Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. raktapittakāsanidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

ज्वरनिदानादनन्तरं रक्तपित्तनिदानमारभ्यते| यतो ज्वर ऊष्मणा विना न सम्भवति, पित्तं च विना न कदाचिदूष्मा| तस्माज्ज्वरनिदानादूर्ध्वं रक्तपित्तनिदानमिदानीमारब्धुं युक्तमित्याह-

Adhikarana raktapittakAsanidAnAdhyAyaH (2) · Śloka 2

अथातो रक्तपित्तकासनिदानं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२|

🔊 Audio coming soon

स०-व्याख्याऽस्य पूर्ववत्|

Adhikarana raktapittanidAnam,raktapittasya saMprAptiH (1-2) · Śloka 2

भृशोष्णतीक्ष्णकट्वम्ललवणादिविदाहिभिः| कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः||१|| कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्च्छिते| ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुतस्तनुम्||२||

🔊 Audio coming soon

स०-भृशशब्दस्योष्णादिभिर्विदाह्यन्तैः सम्बन्धः| आदिशब्देनात्र क्षारादयो गृह्यन्ते| भृशोष्णादिभिरन्नैः पित्तलैरतिसेवितैर्द्रवं-द्रवस्वभावं, यत् पित्तं तत् कुपितं-दुष्टं, तथा रक्तं कुपितं, तैरेवातिसेवितैः| अतिसेवनं चोभयता भवति,-चिरकालमभ्यवहृतैस्तथाऽतिमात्राभ्यवहृतैः| न केवलमेतैर्यावत् कोद्रवोद्दालकैश्चान्नैः| तदित्यनेन भृशोष्णादीनि परामृश्यन्ते| तैर्युक्तैः-मिश्रितैः कोद्रवोद्दालकैश्चान्नैरतिसेवितैः कुपितं पित्तं तथा रक्तं च भवति| ते-द्वे अपि रक्तपित्ते, मूर्च्छिते-मिश्रतां गते, मिथः-परस्परं, तुल्यरूपत्वं-समवर्णत्वं, आगम्य-प्राप्य, सर्वां तनुं-देहं, व्याप्नुतो-व्यश्र्नुवाते| ननु, भृशोष्णादीनां पित्तलत्वाव्यभिचारात् किमर्थं पित्तलैरित्युक्तम् ? ब्रूमः| दाडिमामलकसैन्धवेष्वम्ललवणादिषु व्यभिचारात्| तथाहि-दाडिमामलकसैन्धवान्यम्ललवणान्यपि पित्तं न कुरुते| अपि च न केवलं भृशोष्णादियुक्तैः कुपितं पित्तं रक्तं च| यावदन्यैरपि पित्तलैरभृशोष्णादिस्वभावैर्व्रीहिप्रभृतिभिरतिसेवितैः कुपितं पित्तं चेति प्रतिपादनार्थं पित्तलैरित्युक्तम्| ननु, एवं सति पित्तलैरित्येव निर्देशः कर्तुं युक्त उभयानुग्रहार्थः| तथा च भृशोष्णादीनि तथाऽन्यान्यप्यभृशोष्णादीनि व्रीहिप्रभृतीन्येवं गृहीतानि भवन्ति| अस्त्येवैतत्| किन्तु पित्तलत्वसामान्याद्गृहीतानामपि भृशोष्णादीनामुपादानं कृतमतिशयद्योतनार्थम्| यथा भृशोष्णादीन्यतिशयेन पित्तं रक्तं च कोपयन्ति, न तथाऽन्यानि व्रीहिप्रभृतीनि| अत एव कोद्रवोद्दालकौ शीतवीर्यावपि भृशोष्णादिद्रव्ययुतौ पित्तस्य कर्तारौ भवतः| भृशोष्णादीनामतिपित्तलत्वात्| ननु, पित्तस्य द्रवमिति विशेषणमयुक्तम्, व्यभिचाराभावात्| तथा च तन्त्रकृज्जगौ (हृ. सू. अ. १|११)- "पित्तं सस्नेहस्तीक्ष्णोष्णं लघु विस्रं सरं द्रवम्|" इति| अत्रोच्यते| पित्तमद्रवमप्यस्ति| कथं ज्ञायते ? ग्रन्थकारवचनात्| तथा चोवाच तन्त्रकृत् (हृ. सू. अ. १२|९०)- "पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम्| पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्|| त्यक्तद्रवत्वं" इत्यादि| तस्मात् यद्द्रवरूपं पित्तं तद्भृशोष्णादिभिः कुपितं रक्तपित्ते कारणम्, न पुनर्यत् त्यक्तद्रवत्वं-कठिनतां प्राप्तं, इति प्रतिपादयितुं द्रवग्रहणम्| ननु, यदि तुल्यरूपत्वं पित्तरक्ते प्राप्ते, तत्कथमीदृशो निर्देश उपपद्यते ? " अधोगं यापयेद्रक्तं" (हृ. चि. अ. २|२) इति| एवमादौ हि रक्तस्य पित्तसहितस्यैव निर्देशो युक्तो "रक्तपित्तमधोगं यापयेत्" इति|

