Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

12. pramēhacikitsitādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

मूत्राघातचिकित्सितादनन्तरम् प्रमेहचिकित्सितव्याख्यानमुपक्रम्यते|

Adhikarana pramehacikitsitAdhyAyaH (2-3) · Śloka 3

अथातः प्रमेहचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| )|३|

🔊 Audio coming soon

स०-सम्बन्धश्चास्य पूर्ववद्बोध्यः|

Adhikarana pramehe vamanarecane, pramehe AsthApanam, shuddhe mAMsarasaistarpaNam (1-3) · Śloka 3

मोहिनो बलिनः कुर्यादादौ वमनरेचने| स्निग्धस्य सर्षपारिष्टनिकुम्भाक्षकरञ्जजैः||१|| तैलैस्त्रिकण्टकाद्येन यथास्वं साधितेन वा| स्नेहेन मुस्तदेवाह्वनागरप्रतिवापवत्||२|| सुरसादिकषायेण दद्यादास्थापनं ततः| न्यग्रोधादेस्तु पित्तार्तं रसैः शुद्धं च तर्पयेत्||३||

🔊 Audio coming soon

स०-बलवतो मेहिनः पुंसोऽपरेभ्य उपक्रमेभ्यस्तत्तद्योग्येभ्यः प्रथमं वमनविरेचने कुर्यान्मेहक्लेदप्रशमनाय| किम्भूतस्य ? सर्षपादिजैस्तैलैः स्निग्धस्य, त्रिकण्टकाद्येन वा स्नेहेनस्निग्धस्य, "त्रिकण्टकनिशारोध्र" (श्लो. १७) इत्यादिस्नेहो वक्ष्यमाणः, यथास्वं दोषसात्म्यादिवशाद्द्रव्यैः साधितेन वा स्नेहेन स्निग्धस्य| ततो-वमनविरेचनकरणादनन्तरं जातबलाय मेहिने, "सुरसयुग" (हृ. सू. अ. १५|३०) इत्यादेः सम्बन्धिना कषायेणास्थापनं दद्यात्| किम्भूतम् ? मुस्तादिप्रतिवापवत्| स प्रतिवापो विद्यते यस्य तदेवम्| पित्तले पुनः "न्यग्रोधपिप्पल" (हृ. सू. अ. १५|४१) इत्यादेः कषायेणास्थापनं दद्यात्| प्रतिवापान्तरानिर्देशादत्र पूर्वोक्त एव प्रतिवापो योज्यः| अनन्तरं शुद्धं प्रमेहिणं रसैस्तर्पयेत्| यद्यपि रसैरिति सामान्यनिर्देशात्त्रिविधदेशसञ्जातप्राणिमांसरसैस्तर्पणं प्राप्तं तथाऽपि योग्यतावशात् जाङ्गलप्राणिमांसरसैस्तर्पयेदिति बोध्यम्, न त्वानूपादिमांसरसैरिति| तेषां मेदोमूत्रकफावहत्वेन व्याधिवर्धनहेतुत्वात्|

Adhikarana atyapatarpaNe mUtragrahAdyAH, tato~anubandharakShArthaM shamanAni (4) · Śloka 4

मूत्रग्रहरुजागुल्मक्षयाद्यास्त्वपतर्पणात्| ततोऽनुबन्धरक्षार्थं शमनानि प्रयोजयेत्||४||

🔊 Audio coming soon

स०-यतोऽपतर्पणान्मूत्रग्रहादीनि जायन्ते ततो हेतोरनुबन्धरक्षार्थं शमनानि प्रयोजयेत्| अन्यथा प्रमेह उपशान्तोऽपि निदानलेशमासाद्य पुनः प्रादुर्भवेत्| ननु, मूत्रग्रहादीन्येतावदस्तु शेषा आदिशब्देनैव ग्रहीष्यन्ते| किं मूत्रग्रहरुजागुल्मक्षयाद्या इति ? सत्यम्| मूत्रग्रहरुजागुल्मक्षया यथाऽवश्यमपतर्पणात् प्रमेहिणो जायन्ते तथा नापरे तज्जातीया इति|

Adhikarana ashodhye pramehe ca shamanAni (5) · Śloka 5

असंशोध्यस्य तान्येव सर्वमेहेषु पाययेत्| |५|

🔊 Audio coming soon

स०-असंशोध्यो-वमने गर्भिण्यादिः, विरेके नवज्वरादिः, एतस्यासंशोध्यस्य तान्येव-शमनानि, सर्वेषु प्रमेहेषु पाययेत्| एवेत्यवधारणे, न तु शोधनादिरूपमित्यर्थः|

