Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अस्मादनन्तरं कुष्ठचिकित्सितमारभ्यते| सम्बन्धश्चास्य निदान एवोक्त इत्याह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अस्मादनन्तरं कुष्ठचिकित्सितमारभ्यते| सम्बन्धश्चास्य निदान एवोक्त इत्याह-
Adhikarana kuShThacikitsitAdhyAyaH (2-3) · Śloka 3
अथातः कुष्ठचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| )||३||
🔊 Audio coming soon
त्वग्रक्तमांसादिदूषणात्तत्स्रवणादामयस्वभावाच्च कायकार्श्यं कुष्ठिनः प्रायेणावश्यं भावि| अनेनैवानुसारेण वक्ष्यति (श्लो. १६)- "स्नेहैराप्याययेच्चैनं कुष्ठघ्नैरन्तराऽन्तरा|" इत्याह-
Adhikarana sarvakuShThe pUrvaM snehapAnam (1) · Śloka 1
कुष्ठिनं स्नेहपानेन पूर्वं सर्वमुपाचरेत्| |१|
🔊 Audio coming soon
स०-कुष्ठवन्तं नरं सर्वमेव स्नेहपानैरुपक्रमेत्-शरीराप्यायनार्थं पूर्वमस्य स्नेहोपयोगो युक्त इत्यर्थः|
Adhikarana vAtottare kuShThe dashamUlAdisiddhaM tailaM ghRutaM vA (1-2) · Śloka 2
| तत्र वातोत्तरे तैलं घृतं वा साधितं हितम्||१|| दशमूलामृतैरण्डशार्ङ्गेष्टामेषशृङ्गिभिः| |२|
🔊 Audio coming soon
स०-तस्मिन् वातोत्तरे कुष्ठे दशमूलादिभिः पक्वं तैलं घृतं वा हितम्|
Adhikarana pittottare kuShThe tiktakaM ghRutam (2-7) · Śloka 7
| पटोलनिम्बकटुकादार्वीपाठादुरालभाः||२|| पर्पटं त्रायमाणां च पलांशं पाचयेदपाम्| द्व्याढकेऽष्टांशशेषेण तेन कर्षोन्मितैस्तथा||३|| त्रायन्तीमुस्तभूनिम्बकलिङ्गकणचन्दनैः| सर्पिषो द्वादशपलं पचेत्तत्तिक्तकं जयेत्||४|| पित्तकुष्ठपरीसर्पपिटिकादाहतृड्भ्रमान्| कण्डुपाण्ड्वामयान् गण्डान् दुष्टनाडीव्रणापचीः||५|| विस्फोटविद्रधीगुल्मशोफोन्मादमदानपि| हृद्रोगतिमिरव्यङ्गग्रहणीश्वित्रकामलाः||६|| भगन्दरमपस्मारमुदरं प्रदरं गरम्| अर्शोऽस्रपित्तमन्यांश्च सुकृच्छ्रान् पित्तजान् गदान्||७||
🔊 Audio coming soon
स०-पटोलादि पलांशं द्व्याढके पाचयेत्| तेनाष्टभागशेषेण क्वाथेन तथा कर्षमात्रैस्त्रायन्त्यादिभिर्घृतस्य पलानि द्वादश पचेत्| तदेवं तिक्तकाख्यं सर्पिः पित्तकुष्ठादीन् जयेत्| अपरानपि पित्तजानामयान् हन्ति| एतैश्च द्वादशपलमात्रं पक्वं प्रकृष्टगुणं स्यादिति दृष्टं तत्त्वदर्शिभिर्महर्षिभिः|
Adhikarana pittottare kuShThe mahAtiktaM ghRutam (8-11) · Śloka 11
सप्तच्छदः पर्पटकः शम्याकः कटुका वचा| त्रिफला पद्मकं पाठा रजन्यौ सारिवे कणे||८|| निम्बचन्दनयष्ट्याह्वविशालेन्द्रयवामृताः| किराततिक्तकं सेव्यं वृषो मूर्वा शतावरी||९|| पटोलातिविषामुस्तात्रायन्तीधन्वयासकम्| तैर्जलेऽष्टगुणे सर्पिर्द्विगुणामलकीरसे||१०|| सिद्धं तिक्तान्महातिक्तं गुणैरभ्यधिकं मतम्| |११|
🔊 Audio coming soon
स०-सप्तच्छदादिभिः कल्कैर्घृतादष्टगुणे जले द्विगुणामलकरसे सर्पिः पक्वं महातिक्तसंज्ञं गुणैश्चाभ्यधिकं तिक्तान्मतम्, मुनीनामिति शेषः|
Adhikarana kaPottare kuShTheShu nimbAdisiddhaM ghRutam (11-12) · Śloka 12
| कफोत्तरे घृतं सिद्धं निम्बसप्ताह्रचित्रकैः||११|| कुष्ठोषणवचाशालप्रियालचतुरङ्गुलैः| |१२|
🔊 Audio coming soon
स०-कफोत्तरे निम्बादिभिः कल्कीकृतैः पक्वंघृतं पिबेत्|
Adhikarana sarvakuShTheShu BallAtakAdisnehaH ghRutaM sarvakRumijidAdighRutam (12-13) · Śloka 13
| सर्वेषु चारुष्करजं तौवरं सार्षपं पिबेत्||१२|| स्नेहं घृतं वा कृमिजित्पथ्याभल्लातकैः शृतम्| |१३|
🔊 Audio coming soon
स०-सर्वेषु च कुष्ठेषु भल्लातकोत्थं तुवरजं सर्षपजं वा स्नेहमथवा घृतं कृमिजिदादिभिः साधितं पिबेत्|
Adhikarana sarvakuShTheShu AragvadhamUlaghRutam (13-14) · Śloka 14
| आरग्वधस्य मूलेन शतकृत्वः शृतं घृतम्||१३|| पिबेन् कुष्ठं जयत्याशु भजन् सखदिरं जलम्| |१४|
🔊 Audio coming soon
स०-कर्णिकारस्य मूलेन शतवारान् घृतं पक्वं पिबन् कुष्ठं जयति खदिरयुतं पानीयं सेवमानः|
Adhikarana sarveBireva snehairaBya~jjanam (14) · Śloka 14
| एभिरेव यथास्वं च स्नेहैरभ्यञ्जनं हितम्||१४||
🔊 Audio coming soon
स०-एभिरेव पूर्वोक्तैः स्नेहैर्यथायोगमभ्यञ्जनं हितम्|
Adhikarana sarvakuShTheShu snigdhasya visarpoktaM shodhanam (15) · Śloka 15
स्निग्धस्य शोधनं योज्यं विसर्पे यदुदाहृतम्| |१५|
🔊 Audio coming soon
स०-स्निग्धस्य कुष्ठिनः शोधनं योज्यं यद्विसर्पे कथितम्| तत्र चोक्तम् (हृ. चि. अ. १८|३)- "रसेन युक्तं त्रायन्त्या द्राक्षायाः" इत्यादि|
