Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. arśaścikitsitādhyayaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अस्मादनन्तरमर्शश्चिकित्सितमारभ्यते| सम्बन्धश्चास्य निदान एवोक्तः|

Adhikarana arshashcikitsitAdhyAyaH arshasAM dAhavishiH arshasAM dAhAnantaraM karavyam arshasAM ekaikasya saptAhAdupacAraH (2-9) · Śloka 9

अथतोऽर्शसां चिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| ) काले साधारणे व्याभ्रे नातिदुर्बलमर्शसम्| विशुद्धकोष्ठं लघ्वल्पमनुलोमनमाशितम्||१|| शुचि कृतस्वस्त्ययनं मुक्तविण्मूत्रमव्यथम्| शयने फलके वाऽन्यनरोत्सङ्गे व्यपाश्रितम्||२|| पूर्वेण कायेनोत्तानं प्रत्यादित्यगुदं समम्| समुन्नतकटीदेशमथ यन्त्रणवाससा||३|| सक्थ्नोः शिरोधरायां च परिक्षिप्तमृजु स्थितम्| आलम्बितं परिचरैः सर्पिषाऽभ्यक्तपायवे||४|| ततोऽस्मै सर्पिषाऽयक्तं निदघ्यादृजु यन्त्रकम्| शनैरनुसुखं पायौ, ततो दृष्ट्वा प्रवाहणात्||५|| यन्त्रे प्रविष्टं दुर्नाम प्लोतगुण्ठितयाऽनु च| शलाकयोत्पीड्य भिषक् यथोक्तविधिना दहेत्||६|| क्षारेणैवार्द्रमितरत्क्षारेण ज्वलनेन वा| महद्वा वलिनश्छत्त्वा वीतयन्त्रमथातुरम्||७|| स्वभ्यक्तपायुजघनमवगाहे निधापयेत्| निर्वातमन्दिरस्थस्य ततोऽस्याचारमदिशेत्||८|| एकैकमिति सप्ताहात्सप्ताहात्समुपाचरेत्| |९|

🔊 Audio coming soon

स०-साधारणे-शरद्वसन्तादिके काले, तथा व्यभ्रे-विगताब्दे| तथा नातिदुर्बलमर्शसं-अपि तु किञ्चित्सप्राणम्| अत्र योग्यपरत्वात् कृत्वेत्यध्याहृत्य सम्बन्धः कार्यः| तथा विशुद्धकोष्ठादिकं कृत्वा ततोऽस्मै-अर्शसाय, यन्त्रं निदध्यादिति| सङ्ग्रहे चोक्तम् (चि.अ.१०)-"अथ खलु बलवन्तमर्शोभिरुपद्रुतं यथार्हस्नेहोपस्निग्धस्विन्नमनिलवेदनावृद्धिशमनार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवन्तं शुचि कृतस्वस्त्ययनं मुक्तविण्मूत्रमव्यथं समे शुचौ विविक्ते देशे साधारणेव्यभ्रे काले समे फलके शय्यायां वा प्रत्यादित्यगुदमन्यस्योत्सङ्गेनिषण्णपूर्वकायमुत्तानमुन्नतकटीकं यन्त्रणशाटकेन परिक्षेप्तग्रीवासक्थिसन्धिदेशमलज्जार्हैराप्तपरिचारकैः सुपरिगृहीतं कृत्वा ततोऽस्मै घृताभ्यक्तं यन्त्रकं निद्ध्यात्|" इति| अर्शसमिति अर्शासि विद्यन्ते यस्येत्यर्थः, अर्शआदित्वादच्| किम्भूतम् ? विशुद्धो-वमनविरेचनादिना, कोष्ठो यस्य तम्| तथा, अन्नमाशितं कृत्वा| किम्भूतम् ? लघु-स्वभावात्, अल्पं चमात्रया| तथा, अनुलोमनं-वातवर्चसां प्रायेण प्रवर्तकम्| तथा, शुचिं-मृज्जलाभ्यां कृत्वा| तथा, कृतं स्वस्त्ययनं यस्य तम्| तथा, मुक्ते-विसृष्टे, विण्मूत्रे येन तम्| तथा, अत्र्यथंव्यथारहितमन्येन व्याधिनाऽपीडितम्| तथा, शयने व्यपाश्रितं-शय्यामाश्रित्य स्थितम्| अथवा, फलके-आसनविशेषे, व्यपाश्रितम्| अथवा, अन्यनरोत्सङ्गे व्यपाश्रितम्| उत्सङ्गविशेषात्स्थानकविशेषः| नरोत्सङ्गे व्यपाश्रितमित्येवं सिद्धेऽन्यग्रहणं वैद्यस्य निरासार्थम्| अन्योत्सङ्गे व्यपाश्रितमिति कथं कृत्वा ? पूर्वेण कायेनोत्तानं कृत्वा-नाधरेण| तथा, प्रत्यादित्यगुदम्| प्रति-आभिमुख्येन, आदित्यं प्रत्यादित्यं गुदं यस्य तम्| यस्यां दिश्यादित्यो गतः तस्यां दिश्यर्शसेन सम्मुखं गुदं कृत्वा स्थातव्यमित्यर्थः, समं च| तथा, सम्यगुन्नतः कटिदेशोयस्य तम्| अथ-समुन्नतकटिदेशकरणादनन्तरं, अर्शसं सक्थ्नोस्तथा शिरोधरायां परिक्षिप्तं-समन्तात्क्षिप्तमाक्रान्तं कृत्वा| केन ? यन्त्रणवाससा| यन्त्रणार्थं वासः-कार्पासादिमयं, यन्त्रणवासस्तेन| ऋजु-स्पष्टं कृत्वा, स्थितम्| तथा, तमातुरं परिचारकैरलम्बितं-निश्चलं कृत्बाऽवष्टभ्य सम्यक् स्थापितम्| ततः-अनन्तरं, अस्मै-दुर्नामवते, सर्पिषाऽभ्यक्तपायवे घृताभ्याक्तं यन्त्रकमृजु-अनुसुखं कृत्वा, शनैर्निदध्यात्-प्रणयेत्| ततः-अनन्तरं गुदप्रणिहितयन्त्रान्ते, प्रवाहणात्-प्रवाहणेनहेतुना, यन्त्रे प्रविष्टं दुर्नाम दृष्ट्वा| अथ(नु) [च]-पश्चाच्च, शलाकया चैलखण्डप्रावृतदेहयोत्पीड्य-प्रकृतत्वाद्दुर्नाम ऊर्ध्वं पीडयित्वा| वैद्यो यथोक्तविधिना-सूत्रस्थानोदितेन, क्षारेणार्द्रमर्शो दहेत्| एवेत्यवधारणे| क्षारेणैव नाग्निना| इतरत्शुष्कं दुर्नाम, क्षारेण ज्वलनेन वा दहेत्| यथोक्तविधिनेत्यत्रापि योज्यम्| महद्वेति| बहुद्दुर्नाम तु बलवतः पुंसः छित्त्वा वा शस्त्रेण क्षाराग्निभ्यां यथायोगं दहेत्| अथ-अनन्तरं, आतुरं वीतयन्त्रं विधाय स्वभ्यक्तपायुजघनमवगाहे निधापयेत्-तत्र निहितं विदध्यादित्यर्थः| ततः-अनन्तरं, अस्याचारं-"उष्णोदकोपचारी स्यात्" (हृ.सू.अ. १६/२६) इत्यादिकं, आदिशेत्| एकैकं दुर्नाम इति-अनेन पूर्वोक्तेन प्रकारेण, सप्ताहात्समुपाचरेत्-न तुल्यकालं सर्वाणि|

Adhikarana bahvarshasaH upacArakramaH (9-10) · Śloka 10

| प्राग्दक्षिणं ततो वाममर्शः पृष्टाग्रजं ततः||९|| बह्वर्शसः|१०|

🔊 Audio coming soon

अथैषां कर्मादिक्रमं दर्शयितुमाह स०-बह्वर्शसः प्राक्-पूर्वं, दक्षिणदेशस्थमर्श उपाचरेत्| अनन्तरं वामं, ततः पृष्टाग्रे जातमुपाचरेत्|

Adhikarana sudagdhasya lakShaNam (10) · Śloka 10

सुदग्धस्य स्याद्वायोरनुलोमता| रुचिरन्नेऽग्निपटुता स्वास्थ्यं वर्णबलोदयः||१०||

🔊 Audio coming soon

स०-सुदग्धस्यार्शसो वातस्यानुलोमनं स्यात्| तथा, अन्नेऽभिलाषः, अग्नेः पाटवं तथा स्वास्थ्यं बलवर्णयोरुद्भूतिश्च|

Adhikarana bastishUle lepaH (11) · Śloka 11

बस्तिशूले त्वधो नाभेर्लेपयेछ्लक्ष्णकल्कितैः| वर्षाभूकुष्ठसुरभिमिशिलोहामराह्वयैः||११||

🔊 Audio coming soon

स०-बस्ति शूले सति पुनर्नामेरधः वर्षाभ्वादिभिः सुपिष्टैर्लेपयेत्|

Adhikarana shakRunmUtrapratIghAte kvAthaH shakRunmUtra kShIraM tailaM vA shakRunmUtra annaM snehASca (12-14) · Śloka 14

शकृन्मूत्रप्रतीघाते परिषेकावगाहयोः| वरणालम्बुषैरण्डगोकण्टकपुनर्नवैः||१२|| सुषवीसुरभीभ्यां च क्वाथमुष्णं प्रयोजयेत्| सस्नेहमथवा क्षीरं तैलं वा वातनाशनम्||१३|| युञ्जीतान्नं शकृद्भेदि स्नेहान् वातघ्नदीपनान्| |१४|

🔊 Audio coming soon

स०-शकृतो मूत्रस्य च प्रतीघाते-विबन्धे सति, वरणादिभिः क्वाथं परिषेकावगाहयोरुष्णं सस्नेहं प्रयोजयेत्| अथवा, क्षीरं वातनाशनम्| बलातैलदिकं तैलं वा परिषेकावगाहयोः प्रयोजयेत्| अन्नं च यवादिकं शकृद्विबन्धघ्नं तथा स्नेहान् वातघ्नान् दीपनांश्च प्रयोजयेत्|

Adhikarana dAhAyonyArshasAM secanavidhiH dAhAyonyArshasAM stailam dAhAyonyArshasAM kShArakarmakaraM svedaH (14-17) · Śloka 17

| अथाप्रयोज्यदाहस्य निर्गतान् कफवातजान्||१४|| सस्तम्भकण्डूरुक्शोफानभ्यज्य गुदकीलकान्| बिल्वमूलाग्निकक्षारकुष्ठैः सिद्धेन सेचयेत्||१५|| तैलेनाहिबिडालोष्त्रवराहवसयाऽथवा| |कासीसं सैन्धवं रास्ना शुण्ठी कुष्ठं च लाङ्गली| शिलाभ्रकाश्वमारं च जन्तुहृद्दन्तिचित्रकौ||१|| हरितालं तथा स्वर्णक्षीरी तैश्च पचेत्समैः| तैलं सुधार्कपयसी गवां मूत्रे चतुर्गुणे||२|| एतदभ्यङ्गतोऽर्शांसि क्षारवत्पातयेद्द्रुतम्| क्षारकर्मकरं ह्येतन्न च दूषयते वलिम्||३|| ] स्वेदयेदनु पिण्डेन द्रवस्वेदेन वा पुनः||१६|| सक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा| रास्नाया हपुषाया वा पिण्डैर्वा कार्ष्ण्यगन्धिकैः||१७||