Adhikarana sarvaprameheShu haridrAyogaH, dArvpAdikvAthaH, citrakAdikvAthaH guDUcIsvarasaH, AmalakasvarasaH (5-7) · Śloka 7

| धात्रीरसप्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम्||५|| दार्वीसुराह्वत्रिफलामुस्ता वा क्वथिता जले| चित्रकत्रिफलादार्वीकलिङ्गान् वा समाक्षिकान्||६|| मधुयुक्तं गुडूच्या वा रसमामलकस्य वा| |७|

🔊 Audio coming soon

स०- आमलकीरसालोडितां हरिद्रां समाक्षिकां प्रभाते पाययेत्| दार्वीदेवदारुवरामुस्ता जले क्वथिता वा पाययेत्| चित्रकादीन् वा क्वथितान् समाक्षिकान् पाययेत्| समाक्षिकं गुडूचीरसं धात्रीरसं वा|

Adhikarana kaPapramehe rodhrAdikaShAyaH, pAThAdikaShAyaH, gAyatryAdikaShAyaH, pittapramehe ushIrAdikAShAyaH, paTolAdikaShAyaH, rodhrAmbvAdikaShAyaH (7-8) · Śloka 8

रोध्राभयातोयदकट्फलानां पाठाविडङ्गार्जुनधन्वनानाम्| गायत्रिदार्वीकृमिहृद्धवानां कफे त्रयः क्षौद्रयुताः कषायाः||७|| उशीररोध्रार्जुनचन्दनानां पटोलनिम्बामलकामृतानाम्| रोध्राम्बुकालीयकधातकीनां पित्ते त्रयः क्षौद्रयुताः कषायाः||८||

🔊 Audio coming soon

स०-रोध्रादीनां श्लोकपादोक्तानां कषायाः क्षौद्रयुतास्त्रयः कफे हिताः| एवमुशीरादीनां माक्षिकान्विताः कषायास्त्रयः पित्ते हिताः| उपजातिवृत्ते|

Adhikarana pramehe eBiH saMskRutaM pAnAnnam (9) · Śloka 9

| यथास्वमेभिः पानान्नं यवगोधूमभावनाः||९||

🔊 Audio coming soon

स०-एभी रोध्रादिभिर्यथायोगं पानमन्नं च कल्पयेत्| यवगोधूमभावनाश्च कल्पयेत्|

Adhikarana vAtapramehe snehAH saMskRutAH (10) · Śloka 10

वातोल्बणेषु स्नेहांश्च प्रमेहेषु प्रकल्पयेत्| |१०|

🔊 Audio coming soon

स०-वाताधिकेषु प्रमेहेषु स्नेहांश्च तैरेव कल्पयेत्| न केवलमन्नभावनाः|

Adhikarana sarvapramehe yavAnAM vikRutiH, tRuNadhAnyAni, mudgAdidhAnyAni, SrIkukkuTaH khalaH, kapitthAdiPalAni, tatkRutA rAgaShADavAH, tiktAni shAkAni, madhu triPalA ca, shuShkA BakShyAH, shUlyAni dhanvamAMsAni, ayaskRutiH, jIrNA madhvariShTAdayaH, asanAdisArAdijalam (10-14) · Śloka 14

| अपूपसक्तुवाट्यादिर्यवानां विकृतिर्हिता||१०|| गजाश्वगुदमुक्तानामथवा वेणुजन्मनाम्| तृणधान्यानि मुद्गाद्याः शालिर्जीर्णः सषष्टिकः||११|| श्रीकुक्कुटोऽम्लः ख़लकस्तिलसर्षपकिट्टजः| कपित्थं तिन्दुकं जम्बूस्तत्कृता रागषाडवाः||१२|| तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः ससक्तवः| धन्वमांसानि शूल्यानि परिशुष्काण्ययस्कृतिः||१३|| मध्वरिष्टासवा जीर्णाः सीधुः पक्वरसोद्भवः| तथाऽसनादिसाराम्बु दर्भाम्भो माक्षिकोदकम्||१४||

