Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

18. visarpacikitsitādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अस्मादनन्तरं विसर्पचिकित्सितमुत्सेधसामान्याच्चिकित्सासादृश्याच्च व्याख़्यायते-

Adhikarana visarpacikitsitAdhyAyaH visarpe pUrvaM la~gghanaM raktAvaseko shuddhiSca (2-1) · Śloka 1

अथातो विसर्पचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) आदावेव विसर्पेषु हितं लङ्घनरूक्षणम्| रक्तावसेको वमनं विरेकः, स्नेहनं न तु||१||

🔊 Audio coming soon

स०-विसर्पेषु पूर्वमेव लङ्घनादि हितम्| स्नेहनं तु न हितम्|

Adhikarana visarpe madanaPalAdi vamanam (2) · Śloka 2

प्रच्छर्दनं विसर्पघ्नं सयष्टीन्द्रयवं फलम्| पटोलपिप्पलीनिम्बपल्लवैर्वा समन्वितम्||२||

🔊 Audio coming soon

स०-वमनं विसर्पघ्नं मदनफलं मधुयष्टिकेन्द्रयवान्वितं हितम्| पटोलादिभिर्युतं वा मदनफलं हितम्|

Adhikarana visarpe trivRuccUrNAdi virecanam,visarpe koShThage doShe visheSheNa shodhanam (3-4) · Śloka 4

रसेन युक्तं त्रायन्त्या द्राक्षायास्त्रैफलेन वा| विरेचनं त्रिवृच्चूर्णं पयसा सर्पिषाऽथवा||३|| योज्यं, कोष्ठगते दोषे विशेषेण विशोधनम्| |४|

🔊 Audio coming soon

स०-त्रिवृच्चूर्णं त्रायन्त्या रसेन युक्तं द्राक्षारसेन वा त्रिफलारसेन वा विरेचनं योज्यम्, क्षीरेण घृतेन वा त्रिवृच्चूर्णं युक्तम्| कोष्ठगते दोषे विशेषेण शोधनं योज्यम्|

Adhikarana visarpe alpe doShe shamanAH candanotpalAdikvAthAH (4-5) · Śloka 5

| अविशोधस्य दोषेऽल्पे शमनं चन्दनोत्पलम्||४|| मुस्तनिम्बपटोलं वा पटोलादिकमेव वा| सारिवामलकोशीरमुस्तं वा क्वथितं जले||५||

🔊 Audio coming soon

स०-अशोधनार्हस्य पुंसोऽल्पे दोषे शमनं चन्दनोत्पलं योज्यम्| मुस्तनिम्बपटोलं वा योज्यम्| 'पटोलकटुरोहिणी' (हृ. सू. अ. १५|१५) इत्यादिकं वा योज्यम्| सारिवादिकं वा जले क्वथितम्|

Adhikarana visarpe tRuShNAyAM durAlaBAdi kvAthaH visarpe tRuShNAyAM dArvyAdikvAthaH (6-7) · Śloka 7

दुरालभां पर्पटकं गुडूचीं विश्वभेषजम्| पाक्यं शीतकषायं वा तृष्णावीसर्पवान् पिबेत्||६|| दार्वीपटोलकटुकामसूरत्रिफलास्तथा| सनिम्बयष्टीत्रायन्तीः क्वथिता घृतमूर्च्छिताः||७||

🔊 Audio coming soon

स०-दुरालभादिकं क्वथितं शीतकषाय वा तृष्णादिमान् पिबेत्| तथा दार्व्यादीन् निम्बादिभिः सह क्वथितान् सर्पिर्विमिश्रितान् पिबेत्|

Adhikarana visarpe shAkhAduShTe rakte raktaharaNam (8) · Śloka 8

शाख़ादुष्टे तु रुधिरे रक्तमेवादितो हरेत्| त्वङ्मांसस्नायुसंक्लेदो रक्तक्लेदाद्धि जायते||८||

🔊 Audio coming soon

स०-रक्ते च शाख़ादुष्टे सति प्रथमं रुधिरमेव हरेत्| कुतः ? इत्याह-त्वङ्मांसेत्यादि| यस्मात् त्वगादिक्लेदो रक्तक्लेदाज्जायते, [ तस्माद्रक्तं निर्हरेत्| ]

Adhikarana visarpe vAtapittottare nirAme tiktAdighRutAni (9) · Śloka 9

निरामे श्लेष्मणि क्षीणे वातपित्तोत्तरे हितम्| घृतं तिक्तं महातिक्तं शृतं वा त्रायमाणया||९||