🔊 Audio coming soon

स०-न प्रयोज्यो-निषिद्धो, दाहो यस्यासावप्रयोज्यदाहो,-दाहानर्हः, तस्य, निर्गतान्-बहिर्भूतान्, तथा कफवातजान् गुदकीलकान्-अर्शांसि, अभ्यज्य बिल्वादिसिद्धेन तैलेन सेचयेत्| किम्भूतान् ? सस्तम्भकण्डूरुक्शोफान्, एवंभूतान्-नान्यलक्षणान्| अथवा, बुझङ्गादिवसया सेचयेत्| अनुसेकाभ्यङ्गाभ्यां पश्चात्, पिण्डेन-पिण्डस्वेदेन, स्वेदयेत्| पिण्डस्वेदो मुनिनोक्तः| यथा (च. सू. अ. १४/२५)- "तिलमाषकुलत्थान्नघृततैलामिषौदनैः| पायसैः कृशरैर्मांसैः पिण्डस्वेदान् प्रयोजयेत्||" इति योज्यम्| अथवा, द्रवस्वेदेन-स्वेदविध्युक्तेन, स्वेदयेत्| पुनः शब्दोऽत्र लौकिक्या उक्त्या प्रयुक्तः| यथा-"इदं सारमिदं पुनरसारम्" इति| पिण्डस्वेदेनाथवा सक्तूनां तैलसर्पिषा स्निग्धानां पिण्डिकाभिः स्वेदयेत्| अथवा, रास्नाया हपुषाया वा पिण्डैः कार्श्ण्यगन्धिकर्वा स्वेदयेत्| तैलसर्पिषा स्निग्धैरित्यत्रानुवर्तनीयम्| कृष्णगन्धाया इमे कार्ष्ण्यगन्धिकास्तैः| अध्यात्मादित्वाठ्ठञ्|

Adhikarana dAhAyonyArshasAM dhUpanam (18-19) · Śloka 19

अर्कमूलं शमीपत्रं नृकेशाः सर्पकञ्चुकम्| मार्जारचर्म सर्पिश्च धूपनं हितमर्शसाम्||१८|| तथाऽश्वगन्धा सुरसा बृहती पिप्पली घृतम्| |१९|

🔊 Audio coming soon

स०-अर्कमूलदि चर्मसर्पिरन्तं धूपनं हितम्| तथा, अश्वगन्धादिकं पृथगेव धूपनं हितम्|

Adhikarana dAhAyonyArshasAM gudajashAtanI vartiH (19-20) · Śloka 20

| धान्याम्लपिष्टैर्जीमूतबीजैस्तज्जालकं मृदु||१९|| लेपितं छायया शुष्कं वर्तिर्गुदजशातनी| |२०|

🔊 Audio coming soon

स०-काञ्जिकेन पिष्टैर्जीमूतस्य-इक्ष्वाकोः, बीजैस्तथा तस्य जीमूतफलस्य, जालकं तज्जालकं-जालकाकरं(रः)फलवहिर्भागो, मृदु-अकर्कशं, लेपितं छायाशुष्कमित्येषा वर्तिर्गुदजशातनी|

Adhikarana dAhAyonyArshasAM gudajashA anyA vartiH (20-21) · Śloka 21

| सजालमूलजीमूतलेहे वा क्षारसंयुते||२०|| गुञ्जासूरणकूष्माण्डबीजैर्वर्तिस्तथागुणा| |२१|

🔊 Audio coming soon

स०-सजालमूलजीमूतेन कृतो यो लेहस्तस्मिल्लेहे क्षारसंयुते कृते सति गुञ्जादिबीजैः कृत वर्तिस्तथागुणा-गुदजशातनी|

Adhikarana dAhAyonyArshasAM gudajashAtanA lepaH (21-26) · Śloka 26

स्नुक्क्षीरार्द्रनिशालेपस्तथा, गोमूत्रकल्कितैः||२१|| कृकवाकुशकृत्कृष्णानिशागुञ्जाफलैस्तथा| स्नुक्क्षीरपिष्टैः षड्ग्रन्थाहलिनीवारणास्थिभिः||२२|| कुलीरशृङ्गिविजयाकुष्ठारुष्करतुत्थकैः| शिग्रुमूलकजैर्बीजैः पत्रैरश्वघ्ननिम्बजैः||२३|| पीलुमूलेन बिल्वेन हिङ्गुना च समन्वितैः| कुष्ठं शिरीषबीजानि पिप्पल्यः सैन्धवं गुडः||२४|| अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम्| आर्कं पयः सुधाकाण्डम् कटुकालाबुपल्लवाः||२५|| करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम्| आनुवासनिकैर्लेपः पिप्पल्याद्यैश्च पूजितः||२६||

🔊 Audio coming soon

स०-स्नुक्षीरेणार्द्रा-आर्द्रीकृता, निशा-हरिद्रा, तया लेपः स्नुक्क्षीरार्द्रनिशालेपः| तथा-पूर्वगुणः| गोमूत्रेण कल्कितैः-पिष्टैः, कुक्कुटशकृदादिभिर्लेपः पूर्वगुणः| स०-सुधाक्षीरपिष्टैः षड्ग्रन्थादिभिर्लेपो हितः| पीलम्लेन बिल्वेन हिङ्गुना च युक्तैर्लेपो हितः| स०-कुष्टदित्रिफलान्तं प्रलेपनं पूर्वगुणम्| स०-अर्कक्षीरादिबस्तमूत्रान्तं प्रलेपनमर्शसां ष्रेष्ठं स्यात्| स०-आनुवासनिकैरिति अनुवासने भवान्यनुवासनिकानि, अध्यात्मादित्वात् ठञ्| तैर्द्रव्यैः "पिप्पलीं मदनं" (श्लो ८९) इत्यादिभिर्वक्ष्यमाणैर्लेपोऽर्शःसु पूजितः|

Adhikarana dAhAyonyArshasAM gudajashAtanA tailAni (27) · Śloka 27

एभिरेवौषधैः कुर्यात्तैलान्यभ्यञ्जनाय च| |२७|

🔊 Audio coming soon

स०-एभिरेव पूर्वोक्तैर्लेपनद्रव्यैरभ्यञ्जनानि तैलानि च कुर्यात्|

Adhikarana dAhAyonyArshasAM dhUpanAdiBirduShTarUdhirasrAvaH (27-28) · Śloka 28

| धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कराः||२७|| सञ्चितं दुष्टरुधिरं, ततः सम्पद्यते सुख़ी| |२८|

🔊 Audio coming soon

स०-धूपनादिभिर्गुदाङ्कुराः सञ्चितं दुष्टं रुधिरं प्रस्रवन्ति| ततः-तेन स्रुतेन, सुखी रुजाविरहात् सम्पद्यते|

Adhikarana dAhAyonyArshasAM jalaukAdiBiH (28-29) · Śloka 29

| अवर्तमानमुच्छूनकठिनेभ्यो हरेदसृक्||२८|| अर्शोभ्यो जलजाशस्त्रसूचीकूर्चैः पुनः पुनः| |२९|

🔊 Audio coming soon

स०-अर्शोभ्य उच्छूनकठिनेभ्यो रुधिरमवर्तमानं जलौकशस्त्रादिभिरसकृद्धरेत्| शीतोष्णादिरुपक्रमः कस्मादत्र न क्रियते ? इत्याह-

Adhikarana dAhAyonyArshasAM duShTaraktAvasecane kAraNam (29-30) · Śloka 30

| शीष्णस्निग्धरूक्षैर्हि न व्याधिरुपशाम्यति||२९|| रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्| |३०|

🔊 Audio coming soon

स०-यस्मात् शीतादिभिरुपक्रमैरुपक्रान्तोऽर्शोव्याधिर्न शाम्यति रक्ते दुष्टे सति, तस्माद्धेतो रक्तमेवावसेचयेत्-न तु शीतादिर्योज्यः|

Adhikarana arshonAshakaM takram (30-31) · Śloka 31

| यो जातो गोरसः क्षीराद्वह्निचूर्णावचूर्णितात्||३०|| पिबंस्तमेव तेनैव भुञ्जानो गुदजान् जयेत्| |३१|

🔊 Audio coming soon

स०-यो गोरसः क्षीराज्जातः-उत्पन्नः| किम्भुतात् ? वह्निचूर्णावचूर्णितात्-चित्रकचूर्णावकीर्णात्| तमेव-गोरसं, पिबन्नरस्तेनैव च-गोरसेन, भुञ्जानो गुदजान् जयेत्| 'बहुमूलावचूर्णितात्' इति क्व(के)चित् पठन्ति| बहुमूला-शतावरी|

Adhikarana arshonAshakaM cUrNam (31-32) · Śloka 32

कोविदारस्य मूलानां मथितेन रजः पिबन्||३१|| अश्वन् जीर्णे च पथ्यानि मुच्यते हतनामभिः|३२|

🔊 Audio coming soon

स०-कोविदारमूलचूर्णं मथितेन पिबन् जीर्णे च तस्मिन् पथ्यान्यश्र्नन् दुर्नामभिर्मुच्यते-नश्यन्ति तान्यस्येत्यर्थः|

Adhikarana gugashvayathushUtai hiDgvAdi gugashvayathushUtai guDaharItakI gugashvayathushUtai pathyAdicUrNam gugashvayathushUtai kali~ggAdicUrNam gugashvayathushUtai tripaTvAdi cUrNam (32-34) · Śloka 34

| गुदश्वयथुशूलार्थो मन्दाग्निर्गौल्मिकान् पिबेत्||३२|| हिङ्ग्वादीननुतक्रं वा ख़ादेङ्गुडहरीतकीम्| तक्रेण वा पिबेत्पथ्यावेल्लाग्निकुटजत्वचः||३३|| कलिङ्गमगधाज्योतिःसूरणान् वांऽशवर्धितान्| कोष्णाम्बुना वा त्रिपटुव्योषहिङ्ग्वम्लवेतसम्||३४||

🔊 Audio coming soon

स०-गुदे श्वयथुशूलार्थो मन्दाग्निर्नरो गौल्मिकान्-गुल्मचिकित्साभवान्, हिङ्ग्वादीन् चूर्णान् (हृ. चि. अ. १४१३९) पिबेत्| इह द्रवानिर्देशादनन्तरं च मथितशब्दश्रवणात् अर्शोविकारे च हिङ्ग्वादीन् चूर्णान् तक्रेण वा पिबेदिति योज्यम्| अनुतक्रं वा-तक्ऱनुपानात्, गुडहरीतकीं भक्षयेत्| अथवा, पथ्यादींस्तक्रेण पिबेत्| अथवा, कलिङ्गादीन् अंशवर्धितान् मूलद्रव्यापेक्षया भागेन यथोत्तरं वर्धितान्, तक्रेण पिबेत्| ज्योतिः-चित्रकः| अथवा, उष्णजलेन त्रिपट्वादि पिबेत्|

Adhikarana gudashvayathushUlArte takratarpaNam gudashvayathushUlArte hapuShAdi cUrNam gudashvayathushUlArte pIluPalAni gudashvayathushUlArte nirannena takrapAnam (35-37) · Śloka 37

युक्तं बिल्वकपित्थाभ्यां महौषधबिडेन वा| अरुष्करैर्यवान्या वा प्रदद्यात्तक्रतर्पणम्||३५|| दद्याद्वा हपुषाहिङ्गुचित्रकं तक्रसंयुतम्| मासं तक्रानुपानानि ख़ादेत्पीलुफलानि वा||३६|| पिबेदहरहस्तक्रं निरन्नो वा प्रकामतः| |३७|

🔊 Audio coming soon

स०-तक्रेण तर्पणं-यवसक्तून्, दद्यात्| किम्भूतम् ? बिल्वकपित्थाभ्यां युक्तमथवा महौषधबिडेन युक्तं भल्लातकैर्वा युक्तमथवा यवान्या वा युक्तं प्रदद्यात्| तक्रतर्पणमेव बिल्वादिभिर्यथोक्तैः सह भुञ्जीत| नान्यत्किञ्चिदिति सूचयितुं प्रशब्दोऽत्र न्यस्तः| अथवा, हपुषादिकं तक्रान्वितं दद्यात्| मासं पीलुफलानि तक्रानुपानानि वा खादेत्| अथवा, इच्छयाऽहरहरनन्नाशी तक्रं पिबेत्|

