्नवृषमूलकैः||२०|| पल्लवैर्निम्बकुलकबृहतीमातुलुङ्गजैः| व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः||२१|| सामृताग्निकुलत्थैश्च यूषः स्यात्क्वथितैर्जले| तद्वद्रास्नाबृहत्यादिबलामुद्गैः सचित्रकैः||२२||
🔊 Audio coming soon
स०-शिग्र्वादिभिश्च जले क्वथितैर्यूषः स्यात्| तथैव रास्नादिभिर्यूषः स्यात्|
Adhikarana peyAdvayam (23) · Śloka 23
पेया च चित्रकाजाजीशृङ्गीसौवर्चलैः कृता| दशमूलेन वा कासश्वासहिध्मारुजापहा||२३||
🔊 Audio coming soon
स०-पेया च चित्रकादिभिः कृताऽथवा दशमूलेन कृता, सा च कासदिहरा|
Adhikarana kaShAyaH peyA ca (24-25) · Śloka 25
दशमूलशठीरास्नाभार्गीबिल्वर्द्धिपौष्करैः| कुलीरशृङ्गीचपलातामलक्यमृतौषधैः||२४|| पिबेत्कषायं जीर्णेऽस्मिन् पेयां तैरेव साधिताम्| |२५|
🔊 Audio coming soon
स०-दशमूलादिभिः कषायं पिबेत्| अस्मिन्कषाये परिणते तैरेव-दशमूलादिभिः, साधितां पेयां हिध्माश्वासी पिबेत्|
Adhikarana annaM shAlyAdi (25-26) · Śloka 26
| शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक्||२५|| कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशान्तये| |२६|
🔊 Audio coming soon
स०-तथा शाल्यादिभुक् स्यात्, कासादिशान्त्यर्थम्|
Adhikarana yavasaktavaH (26-27) · Śloka 27
| सक्तून् वाऽर्काङ्कुरक्षीरभावितानां समाक्षिकान्||२६|| यवानां दशमूलादिनिष्क्वाथलुलितान् पिबेत्| |२७|
🔊 Audio coming soon
स०-अथवाऽर्काङ्कुरक्षीरभवितानां यवानां सम्बन्धिनः सक्तून् समाक्षिकान् दशमूलशठीत्यादिनिर्यूहान्वितान् पिबेत्|
Adhikarana anne kShArAdiyojanam (27-28) · Śloka 28
| अन्ने च योजयेत् क्षारहिङ्ग्वाज्यबिडदाडिमान्||२७|| सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान्| |२८|
🔊 Audio coming soon
स०-अन्ने-आहारे च, क्षारादीन् योजयेत्|
Adhikarana tRuShitasya dashamUlakkAthAdipAnam,tRuShitasya vArUNImaNDapAnam (28-29) · Śloka 29
| दशमूलस्य वा क्वाथमथवा देवदारुणः||२८|| पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः| |२९|
🔊 Audio coming soon
स०-हिध्माश्वासवान् पिपासितो दशमूलस्य क्वाथं देवदारुणो वा, अथवा वारुणीमण्डं पिबेत्|
Adhikarana tRuShitasya takravisheShapAnam (29-30) · Śloka 30
| पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः||२९|| कल्कितैर्लेपिते रूढे निःक्षिपेद्धृतभाजने| तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्||३०||
🔊 Audio coming soon
स०-पिप्पल्यादिभिः कल्कितैर्लेपिते घृतभाजने रूढे-शुष्के, तक्रं निःक्षिपेत्| तच्च तक्रं मासस्थितं दीपनं श्वासकासजित्|
Adhikarana tRuShitasya surAmaNDapAnamtRuShitasya BArgIshuNThcambu pAnam tRuShitasya bAShpikAkkAthapAnam (31-32) · Śloka 32
पाठां मधुरसां दारु सरलं च निशि स्थितम्| सुरामण्डेऽल्पलवणं पिबेत्प्रसृतसम्मितम्||३१|| भार्गीशुण्ठ्यो सुख़ाम्भोभिः क्षारं वा मरिचान्वितम् स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा||३२||
🔊 Audio coming soon
स०-पाठादिकं सुरामण्डे निशि स्थितं किञ्चिल्लवणं प्रसृतसम्मितं-पलद्वयमात्रं, पिबेत्| अथवा, भार्गीशुण्ठ्यावुष्णाम्बुना पिबेत्| यवक्षारं मरिचयुक्तं वा| बाष्पिकां-हिङ्गुपत्रिकां, हिङ्गु पत्रिक्वाथेन पिष्टां तेनैवालोडितां वा पाययेत्|