🔊 Audio coming soon

स०-निरामे पुंसि तथा वातपित्ताधिके कफे च क्षीणे घृतं तिक्तकादिकं हितम्| पूर्वं सामान्येन विसर्पिणः स्नेहनं निषिद्धम्, अवस्थाविशेषेण च स्नेहनमिदमुक्तम्, इति पूर्वापरव्याहतत्वमत्र नाशङ्कनीयम्|

Adhikarana visarpe vishuddhe~antardauShe lepAdyAH kriyAH (10) · Śloka 10

निर्हृतेऽस्रे विशुद्धेऽन्तर्दोषे त्वङ्मांससन्धिगे| बहिःक्रियाः प्रदेहाद्याः सद्यो वीसर्पशान्तये||१०||

🔊 Audio coming soon

स०-रक्ते निर्हृतेऽन्तर्विशुद्धे दोषे त्वङ्मांसाश्रिते सति प्रलेपसेकाद्या बहिःक्रियाः-परिमार्जने विधेयाः, शीघ्रमेव विसर्पशान्तये स्युः|

Adhikarana vAtaje visarpe shatAhvAlepaH (11) · Śloka 11

शताह्वमुस्तवाराहीवंशार्तगलधान्यकम्| सुराह्वा कृष्णगन्धा च कुष्ठं चालेपनं चले||११||

🔊 Audio coming soon

स०-शतपुष्पादिकं चले-वातविसर्पे, प्रलेपनं हितम्| आर्तगलो-नीलः सहचरः|

Adhikarana pittaje visarpe nyagrodhAdilepAH (12) · Śloka 12

न्यग्रोधादिगणः पित्ते तथा पद्मोत्पलादिकम्| |१२|

🔊 Audio coming soon

स०-न्यग्रोधादिगणः (हृ. सू. अ. १५|४९) पित्तविसर्पे प्रलेपो हितः| तथा पित्तविसर्पे पद्मोत्पलादिकं-दशग्रन्थ्याख़्यं (सङ्ग्रहाख़्य) तन्त्रदवधार्यम्| यथा,- षड्धरणाख़्यो योगः (सं. चि. अ. २१)| सङ्ग्रहे चैवं पठ्यते (चि. अ. २०)- "पद्मोत्पलशैवालपङ्कदूर्वामृणालशृङ्गाटककसेरुकशर्कराह्रीबेरचन्दनमुक्तामणिगैरिकपयस्याप्रपौण्डरीकमधुकपद्मकग़ृतक्षीराणि|" इति|

Adhikarana pittaje visarpe nyagrodhapAdAdilepAH (12-14) · Śloka 14

न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः||१२|| बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः| पद्मिनीकर्दमः शीतः पिष्टं मौक्तिकमेव वा||१३|| शङ्खः प्रवालं शुक्तिर्वा गैरिकं वा घृतान्वितम्| |१४|

🔊 Audio coming soon

स०-न्यग्रोधस्य पादास्तरुणाः-अभिनवाः, कदलीगर्भान्विता बिसग्रन्थिश्च लेपोऽयं शतधौतघृतालोडितः| तथा, पद्मिनीपङ्कः शिशिरः, मौक्तिकं वा जलपिष्टम्, शङ्खो वा पिष्टो विद्रुमो वा शुक्तिर्वा, अथवा गैरिकं घृतयुक्तं, लेपो हितः|

Adhikarana kaPaje visarpe triPalAdilepaH (14-15) · Śloka 15

| त्रिफलापद्मकोशीरसमङ्गाकरवीरकम्||१४|| नलमूलान्यनन्ता च लेपः श्लेष्मविसर्पहा| |१५|

🔊 Audio coming soon

स०-त्रिफलादिभिर्लेपः श्लेष्मविसर्पहृत्|

Adhikarana kaPaje visarpe dhavAdilepAH (15-17) · Śloka 17

| धवसप्ताह्वख़दिरदेवदारुकुरण्टकम्||१५|| समुस्तारग्वधं लेपो वर्गो वा वरुणादिकः| आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः||१६|| इन्द्राणिशाकं काकाह्वा शिरीषकुसुमानि च| |१७|

🔊 Audio coming soon

स०-धवादिकं "वरुणसैर्यक" (हृ. सू. अ. १५|२१) इत्यादिर्वा कर्णिकारस्य वा पत्राणि श्लेष्मातकत्वचो वा इन्द्राण्यादयो वा लेपः|