Adhikarana atyarthaM mandAgnau takropacAra eva (37) · Śloka 37

| अत्यर्थं मन्दकायाग्नेस्तक्रमेवावचारयेत्||३७||

🔊 Audio coming soon

स०-अत्यर्थं मन्दकायाग्नेर्नरस्य सायं प्रातर्वा तक्रमेवावचारयेद्वैद्यो-नत्वन्नम्, अत एवैवकारोऽत्र निर्दिष्टः|

Adhikarana takropacArakAlaH ashaktau avalehikA peyA ca ataH paraM shAlyannam (38-40) · Śloka 40

सप्ताहं वा दशाहं वा मासार्धं मासमेव वा| बलकालविकारज्ञो भिषक् तक्रं प्रयोजयेत्||३८|| सायं वा लाजसक्तूनां दद्यात्तक्रावलेहिकाम्| जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवम्||३९|| तक्रानुपानं सस्नेहं तक्रौदनमतः परम्| यूशै रसैर्वा तक्राड्यैः शालीन् भुञ्जीत मात्रया||४०||

🔊 Audio coming soon

स०-सप्ताहं दशाहं मासार्धं मासं वा यावत् बलादिविद्वैद्यो मथितं योजयेत्| अथवा, केवलेन तक्रेणाशितुमशक्तस्तदा सायं-दिनान्ते, लाजसक्तूनां सम्बन्धिनीं तक्रावलेहिकां दद्यात्| अथवा, तक्रे जीर्णे तक्रसिद्धां पेयां सैन्धवान्वितां दद्यात्| सैन्धवशब्दस्यान्ते श्रुतत्वादुभयोरप्यवलेहिकापेययोः सैन्धवेनयोगो वेद्यः| अतः परं-अवलेहिकापेयातोऽनन्तरं, तक्रेण सहौदनमीषत्स्नेहं तक्रानुपनं दद्यात्| अथवा, यूषै रसैर्वा तक्रभूयिष्ठैः शालीन् मात्रया भुञ्जीत| कार्ये भक्तादौ कारणत्वेनोपचारात् शालीन्-भक्तत्वेन परिणतान्, दद्यादिति वेद्यम्| सर्वथाऽत्र तक्रप्रयोगः प्रायेण पूजित इत्यत एवाह-

Adhikarana takraprakArAH (41) · Śloka 41

रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्| तक्रं दोषाग्निबलवित्रिविस्त्रिविधं तत्प्रयोजयेत्||४१||

🔊 Audio coming soon

स०-यथायोगं कदाचिद्रूक्षं-निःशेषमुद्धृतस्नेहं, अथवाऽर्धोद्धृतस्नेहं, कदाचिदनुद्धृतं यस्माद्धृतम्, कारणे नवनीते कार्योपचारादेवमुक्तम्, तत्-एतत्रिविधिं, तक्रं दोषादिवित् प्रयोजयेत्| तक्रप्रयोगे कृते को गुणः ? इत्याह-

Adhikarana takraprayoge guNAH (42) · Śloka 42

न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः| निषिक्तं तद्धि दहति भूमावपि तृणोलुपम्||४२||

🔊 Audio coming soon

स०-तक्रेण समाहताः-उन्मूलिताः, गुदजाः पुनर्न प्ररोहन्ति, समूला नश्यन्तीत्यर्थः| कथमेतदवगम्यते ? इत्याशङ्क्याह-हि-यस्मात्, तत्-तक्रं, भूमावपि निषिक्तं तृणोलुपं विशेषेण दहत्यपुनरुत्पादनात्| भूमावपीत्यपिशब्दो न केवलं शरीरे, बाह्यायामपि भुवीति सन्दर्शनार्थः| सृणोलुपं कठिनं यद्दहति तदवश्यमर्शासि मृदूनि मांसप्रायाणि दहत्येव|

Adhikarana tatropapattiH (43-45) · Śloka 45

स्रोतःसु तक्रशुद्धेषु रसो धातूनुपैति यः| तेन पुष्टिर्बलं वर्णः परं तुष्टिश्च जायते||४३|| वातश्लेष्मविकाराणां शतं च विनिवर्तते| |४५|

🔊 Audio coming soon

स०-वातश्लेष्मावृतेषु स्रोतःसु तक्रेण शुद्धेषु सत्सु यो रसः-आहाररसो, धातून् उपैति-सम्प्राप्नोति, तेन-रसेन प्राप्तेन, पुष्ट्यादयो जायन्ते| तथा, वातश्लेष्मविकाराणां शतं विनिवर्तते-शाम्यति|

Adhikarana mathitavisheShapAne~arshaHkShayaH (44-45) · Śloka 45

| मथितं भाजने क्षुद्रबृहतीफललेपिते||४४|| निशां पर्युषितं पेयमिच्छद्भिर्गुदजक्षयम्| |४५|

🔊 Audio coming soon

स०-कण्टकारिकाफललेपिते भाजने मथितं निशां स्थित गुदजक्षयमिच्छुभिः पेयम्|

Adhikarana takrAriShTam (45-48) · Śloka 48

| धान्योपकुञ्चिकाजाजीहपुषापिप्पलीद्वयैः||४५|| कारवीग्रन्थिकशठीयवान्यग्नियवानकैः| चूर्णितैर्घृतपात्रस्थं नात्यम्लं तक्रमासुतम्||४६|| तक्रारिष्टं पिबेज्जातं व्यक्ताम्लकटु कामितः| दीपनं रोचनं वर्ण्यंकफवातानुलोमनम्||४७|| गुदश्वयथुकण्ड्वर्तिनाशनं बलवर्धनम्| |४८|

🔊 Audio coming soon

स०-धान्योपकुञ्चिकादिभिश्चूर्णितैर्घृतपात्रस्थं नात्यम्लं तक्रमासुतं कृत्वाऽनन्तरं व्यक्तावम्लकटू यस्य तद् व्यक्ताम्लकटु, जातं सत्तक्रारिष्टं कामतः पिबेत्| तच्च पीतं दीपनादिगुणं स्यात्| अत्र च तक्रे पलशतमात्रे धान्यकादीनि पालिकानि देयानीति वृद्धवैद्यव्यवहारः|

Adhikarana kumBavisheShe jAtaM takramarshauharam (48-49) · Śloka 49

| त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्||४८|| तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्| |४९|

🔊 Audio coming soon

स०-चित्रकमूलस्य त्वचं जलेन पिष्ट्वा कुम्भं प्रलेपयेत्| तक्रं तत्र जातमथवा दधि जातमर्शोहरं पिबेत्|

Adhikarana BArgyAdiShvapyeSha vidhiH (49) · Śloka 49

| भार्ङ्ग्यास्फोतामृतापञ्चकोलेष्वप्येष संविधिः||४९||

🔊 Audio coming soon

स०-भार्ङ्ग्यादिष्वप्येष संविधिः-एतत्त्वगादिभाजनलेपनादिकं कार्यमित्यर्थः

Adhikarana gajakaNAdiBiH saMskRutAH PalAmlAdayo dIpanAH (50-51) · Śloka 51

पिष्टैर्गजकणापाठाकारवीपञ्चकोलकैः| तुम्बर्वजाजीधनिकाबिल्वमध्यैश्च कल्पयेत्||५०|| फलाम्लान् यमकस्नेहान् पेयायूषरसादिकान्| एभिरेवौषधैः साध्यं वारि सर्पिश्च दीपनम्||५१||

🔊 Audio coming soon

स०-हस्तिपिप्पल्यादिभिः पिष्टैः-कल्कितैः, तथा फलः-बीजपूरादिभिः, अम्लान् यमकस्नेहांस्तथा पेयादिकान् कुर्यात्| एभिरेव-हस्तिपिप्पल्यादिभिः, वारि साध्यं-श्रपणीयम्, सर्पिश्च साध्यम्, तच्च द्वयं वह्नेर्दीपनं स्यात्|

Adhikarana bhinnashakRutAmayaM kramaH (52) · Śloka 52

क्रमोऽयं भिन्नशकृतां| |५२|

🔊 Audio coming soon

स०-अयं-पूर्वोक्तः, क्रमो भिन्नशकृताम्|

Adhikarana kaThinapurIShANAM kramo vakShayamANaH (52) · Śloka 52

वक्ष्यते गाढवर्चसाम्| |५२|

🔊 Audio coming soon

स०-कठिनपुरीषाणां तु वक्ष्यते-भणिष्यते| तमेवाह-

Adhikarana kaThina salavaNAvArUNIpAnamkaThina salavaNallavaBakShaNam (52-53) · Śloka 53

| स्नेहाड्यैः सक्तुभिर्युक्तां लवणां वारुणीं पिबेत्||५२|| लवणा एव वा तक्रसीधुधान्याम्लवारुणीः| |५३|

🔊 Audio coming soon

स०-स्नेहाड्यैः-बहुस्नेहसम्पृक्तैः, सक्तुभिर्युक्तां लवणां वारुणीं पिबेत्| तक्रादीन् वा लवणान् पृथक् पृथक् यथायोगं पिबेत्| एवशब्दोऽत्र केवलानेवैतान् सक्तुरहितान् पिबेदिति द्योतयति|

Adhikarana kaThinakara~jjapallavaBakShaNam (53-54) · Śloka 54

| प्राग्भक्तान् यमके भृष्टान् सक्तुभिश्चावचूर्णितान्||५३|| करञ्जपल्लवान् ख़ादेद्वातवर्चोनुलोमनान्| |५४|

🔊 Audio coming soon

स०-तथा, करञ्जपल्लवान् भक्षयेत्| किम्भूतान् ? प्राग्भक्तान्,- भक्तात् प्राक्, मयूरव्यंसकादित्वात्समासः, करञ्जपल्लवान् भुक्त्व्यमित्यर्थः| किम्भूतान्? यमकेस्नेहद्वये, भृष्टान्-पक्वान्, तथा सक्तुभिः सुष्टु चूर्णितान् तांश्च भुक्त्वा वातवर्चोनुलोमनान्|

Adhikarana kaThinapurIShANAM saguDanAgarAdiyogaH (54-55) · Śloka 55

| सगुडं नागरं पाठां गुडक्षारघृतानि वा||५४|| गोमूत्राध्युषितामद्यात्सगुडां वा हरीतकीम्| |५५|

🔊 Audio coming soon

स०-तथा, गुडेन सह शुण्ठीं पाठां वाऽश्नीयात्| अथवा, गुडयवक्षारसर्पीष्यद्यात्| गुडेन वा सह हरीतकीमद्यात्| किम्भूताम् ? गोमूत्रेऽध्युषिताम्|

Adhikarana kaThinapurIShANAM pathyAshatadvayayogAH (55-57) · Śloka 57

| पथ्याशतद्वयान्मूत्रद्रोणेनामूत्रसङ्क्ष्यात्||५५|| पक्वात् ख़ादेत्समधुनी द्वे द्वे हन्ति कफोद्भवान्| दुर्नामकुष्ठश्वयथुगुल्ममेहोदरकृमीन्||५६|| ग्रन्थ्यर्बुदापचीस्थौल्यपाण्डुरोगाड्यमारुतान्| |५७|

🔊 Audio coming soon

सं-पथ्यानां शतद्वयं पथ्याशतद्वयम्, तस्माद्गोमूत्रद्रोणेन मूत्रसङ्क्ष्यं यावत्-मूत्रक्षयावधि, पक्वात् द्वे द्वे-पथ्याख़्ये फले, ख़ादेत्| किम्भूते ? समधुनी-माक्षिकयुक्ते| पथ्याशतद्वयं चोपयुक्तं कफोद्Vअवानामयान् दुर्नामादीन् हन्ति|

Adhikarana kaThinapurIShANAM ajashRu~ggImUlakalkayogaH (57-58) · Śloka 58

| अजशृङ्गीजटाकल्कमजामूत्रेण यः पिबेत्||५७|| गुडवार्ताकभुक् तस्य नश्यन्त्याशु गुदाङ्कुराः| |५८|