Adhikarana pittasya raktatve vAcye hetuH (3) · Śloka 3

एवमाशङ्क्याह - - - - पित्तं रक्तस्य विकृतेः संसर्गाद्दूषणादपि| गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते||३||

🔊 Audio coming soon

स०-पित्तं रक्तेन व्यपदिश्यते| यस्मात् पित्तं रक्तस्य विकृतिः-विकारो, रक्तादुत्पन्नमित्यर्थः| तथा चोक्तम् (हृ. शा. अ. ३|६३) - "कफः पित्तं मलाः स्वेषु प्रस्वेदो नखरोम च| स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः||" इति| तथा, संसर्गात्-अन्योन्यमिश्रीभावात्| तथा, दूषणादपि-यस्माद्रक्तं पित्तेनाश्वेछ दूष्यते, तथा रक्तदूषणैः पित्तमपि दूष्यते, तात्स्थ्यात्| तथा च ग्रन्थः (हृ. सू. अ. ११|२७) - "यदेकस्य तदन्यस्य वर्द्धनक्षपणौषधम्|" इति| अन्ये तु धातवो न तथा दूष्यन्ते यथा पित्तम्| तथा चोक्तम् (हृ. सू. अ. ११|२६)- "तत्रास्थिनि स्थितो वायुः पित्तं तु स्वेदरक्तयोः|" इति| तथा, गन्धवर्णानुवृत्तेश्च| गन्धश्च वर्णश्च गन्धवर्णौ, तयोरनुवृत्तिः-अनुकरणं गन्धवर्णानुवृत्तिः| कस्य गन्धवर्णो ? प्रकृतत्वाद्रक्तस्य यादृशौ गन्धवर्णौ तादृशावपि पित्तस्य| एवं च रक्तेन तत् व्यपदिश्यते| तस्मात् " अधोगं यापयेद्रक्तं" इत्यादिनिर्देशो युक्त एव| ननु, रक्तस्य शरीरे स्वाभाविकं प्रमाणमुक्तमष्टावेवाञ्जलयः| प्रकोपमापन्नं त्वाढकादिसङ्ख्यातमपि दृश्यते|

Adhikarana raktodgamasthAnam (4) · Śloka 4

तत्कथमेतत् ? इत्याह - - - - प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च तत्| |४|

🔊 Audio coming soon

स०-असृजः स्थानात् तत्-पित्तमूर्च्छितं रक्तं, प्रभवति-प्रकर्षेण भवति वर्धते| तस्माद्बहुत्वमस्य युक्तमेव| किं तदसृजः स्थानम् ? यतस्तत्प्रभवतीत्याह-प्लीहतो यकृतश्चेति |