🔊 Audio coming soon

स०-यवानां विकृतिरपूपादिः प्रमेहे हिता| अथवा, यवानां गजाश्वगुदमुक्तानामपूपादिविकृतिर्हिता| वेणुजानां वा यवानां विकृतिर्हिता| तृणधान्यानि-नीवारश्यामाकादीनि, तथा मुद्गाद्यास्तथा पुराणशालिः षष्टिकश्चेति हितानि| श्रीकुक्कुटसंज्ञोऽम्लः ख़लको हितः| किम्भूतः ? तिलसर्षपकिट्टजः,- तिलसर्षपपिण्याकजन्मा तदुपादानकारणो न मुद्गाद्युपादानकारणः, स च मालवकेषु प्रसिद्धः, आर्द्रकशकलनिस्तुषगोधूमादिना च क्रियते| तथा, कपित्थादयो हिताः| तैः-कपित्थादिभिः, कृता रागाः षाडवाश्च हिताः| तिक्तशाकादीनि च हितानि| श्रेष्ठा-त्रिफला| शूल्यानीति शूले पक्वानि| "शूलात्पाके" ("शूलोख़ाद्यत्") इति यत्| तानि च सुपक्वत्वात् परिशुष्काणि| तथा, अयस्कृतिः-वक्ष्यमाणा (श्लो. २९)| तथा, मध्वादयः पुराणाः| पक्वरसजः सीधुः| तथा, असनादिसारवर्गस्याम्भो (हृ. सू. अ. १५|१९) दर्भजलं माक्षिकोदकं च हितम्|

Adhikarana sarvaprameheShu yavasaktuvisheShaH (15) · Śloka 15

वासितेषु वराक्वाथे शर्वरीं शोषितेष्वहः| यवेषु सुकृतान् सक्तून् सक्षौद्रान् सीधुना पिबेत्||१५||

🔊 Audio coming soon

स०-तथा, यवेषु सुकृतान् सक्तून् कृत्वा सक्षौद्रान् सीधुना आलोड्य पिबेत्| पक्वरसोद्भवेन तस्य योगतः स न स्यात्(?)| यवेष्विति निमित्तसप्तमी| किम्भूतेषु यवेषु ? वराक्वाथे-त्रिफलाकषाये, शर्वरीं-सकलां रात्रिं, वासितेषु-अभिषुतेषु, अनन्तरमहः शोषितेषु| तत्रात्यन्तसंयोगे द्वितीया|

Adhikarana kaPapitapramehe shAlAdipuShpa cUrNam (16-17) · Śloka 17

शालसप्ताह्वकम्पिल्लवृक्षकाक्षकपित्थजम्| रोहीतकं च कुसुमं मधुनाऽद्यात्सुचूर्णितम्||१६|| कफपित्तप्रमेहेषु पिबेद्धात्रीरसेन वा| |१७|

🔊 Audio coming soon

स०-शालादिजं पुष्पं सूक्ष्मरजीकृतं मधुनाऽद्यात्| कफपित्तप्रमेहेषु धात्रीरसेन वा पिबेत्|

Adhikarana vAtakaPaje trikaNTakAdi tailam pittaje trikaNTakAdighRutam vAtapittaje kaPapittaje ca ghRutatailam (17-19) · Śloka 19

| त्रिकण्टकनिशारोध्रसोमवल्कवचार्जुनैः||१७|| पद्मकाश्मन्तकारिष्टचन्दनागुरुदीप्यकैः| पटोलमुस्तमञ्जिष्ठामाद्रीभल्लातकैः पचेत्||१८|| तैलं वातकफे पित्ते घृतं मिश्रेषु मिश्रकम्| |१९|

🔊 Audio coming soon

स०-त्रिकण्टकादिभिस्तैलं पचेद्वातकफजे प्रमेहे| पित्तजे एभिरेव घृतं पचेत्| मिश्रेषु दोषेषु मिश्रकं-घृततैलं, पचेत्|

Adhikarana sarvapramehe dhAnvantaraM ghRutam (19-24) · Śloka 24

| दशमूलशठीदन्तीसुराह्वं द्विपुनर्नवम्||१९|| मूलं स्नुगर्कयोः पथ्यां भूकदम्बमरुष्करम्| करञ्जौ वरुणान्मूलं पिप्पल्याः पौष्करं च यत्||२०|| पृथग् दशपलं प्रस्थान् यवकोलकुलत्थतः| त्रींश्चाष्टगुणिते तोये विपचेत्पादवर्तिना||२१|| तेन द्विपिप्पलीचव्यवचानिचुलरोहिषैः| त्रिवृद्विडङ्गकम्पिल्लभार्गीविश्वैश्च साधयेत्||२२|| प्रस्थं घृताज्जयेत्सर्वांस्तन्मेहान् पिटिका विषम्| पाण्डुविद्रधिगुल्मार्शःशोषशोफगरोदरम्||२३|| श्वासं कासं वमिं वृद्धिं प्लीहानं वातशोणितम्| कुष्ठोन्मादावपस्मारं धान्वन्तरमिदं घृतम्||२४||