🔊 Audio coming soon

स०-अजशृङ्गीमूलकल्कं यः पुरुषोऽजमूत्रेण पिबेत्| किम्भूतः ? गुडवार्ताकभुक्-एतदाहारः, तस्य-पुरुषस्य, द्राक् दुर्नामानि नश्यन्ति|

Adhikarana kaThinapurIShANAM pathyAtakrayogaH kaThinapurIShANAM pathyApippalIyogaH kaThinapurIShANAM pathyAtrivRuddantIyogaH (58-60) · Śloka 60

| श्रेष्ठारसेन त्रिवृतां पथ्यां तक्रेण वा सह||५८|| पथ्यां वा पिप्पलीयुक्तां घृतभृष्टां गुडान्विताम्| अथवा सत्रिवृद्दन्तीं भक्षयेदनुलोमनीम्||५९|| हते गुदाश्रये दोषे गुदजा यान्ति सङ्क्ष्यम्| |६०|

🔊 Audio coming soon

स०-श्रेष्ठारसेन-त्रिफलाक्वाथेन, त्रिवृतामद्यात्| अभयां वा तक्रेण सहाद्यात्| पथ्यां वा पिप्पलीयुक्तां घृतभृष्टां गुडयुक्तां भुञ्जीत| अथवा पथ्यां त्रिवृद्दन्तीभ्यां सहानुलोमकृतां भक्षयेत्| गुदाश्रये दोषे हते सति गुदजाः सङ्क्षयं य़ान्ति, आश्रयाभाव आश्रितानुपपत्तेः| तस्मदनुलोमनमर्शःसु हितमित्यर्थः|

Adhikarana kaThinapurIShANAM dADimasvarasAditakrayogaH pAThAtakrayogaH kaThinapurIShANAM citrakashuNThIsIdhuyogaHkaThinapurIShANAM hapuShAdi surAyogaH (60-62) · Śloka 62

| दाडिमस्वरसाजाजीयवानीगुडनागरैः||६०|| पाठया वा युतं तक्रं वातवर्चोनुलोमनम्| सिधुं वा गौडमथवा सचित्रकमहौषधम्||६१|| पिबेत्सुरां वा हपुषापाठासौवर्चलान्विताम्| |६२|

🔊 Audio coming soon

स०-दाडिमादिभिर्युक्तं तक्रं पाठया वातवर्चोनुलोमनं स्याट्| अथवा, सीधुं चित्रकशुण्ठीयुतं पिबेत्| गौडं वा चित्रकशुण्ठीयुतं पिबेत्| अथवा, सुरां हपुषादियुक्तां पिबेत्|

Adhikarana kaThinapurIShANAM vardhamAnapippalItilakShIrayogaH (62-63) · Śloka 63

| दशादिदशकैर्वृद्धाः पिप्पलीर्द्विपिचुं तिलान्||६२|| पीत्वा क्षीरेण लभते बलं देहहुताशयोः| |६३|

🔊 Audio coming soon

स०-दशादिदशकैर्वृद्धाः पिप्पलीस्तथा तिलान् द्विपिचुं पीत्वा देहस्य वह्नेश्च बलं प्राप्नोति| दशपिप्पल्य आदि-प्रथमं दिनं, येषां दशकानां त एवम्| दशदयश्च ते दशकाश्च दशादिदशकाः, तैर्वृद्धाः| प्रथमे दिने दशपिप्पलीस्तिलकर्षद्वयं च क्षीरेण पेयाः, अनन्तरं प्रतिदिनं दशदश पिप्पलीः पिप्पलीवर्धमान्यायेन वृद्धति(द्धास्ति)लकर्षद्वयेन सह क्षीरेण पीत्वा देहस्याग्नेश्च बलं लभते| अत्र कालस्यानिर्दिष्टत्वाद्देहाग्नयोर्बलमिच्छता यथेष्टकालः प्रयोगः कार्यः| क्षीरस्य चात्र प्रमाणानुक्तेः सामान्यपरिभाषया "पेष्यस्य कर्षमालोड्यं तद्द्रवस्य पलत्रये|" (हृ.क.अ.६/१३) इति परिमाणं कल्प्यम्|

Adhikarana kaThinapurIShANAM duHsparshakAdipAThAyogaH (63-64) · Śloka 64

| दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा||६३|| एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्| |६४|

🔊 Audio coming soon

स०-धन्वयवासकेन बिल्वेन यवान्या शुण्ठ्या वैकैकेनाप्येवं पाठा युक्ता दुर्नाम्रां रुजं हन्ति| एकैकेनापीत्यपिशब्दात् द्वाभ्यां त्रिभिश्चतुर्भिश्च| एकैकेनेत्येकशब्दस्य "एकं बहुव्रीहिवत्" इति द्वित्वबहुव्रीहिवद्भावात्सुपो लुक्|

Adhikarana kaThinapurIShANAM aBayAriShTaH (64-68) · Śloka 68

| सलिलस्य वहे पक्त्वा प्रस्थार्धमभयात्वचाम्||६४|| प्रस्थं धात्र्या दशपलं कपित्थानां ततोऽर्धतः| विशालां रोध्रमरिचकृष्णावेल्लैलवालुकम्||६५|| द्विपलांशं पृथ्कपादशेषे पूते गुडात्तुले| दत्त्वा प्रस्थं च धातक्याः स्थापयेद्धृतभाजने||६६|| पक्षात्स शीलितोऽरिष्टः करोत्यग्निं, निहन्ति च| गुदजग्रहणीपाण्डुकुष्ठोदरगरज्वरान्||६७|| श्वयथुप्लीहहृद्रोगगुल्मयक्ष्मवमिकृमीन्| |६८|

🔊 Audio coming soon

स०-सलिलस्य वहे-द्रोणचतुष्टये, पक्त्वा हरीतकीत्वचां प्रस्थार्धं-अष्टपलानि, आमलकदलानां प्रस्थं, कपित्थस्य पलानिदश, ततः-कपित्थात्, अर्धेन विशालं पञ्चपलां, रोध्राधिकं द्विपलांशं पृथक्पृथगेतत्सर्वं पक्त्वा तस्मिन् पादशेषे-द्रोणशेषे, पूते गालिते चास्मिन् गुडात्तुले द्वे दत्त्वा धातक्याः प्रस्थं च ततो घृतरूढे भाजने स्थापयेत्| पक्षादूर्ध्वं शीलितः सः-अभयारिष्टसंज्ञः, अग्निं करोति-दीपयति, गुदजादींश्च हन्ति|

Adhikarana kaThinapurIShANAM dhanvAriShTaH (68-69) · Śloka 69

| जलद्रोणे पचेद्दन्तीदशमूलवराग्निकान्||६८|| पालिकान् पादशेषे तु क्षिपेङ्गुडतुलां परम्| पूर्ववत्सर्वमस्य स्यादनुलोमितरस्त्वयम्||६९||

🔊 Audio coming soon

स०-जलस्य द्रोणे दन्त्यादीन् प्रत्येकं पालिकान् पचेत्| पादशेषे चास्मिन् गुडात्तुलां क्षिपेत्| परं-अन्यत्, सर्वमस्य-दन्त्यरिष्टस्य, पूर्ववत्-अभयारिष्टतुल्यं धातकीपरिमाणघृतभाजनस्थापनपक्षोत्तरकालपानादि, स्यात्| आनुलोमीत्यादि| आनुलोमीवातविबन्धनुत् अभयारिष्टः| आयं पुनस्ततोऽप्यानुलोमितरः|

Adhikarana kaThinapurIShANAM durAlaBAriShTaH (70-71) · Śloka 71

पचेहुरालभाप्रस्थं द्रोणेऽपां प्रासृतैः सह| दन्तीपाठाग्निविजयावासामलकनागरैः||७०|| तस्मिन् सिताशतं दद्यात्पादस्थेऽन्यच्च पूर्ववत्| लिम्पेत्कुम्भं तु फलिनीकृष्णाचव्याज्यमाक्षिकैः||७१||

🔊 Audio coming soon

सं-अपां द्रोणे धन्वयासप्रस्थं दन्त्यादिभिः द्विपलिकैः सह पचेत्| तस्मिन्-पादस्थे क्वाथे, सितायाः शतं क्षिपेत्| अन्यत्-धातकीपरिमाणादिकं, पूर्ववत्-अभयारिष्टवत्, कार्यम्| लिम्पेदित्यादि| तुर्विशेषे| विशेषस्तु फलिन्यादिभिः कुम्भं लिम्पेत्, यत्रायं निक्षिप्यते दुरालभारिष्ट इति|

Adhikarana kaThinapurIShANAM PalAmlAdighRutam (72-73) · Śloka 73

प्राग्भक्तमानुलोम्याय फलाम्लं वा पिबेद्धृतम्| चव्यचित्रकसिद्धं वा यवक्षारगुडान्वितम्||७२|| पिप्पलीमूलसिद्धं वा सगुडक्षारनागरम्| |७३|

🔊 Audio coming soon

स०-प्राग्भक्तं-भक्तात् पूर्वं, घृतं फलैः-मातुलुङ्गादिभिरनुलोमनप्रायैः, अम्लं तैः पक्वं पिबेत्| चव्यचित्रकाभ्यां सिद्धं पक्वं यवक्षारगुडाभ्यां युक्तं घृतं पिबेत्| अथवा, पिप्पलीमूलसिद्धं गुडयवक्षारनागरसहितं पिबेत्|

Adhikarana kaThinapurIShANAM pippalyAdighRutam (73-74) · Śloka 74

| पिप्पलीपिप्पलीमूलधानकादाडिमैर्घृतम्||७३|| दघ्ना च साधितं वातशकृन्मूत्रविबन्धनुत्| |७४|

🔊 Audio coming soon

स०-पिप्पल्यादिभिर्दधिसहितैः साधितं घृतं वातशकृन्मूत्रविबन्धजित्|

Adhikarana kaThinapurIShANAM palAshakShArAdighRutam (74-75) · Śloka 75

| पलाशक्षारतोयेन त्रिगुणेन पचेद्धृतम्||७४|| वत्सकादिप्रतीवापमर्शोघ्नं दीपनं परम्| |७५|

🔊 Audio coming soon

स०-पलाशक्षारस्य जलेन त्रिगुणेन वत्सकादिप्रतीवापं घृतं पचेत्| तच्चार्शोघ्नं परं दीपनं च|

Adhikarana pa~jcakolAdighRutam (75-77) · Śloka 77

| पञ्चकोलाभयाक्षारयवानीबिडसैन्धवैः||७५|| सपाठाधान्यमरिचैः सविल्वैर्दधिमद्धृतम्| साधयेत् तज्जयत्याशु गुदवङ्क्ष्णवेदनाम्||७६|| प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्| |७७|

🔊 Audio coming soon

स०-पञ्चकोलादिभिर्दधिसहितं घृतं पचेत्| तच्च गुदादि वेदनादीन् जयति|

Adhikarana kaThinapurIShANAM cA~ggerIghRutam (77-79) · Śloka 79

| पाठाजमोदधनिकाश्वदंष्त्रापञ्चकोलकैः||७७|| सविल्वैर्दनि चाङ्गेरीस्वरसे च चतुर्गुणे| हन्त्याज्यं सिद्धमानाहं मूत्रकृच्छ्रं प्रवाहिकाम्||७८|| गुदभ्रंशार्तिगुदजग्रहणीगदमारुतान्| |७९|

🔊 Audio coming soon

स०-पाठादिभिश्चाङ्गेरीस्वरसे दघ्नि च चतुर्गुणे घृतं पक्वं चाङ्गेरीघृतम्| एतदानाहादीन् हन्ति|

Adhikarana kaThinapurIShANAM shikhitittiryAdimAM sarasAH (79-80) · Śloka 80

| शिख़ितित्तिरिलावानां रसानम्लान् सुसंस्कृतान्||७९|| दक्षाणां वर्तकानां वा दद्याद्विङ्वातसङ्ग्रहे| |८०|