Adhikarana sarvakuShTheShu lalATahastapAdeShu shirAmokShAH (15-16) · Śloka 16
| ललाटहस्तपादेषु शिराश्चास्य विमोक्षयेत्||१५|| प्रच्छानमल्पके कुष्ठे शृङ्गाद्याश्च यथायथम्| |१६|
🔊 Audio coming soon
स०-ललाटादिषु चास्यातुरस्य बलापेक्षी वैद्यो शिरां विमोक्षयेत्| अत्यल्पे कुष्ठे प्रच्छानं स्यात्| यथायथं-यथास्वं, शृङ्गाद्याश्च स्युः|
Adhikarana sarvakuShTheShu antarA~antarA snehairApyAyanaM tatkAraNaM ca (16-17) · Śloka 17
| स्नेहैराप्याययेच्चैनं कुष्ठघ्नैरन्तराऽन्तरा||१६|| मुक्तरक्तविरिक्तस्य रिक्तकोष्ठस्य कुष्ठिनः| प्रभञ्जनस्तथा ह्यस्य न स्याद्देहप्रभञ्जनः||१७||
🔊 Audio coming soon
स०-अन्तराऽन्तरा स्रुतरक्तं कृतविरेकं च कुष्ठघ्नैः स्नेहैरेनं-कुष्ठिनं, आप्याययेत्| एवं कृते सत्यस्य-कुष्ठिनो, मुक्तरक्तस्य तथा विरिक्तस्यात एव रिक्तकोष्ठस्य प्रभञ्जनो देहस्य प्रभञ्जनो-विघातको, न स्यात्|
Adhikarana sarvakuShTheShu vajrakaghRutam (18) · Śloka 18
वासामृतानिम्बवरापटोल- व्याघ्रीकरञ्जोदककल्कपक्वम्| सर्पिर्विसर्पज्वरकामलास्र- कुष्ठापहं वज्रकमामनन्ति||१८||
🔊 Audio coming soon
स०-वासादिभिः सिद्धं सर्पिर्विसर्पादिघ्नम्| एतच्च वज्रकसंज्ञं घृतं वदन्ति| इन्द्रवज्रावृत्तम्|
Adhikarana sarvakuShTheShu mahAvajrakaghRutam (19-20) · Śloka 20
त्रिफलात्रिकटुद्विकण्टकारी- कटुकाकुम्भनिकुम्भराजवृक्षैः| सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नववज्रदुग्धमुष्ट्या||१९|| पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च| कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान् हन्त्यात्कृच्छ्रांस्तन्महावज्रकाख़्यम्||२०||
🔊 Audio coming soon
स०-त्रिफलादिभिः कार्षिकैः प्रत्यग्रस्रुहीक्षीरपलेन सह पिष्टैरेभिरौषधैर्घृतप्रस्थं चतुर्गुणजलसिद्धं क्रूरकोष्ठे स्नेहनं स्यात् रेचनं च| तथा, कुष्ठादीन् दारुणान् हन्यात्| तच्च महावज्रकं नाम| औपच्छन्दसिकशालिन्यौ वृत्ते|
Adhikarana sarvakuShTheShu UrdhvAMdhaH shodhanaM dantIghRutam (21) · Śloka 21
दन्त्याढकमपां द्रोणे पक्त्वा तेन घृतं पचेत्| धामार्गवपले पीतं तदूर्ध्वाधो विशुद्धिकृत्||२१||
🔊 Audio coming soon
स०-दन्त्याश्चतुःषष्टिपलानि जलद्रोणे पचेत्| तेन क्वाथेन राजकोशातकीपले घृतं पचेत्| तत्पीतमूर्ध्वाधो विशुद्धिकरम्|
Adhikarana sarvakuShTheShu AvartakIghRutam (22-23) · Śloka 23
आवर्तकीतुलां द्रोणे पचेदष्टांशशेषितम्| तन्मूलैस्तत्र निर्यूहे घृतप्रस्थं विपाचयेत्||२२|| पीत्वा तदेकदिवसान्तरितं सुजीर्णे भुञ्जीत कोद्रवमसंस्कृतकाञ्जिकेन| कुष्ठं किलासमपचीं च विजेतुमिच्छन् इच्छन् प्रजां च विपुलां ग्रहणं स्मृतिं च||२३||
🔊 Audio coming soon
स०-आवर्तक्याः शतं द्रोणेऽपामष्टांशशेषितं पचेत्| त्त्रक्वाथे, तस्या मूलैः कल्कीकृतैर्घृतप्रस्थं विपाचयेत्| तद्धृतमेकदिवसान्तरितं पीत्वा सुष्ठु जीर्णे च घृते कोद्रवमसंस्कृतेन काञ्जिकेन सह भुञ्जीत| कुष्ठादीन् विजिगीषुः, प्रजां च विस्तीर्णामिच्छन्, ग्रहणं स्मृतिं चाभिलषन्| वसन्ततिलकावृत्तम्|
Adhikarana sarvakuShTheShu lelItakavasA (24) · Śloka 24
यतेर्लेलीतकवसा क्षौद्रजातीरसान्विता| कुष्ठघ्नी समसर्पिर्वा सगायर्त्र्यसनोदका||२४||
🔊 Audio coming soon
स०-यतेः-ब्रह्मचर्यास्थितस्य, लेलीतकवसा माक्षिकजातीरसयुता कुष्ठघ्नी स्यात्| लेलीतकवसा-सौवर्चललवणतैलम्, गन्धकमेके| जातीरसो-बोलः| अथवा, समघृता खदिरासनोदकसहिता कुष्ठघ्नी स्यात्|
Adhikarana sarvakuShTheShu hitamannapAnaM sarva tyAjyaM amlalavaNAdi (25-27) · Śloka 27
शालयो यवगोधूमाः कोरदूषाः प्रियङ्गवः| मुद्गा मसूरास्तुवरी तिक्तशाकानि जाङ्गलम्||२५|| वरापटोलख़दिरनिम्बारुष्करयोजितम्| मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत्||२६|| अन्नपानं हितं कुष्ठे, न त्वम्ललवणोषणम्| दधिदुग्धगुडानूपतिलमाषांस्त्यजेत्तराम्||२७||
🔊 Audio coming soon
स०-शाल्यादिकमन्नपानं च वरादिभिर्योजितं कुष्ठे हितम्| इन्दुराजिः-बाकुची| अम्लादिकमन्नपानं न हितं कुष्ठे स्यात्| तथा दध्यादीनतिशयेन वर्जयेत्| प्रतिरोगं च यन्निदानवर्जनं तच्चिकित्सितमेवेत्यवगन्तव्यम्|
Adhikarana sarvakuShTheShu paTolamUlAdikvAthasya ShaDrAtraprayogaH (28-30) · Śloka 30