Adhikarana raktapittasya pUrvarUpam (4-7) · Śloka 7

अथास्य पूर्वरूपाण्याह - | शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः||४|| छर्दिश्छर्दितबैभत्स्यं कासः श्वासो भ्रमः क्लमः| लोहलोहितमत्स्यामगन्धास्यत्वं स्वरक्षयः||५|| रक्तहारिद्रहरितवर्णता नयनादिषु| नीललोहितपीतानां वर्णानामविवेचनम्||६|| स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति| |७|

🔊 Audio coming soon

स०-शिरोगुरुत्वादिकमस्मिन्-रक्तपित्ते, भविष्यति सति भवति| छर्दिते-वमिते, बैभत्स्यं-जुगुप्सा| स्वप्ने-स्वप्नावस्थायां, तद्वर्णदर्शित्वं-रक्तवर्णाकारं पश्यति| तच्च रक्तपित्तं त्रिविधमूर्ध्वगमधोगमुभयमार्गगं च|

Adhikarana raktapittasya rUpam (7-8) · Śloka 8

तत्रोर्ध्वगमाह - | ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः||७|| कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते| |८|

🔊 Audio coming soon

स०-ऊर्ध्वगं रक्तपित्तं कुपितं नासादिभिः सप्तभिर्द्वारैः प्रवर्तते| अधोगं रक्तपित्तं कुपितं मेढ्रयोनिगुदैस्त्रिभिर्द्वारैः प्रवर्तते| प्राण्यङ्गानां द्वन्द्व एकवदित्यस्य प्रायिकत्वाद्बहुवचनमत्र न दुष्टम्| तथा रोमकूपैः समस्तैः| चशब्दान्नासाक्षिकर्णास्यमेढ्रयोनिगुदैरुभयमार्गमुभयमार्गाभ्यां तत्-रक्तपित्तं, प्रवर्तते|

Adhikarana Urdhvagasya sAdhyatvam virecyatvasya hetutve yuktiH bahvauShadhatvadarSanam (8-10) · Śloka 10

| ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधनम्||८|| बह्वौषधं च, पित्तस्य विरेको हि वरौषधम्| अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत्||९|| कषायाः स्वादवोऽप्यस्य विशुद्धश्लेष्मणो हिताः| किमु तिक्ताः कषाया वा ये निसर्गात्कफापहाः||१०||

🔊 Audio coming soon

स०-ऊर्ध्वं-ऊर्ध्वगं रक्तपित्तं, साध्यम्| यस्मात्कारणात् कफादधिकाज्जायते| तच्च विरेचनसाधनम्| साध्यतेऽनेनेति साधनं,-चिकित्सितम्| तच्च-ऊर्ध्वगं रक्तपित्तं, बह्वौषधम्| बहु औषधं यस्य तद्बह्वौषधं,-अनेकसाधनम्, मधुरकषायतिक्तद्रव्यसाध्यत्वात्| अपिच, यस्माद्विरेकः पित्तस्य वरौषधम्| तथा चोक्तम् (च. सू. अ. २५|४०) - "विरेचनं पित्तहराणाम्|" इति| यश्च [ तत्र- ] तस्मिन्नूर्ध्वगे रक्तपित्ताख्ये व्याधौ, कफोऽनुबन्धी| तस्य-अनुबन्धिनः कफस्य, विरेचनं शुद्धिकृत्-शोधनं करोति| अतो हेतोरूर्ध्वगं रक्तपित्तं साध्यम्| कषायाः-स्वरसकल्कश्रृतशीतफाण्टाख्याः, ते स्वादवोऽपि हिताः, व्याधिप्रतिपक्षत्वात्| न तु दोषप्रतिपक्षताद्वारेण, दोषसमानत्वात्तेषाम्| अथवा केचन मकुष्ठतण्डुलीयादिसम्बन्धिनो व्याधिप्रतिपक्षास्तथा रूक्षत्वाद्दोषप्रतिपक्षा इति श्लेष्मणोऽपि हिताः| अपिशब्दात्तिक्तादयोऽपि| विशुद्धो-वाताद्यदूषितः, श्लेष्मा यस्य स तस्य| किमु-किंपुनः, तिक्ताः कषायाश्च ये स्वरसादयस्तेऽप्यस्य-ऊर्ध्वगस्य रक्तपित्ताख्यस्य व्याधेरथवा तद्वतो नरस्य विशुद्धश्लेष्मणो, हिताः| व्याधिप्रतिपक्षत्वाद्दोषप्रतिपक्षत्वाच्च ये निसर्गात्-स्वभावात्, कफघ्नाः|