🔊 Audio coming soon

सं-मय़ुरतित्तिर्यादीनां सुसम्स्कृतानम्लान् मांसरसान् विड्वातसङ्ग्रहनिवृत्त्यर्थं दद्यात्|

Adhikarana kaThinapurIShANAM vAstukAdi shAkam kaThinapurIShANAM raktashAlyannam kaThinapurIShANAM vya~jjanaM mAMsarasASca (80-85) · Śloka 85

| वस्तुकाग्नित्रिवृद्दन्तीपाठाम्लीकादिपल्लवान्||८०|| अन्यच्च कफवातघ्नं शाकं च लघुमेदि च| सहिङ्गं यमके भृष्टं सिद्धं दधिसरैः सह||८१|| दह्निकापञ्चकोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना| आऱ्द्रिकायाः किसलयैः शकलैराद्रकस्य च||८२|| युक्तमङ्गारधूपेन हृद्येन सुरभीकृतम्| सजीरकं समरिचं बिडसौवर्चलोत्कटम्||८३|| वातोत्तरस्य रूक्षस्य मन्दाग्नेर्वद्धवर्चसः| कल्पयेद्रक्तशाल्यन्नव्यञ्जनं शाकवद्रसान्||८४|| गोगोधाछगरोष्ट्राणां विशेषात्क्रव्यभोजिनाम्| |८५|

🔊 Audio coming soon

स०-वास्तुकादीनांशाकं तथाऽपरमपि शाकं यत्कफवातघ्नं कोशातकादिकं, लघु मेदि च| तच्च सहिङ्गु च तथा यमके भृष्टं-सन्तलितम्| तथा, दधिसरेण ढनिकापञ्चकोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना च सिद्धम्| तथा, आर्द्रिकायाः-धनिकायाः, किसलयैः-पल्लवैः, युक्तम्| तथा, आर्द्रकस्य शकलैर्युक्तम्| तथा, हृद्येन-मनःप्रियेण, अङ्गारधूपेन-अङ्गारैर्यो धूपो हिङ्ग्वादिना प्रसिद्धस्तेन, सुरभीकृतम्| तथा, सजीरकं समरिचं बिडसौवर्चललवणाभ्यामुत्कटं-अधिकं, वातोत्तरस्य पवन्फ़ाधिकस्य पुरुषस्य, तथा रूक्षस्य तथा मन्दाग्रेस्तथा वद्धवर्चसः कल्पयेत्| रक्तशालिभक्तस्य व्यञ्जनं-तेमनाख्यं, शाकवत्कल्पयेत्-शाकसंस्कारेण कुर्यादित्यर्थः| व्यञ्जनानिति पाठे पुंस्त्वं चिन्त्यम्| तथा, रसान्| केषां रसान् ? गोगोधादीनाम्, विशेषेण क्रव्यभोजिनां-मांसभक्षिणाम्| तदेवमाहारं निरुप्य पानं निरुपयन्नाह-

Adhikarana madirAdikaM pAnam (85-87) · Śloka 87

| मदिरां शाऱ्करं गौडं सीधुं तक्रं तुषोदकम्||८५|| अरिष्टं मस्तु पानीयं, पानीयं वाऽल्पकं शृतम्| धान्येन धान्यशुण्ठीभ्यां कण्टकारिकयाऽथवा||८६|| अन्ते भक्तस्य मध्ये वा वातवर्चोनुलोमनम्| |८७|

🔊 Audio coming soon

स०-मदिरादि पानीयं-पातव्यम्| अथवा, पानीयं-जलं, अतिशयेनाल्पं-अल्पकं, शृतं यथायोगं कदाचिद्धान्येन कदाचिद्धान्यशुण्ठीभ्यां कदाचित्कण्टकारिकया शृतं कदचित्भक्तम्यान्ते कदाचिन्मध्ये, योग्यतावशाद्येषां मारुताविष्टदिरुपत्वं तेषां भक्तस्य मध्ये अन्येशान्मन्ते, मदिरादिपानं वातवर्चोनुलोमनम्,-तयोरप्रवर्तनोपारुढयार्यथामाऱ्गप्रवर्तनमित्यर्थः| वातस्यानुलोमनं च यत्तत्कफपित्तयोरप्यनुलोमनम्| पवनो हि क्रियावानक्रियावतां देहगतानां भावानामनुलोमनः सम्भाव्यते| तथा च प्रागभ्यधायि (हृ.सू.अ. १९/८६)-"विट्श्लेष्मपित्तादिमलोच्च्यानां विक्षेपसंहारकरः स यस्मात्|" इत्यादि| अर्शःसु चानुलोमनं कार्यमिति दशंयितुमाह-

Adhikarana viDvAtAdyanulomanasya Palam (87-88) · Śloka 88

| विड्वातकफपित्तानामानुलोम्ये हि निर्मले||८७|| गुदे शाम्यन्ति गुदजाः पावकश्चाभिवर्धते| |८८|

🔊 Audio coming soon

स०-यस्माद्विड्वातादीनामानुलोम्ये सति गुदं निर्मलं भवति| गुदे च निर्मले गुदजाः शाम्यन्ति| पावकः-कायाग्निश्च, अभिवर्धते यतस्तस्मादर्शसां विड्वातकफपित्तानुलोमनं भेषाजान्नपानादि यत्तद्देयमिति भावः|

Adhikarana udAvartAdiShu anuvAsanam (88-89) · Śloka 89

| उदाबर्तपरीता ये ये चात्यर्थं विरूक्षिताः||८८|| विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्| |८९|

🔊 Audio coming soon

स०-ये पुरुषा उदावर्तयुक्ता ये चातिशयेन विरुक्षितास्तथा विगुणपवनाः शूलपीडिताश्च तेष्वनुवासनमिष्टम्, तन्त्रकृतामिति शेषः| तदेवानुवासनमाह-

Adhikarana anuvAsanayogaH (89-93) · Śloka 93

| पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्||८९|| कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च| पिष्ट्वातैलं विपक्तव्यं द्विगुणक्षीरसंयुतम्||९०|| अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्| गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्||९१|| कट्यूरुपृष्ठदौर्वल्यमानाहं वङ्क्षणाश्रयम्| पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्||९२|| उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्| |९३|

🔊 Audio coming soon

स०-पिप्पल्यादीनि पिष्ट्वा जलेन तैलं द्विगुणक्षीरेण संयुक्तं पक्तव्यम्| जलस्यात्रानुक्तस्यापि चतुर्गुणोऽशः प्रकल्प्यः| एवं हि द्रव्याणि सम्यक् मुक्तरसानि स्युः| तन्त्रान्तरे चोक्तम् "स्नेहे सक्षीरमांसाद्यैः पाको यत्रेतिरः कचित्| जलं चतुर्गुणं तत्र बीजादानार्थमावपेत्|| न मुञ्चति रसं द्रव्यं क्षीरादिभिरुपस्कृतम्| सम्यक्पाकोप् न जायेत तस्मात्तोय विनिक्षिपेत्||" इति| तच्च-तैलं, विगुणपवनानामर्शसां श्रेष्ठं-हितम्| अनुवा सनाच्च तत्-तैलं, गुदनिःसारणादीन् जयेत्|

Adhikarana athavA nirUhaH (93-94) · Śloka 94

| निरुहं वा प्रयुञ्जीत सक्षीरं पाञ्चमूलिकम्||९३|| समूत्रस्नेहलवणं कल्कैर्युक्रं फलादिभिः| |९४|

🔊 Audio coming soon

स०-अथवा निरुहं पाञ्चमूलिकं समानक्षीरं मूत्रस्नेहलवणान्वितं फलादिभिः-पूर्वोक्तैः, कल्कैर्युक्तं प्रयुञ्जीत| स च पूर्वोक्तगुणः| समानं क्षीरं यस्मिन् तत्सक्षीरम्| "समानस्य छन्दसि" इति योगविभागात् सभावः| सह मूत्रस्नेहलवणैर्वर्तते समूत्रस्नेहलवणस्तम्| "वोपसर्जनस्य" इति सभावः| सहशब्दश्चेषच्छब्दार्थः| अर्शसां शुष्कार्द्रत्वेन द्वैविध्यम्| तत्र शुष्कार्शसां चिकित्सितमुक्त्वा, अधुना आर्द्राणां रक्तार्शसामाह-

Adhikarana raktArshasAM vAtakaPAnubandhe cikitsA (94-95) · Śloka 95

| अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा||९४|| अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद्धिमम्| |९५|

🔊 Audio coming soon

स०-रक्तार्शसामधिकारे पित्तस्य सर्वदाऽव्यभिचारित्वाट् कदाचिन्मारुतानुबन्धं कदाचित्कफानुबन्धं स्वलिङ्गतो वीक्ष्य उपलभ्य, स्निग्धं रूक्षं वा पानान्नौषधं योजयेत्| एतच्चोभयमपि शीतं-न तूष्णम्, पित्तस्यात्र नित्यं सन्निहितत्वात्| वातानुबन्धं वीक्ष्य स्निग्धं, कफानुबन्धं वीक्ष्य रूक्षं, चिकित्सितं योज्यम्| वातानुबन्धकफानुबन्धयोर्लक्षणमाह-

Adhikarana vAtakaPAnubandhalakShaNam (95-97) · Śloka 97

| शकृच्छयावं ख़रं रूक्षमधो निर्याति नानिलः||९५|| कट्यूरुगुदशूलं च हेतुर्यदि च रूक्षणम्| तत्रानुबन्धो वातस्य श्लेष्मणो यदि विट् श्लथा||९६|| श्वेता पीता गुरुःस्निग्धा, सपिच्छः स्तिमितो गुदः| हेतुः स्निग्धगुरुर्विद्याद्यथास्वं चास्रलक्षणात्||९७||

🔊 Audio coming soon

स०-शकृच्छ्यावादिशूलपर्यन्तं लक्षणं यदा स्यात् तत्रानुबन्धो वातस्येत्यवबोध्यम्| हेतुर्यदि रूक्षणं-रूक्षणं चेद्धेतुरासेवितः शकृच्छ्यावादिलक्षणं चोत्पन्नं तदा वातानुबन्धत्वं ज्ञेयम्| तथैव विट्श्लथादिलक्षणं स्निग्धगुरुणा च सेवितेन हेतुना सहितं श्लेष्मणोऽनुबन्धस्यानुमापकम्| अस्रस्य लक्षणाच्च-सिराव्यधविध्युक्तात् "वाताछ्छ्यावारुणं" (हृ.सू.अ.३७/४०) इत्यादिकाच्च लक्षणात्, वातस्यानुबन्धं विद्यात्| "कफात् स्निग्धं" (हृ.सू.अ. ३७/४१) इत्यादिकाल्लक्षणात् कफस्यानुबन्धं विद्यात्|

Adhikarana duShTe rakte shodhanAdi (98) · Śloka 98

दुष्टेऽस्रे शोधनं कार्यं लङ्घनं च यथाबलम्| |९८|

🔊 Audio coming soon

स०-दुष्टे-वातादिदूषिते, अस्रे यथाबलं-बलानतिक्रमेण, कदाचिल्लङ्घनं शोधनं च कार्यम्| बहुदोषस्य शोधनं, इतरस्य लङ्घनं-उपवासलक्षणं, कार्यम्|

Adhikarana raktasruterUpekShaNakAlaH (98) · Śloka 98

| यावच्च दोषैः कालुप्यं स्रुतेस्तावदुपेक्षणम्||९८||

🔊 Audio coming soon

स०-यावच्च दोषेणास्रस्य कालुष्यं-अनैर्मल्यं सामदोषदुष्टत्वात्, तावत्स्रुतेः प्रकृतत्वादस्रस्योपेक्षणं कार्यम्,-तथाभूताया रक्तस्रुतेः सङ्घ्रहणाय यत्नो न कार्य इत्यर्थः|

Adhikarana anantaraM tiktadravyopacAraH (99) · Śloka 99

दोषाणां पाचनर्थं च वह्निसन्धुक्षणाय च| सङ्ग्रहाय च रक्तस्य परं तिक्तैरुपाचरेत्||९९||