Adhikarana kaPaje visarpe eBirevauShadhaiH sekavraNABya~ggAdayaH vAtaje visarpe ghRutAdhikA lepAH (17-18) · Śloka 18

| सेकव्रणाभ्यङ्गहविर्लेपचूर्णान् यथायथम्||१७|| एतैरेवौषधैः कुर्याद्वायौ लेपा घृताधिकाः| |१८|

🔊 Audio coming soon

स०-एभिरेव श्लेष्मविसर्पलेपौषधैः सेकादीन् कुर्यात्| व्रणाभ्याङ्गाय हविरिति 'अश्वघासवत्' समासः| वायौ ये लेपा उक्तास्ते घृताधिकाः कार्याः| अधिकशब्दनिर्देशाच्चेदं गमयति,-अन्यत्रापि पित्तविसर्पे कफविसर्पे च ये लेपा उक्तास्तेऽपि स घृताः कार्याः, न त्वघृता इत्यर्थः|

Adhikarana vAtaje sAme ashItoShNA rUkShASca raktapitte ghRutAnvitA atyartha shItAdayaSca lepAH (18-20) · Śloka 20

| कफस्थानगते सामे पित्तस्थानगतेऽथवा||१८|| अशीतोष्णा हिता रूक्षा रक्तपित्ते घृतान्विताः| अत्यर्थशीतास्तनवस्तनुवस्त्रान्तरास्थिताः||१९|| योज्याः क्षणे क्षणेऽन्ये मन्दवीर्यास्त एव च| |२०|

🔊 Audio coming soon

स०-कफस्थानगते सामे वायौ किञ्चिच्छीतोष्णरूक्षाश्च प्रलेपा हिताः, पित्तस्थानगते च| रक्तपित्ते तु घृतान्विता गत्यन्तशीतास्तनवस्तथा तनुवस्त्रान्तरास्थिताः क्षणे क्षणेऽपरेऽपरे योज्याः| च-शब्दो यस्मादर्थे| यस्मात्त एव पुनः पुनः प्रयुज्यमाना मन्दवीर्याः स्युः|

Adhikarana saMsRuShTadoShe saMsRuShTametatkarmaM (20) · Śloka 20

| संसृष्टदोषे संसृष्टमेतत्कर्म प्रशस्यते||२०||

🔊 Audio coming soon

स०-संसृष्टदोषे विसर्पे-उभयरूपे च संसर्गाख़्ये सन्निपाताख़्ये च, एतत्कर्म-इदं चिकित्सितम्, यत्प्रतिदोषमुक्तं तदेव यथायथं संसृष्टं कृत्वा तत्र प्रशस्यते| इति सामान्येन संसृष्टदोषचिकित्सितमुक्त्वा वातपित्तजादिष्वग्निविसर्पादिषूपक्रममाह-

Adhikarana agnivisarpe shatadhautaghRutalepaHagni ghRutamaNDAdinA secanam agni pAnalepasekeShu mahA tiktaMghRutam (21-22) · Śloka 22

शतधौतघृतेनाग्निं प्रदिह्यात्केवलेन वा| सेचयेद्धृतमण्डेन शीतेन मधुकाम्बुना||२१|| सिताम्भसाऽम्भोदजलैः क्षीरेणेक्षुरसेन वा| पानलेपनसेकेषु महातिक्तं परं हितम्||२२||

🔊 Audio coming soon

स०-अग्निशब्देनाग्निविसर्प उपलक्ष्यते| तस्य च लक्षणम् (हृ. नि. अ. १३|५०)- "वातपित्ताज्ज्वर" इत्यादि यावत् "दुष्प्रबोधोऽश्रुते निद्रां सोऽग्निवीसर्प उच्यते|" इति| तमग्निविसर्पं शतधौतघृतेन प्रलेपयेत्| सेचयेदित्यादि| अथवा केवलेन घृतमण्डेन सेचयेत्| शिशिरेण मधुयष्टीजलेन वा सेचयेत्| एवं शर्कराजलेन मुस्तजलेन क्षीरेणेक्षुरसेन वेति योज्यम्| पानादिषु महातिक्तं (हृ. चि. अ. १९|८) सुष्ठु हितम्|

Adhikarana granthivisarpe raktapittaghnaM kRutvA kaPAnilaghnaM karma (23) · Śloka 23

ग्रन्थ्याख़्ये रक्तपित्तघ्नं कृत्वा सम्यग्यथोदितम्| कफानिलघ्नं कर्मेष्टं पिण्डस्वेदोपनाहनम्||२३||