Adhikarana adhogasya yApyatvam (11-12) · Śloka 12

अधो याप्यं चलाद्यस्मात्तत्प्रच्छर्दनसाधनम्| अल्पौषधं च पित्तस्य वमनं न वरौषधम्||११|| अनुबन्धी चलो यश्च शान्तयेऽपि न तस्य तत्| कषायाश्च हितास्तस्य मधुरा एव केवलम्||१२||

🔊 Audio coming soon

स०-अधो याप्यं-अधोगं रक्तपित्तं याप्यम्| कस्मात् ? यस्माच्चलात्-वातादधिकात्, 'उत्पद्यते' इत्यध्याहार्यम्| तच्च-अधोगं रक्तपित्तं, प्रच्छर्दनसाधनम्| प्रच्छर्दनं-वमनं, साधनं-चिकित्सितं, यस्य तदेवम्| तथा, अल्पमौषधं-चिकित्सितं, यस्य तदल्पौषधम्, नोर्ध्वगरक्तपित्तवद्बह्वौषधम्| कथम् ? इत्याह-यस्मादयं रोगः पित्तप्रधानः| पित्ते च वमनं न वरौषधं-श्रेष्ठमौषधं न भवति| कफे हि वमनं प्रधानमुक्तम्| अल्पौषधत्वे द्वितीयं हेतुमाह-कषायाश्चेत्यादि| तस्य-अधोगस्य रक्तपित्तस्य, मधुरा एव केवलं कषाया हिताः-पथ्याः, न तिक्ताः कषायाश्च, तेषां वातकोपकारणत्वात्| तथा, अस्य चलो-वायुः, योऽनुबन्धी-अनुबलत्वेन स्थितः, तस्यापि वायोर्न तत्-वमनं, शान्तये-शान्त्यर्थम्|

Adhikarana UrdhvAdhogasyAsAdhyatvam (13-15) · Śloka 15

कफमारुतसंसृष्टमसाध्यमुभयायनम्| अशक्यप्रातिलोम्यत्वादभावादौषधस्य च||१३|| न हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमगम्| शोधनं प्रतिलोमं च रक्तपित्ते भिष्ग्जितम्||१४|| एवमेवोपशमनं सर्वशो विद्यते| संसृष्टेषु हि दोषेषु सर्वजिच्छमनं हितम्||१५||