🔊 Audio coming soon

स०-कालुष्यरहिताया रक्तस्रुतेः परं-अनन्तरं, दोषाणां सामानां पक्त्यर्थ तथा वह्नेः सन्धुक्षणाय तथा रक्तस्य सङ्घ्रहणार्थं तिक्तैः-तिक्तरसाघ्रातैद्रव्यैः, तमर्शसमुपाचरेत्, इति सामान्योपक्रमो रक्तार्शोविकारशान्त्यर्थमुपदिष्टः|

Adhikarana vAtolbaNe rakte snehaH (100) · Śloka 100

यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य वा| स्नेहैस्तत्साधयेद्युक्तैः पानाभ्यञ्जनबस्तिषु||१००||

🔊 Audio coming soon

स०-यत्पुनः प्रक्षीणदोषस्य निरामयस्य रक्तं स्रवेत्, वाताधिकस्य वा पुरुषस्य यद्रक्तं स्रवेत्, तत्स्नेहैः पानादियुक्तैः-दत्तैः, चिकित्सेत्|

Adhikarana pittolbaNe rakte kaShAyAH (101) · Śloka 101

यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते| स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम्||१०१||

🔊 Audio coming soon

स०-यत्पुनः पित्तोल्बणं रक्तं ग्रीष्मतौ प्रवर्तते तदेकान्तेन-अवश्यं, स्तम्भनीयं-नोपेक्षणीयम्, शीघ्रकारित्वात्| किं सर्वमेव घर्मतौ रक्तं स्तम्भनीयम् ? नेत्याह-न चेद्वातकफानुगम्,-वातकफानुबद्धं तु लङ्घनादिभिरेव चिकित्सेत|

Adhikarana kaPolbaNe cUrNakalkau (102-103) · Śloka 103

सकफेऽस्रे पिबेत्पाक्यं शुण्ठीकुटजवल्कम्| किराततिक्तकं शुण्ठीं धन्वयासं कुचन्दनम्||१०२|| दार्वीत्वङ्क्षिम्बसेव्यानि त्वचं वा दाडिमोद्भवाम्| |१०३|

🔊 Audio coming soon

स०-कफानुगते रक्ते शुण्ठीकुटजबल्कलं क्वथितं पिबेत्| किराततिक्तकादिना(कं) वा क्वथितं पिबेत्| अथवा, दाडिमजां त्वचं पिबेत्|

Adhikarana kaPolbaNe kuTajAvalehaH (103-104) · Śloka 104

| कुटजत्वक्फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम्||१०३|| पिबेत्तण्डुलतोयेन कल्कितं वा मयूरकम्| |१०४|

🔊 Audio coming soon

स०-कुटजत्वचमिन्द्रयवान् रसाञ्जनादींश्च तण्डुलजलेन पिबेत्| घुणपिर्यां(वल्लभां)-अतिविषाम्| अथवा, तेनैव तण्डुलजलेन पिष्टमपामार्गं पिबेत्|

Adhikarana kaPolbaNe dvitIyaH kuTajAvalehaH (104-108) · Śloka 108

| तुलां दिव्याम्भसि पचेदार्द्रायाः कुटजत्वचः||१०४|| नीरसायां त्वचि क्वाथे दद्यात्सूक्ष्मरजीकृतान्| समङ्गाफलिनीमोचरसान् मुष्ट्यंशकान्समान्||१०५|| तैश्च शक्रयवान् पूते ततो दर्वीप्रलेपनम्| पक्त्वाऽवलेहं लीढ्वा च तं यथाग्निवलं पिबेत्||१०६|| पेयां मण्डं पयस्छागं गब्यं वा छागदुग्धभुक्| लेहोऽयं शमयत्याशु रक्तातीसारपायुजान्||१०७|| बलवद्रक्तपित्तं च स्रवदूर्ध्वमधोऽपि वा| |१०८|

🔊 Audio coming soon

स०-कुटजत्वच आर्द्रायास्तुलां दिव्ये-आन्तरिक्षे जले, पचेत्| दिवि भवं दिव्यम्, दिगादित्वाद्यत्| एतच्च द्रव्यं सामान्यपरिभाषापरिमाणकल्पनयैव क्वाथसामान्यपरिमाणेन च क्वथितमेकत्वं प्राप्तमिति तदपवादार्थमाह-नीरसायामित्यादि| तावत्पचेद्यावदेषा कुटजस्य त्वक् नीरसा स्यात्| नीरसत्वं च प्रायेणाष्टांशशेषे क्वाथे भवति| तस्यां च नीरसायां सत्यां यत्परिमाणः क्वाथोऽवशिष्यते तस्मिन् क्वाथे श्लक्ष्णचूर्णीकृतान् समङ्घादीन् सुष्ठ्यंशकान्-पलपरिमाणान्, दद्यात्| तैश्च समङ्गादिभिः सर्वैः समानिन्द्रयवान् दद्यात्| ततः-अनन्तरं, पूतं,दर्वीप्रलेपनं पक्त्वा लीढ्वा च तं-अवलेहं, अनन्तरं यथाग्निबलंबलानुसारेण, पेयादिकं पिबेत्| किम्भूतः सन् ? छागदुग्धभोजनः| अयं लेहो रक्तातीसारं रकार्शासि च शमयति| रक्तपित्तं च प्रवृद्धमूर्ध्वमधो वा स्रवत् जयेत्|

Adhikarana kaPolbaNe rodhrAdiyogaH (108-113) · Śloka 113

| कुटजत्वक् तुलां द्रोणे पचेदष्टांशशोषितम्||१०८|| कल्कीकृत्य क्षिपेत्तत्र ताऱ्क्ष्यशैलं कटुत्रयम्| रोध्रद्वयं मोचरसं बलां दाडिमजां त्वचम्||१०९|| बिल्वकर्कटिकां मुस्तं समङ्गां धातकीफलम्| पलोन्मितं दशपलं कुटजस्यैव च त्वचः||११०|| त्रिंशत्पलानि गुडतो घृतात्पूते च विंशतिः| तत्पक्वं लेहतां यातं धान्ये पक्षस्थितं लिहन्||१११|| सर्वार्शोग्रहणीदोषश्वासकासान्नियच्छति| |११३|

🔊 Audio coming soon

स०-वत्सकत्वक् तुलां जलद्रोणे पचेदष्टांशशेषितं यावच्च| तत्र-आष्टांशशेषिते क्वाथे पूते सति, कल्कयित्वा ताऱ्क्ष्यशैलादीन् पलप्रमाणान् क्षिपेत्| एवं त्रिकटूनि| बिल्वकर्कटिका लघूनि बिल्वफालानी| कुटजत्वचश्च दशपलानि| गुडपलानि त्रीम्शत्| घृतस्य पलानि विंशतिः| एतत्सर्वं लेहतां यातं पक्वं सत् धान्यराशिमध्ये मासार्धं स्थितं तं लिहन् सर्वानर्शःप्रमृतीन् जयेत्|

Adhikarana kaPolbaNe Ajadugdhena shAlyannam (112-113) · Śloka 113

| रोध्रं तिलान्मोचरसं समङ्गां चन्दनोत्पलम्||११२|| पाययित्वाऽऽजदुग्धेन शालींस्तेनैव भोजयेत्| |११३|

🔊 Audio coming soon

स०-रोध्रादिनजादुग्धेन पाययित्वाऽऽतुरं शालीस्तेनाजक्षीरेण भोजयेत्| एतच्चोपयुक्तं पूर्वगुणम्|

Adhikarana kaPolbaNe yaShTacAhvAdicUrNam (113-115) · Śloka 115

| यष्ट्याह्वपद्मकानन्तापयस्याक्षीरमोरटम्||११३|| ससितामधु पातव्यं शीततोयेन तेन वा| |११५|

🔊 Audio coming soon

स०-यष्ट्याह्नादि सशर्करामाक्षिकं शीतजलेन तेनाजपयसा वा पातव्यम्| क्षीरमोरटा-मधुरस्रवा|

Adhikarana kaPolbaNe rodhrAdi cUrNam (114-115) · Śloka 115

| रोध्रकट्वङ्गकुटजसमङ्गाशाल्मलीत्वचम्||११४|| हिमकेसरयष्ट्याह्वसेव्यं वा तण्डुलाम्बुना| |११५|

🔊 Audio coming soon

स०-लोध्रादिकं तण्डुलाम्बुना रक्तार्शःसु पातव्यम्| अथवा, चन्दननागकेसरमधुकोशीरं तण्डुलाम्बसा पात्वयं पूर्वोक्तनुगुणम्|

Adhikarana kapholbaNe atipravRutte shUle shoNite ca yavAnyAdicUrNam,kapholbaNe dugvikAdidhRutam kapholbaNe ghAtakyAdidhRutam kapholbaNe yavakShArAdidhRutam (115-117) · Śloka 117

| यवानीन्द्रयवाः पाठा बिल्वं शुण्ठी रसाञ्जनम्||११५|| चूर्णश्चले हितः शूले प्रवृत्ते चाति शोणिते| दुग्धिकाकण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते||११६|| अथवा धातकीरोध्रकुटजत्वक्फलोत्पलैः| सकेसरैर्यवक्षारदाडिमस्वरसेन वा||११७||

🔊 Audio coming soon

स०-यवान्यादीनां चूर्णो जलेन पीतो वाते शूले प्रवृत्ते चातिशयेन रक्ते हितः| दुग्धिकाकण्टकारीभ्यां पक्वं सर्पिरस्मिन्विषये प्रशस्यते| अथवा, धातक्यादिभिः सिद्धं घृतं हितम्| यवक्षारदाडिमस्वरसेन वा सिद्धं घृतं हितम्|

Adhikarana kaPolbaNe sharkarAdinavanItam (118) · Śloka 118

शर्कराम्भोजकिञ्जिल्कसहितं सह वा तिलैः| अभ्यस्तं रक्तगुदजान् नवनीतं नियछ्छति||११८||

🔊 Audio coming soon

स०-शर्करापद्मकेसरसहितमभ्यस्तं-बहून्यहानि भुक्तं, नवनीतं रक्तार्शासि शमयति| तिलैर्वा सहाभ्वस्तं नवनीतं रक्तार्शासि शमयति|

Adhikarana kaPolbaNe shoNite shreShThmauShadham CAganavanItAdi (119-120) · Śloka 120

छागानि नवनीताज्यक्षीरमांसानि, जाङ्गलः| अनम्लो वा कदम्लो वा सवास्तुकरसो रसः||११९|| रक्तशालिः सरो दग़्नः षष्टिकस्तरुणी सुरा| तरुणश्च सुरामण्डः शोणितस्यौषधं परम्||१२०||

🔊 Audio coming soon

स०-छागसम्बन्धीनि नवनीतादीन तथा जाङ्गलरसादीनि रक्तस्य परमौषधम्| जाङलो वा रसः स-वास्तुकरसेन वर्तत इति सवास्तुकरसः, अनम्लः-अम्लरहितः, कदम्लः-ईषदम्लो वा, आम्यस्तो रक्तगुदजान्नियछ्छति| रक्तशालिः-तज्जो भक्त इत्यर्थः| दघ्नः सरो-दप्युत्तरः| षष्टिको व्रीहिः| तरुणी सञ्जातमधुरप्राया सुरा, [तरुणो सुरा]मण्डश्च| एतद्रक्तज्ञाल्यादि शोणितस्य परमौषधम्|

Adhikarana kapholbaNe palANDuH (121) · Śloka 121

पेयायूषरसाद्येषु पलाण्डुः केवलोऽपि वा| स जयत्युल्बणं रक्तं मारुतं च प्रयोजितः||१२१||

🔊 Audio coming soon

स०-पेयादिषु प्रयोजितः पलाण्डुः, केवलो वा रक्तमत्युल्बणं वातं च जयति|

Adhikarana vAtajaye yatnaH (122) · Śloka 122

वातोल्बणानि प्रायेण भवन्त्यस्नेऽतिनिःसृते| अर्शासि तस्मादधिकं तज्जये यत्नमाचरेत्||१२२||