🔊 Audio coming soon

स०-स्नुगर्कमूलम्, करञ्जमूलम्, वरुणमूलम्, पिप्पलीमूलम्, पौष्करं च यदिति पुष्करमूलं चेत्यर्थः| दशमूलादिकं पृथक्-प्रत्येकं, दशपलप्रमाणं यवकोलकुलत्थांस्त्रीन् प्रस्थांश्चाष्टगुणिते जले च विपचेत्| तेन-जलेन, पादवर्तिना-पादशेषेण, द्विपिप्पल्यादिमिश्च [ कल्कीकृतैः ] सामान्यपरिभाषोक्तप्रमाणाद्धृतात्प्रस्थं पचेत्| तद्धृतं सर्वान् प्रमेहान् पिटिकादींश्च जयेत्|

Adhikarana sarvapramehe rodhrAsavaH (25-28) · Śloka 28

रोध्रमूर्वाशठीवेल्लभार्गीनतनख़प्लवान्| कलिङ्गकुष्ठक्रमुकप्रियङ्ग्वतिविषाग्निकान्||२५|| द्वे विशाले चतुर्जातं भूनिम्बं कटुरोहिणीम्| यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फलत्रयम्||२६|| कर्षांशमम्बुकलशे पादशेषे स्रुते हिमे| द्वौ प्रस्थौ माक्षिकात्क्षिप्त्वा रक्षेत्पक्षमुपेक्षया||२७|| रोध्रासवोऽयं मेहर्शःश्वित्रकुष्ठारुचिकृमीन्| पाण्डुत्वं ग्रहणीदोषं स्थूलतां च नियच्छति||२८||

🔊 Audio coming soon

स०-रोध्रादि प्रत्येकं कर्षप्रमाणं जलकलशे पादशेषे स्रुते शीते च माक्षिकात् द्वौ प्रस्थौ क्षिप्त्वा पक्षमात्रमचलं कृत्वा रक्षेत्| अयं रोध्रासवो मेहादीन्नाशयेत्|

Adhikarana sarvapramehe ayaskRutiH (29-32) · Śloka 32

साधयेदसनादीनां पलानां विंशतिं पृथक्| द्विवहेऽपां क्षिपेत्तत्र पादस्थे द्वे शते गुडात्||२९|| क्षौद्राढकार्धं पलिकं वत्सकादिं च कल्कितम्| तत्क्षौद्रपिप्पलीचूर्णप्रदिग्धे घृतभाजने||३०|| स्थितं दृढे जतुसृते यवराशौ निधापयेत्| खदिराङ्गारतप्तानि बहुशोऽत्र निमज्जयेत्||३१|| तनूनि तीक्ष्णलोहस्य पत्राण्यालोहसङ्क्षयात्| अयस्कृतिः स्थिता पीता पूर्वस्मादधिका गुणैः||३२||

🔊 Audio coming soon

स०-असनादीनां-"असनतिनिश" (हृ. सू. अ. १५|१९) इत्यादिगणोक्तानां द्रव्याणां, पृथक्-प्रत्येकं, पलानां विंशतिं-विंशतिपलानि, अपां द्विवहे-जलद्रोणाष्टके, साधयेत्| तत्र-तस्मिन्, पादशेषे शृते शीते च सति गुडस्य द्वे शते क्षिपेत्| माक्षिकस्यार्धाढकम्| "वत्सकमूर्वा' (हृ. सू. अ. १५|३३) इत्यादिकं च पृथक् पालिकं कल्कितं कृत्वा क्षिपेत्| अनन्तरमन्तर्माक्षिकपिप्पलीचूर्णप्रलिप्ते घृतभाजने दृढे जतुलिप्ते स्थितं यवराशौ स्थापयेत्| अनन्तरं खदिराङ्गारतप्तानि तीक्ष्णलोहपत्राणि तनूनि पुनःपुनरत्र निमज्जयेत्| यावत्सङ्क्षयं-विलीनवृत्तित्वमायान्ति| अयस्कृतिरियं स्थिता-सम्पन्ना, पीता पूर्वस्मात्-रोध्रासवात्, गुणैरधिका| अत्र च सङ्ग्रहोक्ताद्दशमूलारिष्टादयसः परिमाणं कल्प्यं प्रायोऽत्र प्रस्थमात्रम्| एवमन्यत्रापि द्रवद्रव्यमपेक्ष्य नारसिंहघृतादौ (हृ. उ. अ. ३९|१७०) अनयैव दिशाऽयसः परिमाणं कल्पनीयम्|