🔊 Audio coming soon

स०-उभयायनं-मार्गद्वयप्रपन्नं, कफमारुतसंसृष्टमसाध्यं-साधयितुमशक्यम्| असाध्यत्वे हेतुद्वयमाह-अशक्यप्रातिलोम्यत्वादित्यादि| अनुलोमविपरीतः-प्रतिलोमः, तस्य भावः प्रातिलोम्यम्| अशक्यं-कर्तुमशक्यं प्रातिलोम्यं यस्य रक्तस्य तदशक्यप्रातिलोम्यम्| तस्य भावोऽशक्यप्रातिलोम्यत्वम्| तस्मादुभयायनं रक्तपित्तमसाध्यम्| अभावादौषधस्य च,-एतद्योग्यौषधासम्पत्तेश्चैतदसाध्यम्| ननु, कथमेवमुच्यते ? इत्याह-न हीत्यादि| हि-यस्मात्, तदस्य संशोधनं प्रतिलोमगं न किञ्चिदस्ति| यच्च प्रतिलोमगं संशोधनं तद्रक्तपित्ते भिषग्जितं-औषधम्| तच्च तथाभूतमौशधं न सम्भवति यत्तत्र संशमनार्थं दीयते| यद्यधोमार्गापेक्षया दीयते तदानीमूर्ध्वभागप्रवृत्तं रक्तं प्रवृद्धं सम्पद्यते| अथोर्ध्वमार्गापेक्षया विरेचनमुपयुज्यते तदाऽधोगं रक्तपित्तं वर्द्धते| एवमस्य प्रतिलोमगमौषधं शोधनं न सम्भवति| तस्मादौषधस्याभावः| भिषग्जितमिति भिषक्ऽऽशब्दात् कण्ड्वादियगन्तान्निष्ठा इट्च| स्वभावाच्चायं भेषजवाची| ननु, उभयायनस्य रक्तपित्तस्य संशोधनरूपमौषधं मा भवतु| शमनरूपं त्वौषधमस्य शमाय भविष्यतीति "अभावादौषधस्य च" इत्ययुक्तमुदितम्, इत्याशङ्क्याह-एवमेवेत्यादि| यथा शोधनमस्य-उभयायनस्य, शमनाय न सम्भवति तथा शमनमपि यदौषधं तदप्येतस्य शमनं न सम्भवति| कुतो हेतोः ? इत्याह-संसृष्टेष्वित्यादि| हि-यस्मात्, संसृष्टेषु त्रिषु दोषेषु यत्सर्वजिच्छमनं तद्धितम्| तच्च सन्तर्पणापतर्पणरूपत्वाद्द्विविधम्| तत्र यदि सन्तर्पणं बृंहणं शमनमधोमार्गप्रवृत्तरक्तपित्तदोषापेक्षया मारुतशान्त्यर्थमुपयुज्यते तदा तच्छान्तिं कुर्वतो रक्तपित्तविकारकरणस्य श्लेष्मणो वृद्धये सम्पद्यते| अथापतर्पणमूर्ध्वभागप्रवृत्तदोषापेक्षया कफशान्त्यर्थमुपयुज्यते तदानीं तस्य शान्तिं कुर्वतोऽधोगरक्तपित्तस्य कारणं वायुं प्रकोपयेत्| न चोभयात्मकमेकं नृसिंहरूपवत् शमनमस्ति यत्प्रयोजितमुभयायनस्य शमनाय स्यात्| तस्मादुभयायनमसाध्यम्|

Adhikarana anubodhidoShaj~jAnopAyaH (16) · Śloka 16

तत्र दोषानुगमनं सिरास्र इव लक्षयेत्| |१६|

🔊 Audio coming soon

स०-तत्र-तस्मिन् रक्तपित्ते, दोषानुगमनं-वातपित्तश्लेष्मणामनुबन्धं, सिरास्र इव-सिराव्यधविध्युक्तम् (हृ. सू. अ. २७|४०) - "वाताच्छ्यावारुणं रूक्षं" इत्यादिग्रन्थनिर्दिष्टेन लक्षणेन लक्षितं, लक्षयेत्|

Adhikarana raktapittasya upadravAH (16-17) · Śloka 17

| उपद्रवाश्चं विकृतिज्ञानतस्तेषु चाधिकम्||१६|| आशुकारी यतः कासस्तमेवातः प्रवक्ष्यति| |१७|