🔊 Audio coming soon

स०-प्रायेणरक्तेऽतिस्रुते वाताधिकानि दुर्नामानि मतो भवन्ति, तस्माद्धेतोस्तज्जये-पवनये, यत्नं कुर्यात्|

Adhikarana prabale raktapitte shItopacAraH (123) · Śloka 123

दृष्ट्वाऽस्रपित्तं प्रबलमबलौ च कफानिलौ| शीतोपचारः कर्तव्यः सर्वथा तत्प्रशान्तये||१२३||

🔊 Audio coming soon

स०-रक्तपित्तं प्रवृद्धं दृष्ट्वा कफनिलौ चाबलावुपलभ्य तत्प्रशान्तयर्थं शीतोपचारः कर्तव्यः|

Adhikarana evamashame rasairghRutaishca tarpaNaM tailAdinAsecanaM ca (124-125) · Śloka 125

न चेदेवं शमस्तस्य स्निग्धोष्णैस्तर्पयेत्ततः| रसैः, कोष्णैश्च सर्पिर्भिरवापीडकयोजितैः||१२४|| सेचयेत्तं कवोष्णैश्च कामं तैलपयोघृतैः| |१२५|

🔊 Audio coming soon

स०-यद्येवं शमो न स्यात्तदा रसैस्तर्पयेत्| "रस इत्यविशेषोक्तौ योज्यो मांसभवो रसः|" किम्भूतैः ? स्निग्धोष्णैः| तथा, कोष्णैर्घृतैश्च पुनस्तर्पयेत्| किम्भूतैः ? अवपीडकेनरोगानुत्पादनीयोक्तेन (हृ. सू. अ. ४/६), प्रयोजितैः| तं च कवोष्णैर्यथायोगं तैलपयोघृतैः सेचयेत्|

Adhikarana siddhaH picCAbastiH (125-129) · Śloka 129

| यवासकुशकाशानां मूलं पुष्पं च शाल्मलेः||१२५|| न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः| त्रिप्रस्थे सलिलस्यैतत्क्षीरप्रस्थे च साधयेत्||१२६|| क्षीरशेषे कषाये च तस्मिन् पूते विमिश्रयेत्| कल्कीकृतं मोचरसं समङ्गा चन्दनोत्पलम्||१२७|| प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम्| पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः||१२८|| प्रवाहिकागुदभ्रं शरक्तस्रावज्वरापहः| |१२९|

🔊 Audio coming soon

स०-यवासादीनां मूलं शाल्मलेः पुष्पं तथा न्यग्रोधादीनां च शुङ्गा एतद् द्रव्यकदम्बकं प्रत्येकं द्विपलप्रमाणं जलप्रस्थत्रये क्षीरप्रस्थे च पाचयेत्| क्षीरशेषे च कषाये तस्मिन् पूते सति कल्कीकृतं मोचरसादि मिश्रयेत्| मोचरसादयोऽत्र सत्रिभागमात्रशाणकर्षमात्रा ग्राह्या. (?), बस्तिकल्पे कोशातकादौ निरुहे (हृ. क. अ. ४/१७) विंशतिपलप्रमाणे कार्षिकाणामेव द्रव्याणामभ्यनुज्ञानात्| अयं पिच्छाबस्तिः सिद्धो घृतमाक्षिकशर्करान्वितः प्रवाहिकादिहरः| अल्पया मात्रया निरुहो बस्तिरेव पिच्छाबस्तिरुच्यते|

Adhikarana anuvAsane snehaH (129-130) · Śloka 130

| यष्ट्याह्वपुण्डरीकेण तथा मोचरसादिभिः||१२९|| क्षीरद्विगुणितः पक्वो देयः स्नेहोऽनुवासनम्| |१३०|

🔊 Audio coming soon

स०-मधुयष्टिकया प्रपौण्डरीकेण तथा मोचरसादिभिः-पूर्वोक्तैः (श्लो.१२७) कल्कीकृतैः, क्षीरद्विगुणितः पक्वः सन् स्नेहोऽनुवासनं देयः|

Adhikarana cA~ggerIghRutam (130-133) · Śloka 133

| मधुकोत्पलरोध्नाम्बु समङ्गा बिल्वचन्दनम्||१३०|| चविकाऽतिविषा मुस्तं पाठा क्षारो यवाग्रजः| दार्वीत्वङ्क्षागरं मांसी चित्रको देवदारु च||१३१|| चाङ्गेरीस्वरसे सर्पिः साधितं तैस्त्रिदोषजित्| अर्शोतिसारग्रहणीपाण्डुरोगज्वरारुचौ||१३२|| मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे| पिच्छास्रावेऽर्शसां शूले देयं तत्परमौषधम्||१३३||

🔊 Audio coming soon

स०-मधुकादिद्रव्यैः स्नेहचतुर्थभागप्रमाणैश्चाङ्गेरीस्वरसे घृताच्चतुर्गुणे घृतं साधितं त्रिदोषजित्| अर्शःप्रभृतिष्वेतद् घृतं देयम्| यतः परमौषधम्|

Adhikarana madhurAmlAdInAM vyatAsena prayojanam (134) · Śloka 134

व्यात्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्| नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान्||१३४||

🔊 Audio coming soon

स०-व्यत्यासेन-विपर्ययेण, मधुराण्यम्लानि च शीतान्युष्णानि च नित्यमग्निबलापेक्षी योजयेत्| एवं चार्शःकृतामतिशयिनीं रुजं जयति|

Adhikarana udAvarte svedaH udAvarte vartiH (135-137) · Śloka 137

उदावर्तार्तमभ्यज्य तैलैः शीतज्वरापहैः| सुस्निग्धैः स्वेदयेत्पिण्डैर्वर्तिमस्मै गुदे ततः||१३५|| अभ्यक्तां तत्कराङ्गुष्ठसन्निभामनुलोमनीम्| दद्याच्छ्यामात्रिवृद्दन्तीपिप्पलीनीफलैः||१३६|| विचूर्णितैर्द्विलवणैर्गुडगोमूत्रसंयुतैः| तद्वन्मागधिकाराठगृहधूमैः ससर्षपैः||१३७||

🔊 Audio coming soon

स०-उदावर्तेनार्तं नरं तैलैः शीतज्वरापहैः-तगरागुरुकुङ्कुमादिद्रव्यसाधितैः, अभ्यज्य सुस्निग्धैः पिण्डैः स्वेदयेत्| ततः-स्वेदादनन्तरम्, अस्मै-उदावर्तवते, गुदेऽभ्यक्तेऽभ्यक्तां वर्ति दद्यात्| तत्कराङ्गुष्ठसन्निभां-आतुरहस्ताङ्गुष्ठसदृशीम्| तथा, अनुलिमकरीं दद्यात्-क्षिपेत्| कैः कृतां वर्तिम् ? इत्याह श्यामेत्यादि| श्यामादिभिः सैन्धवाक्षलवणयुक्तैः सूक्ष्मरजीकृतैर्गुडगोमूत्रसंयुक्तैः कृतां वर्ति क्षिपेत्| तथैव मागधिकामदनफलगृहधूमसर्षपैर्गुडगोमूत्रान्बितैर्वर्ति क्षिपेत्|

Adhikarana udAvarte cUrNam (138) · Śloka 138

एतेषामेव वा चूर्णं गुदे नाड्या विनिर्धमेत्| |१३८|

🔊 Audio coming soon

स०-अथवा, एतेषामेव-पूर्वोक्तानां, चूर्णं नाद्या गुदे विनिर्धमेत्|

Adhikarana udAvarte snehabastiH (138-140) · Śloka 140

| तद्विघाते सुतीक्ष्णं तु बस्तिं स्निग्धं प्रपीडयेत्||१३८|| ऋजू कुर्या-दशिराविण्मूत्रमरुतोऽस्य सः| भूयाऽनुबन्धे वातघ्नेर्विरेच्यः स्नेहरेचनैः||१३९|| अनुवास्यश्च रौक्ष्याद्धि सङ्गो मारुतवर्चसोः| |१४०|

🔊 Audio coming soon

स०-तद्विवाते-कार्यं कर्तुमशक्ते तस्मिंश्रूर्णे, बस्ति स्निग्धं स्नेहबस्तिं, सुतीक्ष्णं दद्यात्| सः-बस्तिः, अस्य-आतुरस्य, गुदशिराविण्मूत्रवाताननुलोमयेत्| पुनरनुबन्धे सति स्नेहरेचनैर्विरेचनीयश्चानुवासनीयश्च| हि-यस्मात्, रौक्ष्याद्धेतोर्मरुतस्य पुरीषस्य च सङ्गो भवति|

Adhikarana udAvarte kalyANakakShAraH (140-143) · Śloka 143

| त्रिपटुचिकटुश्रेष्ठादन्त्यरुष्करचित्रकम्||१४०|| जर्जरं स्नेहमूत्राक्तमन्तर्धूमं विपाचयेत्| शरावसन्धौ मृल्लिप्ते क्षारः कल्याणकाह्वयः||१४१|| स पीतः सर्पिषा युक्तो भक्ते वा स्निग्धभोजिना| उदावर्तविबन्धार्शोगुल्मपाण्डूदरकृमीन्||१४२|| मूत्रसङ्गाश्मरीशोफहृद्रोगग्रहणीगदान्| मेहप्लीहरुजानाहश्वासकासांश्च नाशयेत्||१४३||

🔊 Audio coming soon

स०-त्रिपट्वादि जर्जरीकृतं-सूक्ष्मीकृतं, स्नेहमूत्राभ्यामक्त मन्तर्धूमं कृत्वा विपाचयेच्छरावसम्पुटे| अत एवाह-शरावसन्धौ मृल्लिप्त इति| अयं च कल्याणको नाम क्षारः सर्पिषा पीतः स्नेहभोजिना वा भक्ते युक्तः सन्नुदावर्तादीन् नाशयेत्|

Adhikarana udAvarte gADhavarcArshasAM proktaM cikitsitamapi (144) · Śloka 144

सर्वं च कुर्याद्यत्प्रोक्तमर्शसां गाढवर्चसाम्| |१४४|

🔊 Audio coming soon

स०-यच्च गाढवर्चसामर्शसां प्रोक्तं तच्च सर्वं कुर्यात्|

Adhikarana pUtikara~jjashuktam (144) · Śloka 144

द्रोणेऽपां पूतिवल्कद्वितुलमथ पचे- त्पादशेषे च तस्मिन् देयाऽशीतिरुगुडस्य प्रतनुकरजसो व्योषतोऽष्टौ पलानि| एतन्मासेन जातं जनयति परमा- मूष्मणः पक्तिशक्तिं शुक्तं कृत्वाऽऽनुलोम्यं प्रजयति गुदज- प्लीहगुल्मोदराणि||१४४||

🔊 Audio coming soon

स०-द्वयोस्तुलयोः समाहरो द्वितुलम्| पूतिकरञ्जस्य त्वचस्तुलाद्वयं-पलशतद्वयं, जलद्रोणे पचेत्| तस्मिंश्च पादशेषे सति गुडस्याशीतिः पलानि क्षेप्तव्यानि| त्रिकटुकस्य सूक्ष्मचूर्णस्याष्टौ पलानि देयानि| एतत्सर्वं मासेन शुक्तं जातं प्रबलमग्नि कुरुते| आनुलोम्यं कृत्वा गुदजादिण् जयति| स्रग्धरावृत्तम्|