पटोलमूलत्रिफलाविशालाः पृथक्त्रिभागापचितत्रिशाणाः| स्युस्त्रायमाणा कटुरोहिणी च| भागार्धिके नागरपादयुक्ते||२८|| एतत्पलं जर्जरितं विपक्वं जले पिबेद्दोषविशोधनाय| जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत||२९|| कुष्ठं किलासं ग्रहणीप्रदोष- मर्शांसि कृच्छ्राणि हलीमकं च| षड्रात्रयोगेन निहन्ति चैतद् हृद्वस्तिशूलं विषमज्वरं च||३०||
🔊 Audio coming soon
स०-पृथक्-प्रत्येकं, त्रिभागेनापचितो-न्यूनः, तृतीयः शाणो येषां ते पटोलादयः पञ्च पृथक्त्रिभागापचितत्रिशाणाः| लोकेऽपि चैवं प्रयुक्ता एव| यथा,-त्रिभागोनास्त्रयो द्रम्मा देया इति| अत्र हि द्वौ द्रम्मौ तृतीयश्च द्रम्मस्त्रिभागेन हीन इति गम्यते| तदेवं पटोलस्य शाणौ द्वौ धानकाश्च चतस्रो भवन्ति| षड्धानको हि शाणः| एवं पटोलमूलादिद्रव्याणां पञ्चानां प्रत्येकं षोडशधानकाः स्युः| स्यात्त्रायमाणा कटुरोहिणी च भागार्धिके| किम्भूते ? नागरपादयुक्ते सत्यौ, न तु केवले| तदयमर्थः,-त्रायन्त्या धानकाः षट्, कटुकाया धानकाः षट्, नागरस्य धानकाश्चतस्रः| षोडशधानका ह्यत्र मूलद्रव्यभागः| तदेवं पटोलादीनां पञ्चानामशीतिर्धानकाः, त्रायन्तीकटुकयोः शुण्ठीपादयुतयोः षोडशधानकाः, इति षण्णवतिधानकाभिः पलं भवति| तदिदं पलं जर्जरितं किञ्चिच्चूर्णितं जले विपक्वं दोषविशुद्ध्यर्थं पिबेत्| जीर्णे सत्यौषधे जाङ्गलमृगपक्षिणां मांसरसैः सह पुराणशाल्योदनमश्र्नीयात्| उपजाती वृत्ते| एतच्च पीतं षड्रात्रयोगेन-षड्दिनान्युपयुक्तं, कुष्ठादीन् हन्ति| इन्द्रवज्रावृत्तम्|
Adhikarana sarvakuShTheShu mANiBadrasiddho yogaH (31-32) · Śloka 32
विडङ्गसारामलकाभयानां पलत्रयं, त्रीणि पलानि कुम्भात्| गुडस्य च द्वादश, मासमेष जितात्मनां हन्त्युपयुज्यमानः||३१|| कुष्ठश्वित्रश्वासकासोदरार्शो- मेहप्लीहग्रन्थिरुग्जन्तुगुल्मान्| सिद्धं योगं प्राह यक्षो मुमुक्षो- र्भिक्षोः प्राणान् माणिभद्रः किलेमम्||३२||
🔊 Audio coming soon
स०-विडङ्गसारादीनां समुदितानां पलत्रयम्, त्रीणि पलानि कुम्भात्-त्रिवृतायास्त्रीणि पलानि, गुडस्य च द्वादशपलानि| एष प्रयोगो जितेन्द्रियाणां मासमुपयुज्यमानो वक्ष्यमाणान् गदान् हन्ति| "उपेन्द्रवज्रा तु जतौ जगौ गः|" मासशब्दोपादानाच्च प्रत्यहमस्माद्योगादर्धपलं धानकानवरक्तिकात्रयसहितमभ्यवहरणीयत्वेनात्रावतिष्ठते| अन्यत्रापि प्रदेशे य एवंविधो निर्देशस्तत्र परिमाणकल्पनायामयमेव न्यायोऽनुमन्तव्यः| मणिभद्राख़्यो यक्षो भिक्षोः प्राणान् मुमुक्षोः-जीवितं जिहासोः, इमं सिद्धं योगं प्राणकरं प्राह,-जगादेत्यर्थः| अत्र भूते काले प्राहेति, तथा साधु किलेत्यागमिकत्वं च सूचयति| शालिनीवृत्तम्|
Adhikarana sarvakuShTheShu BUnimbAdi cUrNam (33-35) · Śloka 35
भूनिम्बनिम्बत्रिफलापद्मकातिविषाकणाः| मूर्वापटोलीद्विनिशापाठातिक्तेन्द्रवारुणीः||३३|| सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम्| लिह्याद्दन्तीत्रिवृद्ब्राह्मीश्चूर्णिता मधुसर्पिषा||३४|| कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम्|३५|
🔊 Audio coming soon
स०-भूनिम्बादयस्तुल्या दन्त्यादयश्च यथोत्तरं द्विगुणाश्चूर्णिता मधुसर्पिषा लिह्यात्| कुष्ठादीनामेतत् परमं भेषजम्|
Adhikarana sarvakuShTheShu triphalAdicUrNam (35) · Śloka 35
| वराविडङ्गकृष्णा वा लिह्यात्तैलाज्यमाक्षिकैः||३५||
🔊 Audio coming soon
स०-त्रिफलादीन् वा तैलघृतमाक्षिकैर्लिह्यात्|
Adhikarana sarvakuShTheShu vRukShakakvAthaH (36) · Śloka 36
काकोदुम्बरिकावेल्लनिम्बाब्दव्योषकल्कवान्| हन्ति वृक्षकनिर्यूहः पानात्सर्वांस्त्वगामयान्||३६||
🔊 Audio coming soon
स०-काकोदुम्बरिकादिकल्कवान् वृक्षकक्वाथः पानात्सर्वान् त्वग्रोगान् हन्ति| काकोदुम्बरिका-फल्गुः| वृक्षको-वत्सकः|
Adhikarana sarvakuShTheShu kuTajAdisiddhaharItakIcUrNam (37) · Śloka 37
कुटजाग्निनिम्बनृपतरुखदिरासनसप्तपर्णनिर्यूहे| सिद्धा मधुघृतयुक्ताः कुष्ठघ्नीर्भक्षयेदभयाः|३७|
🔊 Audio coming soon
स०-कुटजादिक्वाथे सिद्धाः पक्वा हरीतकीर्मधुघृतसंयुक्ताः कुष्ठनुदो भक्षयेत्| आर्यावृत्तम्|
Adhikarana sarvakuShTheShu dArvyAditvakkvAthaH (37) · Śloka 37
दार्वीख़दिरनिम्बानां त्वक्क्वाथः कुष्ठसूदनः| ||३७||
🔊 Audio coming soon
स०-दार्व्यादीनां त्वक्क्वाथः कुष्ठनाशनः स्यात्|
Adhikarana sarvakuShTheShu nishAdeH kvAtho ghRutaM ca sarva khadirAdeH pRuthak ghRutaM ca (38-39) · Śloka 39