Adhikarana pittakaPAnuroge hidhmAshvAse saptaparNAdisvarasau pittAnude utkArikA vAtapittAnuge kShIram vAtApittAnuge kShIrAntaram (33-36) · Śloka 36
स्वरसः सप्तपर्णस्य पुष्पाणां वा शिशीषतः| हिध्माश्वासे मधुकणायुक्तः पित्तकफानुगे||३३|| उत्कारिका तुगाकृष्णामधूलीघृतनागरैः| पित्तानुबन्धे योक्तव्या, पवने त्वनुबन्धिनि||३४|| श्वाविच्छशामिषकणाघृतशल्यकशोणीतैः| सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः||३५|| अनु शाल्योदनं पेयं वातपित्तानुबन्धिनि| चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम्||३६||
🔊 Audio coming soon
स०-सप्तपर्णस्य-अयुग्मच्छदस्य स्वरसः, शिरीषात् पुष्पाणां वा स्वरसः, एतौ मधुकणायुतौ पित्तकफानुगे हिध्माश्वासे सति पाययेत्| पित्तानुबन्धिनि हिध्माश्वासे तुगादिभिरुत्कारिका योज्या| मधूली-जलजा मधुयष्टी, गोधूमविशेषो वा| पवने पुनरनुबन्धिनि श्वाविदादिभिरुत्कारिका निष्पादिता योज्या| हिध्माश्वासे वातपित्तानुबन्धिनि सति सुवर्चलारसादिभिः सिद्धं पयोऽनु शाल्योदनं भुक्त्वा पश्चात् क्षीरं पेयम्, गव्यं छागं वा देशसात्म्यादिवशात्| अथवा चतुर्गुणाम्बुसिद्धं वा पयश्छागं सगुडनागरं पिबेत्|
Adhikarana pippalImUlAdilehaH (37) · Śloka 37
पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान्| हिध्माभिष्यन्दकासघ्नान् लिह्यान्मधुघृतान्वितान्||३७||
🔊 Audio coming soon
स०-पिप्पलीमूलादीन् मधुघृतान्वितान् सम्मिश्र्य हिध्माभिष्यन्दकासघ्नान् लिह्यात्|
Adhikarana kaPolbaNe gogajAdishakRudrasalehAH kaPolbaNe catuShpAccarmAdimaShIlehaH kaPolbaNe ashvagandhAmaShIlehaH kaPolbaNe shaThcAdilehaH kaPolbaNe pauShkarapippalIlehaH kaPolbaNe gairikAdilehaH kaPolbaNe kapitthasvarasalehaH kaPolbaNe dhAtryAdilehaH kaPolbaNe pathyAdilehaH kaPolbaNe kolAdilehaH kaPolbaNe guDAdilehaH kaPolbaNe uktaleha auShadhacUrNAnAM rasAdiBiH pAnam (38-43) · Śloka 43
गोगजाश्ववराहोष्ट्रखरमेषाजविड्रसम्| समध्वेकैकशो लिह्याद्बहुश्लेष्माऽथवा पिबेत्||३८|| चतुष्पाच्चर्मरोमास्थिखुरशृङ्गोद्भवां मषीम्| तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः||३९|| शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्| गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम्||४०|| रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः| घृतक्षौद्रेण वा पथ्याविडङ्गोषणपिप्पलीः||४१|| कोललाजामलद्राक्षापिप्पलीनागराणि वा| गुडतैलनिशाद्राक्षाकणारास्नोषणानि वा||४२|| पिबेद्रसाम्बुमद्याम्लैर्लेहौषधरजांसि वा| |४३|
🔊 Audio coming soon
स०-गोगजादीनां शकृद्रसं बहुकफः समाक्षिकमेकैकशो लिह्यात्, अथवा पिबेत्| अथवा, चतुष्पदां चर्मादिजां मषीं पिबेत्| श्वासी कफाधिकोऽश्वगन्धायाश्च मषीं तद्वत्-मधुना, लिह्यात्| शठीपौष्करादिण् वा मधुना लिह्यात्| पौष्करं सकणं वा लिह्यात्| गैरिकादीन् वा लिह्यात्, कपित्थजं स्वरसं वा| कपित्थस्वरसेन धात्र्यादीन् लिह्यात्| पथ्याविडङ्गादीन् घृतक्षौद्रेण वा लिह्यात्| कोलादीन् वा पूर्ववल्लिह्यात्, गुडादीन् वा| अथवा, लेहस्य-अगस्त्यादेः, औषधानां चूर्णानि मांसरसादिभिः पिबेत्|
Adhikarana jIvantyAdikaM dviguNasharkaraM cUrNam (43-45) · Śloka 45
| जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम्||४३|| चण्डातामलकीलोहभार्गीनागरवालकम्| कर्कटाख़्याशठीकृष्णानागकेसरचोरकम्||४४|| उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्| पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम्||४५||
🔊 Audio coming soon
स०-जीवन्त्यादिकं चूर्णं भुक्तं पार्श्वरुगादिघ्नं सुष्ठु हिध्मादिहरम्| लोहं-अगुरु|
Adhikarana shaThyAdikaM aShTaguNasharkaraM cURnam (46) · Śloka 46
शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम्| शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम्||४६||
🔊 Audio coming soon
स०-शठ्यादिकं चूर्णं पूर्वगुणम्|
Adhikarana nasyAni guDanAgaranasyam (47) · Śloka 47
तुल्यं गुडं नागरं च भक्ष्येन्नावयेत वा| |४७|
🔊 Audio coming soon
स०-तुल्यां सगुडशुण्ठीं च भक्षयेत् नस्यं वा दद्यात्|
Adhikarana lashunamUlAdinasyacatuShkam makShikAviShThAdinasyatrayam stanyasiddaM ghRutam kShIram virecanauShadhasiddaM ghRutam (47-50) · Śloka 50
| लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा||४७|| चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्| स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा||४८|| ससैन्धवं घृताच्छं वा, सिद्धं स्तन्येन वा घृतम्| कल्कितैर्मधुरद्रव्यैस्तत्पिबेन्नावयेत वा||४९|| सकृदुष्णं सकृच्छीतं व्यत्यासात् ससितामधु| तद्वत्पयस्तथा सिद्धमधोभागौषधैर्घृतम्||५०||
🔊 Audio coming soon
स०-लशुनादीनां मूलं पिष्ट्वा नारीक्षीरेण पृथक् पृथक् नावनं च स्यात् हिध्माश्वासार्ताय| चन्दनाद्वा रसं नारीक्षीरेण सह नस्यं दद्यात्| मक्षिकाविष्ठां स्तन्येन सह नस्यं दद्यात्, अलक्तकरसेन वा|
Adhikarana kaNAdighRutam jIvanIyaghRutam (51-52) · Śloka 52
कणासौवर्चलक्षारवयस्थाहिङ्गुचोरकैः| सकायस्थैर्घृतं मस्तुदशमूलरसे पचेत्||५१|| तत्पिबेज्जीवनीयैर्वा लिह्यात्समधु साधितम्| |५२|
🔊 Audio coming soon
स०-कणादिभिः कल्कैर्मस्तुदशमूलरसे स्नेहपानविध्युक्तपरिभाषामाश्रित्य घृतं पक्त्वा हिध्माश्वासार्तः पिबेत्| जीवनीयैर्वा द्रव्यैः कल्कैर्घृतं पक्त्वा समाक्षिकं लिह्यात्-न पिबेत्| विषयभेदादेवं कार्यम्| अथवा, वस्तुस्वभावादेकस्मिन्नपि विषये कणादिभिः पक्वं घृतं पीतं हिध्माश्वासार्तानामारोग्याय, जीवनीयैः पुनः कल्कैः पक्वं घृतं लीढं तेषामारोग्यायेति|
Adhikarana tejovatyAdighRutam (52-55) · Śloka 55
| तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी||५२|| भूतीकं पौष्करं मूलं पलाशश्चित्रकः शठी| पटुद्वयं तामलकी जीवन्ती बिल्वपेशिका||५३|| वचा पत्रं च तालीसं कर्षांशैस्तैर्विपाचयेत्| हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत्||५४|| शाखानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदनाः| |५५|
🔊 Audio coming soon
स०-तेजोवत्यादिभिः कल्कैः कर्षांशैर्हिङ्गुपादैर्हिङ्गुनः पादः-चतुर्थांशो, येषां तैरेवंविधैर्घृतं पचेत्| तत्पीतं दुष्टकफावृतस्रोतसां प्रमाथितया तेषां विवृतत्वमुत्पादयन् शाखानिलादीन् हन्ति|
Adhikarana ardhAMshakShAraghRutam ardhAMshalavaNaghRutam dhAnvantarAdighRutacatuShkasyAtideshaH (55-56) · Śloka 56
| अर्धांशेन पिबेत्सर्पिः क्षारेण पटुनाऽथवा||५५|| धान्वन्तरं वृषघृतं दाधिकं हपुषादि वा| |५६|
🔊 Audio coming soon