Adhikarana sarvapramehe udvartanavyAyAmAdi (33) · Śloka 33

रूक्षमुद्वर्तनं गाढं व्यायामो निशि जागरः| यच्चान्यच्छ्लेष्ममेदोघ्नं बहिरन्तश्च तद्धितम्||३३||

🔊 Audio coming soon

स०-तस्मिन्प्रमेह उद्वर्तनं रूक्षं तथा गाढं-न तु शिथिलं, हितम्| तथा व्यायामरात्रिजागरौ च| अपरमपि यदेवंप्रायं श्लेष्ममेदोहरं बहिरन्तश्च, तच्च प्रमेहिणे हितम्|

Adhikarana sarvapramehe shilAjaturasAyanam (34-36) · Śloka 36

सुभावितां सारजलैस्तुलां पीत्वा शिलोद्भवात्| साराम्बुनैव भुञ्जानः शालीन् जाङ्गलजै रसैः||३४|| सर्वानभिभवेन्मेहान् सुबहूपद्रवानपि| गण्डमालार्बुदग्रन्थिस्थौल्यकुष्ठभगन्दरान्||३५|| कृमिश्लीपदशोफांश्च परं चैतद्रसायनम्| |३६|

🔊 Audio coming soon

स०-साराः-असनख़दिरादयः, तेषां जलैः-क्वाथैः, शिलाह्वयात्तुलां सुभावितां पीत्वा साराम्बुनैव जाङ्गलप्राणिमांसजै रसैः शालीनदन् सर्वान्मेहान् सुबहूपद्रवानपि जयेत्, गण्डमालादींश्च| इदं चोत्कृष्टम् रसायनम्|

Adhikarana adhane pramehiNi munivartanAdi (36-37) · Śloka 37

| अधनश्छत्रपादत्ररहितो मुनिवर्तनः||३६|| योजनानां शतं यायात्ख़नेद्वा सलिलाशयान्| गोशकृन्मूत्रवृत्तिर्वा गोभिरेव सह भ्रमेत्||३७||

🔊 Audio coming soon

स०-धनरहितः प्रमेही छत्रपादत्ररहितो मुनिवृत्तिः सन् योजनानां शतं यायात्| अथवा, सलिलाशयान् ख़नेत्| अथवा, गोशकृन्मूत्रवर्तनो गोभिरेव सह भ्रमेत्|

Adhikarana kRushe bRuMhaNam (38) · Śloka 38

बृंहयेदौषधाहारैरमेदोमूत्रलैः कृशम्| |३८|

🔊 Audio coming soon

स०-कृशं नरमौषधयुक्तैराहारैर्बृंहयेत्| किम्भूतैः अमेदोमूत्रकरैः|

Adhikarana piTikAnAM cikitsA (38-39) · Śloka 39

| शराविकाद्याः पिटिकाः शोफवत्समुपाचरेत्||३८|| अपक्वा व्रणवत्पक्वाः| |३९|

🔊 Audio coming soon

स०-"शराविका कच्छपिका" (हृ. नि. अ. १०|२५) इत्याद्याः पिटिका अपक्वाः सतीः शोफवदुपक्रमेत्| पक्वाः पुनर्व्रणवदुपाचरेत्|

Adhikarana piTikAnAM prAgrUpe kShIrivRukShajalAdipAnam, piTikAnAM prAgrUpe tIkShNaM shodhanam (39-40) · Śloka 40

तासां प्राग्रूप एव च| क्षीरिवृक्षाम्बु पानायबस्तमूत्रं च शस्यते||३९|| तीक्ष्णं च शोधनं, प्रायो दुर्विरेच्या हि मेहिनः| |४०|

🔊 Audio coming soon

स०-तासां च पूर्वरूपावस्थायामेव क्षीरिवृक्षाम्बु पानाय शस्यते छागमूत्रं च| तथा, शोधनं-विरेचनं, तीक्ष्णं शस्यते| कुतः ? इत्याह-यस्मात् प्रमेहिणो दुःख़ेन विरेचयितुं शक्याः|