निशोत्तमानिम्बपटोलमूल- तिक्तावचालोहितयष्टिकाभिः| कृतः कषायः कफपित्तकुष्ठं सुसेवितो धर्म इवोच्छिनत्ति||३८|| एभिरेव च शृतं ग़ृतमुख़्यं भेष्जैर्जयति मारुतकुष्ठम्| कल्पयेत्ख़दिरनिम्बगुडूची- देवदारुरजनीः पृथगेवम्||३९||
🔊 Audio coming soon
स०-निशादिभिः कषायः कृतः कफपित्तजं कुष्ठमुद्दलयति| सुष्ठु सेवितो यथा धर्मः| एभिरेव-पूर्वोक्तैरौषधैः, पक्वं वरं ग़ृतं वातकुष्ठं जयति| एवं-अनयैव कल्पनया, पृथक् ख़दिरादीन् कल्पयेत्| उपजातिस्वागते वृत्ते|
Adhikarana sarvakuShTheShu pAThAdiBirmUtramuShNajalaM vA (72)) · Śloka 40
पाठादार्वीवह्निघुणेष्टाकटुकाभि- मूत्रं युक्तं शक्रयवैश्चोष्णजलं वा| कुष्ठी पीत्वा मासमरुक् स्याद्गुदकीली मेहीशोफी पाण्डुरजीर्णी कृमीमांश्च||४०||
🔊 Audio coming soon
स०-पाठादिभिरिन्द्रयवैश्च गोमूत्रं युक्तमथवोष्णजलं मासं पीत्वा कुष्ठी नीरुक् स्यात्| अर्शसादिश्च| "वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम्|" (वृ. र. अ. ३|७२)|
Adhikarana sarvakuShTheShu lAkShAdicUrNam (41) · Śloka 41
लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्ग- प्रत्यक्ऽऽपुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम्| रक्ता निम्बं सुरतरु कृतं पञ्चमूल्यौ च चूर्णं पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम्||४१||
🔊 Audio coming soon
स०-लाक्षादिचूर्णं गोमूत्रेण मासं पीत्वा हितभोजी सन् कुष्ठं जयति| रक्ता-मञ्जिष्ठा| सुरतरुशब्दस्य नपुंसकत्वमौषधवाचित्वाल्लोकाश्रयत्वाल्लिङ्गस्येतिवा| पञ्चमूल्यौ-देशमूलमित्यर्थः| "मन्दाक्रान्ता मभनततगा गः समुद्रर्तुलोकैः|"
Adhikarana sarvakuShTheShu nishAdeScUrNa paTakA vA (42) · Śloka 42
निशाकणानागरवेल्लतौवरं सवह्निताप्यं क्रमशो विवर्धितम्| गवाम्बुपीतं वटकीकृतं तथा निहन्ति कुष्ठानि सुदारुणान्यपि||४२||
🔊 Audio coming soon
स०-निशादिकं क्रमेण विवर्धितं गोमूत्रेण पीतमथवा वटकीकृतं कुष्ठानि सुकृच्छ्राण्यपि निहन्ति| "उशन्ति वंशस्थमिदं जतौ जरौ|"
Adhikarana sarvakuShTheShu trikaTvAdiguTikA (43) · Śloka 43
त्रिकटूत्तमातिलारु- ष्कराज्यमाक्षिकसितोपलाविहिता| गुलिका रसायनं कु- ष्ठजिच्च वृष्या च सप्तसमा||४३||
🔊 Audio coming soon
स०-त्रिकटुकादिभिर्गुलिका विहिता रसायनं कुष्टहृद् वृष्या च स्यात्| एवं च सप्तसमाख़्या| त्रिकटुकत्रिफले ह्यत्र समुदायरूपत्वाद् द्वे एव कल्पिते| "आर्या विपुला तु याऽन्यथा पादभाक्|"
Adhikarana sarvakuShTheShu candraSakalAdi vaTakAH (44) · Śloka 44
चान्द्रशकलाग्निरजनी- विडङ्गतुवरास्थ्यरुष्करत्रिफलाभिः| वटका गुडांशक्ल्ऱ्प्ताः समस्तकुष्ठानि नाशयन्त्यभ्यस्ताः||४४||
🔊 Audio coming soon
स०-चन्द्रशकलादिभिर्वटका गुडांशेन क्ल्ऱ्प्ताः-शीलिताः, निःशेषकुष्ठानि घ्नन्ति| चन्द्रशकला-बाकुची| आर्यागीतिः|
Adhikarana sarvakuShTheShu viDa~ggAdipiNDI (45) · Śloka 45
विडङ्गभल्लातकबाकुचीनां सद्वीपिवाराहिहरीतकीनाम्| सलाङ्गलीकृष्णतिलोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम्||४५||
🔊 Audio coming soon
स०-विडङ्गादीनां चूर्णेन गुडेन पिण्डी लाङ्गलिकाद्यन्विता कुष्ठं विजयते|
Adhikarana sarvakuShTheShu shashA~gkalekhAdilehaH (46) · Śloka 46
शशाङ्कलेख़ा सविडङ्गसारा सपिप्पलीका सहुताशमूला| सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा||४६||
🔊 Audio coming soon
स०-शशाङ्कलेख़ा विडङ्गादिभिः सह तैलेन लीढा कृच्छ्राणि कुष्ठानि विनाशयति| उपजातिवृत्तम्(त्ते)|
Adhikarana sarvakuShTheShu pathyAdipiNDI,sarvakuShTheShu guDAdipiNDI (47) · Śloka 47
पथ्यातिलगुडैः पिण्डी कुष्ठं सारुष्करैर्जयेत्| गुडारुष्करजन्तुघ्नसोमराजीकृताऽथवा||४७||
🔊 Audio coming soon
स०-पथ्यादिभिः सभल्लातकैः पिण्डी कुष्ठं जयेत्| गुडादिभिर्वा कृता पिण्डी कुष्ठं हन्ति|
Adhikarana sarvakuShTheShu khadiracUrNam (48) · Śloka 48
विडङ्गाद्रिजतुक्षौद्रसर्पिष्मत्ख़ादिरं रजः| किटिभश्वित्रदद्रुघ्नं ख़ादेन्मितहिताशनः||४८||
🔊 Audio coming soon
स०-ख़दिरचूर्णं विडङ्गादियुतं मितहितभोजनः किटिभादिघ्नं ख़ादेत्|
Adhikarana sarvakuShTheShu sitAdilehaH (49) · Śloka 49
सितातैलकृमिघ्नानि धात्र्ययोमलपिप्पलीः| लिहानः सर्वकुष्ठानि जयत्यतिगुरूण्यपि||४९||
🔊 Audio coming soon
स०-सितादीनि लिहानोऽशेषकुष्ठानि कृच्छ्राण्यपि जयति|
Adhikarana sarvakuShTheShu mustAdicUrNam (50-52) · Śloka 52
मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूले द्वे| सप्तच्छदनिम्बत्वक् सविशाला चित्रको मूर्वा||५०|| चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वंशम्| नित्यं कुष्ठनिबर्हणमेतत्प्रायोगिकं ख़ादन्||५१|| श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि| वर्धभगन्दरपिडकाकण्डूकोठापचीर्हन्ति||५२||
🔊 Audio coming soon
स०-मुस्तादिकं समभागं सक्तुभागैर्नवभिः संयोजितं मध्वंशेन युतमेतच्चूर्णं प्रायोगिकं-प्रयोगयोग्यं, कुष्ठघ्नं सततं खादेत्| आर्यास्तिस्रः|
Adhikarana sarvakuShTheShu tuvarAsthyAdirasAyanAni (137)) · Śloka 53
रसायनप्रयोगेण तुवरास्थीनि शीलयेत्| भल्लातकं बाकुचिकां वह्निमूलं शिलाह्वयम्||५३||
🔊 Audio coming soon
स०-रसायनोक्तेन विधिना तुवरास्थीनि (हृ. ऊ. अ. ३९|८४) , शीलयेत्| भल्लातकं वा (हृ. उ. अ. ३९|७५) , सोमराजीं वा (हृ. उ. अ. ३९|१०७) , चित्रकमूलं वा (हृ. उ. अ. ३९|६३) , शिलाजतु वा (हृ. उ. अ. ३९|१३७)|
Adhikarana sarvakuShTheShu ityantadauShe vijite bahi pralepAdi hitam (54) · Śloka 54
इति दोषे विजितेऽन्तस्- त्वक्स्थे शमनं बहिः प्रलेपादि हितम्| तीक्ष्णालेपोत्क्लिष्टं कुष्ठं हि विवृद्धिमेति मलिने देहे||५४||
🔊 Audio coming soon
स०-इति-एवंप्रकारेण, अन्तर्विजिते दोषेऽत एव त्वक्स्थे बहिः प्रलेपादि हितम्| आदिशब्देन स्नानादिपरिग्रहः| ननु, बहिर्भागस्थं कुष्ठं किमिति पूर्वमेव प्रलेपादिना न जीयते ? इत्याह-तीक्ष्णेत्यादि| यस्मात्तीक्ष्णेन लेपेनोत्क्लिष्टं-उत्क्लेशं प्रापितं, कुष्ठं मलिने-सदोषे, काये विवृद्धिं याति| तस्मादन्तःशुद्धे काये प्रलेपादिकं हितम्| आर्यागीतिः|
Adhikarana sarvakuShTheShu sthirakaThiNamaNDaleShu poTalaiH svedaH (55) · Śloka 55
स्थिरकठिनमण्डलानां कुष्ठानां पोटलैर्हितः स्वेदः| स्विन्नोत्सनं कुष्ठं शस्त्रैर्लिख़ितं प्रलेपनैर्लिम्पेत्||५५||
🔊 Audio coming soon
स०-स्थिराणि कठिनानि च मण्डलानि येषां कुष्ठानां तेषां पोटलैः स्वेदो हितः| स्विन्नोत्सन्नं कुष्ठं शस्त्रैर्लिख़ितं प्रलेपैर्लिम्पेत्| गीतिरार्या|
Adhikarana sarvakuShTheShu svinnotsanneShu lekhanaM lepanaM ca sarvakuShTheShu sparshaindriyanASaneShu kShAraH (56) · Śloka 56
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनेषु कुष्ठेषु| तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य||५६||
🔊 Audio coming soon
स०-येषु कुष्ठेषु स्पर्शेन्द्रियनाशनेषु शस्त्रं न क्रमते, तेषु रक्तं दोषं च विस्राव्य क्षारो निपातनीयः| क्रमत इति "वृत्तिसर्ग" इत्यादिना तड्|
Adhikarana sarvakuShTheShu atikaThinaparuShApurANaMtvAdiyukteShu viShairagadaSca kramAllepaH (57) · Śloka 57
लेपोऽतिकठिनपुरुषे सुप्ते कुष्ठे स्थिरे पुराणे च| पीतागदस्य कार्यो विषैः समन्त्रोऽगदैश्चानु||५७||
🔊 Audio coming soon
स०-पाषाणवत्कठिने तथा परुषस्पर्शे तथा सुप्ते स्थिरीभूते तथा पुराणे च कुष्ठे सत्यातुरस्योपयुक्तागदस्य विषैर्मन्त्रसहितैर्ले(तो ले)पः कार्यः| अनु-पश्चात्, अगदैश्च लेपः|
Adhikarana sarvakuShTheShu stabdhatvAdiyukteShu ghRuShTvA lepaH (58) · Śloka 58
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि| घृष्टानि शुष्कगोमयफेनकशस्त्रैः प्रदेह्यानि||५८||
🔊 Audio coming soon
स०-कुष्ठानि स्तब्धानि तथाऽतिसुप्तानि तथाऽस्वेदनानि कण्डूवन्ति च शुष्कगोमयादिभिघृष्टान्यनन्तरं प्रलेप्यानि|
Adhikarana sarvakuShTheShu mustAdikaShAyaH siddhAthaikaM snAnam sarvakuShTheShu mustA vamanaM virecanaM tvagdoShAdi nAshakaSca (59-60) · Śloka 60
मुस्ता त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः| सप्ताह्वकुष्ठफलिनीदार्व्यः सिद्धार्थकं स्नानम्||५९|| एष कषायो वमनं विरेचनं वर्णकस्तथोद्धर्षः| त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः||६०||
🔊 Audio coming soon
स०-मुस्तादयः स्नानं स्यात्| एष एव कषायो वमनं [विरेचनं] वर्णकरस्तथोद्धर्षस्त्वग्दोषादिप्रबाधनः पाण्डुरोगहृच्च स्यात्|
Adhikarana sarvakuShTheShu karavIramUlAdikvAthalepaH (61) · Śloka 61
करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम्| मूत्रे दर्वीलेपी क्वाथो लेपेन कुष्ठघ्नः||६१||
🔊 Audio coming soon
स०-करवीरमूलादिना चतुर्गुणे गोमूत्रे क्वथिते दर्वीलेपी क्वाथो लेपेन कुष्ठघ्नः-कुष्ठापहः|
Adhikarana sarvakuShTheShu shvetakaravIramulAdi lepaH (62) · Śloka 62