स०-धान्वन्तरादिघृतस्यार्धांशेन क्षारेण, अथवा पटुना-लवणेन चार्धांशेन, सर्पिः पिबेत्| धान्वन्तरं-प्रमेहोक्तम् (हृ. चि. अ. १२/१९)| वृषघृतं-रक्तपित्तोक्तम् (हृ. चि. अ. २/४०)| दाधिकं-गुल्मोक्तम् (हृ. चि. अ. १४/१३)| हपुषादिकं-उदरोक्तम् (हृ. चि. अ. १५/२२)|
Adhikarana cittakShoBaNamauShadham (56-57) · Śloka 57
| शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः||५६|| हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम्| |५७|
🔊 Audio coming soon
स०-सहसा-झटित्येवाज्ञातसङ्केतस्यैव, हिध्माश्वासार्तस्य शीताम्बुना सेको हितः| त्रासः-चित्तस्योद्वेगकृत्कर्म, विक्षेपः-अवधूननम्, भीः-भयम्, शुक्-शोकश्चेतसः सन्तापः, त्रासादयश्चतस्रस्तामसगुणोद्भवाः, ईर्ष्या-असूया परगुणासहिष्णुता, इयं रजोगुणोदया, तथा उच्छ्वासस्य रोधः, एते च सर्वे हिध्माश्वासार्ताय हिताः| तथा, कीटैः-पिपीलिकादिभिः, तस्मिन् दंशनं हितम्, वातवेगविघाताय|
Adhikarana anuktasaMgrAhArthaM sAmAnya cikitsA (57-59) · Śloka 59
एवं हिध्माश्वासानां विशेषेण चिकित्सामुक्त्वा सामान्येनाह यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम्||५७|| तत्सेव्यं प्रायशो यच्च सुतरां मारुतापहम्| |५९|
🔊 Audio coming soon
स०-यत्किञ्चित्-आहारविहारौषधादिकं, कफवातौ-पृथक् सहितौ वा, निहन्ति तत्कफवातघ्नम्| तथा, उष्णं-न-शीतम्| कफवातघ्नं हि प्रायेणोष्णमेव भवति| उष्णमिति यदिह कृतं तदतिशयेनोष्णं न त्वीषदुष्णमिति प्रतिपादनार्थम्| तथा, वातानुलोमनं कफवातघ्नत्वेनैव वातानुलोमनकारित्वे लब्धे प्राधान्येन वातप्रतिपक्षेण स्निग्धेन यद्युक्तं तद्धिध्माश्वासार्तैः कफवातघ्नमधिकोष्णं सेव्यमिति प्रतिपादनायेति| अत एवाह-प्रायश इत्यादि| प्रायशो-बाहुल्येन, यत् सुतरां मारुतशमनं तत् हिध्माश्वासार्तैः सेव्यम्|
Adhikarana shamanabRuMhaNaiScopacAraH (58-59) · Śloka 59
किमित्येवं क्रियते ? इत्याह- | सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्||५८|| नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्षणे| शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत्||५९||
🔊 Audio coming soon
स०-सर्वेषां-हिध्माश्वासार्तानां, हि-यस्मात्, बृंहणे विधीयमाने कदाचिद्दैववशात् योऽपायो-रोगाधिक्यमन्यरोगप्रादुर्भावो वा, भवेत् स प्रायशोऽल्पस्तथा शक्यः-साधयितुं सुख़साध्यः| तथा, तेषां, शमने भेषजादौ क्रियमाणेऽपायो यदि दैवात्स्यात् स नात्यर्थं-नातिशयेन| किं तर्हि ? मध्यमया वृत्त्या| हिध्माश्वासशान्त्यर्थं कर्षणे भेषजादौ क्रियमाणे योऽपायो जायते स भृशो-दुःसहः, अत एवाशक्यः-साधयितुं न शक्यते| यत एवं कर्षणे भृशोऽशक्यश्चापयो भवति| अतः-अस्मात्कारणात्, तान्-हिध्माश्वासान्, भूयिष्ठं-बाहुल्येन, शमनैर्भेषजैस्तथा बृंहणैरुपाचरेत्|
Adhikarana kAsAdInAmanyonyaBeShajam (4) · Śloka 4
अधुना कासादीनां पञ्चानामप्येषां सामान्येन चिकित्सितं वक्तुमाह कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः| ५९ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने श्वासहिध्माचिकित्सितं नाम चतुर्थोऽध्यायः||४||
🔊 Audio coming soon
स०-कासोक्तैर्भेषजैः श्वासादीनुपाचरेत्| श्वासाद्युक्तैः कासानुपाचरेत्| एवं परस्परं सर्वैर्यथोक्तैर्भेषजैः सर्वानेतानुपाचरेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने श्वासहिध्माचिकित्सितं नाम चतुर्थोऽध्यायः समाप्तः||४||