Adhikarana piTikAnAM vraNaropaNaM tailam, piTikAnAM udvartanakaShAyaH, piTikAnAM pariShekakaShAyaH (40-41) · Śloka 41

| तैलमेलादिना कुर्याद्गणेन व्रणरोपणम्||४०|| उद्वर्तने कषायं तु वर्गेणारग्वधादिना| परिषेकोऽसनाद्येन पानान्ने वत्सकादिना||४१||

🔊 Audio coming soon

स०-"एलायुग्म" (हृ. सू. अ. १५|४३) इत्यादिना गणेन तैलं व्रणरोपणं कुर्यात्| उद्वर्तने "आरग्वधेन्द्रयव" (हृ. सू. अ. १५|१७) इत्यादिना गणेन कषायं कुर्यात्| "असनतिनिश" (हृ. सू. अ. १५|१९) इत्यादिना परिषेकह् स्यात्| पानमन्नं च "वत्सकमूर्वा' (हृ. सू. अ. १५|३३) इत्यादिना संस्कृतं कुर्यात्|

Adhikarana piTikAnAM pAThAdicUrNaM navAyasaM ca (42-43) · Śloka 43

पाठाचित्रकशार्ङ्गष्टासारिवाकण्टकारिकाः| सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम्||४२|| सञ्चूर्ण्य मधुना लिह्यात्तद्वच्चूर्णं नवायसम्| |४३|

🔊 Audio coming soon

स०-पाठादीन् सञ्चूर्ण्य मधुनाऽवलेहयेत्| नवायसं चूर्णं तद्वत्-माक्षिकेण लिह्यात्|

Adhikarana madhumehinaH shilAjaturasAyanAt punarnavatvam (12) · Śloka 12

मधुमेहित्वमापन्नो भिषग्भिः परिवर्जितः||४३|| शिलाजतुतुलामद्यात्प्रमेहार्तः पुनर्नवः| ४३ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने प्रमेहचिकित्सितं नाम द्वादशोऽध्यायः||१२||

🔊 Audio coming soon

स०-मधुमेहित्वमपि प्राप्तो भिषग्भिश्च परिवर्जितो मेही शिलाजतुपलशतं [ अद्यात्- ] सेवनं कुर्यात्| कृतशिलाजतुतुलश्चासौ पुनर्नवो भवति| ख़ारणादे च विशेषोपक्रमा उक्ताः| यथा-"अश्वत्थचन्दनागरुपाठाक्वाथो जलाभमेहे तु| इक्षुरसाभे पाठाकृमिहन्तृसम्बन्धनः क्वाथः|| सान्द्राकारे मेहे हिताऽऽढकी कर्णिकारो वा| क्वाथस्तथाऽर्जुनस्य पातव्यो वारुणीमेहे|| पिष्टे ससिता रजनी पातव्या शिशिरतोयेन| निम्बश्च शुक्रमेहे तप्तजलेनाथवा सुरया|| सिकतामेहे चित्रकबाह्लीककुष्ठनिःक्वाथः| शीतलमेहे क्वाथः पिचुमन्दकृतश्च पातव्यः|| पाषाणभित्तु सुरया क्वथितः शस्तः शनैर्मेहे| गोक्षुरकस्य कषायो लालामेहे फलत्रिकेण सह|| शल्लक्युशीरसैन्धववचा हिताः क्षारमेहिनः पिष्टाः| क्वथिताश्च नीलमेहे रोध्रसमङ्गाकदम्बाः स्युः|| क्वाथो बिभीतकस्य तु कल्को वा कालमेहिनां शस्तः| धातकिपद्मकविकसाक्वाथः कल्कोऽपि वा निशामेहे|| माञ्जिष्ठे स्युस्त्रिफला जलदं जलपद्मकं रोध्रम्| लोहितमेहे युञ्ज्यात्त्रिफलाक्वाथेन संयुतं गिरिजम्|| वालकं त्रिवृता धात्री मुस्तं च सरसाञ्जनम्| कटुकातिविषारोध्रं ख़ादिरेणाम्भसा पिबेत्|| प्रायः शोधनमेतद्धि प्रधानं समुदाहृतम्|" इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने प्रमेहचिकित्सितं नाम द्वादशोऽध्यायः समाप्तः|| १२||