श्वेतकरवीमूलं कुटजकरञ्जात्फलं त्वचो दार्व्याः| सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः||६२||
🔊 Audio coming soon
स०-सितकरवीरमूलादयः सुमनःपल्लवयुतो लेपो निश्चितं कुष्ठघ्नः|
Adhikarana sarvakuShTheShu SirIShatvagAdicaturvidholepaH (63) · Śloka 63
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि| पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः||६३||
🔊 Audio coming soon
स०-शिरीषत्वगादिलेपश्चतुःप्रकारः कुष्ठजित्| आर्या अष्टौ|
Adhikarana sarvakuShTheShu vyoShAdi lepaH (64) · Śloka 64
व्योषसर्षपनिशागृहधूमै- र्यावशूकपटुचित्रककुष्ठैः| कोलमात्रगुटिकाऽर्धविषांशा श्वित्रकुष्ठहरणो वरलेपः||६४||
🔊 Audio coming soon
स०-व्योषादिभिर्द्रव्यैः समांशैस्तदर्धविषोपेतैः कोलप्रमाणावटिका लेपतः श्वित्रं कुष्ठं हन्ति| [ स्वागतावृत्तम्| ]
Adhikarana sarvakuShTheShu nimbAdicUrNasyodvartanam (65-66) · Śloka 66
निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारु शिग्रुः| ससर्षपं तुम्बरुधान्यवन्यं चण्डा च चूर्णानि समानि कुर्यात्||६५|| तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत| तथाऽस्य कण्डूः पिटिकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||६६||
🔊 Audio coming soon
स०-पूर्वं तैलाभ्यक्तं शरीरं निम्बादिभिः समभागेन चूर्णीकृतैरुद्वर्तनार्थं यत्नं कुर्यात्| तथा-एवं कृते, अस्य-आतुरस्य, कण्ड्वादयः शाम्यन्ति| उद्वर्तनानन्तरमुष्णजलस्नानं कार्यम्|
Adhikarana sarvakuShTheShu mustAdicUrNasyAvacUrNanam (67-68) · Śloka 68
मुस्तामृतासङ्गकटङ्कटेरी- कासीसकम्पिल्लककुष्ठरोध्राः| गन्धोपलः सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||६७|| तैलाक्तगात्रस्य कृतानि चूर्णा- न्येतानि दद्यादवचूर्णनार्थम्| दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति||६८||
🔊 Audio coming soon
स०-मुस्तादीनि समान्येतानि चूर्णानि कृतानि तैलभ्यक्तदेहस्यावचूर्णनार्थं दद्यात्| तथा-एवमवचूर्णिते सति, दद्रुरित्यादयो नश्यन्ति| चत्वार्येतान्युपजातिसंज्ञानि वृत्तानि|
Adhikarana sarvakuShTheShu sarShapakalkalepaH sarvakuShTheShu manaH shilAdilepaH sarvakuShTheShu kara~jjAlepaH (69-70) · Śloka 70
स्नुग्गण्डे सर्षपात्कल्कः कुकूलानलपाचितः| लेपाद्विचर्चिकां हन्ति रागवेग इव त्रपाम्||६९|| मनःशिलाले मरिचानि तैल- मार्कं पयः कुष्ठहरः प्रदेहः| तथा करञ्जप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टम्||७०||
🔊 Audio coming soon
स०-सर्षपाणां कल्कः स्रुह्या गण्डे कुकूलाग्नौ पाचितो लेपेन विचर्चिकां हन्ति, रागवेगो लज्जां यथा| मनःशिलादयः प्रलेपात् कुष्ठहृतः| तद्वदेव करञ्जादि गोमूत्रपिष्टम्| उपजातिवृत्तम्|
Adhikarana sarvakuShTheShu guggulvAdiBi miSrakatailamishrairlepaH (71-72) · Śloka 72
गुग्गुलुमरिचविडङ्गैः सर्षपकासीससर्जरसमुस्तैः| श्रीवेष्टकालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः||७१|| उभयहरिद्रासहितैश्चाक्रिकतैलेन मिश्रितैरेभिः| दिनकरकराभितप्तैः कुष्ठं घृष्टं च नष्टं च||७२||
🔊 Audio coming soon
स०-गुग्गुल्वादिभिरेतैश्चक्रजतैलेन मिश्रितैः सूर्यरश्मितप्तैघृष्टं कुष्ठं द्राक् नश्यति| चाक्रिकं तैलं-सद्यःपीडितं चक्रस्थमेवोष्णं तैलम्| केचित्तु बहुकालकृततैलपीडनात् कोल्लु(हृ)ककाष्ठाद्देवदारुकाष्ठवत् खण्डशः पाटिताद्युक्त्या यत्तैलं गृह्यते तच्चक्रतैलमित्याहुः|
Adhikarana sarvakuShTheShu sidhme maricAdilepaH (73-74) · Śloka 74
मरिचं तमालपत्रं कुष्ठं समनःशिलं सकासीसम्| तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे||७३|| तेनालिप्तं सिध्मं सप्ताहाद् घर्मसेविनोऽपैति| मासान्नवं किलासं स्नानेन विना विशुद्धस्य||७४||
🔊 Audio coming soon
स०-मरिचादिकं तैलेन युक्तं सप्तदिनानि ताम्रभाजने स्थितं तेन च-मरिचादिना, सिध्ममालिप्तं घर्मसेविनो नरस्य सप्ताहेनापैति| मासाद्यत्सद्योत्थितं श्वित्रं तन्नश्यति| स्नानेन विना विशुद्धस्य नरस्य| चतस्र आर्याः, आर्याश्च जघनचपलाः|
Adhikarana sarvakuShTheShu sidhme jyotiShmatItailam (75) · Śloka 75
मयूरकक्षारजले सप्तकृत्वः परिस्रते| सिद्धं ज्योतिष्मतीतैलमभ्यङ्गात्सिध्मनाशनम्||७५||
🔊 Audio coming soon
स०-अपामार्गक्षारोदके सप्तवारान् परिस्रुते सुवर्णलतातैलं पक्वमभ्यङ्गेन सिध्मं नाशयति|