Adhikarana pUtikara~jjacukram (145-148) · Śloka 148

पचेत्तुलां पूतिकरञ्जवल्काद् द्वे मूलतश्चित्रककण्टकार्योः| द्रोणत्रयऽपां चरणावशेषे पूते शतं तत्र गुडस्य दद्यात्||१४५|| पलिकं च सूचिर्णितं त्रिजात त्रिकटुग्रन्थिकदाडिमाश्मभेदम्| पुरपुष्करमूलधान्यचव्यं हपुषामाऱ्द्रकमम्लवेतसं च||१४६|| शीतीभुतं क्षौद्रविंशत्युपेत- मार्द्रद्राक्षाबीजपूराद्रकैश्च| युक्तं कामं गण्डिकाभिस्तथेक्षोः सर्पिःपात्रे मासमात्रेण जातम्||१४७|| चुक्रं क्रकचमिवेदं दुर्दाम्नां वह्निदीपनं परमम्| पाण्डुगरोदरगुल्मप्लीहानाहाश्मकृच्छ्रघ्नम्||१४८||

🔊 Audio coming soon

स०-पूतिकरञ्जत्वचस्तुलामेकां द्वे च तुले चित्रककण्टकारीमूलयोर्जलद्रोणत्रये पचेत्| पादशेषे च तस्मिन् पूते गुडस्य पलशतं दद्यात्| उपजातिवृत्तम्| त्रिजातकादि सूक्ष्मरजीकृतं प्रत्येकं पलप्रमाणं निःक्षिपेत्| एतत्सर्वं चूर्णितं श्लक्ष्णपिष्टं दद्यात्| औपच्छन्दसिकं वृत्तम्| एतच्च शीतीभुतं सत् क्षौद्रविंशत्योपेतमार्द्रद्राक्षादिभिश्चोपेतमिक्षुगण्डिकाभिश्श्च यथेच्छं युक्तं सर्पिःपात्रे मासमात्रेण जातं चुक्रमिति वक्ष्यमाणेन सम्बन्धः| शुक्तमिदमर्शसां क्रकचमिव-करपत्रतुल्यं, कर्तनशक्तिसामार्थ्यात्| तथा परं वह्निदीपनं पाण्ढ्वादिघ्नं च| शालिनीवृत्तम्, आर्या च|

Adhikarana pIluPalashuktam (150) · Śloka 150

द्रोणं पीलुरसस्य वस्त्रगलितं न्यस्तं हविर्भाजने युञ्जीत द्विपलैर्मदामधुफलाख़र्जूरधात्रीफलैः| पाठामाद्रिदुरालभाम्लविदुलव्योषत्वगेलोल्लकैः स्पृक्काकोललवङ्गवेल्लचपलामूलाग्निकैः पालिकैः| गुडपलशतरोजितं निवाते निहितमिदं प्रपिबंश्च पक्षमात्रात्| निशमयति गुदाङ्कुरान् सुगुल्मा- ननलबलं प्रबलं करोति चाशु||१५०||

🔊 Audio coming soon

स०-पीलुफलानां रसस्य द्रोणं वस्त्रपूतं सर्पिर्भाण्डे न्यस्तं मदादिभिर्द्विपलप्रमाणैः पाठादिभिश्च पालिकैर्युञ्जीत| मदाधातकी| मधुफला-द्राक्षा| माद्री-रेणुका| विदुलो-वेतसः| शार्दूलविक्रीडितम्| तथा गुडपलशतेन योजितं निवाते धृतं पक्षमात्रादनन्तरं प्रपिबन्नर इदमर्शासि गुल्मं च शमयति| द्रागग्निबलं च प्रकृष्टं विधत्ते| पुष्पिताग्रा|

Adhikarana dashamUlAdiguDaH (151-152) · Śloka 152

कैकशो दशपले दशमूलकुम्भ पाठाद्वयार्कौणवल्लभकट्फलघ्नाम्| दग्धे स्रुतेऽनु कलशेन जलेन पक्वे पादास्थते गुडतुलां, पलपञ्चकं च||१५१|| वह्नर्मुष्टी द्वे यवक्षारतश्च| दर्वीमालिम्पन् हन्ति लीढो गुडोऽयं गुल्मप्लीहार्शःकुष्ठमेहाग्निसादान्||१५२||

🔊 Audio coming soon

स०-दशमूलादीनां प्रत्येकं दशपले दग्धे जलद्रोणेन स्रुते जले पक्वे पादशेषे चास्मिन् गुडतुलां व्योषादीनां च प्रत्येकं पलपञ्चकं दद्यात्| चित्रकस्य पलद्वयं यवक्षारस्य च पलद्वयं दद्यात्| दर्वीमालिम्पन् दर्वीलेपी सन्नयं गुडो लीढो-भक्षितो, गुल्मादीन् पराकरोति| वसन्ततिलकं वैश्वदेवीयं वृत्तं च|

Adhikarana citrakAvalehaH (153-154) · Śloka 154

तोयद्रोणे चित्रकमूलतुलार्धं साध्यं यावत्पाददलस्थमथेदम्| अष्टौ दत्वा जीर्णगुडस्य पलानि क्वाथ्यं भुयः सान्द्रतया सममेतत्||१५३|| त्रिकटुकमिसिपथ्याकुष्टमुस्तावराङ्ग कृमिरिपुदहनैलाचूर्णकीर्णोऽवलेहः| जयति गुदजकुष्ठप्लीहगुल्मोदराणि प्रबलयति हुताशं शश्वदभ्यस्यमानः||१५४||

🔊 Audio coming soon

स०-तोयस्य द्रोणे चित्रकमूलस्य तुलार्धं साध्यं यावदष्टांशशेषमिदं स्यात्| ततः पुराणगुदपलान्यष्तौ दत्त्वा पुनरपि क्वाथ्यं यावत्सान्द्रत्वं गतम्| "म्तौ ज्यो भद्रा वेदवसू च विरामः|" त्रिकटुकादिचूर्णयुक्तोऽयं लेहो नित्यमभ्यस्यमानो दारुण(दुर्नाम) कुष्ठादीनि जयति| अग्निं च प्रकृष्टं कुरुते| मालिनीवृत्तम्|

Adhikarana guDAdiguTikA (155) · Śloka 155

गुडव्योषवरावेल्लतिलारुष्करचित्रकैः| अर्शांसि हन्ति गुलिका त्वग्विकारं च शीलिता||१५५||

🔊 Audio coming soon

स०-गुडादिभिर्गुलिका कृताऽभ्यस्ता दुर्नामानि हन्ति त्वग्विकारं च|

Adhikarana sUraNapuTapAkaH (156) · Śloka 156

मृल्लिप्तं सौरणं कन्दं पक्त्वाऽग्नौ पुटपाकवत्| अद्याट्सतैललवणं द्रुनामविनिवृत्तये||१५६||

🔊 Audio coming soon

स०-सौरणं कन्दं मृदा लिप्तमग्नौ पुटपाकवत् पक्वं तैललवणान्वितमश्नीयाद् दुर्नामोपशमाय|

Adhikarana anyA sUraNaguTikA (157-158) · Śloka 158

मरिचपिप्पलिनागरचित्रकान् क्रमविवर्धितभागसमाहृतान्| शिख़िचतुर्गुणसूतणयोजितान् कुरु गुडेन गुडान् गुदजच्छिदः||१५७|| चूर्णिकृताः षोडश सूरणस्य भागास्ततोऽर्धेन च चित्रकस्य| महौषधाद्द्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी||१५८||

🔊 Audio coming soon

स०-मरिचादीन् क्रमवर्धितभागान् चित्रकचतुर्गुणसूरणयोजितान् गुडान् गुडेन कुरु गुदाङ्कुरच्छिदः| द्रुतविलम्बितम्| स०-सूक्ष्मरजीकृताः सूरणभागाः षोडश, चित्रकभागा अष्टौ, नागरस्य द्वौ, मरिचस्य चैको, गुडेनैषां पिण्डी *कृता दुर्नामजयाय स्यात्| उपजातिवृत्तम्|

Adhikarana vaDavAmukhaScUrNaH (159) · Śloka 159

पथ्यानागरकृष्णाकरञ्जवेल्लाग्निभिः सितातुल्यैः| वडवामुख़ इव जरयति बहुगुर्वपि भोजनं चूर्णः||१५९||

🔊 Audio coming soon

स०-पथ्यादिभिः सितातुल्यैश्चूर्णौ बहु गुरु च भोजनं वडवामुख इव जरयति| "आर्यायाः पूर्वार्धे यथोक्तमात्रादतोमया लक्ष्म| गीतिं [ तत्र ] विधिविदो वदन्ति संवीक्ष्य तदितरत्रापि||"

Adhikarana kali~ggAdivaTikA (160) · Śloka 160

कलिङ्गलाङ्गलीकृष्णावह्न्यपामार्गतण्डुलैः| भूनिम्बसैन्धवगुडैर्गुडा गुदजनाशनाः||१६०||

🔊 Audio coming soon

स०-कलिङ्गकादिभिर्गुडाः-वटिकाः, अर्शोघ्नाः|

Adhikarana saindhavAdicUrNam (161) · Śloka 161

लवणोत्तमवह्निकलिङ्गयवां- श्चिरिबिल्वमहापिचुमन्दयुतान्| पिबि सप्तदिनं मथितालुडितान् यदि मर्दितुमिच्छास पायुरुहाम्||१६१||

🔊 Audio coming soon

स०-सैन्धवादीनि तक्रालोडितानि पिब यद्यर्शासि जिघांससि| "अथ तोटकमब्धिसकारचितम्|"

Adhikarana shuShkArshaH su shreShThamauShadham ArdrArshaHsu shreShmauShadham sarvArshaHsu shreShmauShadham (162) · Śloka 162

शुष्केषु भल्लातकमग्न्यमुक्तं भैषज्यमार्द्रेषु तु वत्सकत्वक्| सर्वेषु सर्वर्तुषु कालशेय- मर्शःसु बल्यं च मलापहं च||१६२||

🔊 Audio coming soon

स०-शुष्केष्वर्शःसु भल्लातकं भैषज्यं अग्न्यं-प्रधानमुदितम्| आऱ्द्रेषु पुनरर्शःसु कुटजत्वग्भैषज्यमग्न्यं कथितम्| सर्वेष्वर्शःसु-शुष्कष्वार्द्रेषु च, सर्वर्तुषु-सर्वकालं, कालशेयं-मथैतं, अग्न्यं बल्यं-बलावहं, मलापहं-दोषापहं च| इन्द्रवज्रावृत्तम्|

Adhikarana arshaHsu sevyAsevyam (163) · Śloka 163

भित्त्वा विबन्धाननुलोमनाय यन्मारुतस्याग्निबलाय यच्च| तदन्नपानौशधमर्शसेन सेव्यं, विवर्ज्यं विपरीतमस्मात्||१६३||

🔊 Audio coming soon

स०-विबन्धान्-स्त्यानकफदिरुपान्, भित्त्वा यत्-अन्नपानौषधमासेवितं, मारुतस्यानुलोमनाय-स्ववर्त्मप्रवर्तनाय, तथा यच्चाग्निबलाय-अग्निवर्धनाय सम्पद्यते, तदेवान्नपानौषधं दुर्नामवता सेव्यम्| अस्मात्-यथोक्तात्, विपरीतं-यदन्नपानौषधं मारुतस्य विबन्धकरमग्निसादनं च तत्, तेन विवर्ज्य-न से-व्यम्| उपजातिवृत्तम्|

Adhikarana arshAdau visheSheNAgnirakShaNam (8) · Śloka 8

अर्शोतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः| सन्नेऽनले सन्ति, न सन्ति दीप्ते, रक्षेदतस्तेषु विशेषतोऽग्निम्||१६४|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सित- स्थानेऽर्शश्चिकित्सितं नामा ष्टमोऽध्यायः||८||

🔊 Audio coming soon

स०-अर्शोतिसारग्रहण्योन्यनिदानभूताः-परस्परं हेतुभूताः, प्रायेण-बाहुल्येन, अनले च सन्न एते रोगा भवन्ति| दीप्ते त्वग्नौ न सन्ति, यतस्ततः-अस्मात्कारणात्, तेषु विशेषेषाग्नि रक्षेदिति| इन्द्रवज्रावृत्तम्| इति श्रीमृगाङ्कदत्तपुत्र श्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थानेऽर्श- श्चिकित्सितं नामाष्टमोऽध्यायः समाप्तः|| ८||