🔊 Audio coming soon

स०-ग्रन्थविसर्पे रक्तपित्तघ्नं कर्म कृत्वा ततः कफानिलघ्नं कर्म पिण्डस्वेदादिकमिष्टम्|

Adhikarana granthi shUle dashamUlatailAdinA secanam (24) · Śloka 24

ग्रन्थिवीसर्पशूले तु तैलेनोष्णेन सेचयेत्| दशमूलविपक्वेन तद्वन्मूत्रैर्जलेन वा||२४||

🔊 Audio coming soon

स०-ग्रन्थिवीसर्पशूले सति दशमूलविपक्वेनोष्णेन तैलेन सेचयेत्| तथैव मूत्रैर्दशमूलविपक्वैरिति वचनविपरिणामेन सम्बन्धः| जलेन वा दशमूलक्वथितेन सेचयेत्|

Adhikarana granthi shUle kRuShNagandhAlepaH granthi shUle naktamAlatvaglepaH granthi shUle shuShkamUlakalepaH granthi shUle biBItakalepaH (25) · Śloka 25

सुख़ोष्णया प्रदिह्याद्वा पिष्टया कृष्णगन्धया| नक्तमालत्वचा शुष्कमूलकैः कलिनाऽथवा||२५||

🔊 Audio coming soon

स०-अथवा, कृष्णगन्धया पिष्टया सुख़ोष्णया प्रदिह्यात्| अथवा, नक्तमालत्वचा पिष्टया सुख़ोष्णया प्रदिह्यात्| शुष्कमूलकैः पिष्टैः सुख़ोष्णैरथवा कलिना-बिभीतकेन, सुख़ोष्णेन लेपयेत्|

Adhikarana granthi granthaBedaBedako dantyAdilepaH (26-27) · Śloka 27

दन्ती चित्रकमूलत्वक् सौधार्कपयसी गुडः| भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि||२६|| बहिर्मार्गाश्रितं ग्रन्थिं किं पुनः कफसम्भवम्| दीर्घकालस्थितं ग्रन्थिमेभिर्भिन्द्याच्च भेषजैः||२७||

🔊 Audio coming soon

स०-दन्त्यादिभिर्द्रव्यैर्लेपः शिलामपि भिन्द्यात्| किमुत कफजं बाह्यमार्गाश्रितं ग्रन्थिं लेपो न भिन्द्यात्| चिरकालावस्थितं ग्रन्थिमेभिरेव-पूर्वोक्तैरौषधैः, भिन्द्यात्|

Adhikarana granthi dIrghakAlasthiragranthibhedakA yUShAnnauShadhAdayaH (28-31) · Śloka 31

मूलकानां कुलत्थानां यूषैः सक्षारदाडिमैः| गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशार्करैः||२८|| सक्षौद्रैर्वारुणीमण्डैर्मातुलुङ्गरसान्वितैः| त्रिफलायाः प्रयोगैश्च पिप्पल्याः क्षौद्रसंयुतैः||२९|| देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च| मस्तभल्लातसक्तूनां प्रयोगैर्माक्षिकस्य च||३०|| धूमैर्विरेकैः शिरसः पूर्वोक्तैर्गुल्मभेदनैः| तप्तायोहेमलवणपाषाणादिप्रपीडनैः||३१||

🔊 Audio coming soon

स०-मूलकादियूषादिभिः सक्षारदाडिमैर्गोधूमादिभोजनैस्तथा पानैः ससीधुमधुश(शा)र्करैस्तथा सक्षौद्रैर्वारुणीमण्डैर्मातुलुङ्गरसान्वितैस्तथा "त्रिफलायाः प्रयोगैः" इत्यारभ्य यावत् "तप्तायोहेमलवणपाषाणादिप्रपीडनैः|" "दीर्घकालस्थितं ग्रन्थिं भिन्द्यात्" इत्यनुवर्त्य योज्यम्|

Adhikarana granthi evamapyanupashame granthau dAhaH pATanaM vA (32-33) · Śloka 33

आभिः क्रियाभिः सिद्धाभिर्विविधाभिर्बले स्थितः| ग्रन्थिः पाषाणकठिनो यदि नैवोपशाम्यति||३२|| अथास्य दाहः क्षारेण शरैर्हेम्नाऽपि वा हितः| पाकिभिः पाचयित्वा वा पाटयित्वा तमुद्धरेत्||३३||