Adhikarana sarvakuShTheShu sidhme kAkaja~gghAmUlAdilepaH (76) · Śloka 76
वायसजङ्घामूलं वमनीपत्राणि मूलकाद्बीजम्| तक्रेण भौमवारे लेपः सिध्मापहः सिद्धः||७६||
🔊 Audio coming soon
स०-काकजङ्घामूलं वमन्याः पत्राणि मूलकबीजं च तक्रेणाङ्गारकदिने लेपः सिध्मघ्नः सिद्धः|
Adhikarana sarvakuShTheShu jIvantyAdighRutatailapAkaH (77-78) · Śloka 78
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकं पयस्तुत्थम्| एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः||७७|| देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता| चर्मैककुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च||७८||
🔊 Audio coming soon
स०-एष घृततैलपाकः घृततैलाभ्यां पाको यस्य योगस्य स घृततैलपाकः, गमकत्वात्समासः| सिद्धो-निष्पन्नः| सिद्धेऽस्मिन् पाके सर्जरसो मदनेन सह देयः| तेन-सिद्धेन योगेन, विपादिकाऽभ्यक्ता नश्यति| तथा, चर्मैककुष्ठादिकं च शाम्यति| क्षीरमूत्रार्कं ग्राह्यम्, यौगिकत्वाद्वृद्धवैद्यव्यवहाराच्च| आर्यास्तिस्रः|
Adhikarana sarvakuShTheShu nADIvraNeShu vajrakaM tailam (79-80) · Śloka 80
मूलं सप्ताह्वात्त्वक् शिरीषाश्वमारा- दर्कान्मालत्याश्चित्रकास्फोतनिम्बात्| बीजं कारञ्जं सार्षपं प्रापुनाटं श्रेष्ठा जन्तुघ्नं त्र्यूषणं द्वे हरिद्रे||७९|| तैलं तैलं साधितं तैः समूत्रै- स्त्वग्दोषाणां दुष्टनाडीव्रणानाम्| अभ्यङ्गेन श्लेष्मवातोद्भवानां नाशायालं वज्रकं वज्रतुल्यम्||८०||
🔊 Audio coming soon
स०-सप्तपर्णमूलं शिरीषादीनां त्वक् करञ्जादीनां बीजं तथा त्रिफलादयः, एतैर्गोमूत्रसहितैस्तिलतैलं पक्त्वा वातकफोद्भवानां त्वग्दोषाणां तथा दुष्टनाडीव्रणानामभ्यङ्गेन नाशाय वज्रकसंज्ञमेतदलं-समर्थम्| तथा वज्रतुल्यम्, अव्याहतशक्तित्वात्| [ वैश्वदेवी शालिनी च| ]
Adhikarana sarvakuShTheShu nADIvraNeShu mahAvajratailam (81-82) · Śloka 82
एरण्डतार्क्ष्यघननीपकदम्बभार्ङ्गी- कम्पिल्लवेल्लफलिनीसुरवारुणीभिः| निर्गुण्ड्यरुष्करसुराह्वसुवर्णदुग्धा- श्रीवेष्टगुग्गुलुशिलापटुतालविश्वैः||८१|| तुल्यस्नुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम्| अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम्||८२||
🔊 Audio coming soon
स०-एरण्डादिभिस्तुल्यस्नुगर्कदुग्धं तैलं पक्वं महावज्रसंज्ञं स्मृतम्| अतिशयेन वज्रकगुणं श्वित्रादिघ्नम्| वसन्ततिलकं आर्या च|
Adhikarana sarvakuShTheShu kuShThAditailam (83) · Śloka 83
कुष्ठाश्वमारभृङ्गार्कमूत्रस्नुक्क्षीरसैन्धवैः| तैलं सिद्धं विषावापमभ्यङ्गात् कुष्ठजित्परम्||८३||
🔊 Audio coming soon
स०-कुष्ठादिभिः सिद्धं तैलं विषावापमभ्यङ्गात् परं कुष्ठहृत्|
Adhikarana sarvakuShTheShu pAmAvicarcikayoH kaTutailam (84) · Śloka 84
सिद्धं सिक्थकसिन्दूरपुरतुत्थकतार्क्ष्यजैः| कच्छूं विचर्चिकां चाशु कटुतैलं निबर्हति||८४||
🔊 Audio coming soon
स०-सिक्थकादिभिः पक्वं सर्षपतैलं कच्छ्वादीन्निहन्ति|
Adhikarana sarvakuShTheShu dadruShu lAkShAdilepaH (85) · Śloka 85
लाक्षा व्योषं प्रापुनाटं च बीजं सश्रीवेष्टं कुष्ठसिद्धार्थकाश्च| तक्रोन्मिश्रः स्याद्धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम्||८५||
🔊 Audio coming soon
स०-लाक्षादयो निशा च तक्रोन्मिश्रो दद्रूषु लेप उक्तः| मूलकबीजं च तक्रमिश्रं तद्वत्| शालिनीवृत्तम्|
Adhikarana sarvakuShTheShu citrakAdayAH ShaT lepAH (86-87) · Śloka 87
चित्रकसोभाञ्जनकौ, गुडूच्यपामार्गदेवदारूणि| ख़दिरो धवश्च लेपः, श्यामा दन्ती द्रवन्ती च||८६|| लाक्षारसाञ्जनैलाः, पुनर्नवा चेति कुष्ठिनां लेपाः| दधिमण्डयुताः पादैः षट् प्रोक्ता मारुतकफघ्नाः||८७||
🔊 Audio coming soon
स०-चित्रकादयो दधिमण्डान्विताः पादैः षट् वातश्लेष्मकुष्ठघ्ना गदिताः| तत्र चित्रकसोभाञ्जनकावित्येको लेपः, गुडूच्यपामार्गदेवदारूणीति द्वितीयः, एवमन्येऽपि वेद्याः| आर्ये|
Adhikarana sarvakuShTheShu pittakaPottareShu jalAdilepaH (88) · Śloka 88
जलवाप्यलोहकेसरपत्रप्लवचन्दनमृणालानि| भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे||८८||
🔊 Audio coming soon
स०-जलादीनि भागोत्तराणि सिद्धः पित्तकफकुष्ठे प्रलेपः| जलं-वालकम्| वाप्यं-कुष्ठम्| जघनचपलाऽऽर्या|
Adhikarana sarvakuShTheShu dAhayukteShu tiktaghRutAdiBiraBya~ggaH sarvakuShTheShu kledaprapAtAdiShu shItalepAdayaH (89-90) · Śloka 90
तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु| तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च||८९|| क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके च चर्मदले| शीताः प्रदेहसेका व्यधनविरेकौघृतं तिक्तम्||९०||
🔊 Audio coming soon
स०-तिक्तद्रव्यसाधितैर्घृतैस्तथा जलेन धौतैर्घृतैरभ्यङ्गो दाहयुक्तेषु कुष्ठेषु हितः| क्लेदे च प्रकर्षेण पतति सति तैलैश्चन्दनादियुक्तैरभ्यङ्गः, चशब्दाद्धृतैश्च, प्रकृतत्वाद्धितः| अङ्गे दाहादिमति शीतप्रदेहाद्यास्तिक्तकं च घृतं हितम्| व्यधनं-सिराव्यधः|
Adhikarana sarvakuShTheShu kRumikuShTheShukhadirAdayaH (91) · Śloka 91
ख़दिरवृषनिम्बकुटजाःश्रेष्ठाकृमिजित्पटोलमधुपर्ण्यः अन्तर्बहिः प्रयुक्ताः कृमिकुष्ठनुदः सगोमूत्राः||९१||
🔊 Audio coming soon
स०-ख़दिरादयो गोमूत्रान्विता अभ्यन्तरं बाह्यतश्च प्रयुक्ताः कृमियुतकुष्ठहृतः|
Adhikarana sarvakuShTheShu vAtottareShu pUrvaM ghRutaM sarvakuShTheShu kaPottareShu pUrvaM vamanaM sarvakuShTheShu pittottareShu pUrvaM raktamokSho virekaSca (92) · Śloka 92
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु| पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे||९२||
🔊 Audio coming soon
स०-वाताधिकेषु कुष्ठेषु ग़ृतमग्रे-पूर्वं, हितम्| श्लेष्माधिकेषु च वमनम्| पित्तोत्तरेषु रक्तमोक्षो विरेचनं चाग्रे हितम्|
Adhikarana sarvakuShTheShu nihRutAstradoShAdiShu lepAH siddhidAH (93) · Śloka 93
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्| संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम्||९३||
🔊 Audio coming soon
स०-निर्हृतास्रदोषाणां तथा संशोधितशयानां कुष्ठानां ये लेपा युज्यन्ते, तेषां सद्यः-शीघ्रमेव, सिद्धिः-आमयनिवृत्तिः, भवति| अत एवेदमाह-
Adhikarana sarvakuShTheShu bahudoSheShu saMshodhanam (94) · Śloka 94
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने| स्नेहे च कालयुक्ते न कुष्ठमतिवर्तते साध्यम्||९४||
🔊 Audio coming soon
स०-दोषे-वातादौ, हृते रक्तेऽपनीते बाह्येऽभ्यन्तरे शमने कृते स्नेहे कृते च काले युक्ते कुष्ठं साध्यं नातिवर्तते| अपि तूपशाम्यति| आर्याः षट्, अन्यत्र जघनचपलाः (?)|
Adhikarana sarvakuShTheShu doShAtiharaNe mRutyuH (95) · Śloka 95
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्| दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु||९५||
🔊 Audio coming soon
स०-बहुदोषः कुष्ठी प्राणान् रक्षता भिषजा पुनःपुनः संशोध्यः| एकवेलयैव कस्मान्न शोध्यते ? इत्याह-यस्माद्दोषेऽतिमात्रहृते सत्यबलं नरं वातो द्रागेव हन्यात्| आर्या|
Adhikarana sarvakuShTheShu vamanAdInAM kAlaniyamaH (96) · Śloka 96
पक्षात्पक्षाच्छर्दनान्यभ्युपेया- न्मासान्मासाच्छोधनान्यप्यधस्तात्| शुद्धिर्मूर्घ्नि स्यात्त्रिरात्रात्त्रिरात्रात् षष्ठे षष्ठे मास्यसृड्मोक्षणं च||९६||
🔊 Audio coming soon
स०-असौ कुष्ठी पक्षेण वमनानि सेवेत| मासान्मासादधःशोधनानि भजेत्| शिरसि त्रिरात्रे त्रिरात्रे शुद्धिः स्यात्| षष्ठे षष्ठे रक्तमोक्षश्च स्यात्|
Adhikarana sarvakuShTheShu kRutyadoShanirharaNam (97) · Śloka 97
यो दुर्वान्तो दुर्विरिक्तोऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्यतेऽसौ| निःसन्देहं यात्यसाध्यत्वमेवं तस्मात् कृत्स्नान्निर्हरेदस्य दोषान्||९७||
🔊 Audio coming soon
स०-यः कुष्ठी कृतासम्यग्वमनविरेचनः स्यात्, असावुद्धतैर्दोषैर्व्याप्यते| एवं निश्चयेनासाध्यत्वं याति| तस्माद्धेतोरस्य-कुष्ठिनः, कृत्स्नान्-निख़िलान्, दोषान्निर्हरेत्| शालिनीवृत्तम्(त्ते)|
Adhikarana sarvakuShTheShu vratasevanAdi (19) · Śloka 19
व्रतदमयमसेवा त्यागशीलाभियोगो द्विजसुरगुरुपूजा सर्वसत्त्वेषु मैत्री| शिवशिवसुतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति||९८|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने कुष्ठचिकित्सितं नामैकोनविंशोऽध्यायः||१९||
🔊 Audio coming soon
स०-व्रतादिसेवा त्यागाद्यभ्यासो द्विजादिपूजा सर्वसत्त्वमैत्री शिवाद्याराधनानि कुष्ठं प्रकटितमलपापं नाशयन्ति| मालिनीवृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने कुष्ठचिकित्सितं नामैकोनविंशोऽध्यायः समाप्तः|| १९||