🔊 Audio coming soon

स०-आभिः-पूर्वोक्ताभिः, क्रियाभिः सिद्धाभिः-सिद्धर्षिप्रणीतत्वादसंवादिनीभिः, तथा विविधाभिः-अनेकप्रकाराभिः प्रयुक्ताभिः, बले स्थितो ग्रन्थिर्दीर्घकालानुबन्धत्वादतिप्रबृद्धः अत एव पाषाणकठिनो यदि नैवोपशाम्यति| अथ-अनन्तरं, अस्य दाहः क्षारेण हितः, अग्निना शरैर्हेम्नाऽपि वा हितः| अथवा, पाकिभिरौषधैः-बाह्यान्तः शोधनैः, पाचयित्वा पाटयित्वा तं-ग्रन्थिं, उद्वरेत्|

Adhikarana granthi utkleshe rakte raktamokShaHgranthi apahRute rakte vAtashleShmAjidauShadham (34) · Śloka 34

मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम्| पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम्||३४||

🔊 Audio coming soon

स०-अस्य-ग्रन्थेर्ग्नन्थिविसर्पवतो, रक्तमुत्क्लेशमागतं-विकारकारणं प्रत्युन्मुख़तां प्राप्तं, बहुशो मोक्षयेत्| पुनश्च रक्तेऽपहृते वातश्लेष्मजिदौषधं तत्र हितम्|

Adhikarana sarvavisarpe dAhapAkapraklinne vraNavatkriyA sarva vAtottare vraNe dArvyAditailaM sarva kaPapittottare vraNe dUrvAghRutam (35-36) · Śloka 36

प्रक्लिन्ने दाहपाकाभ्यां बाह्यान्तर्व्रणवत्क्रिया| दार्वीविडङ्गकम्पिल्लैः सिद्धं तैलं व्रणे हितम्||३५|| दूर्वास्वरससिद्धं तु कफपित्तोत्तरे घृतम्| |३६|

🔊 Audio coming soon

स०-प्रक्लिन्ने सर्वस्मिन् विसर्पे दाहपाकाभ्यां चोपलक्षिते बाह्यान्तर्व्रणवत्क्रिया स्यात्| तथा, दार्व्यादिभिः सिद्धं तैलं व्रणे हितम्| वातप्रधाने विसर्प इत्यर्थाद्गम्यते| तथा, कफपित्तोत्तरे विसर्पे दूर्वास्वरसेन पक्वं घृतं हितम्|

Adhikarana sarvaM sarvacikitsayA raktamokShaNasya tulyatvaM tiraskAraNaM ca (36-37) · Śloka 37

| एकतः सर्वकर्माणि रक्तमोक्षणमेकतः||३६|| विसर्पो न ह्यसंसृष्टः सोऽस्रपित्तेन जायते| रक्तमेवाश्रयश्चास्य बहुशोऽस्रं हरेदतः||३७||

🔊 Audio coming soon

स०-एकतः-एकस्मिंश्चिकित्सापक्षे, सर्वकर्माणि-यथानिर्दिष्टानि, रक्तमोक्षणमेकतः-एकस्मिन् पक्षे| एवं विसर्पोद्दिष्टया सर्वचिकित्सया रक्तमोक्षणस्य च विसर्पशमने तुल्यत्वात्| ननु, कथमेतत्स्यात् ? इत्याह- स०-यस्माद्विसर्पः सर्वो रक्तपित्तेनासंसृष्टः-असम्बद्धो, न जायते, न कदाचिद्रक्तपित्ताभ्यामन्तरेणोत्पद्यत इत्यर्थः| अस्य च-विसर्पस्य, रक्तमेवाश्रयो नान्यः| अतः-अस्मात्, बहुशो-बहून्, रक्तमेव हरेत्|

Adhikarana sarva bahudoShe avirecanaghRutaniShedhaH tatkAraNaM ca (18) · Śloka 18

न घृतं बहुदोषाय देयं यन्न विरेचनम्| तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत्||३८|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने विसर्पचिकित्सितं नामाष्टादशोऽध्यायः||१८||

🔊 Audio coming soon

स०-बहुदोषाय विसर्पिणे तद्धृतं न देयं यद्विरेचनं न भवति| पित्तं हि विसर्पे प्राधान्येन चिकित्स्यम्| पित्तस्य च विरेचनमुपक्रमप्रधानमिति| तेन-घृतेन अविरेचनेन, यस्मादुपस्तब्धः-स्तम्भितो दोषः, त्वग्रक्तमांसानि पचेत्| तस्माद्विरेचनकरमेव घृतं योज्यमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने विसर्पचिकित्सितं नामाष्टादशोऽध्यायः समाप्तः|| १८||