🔊 Audio coming soon

स०-उपद्रवांश्च विकृतिज्ञानतो लक्षयेदिति योज्यम्| विकृतिज्ञानशब्देन विकृतिविज्ञानीयः (हृ. शा. अ. ५) उपलक्ष्यते| तेषु च-उपद्रवेषु मध्ये, यः कासाख्य उपद्रवः स आशुकारी-क्षिप्रं मारयति, यतोऽतस्तमेव रक्तपित्तनिदानानन्तरं प्रकर्षेण निदानप्राग्रूपादिभिर्वक्ष्यति-भणिष्यति, तन्त्रकृत्|

Adhikarana kAsaprakaraNam, kAsaBedAH (17) · Śloka 17

| पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः||१७||

🔊 Audio coming soon

स०-पृथग्दोषैस्त्रयः क्षयेणैक इति कासाः पञ्चैव स्मृताः| ननु, यदि पञ्चैव कासास्तत्कथं भणिष्यति ? (हृ. चि. अ. ३|१) - "केवलानिलजं कासं स्नेहैरादावुपाचरेत्|" इति| न ह्यन्यदोषयुक्तो वातिकः कासोऽभिहितः| अपि तु त्रिभिरपि दोषैः पृथगेवोक्ताः कासाः| तथा, (हृ. चि. अ. ३|२५) - "पित्तकासे तु सकफे वमनं सर्पिषा हितम्|" तथा, (हृ. चि. अ. ३|२७) - "पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्| युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः||" इत्यादि| तथा, अस्मिन्नेवाध्यायेऽध्येष्यते (श्लो. ३७) - "साध्या दोषैः पृथक् त्रयः| मिश्रा याप्या द्वयात्" इति| तदेतत्पूर्वापरव्याहतमिव| अत्रोच्यते| कासाः पञ्चैव वक्ष्यमाणया सम्प्राप्त्या जायन्ते, वस्तुस्वाभाव्यात्| अनन्तरं वातिककासे कदाचिदाहारविहारवशात् पित्तेनानुबन्धः कदाचित् श्लेष्मणा जायते| पित्तकासे तथैवाहारविहारवशात् कदाचिद्वातेनानुबन्धः कदाचिच्छ्लेष्मणेति| कफकासेऽपि तद्वदाहारविहारवशात् वातेनानुबन्धः कदाचित्पित्तेन| इति किञ्चिदत्र पूर्वापरव्याहतत्वम्|

Adhikarana pa~jcAnAM kShayahetutvam (18) · Śloka 18

क्षयायोपेक्षिताः सर्वे| |१८|

🔊 Audio coming soon

स०-सर्व एव कासा उपेक्षिताः-चिकित्सां विना, क्षयाय सम्पद्यन्ते, उत्तरोत्तरक्रियावस्थाकर्षणात्| क्षयजोऽप्युपेक्षितः क्षयायैवेति बोध्यम्|

Adhikarana pa~jcAnAmuttarottaraM duHsAdhyatvam (18) · Śloka 18

बलिनश्चोत्तरोत्तरम्| |१८|

🔊 Audio coming soon

स०-उत्तरोत्तरं चैते कासा बलिनः|

Adhikarana pUrvarUpam (18-19) · Śloka 19

तेषां कासानां पूर्वरूपमाह - | तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः||१८|| शूकपूर्णाभकण्ठत्वम्| |१९|

🔊 Audio coming soon

स०-तेषां-कासानां, भविष्यतां उत्पित्सूनां, गले कण्डूः-खर्जूः, तथाऽरोचकः, तथा शूकपूर्णसदृशकण्ठत्वं च भवति|

Adhikarana saMprAptiH (19-21) · Śloka 21

अधुना सर्वकासानां सम्प्राप्तिं दर्शयति - तत्राधो विहतोऽनिलः| ऊर्ध्वं प्रवृत्तः प्राप्योरस्तस्मिन् कण्ठे च संसजन्||१९|| शिरःस्रोतांसि सम्पूर्य ततोऽङ्गान्युत्क्षिपन्निव| क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वे च पीडयन्||२०|| प्रवर्तते स वक्त्रेण भिन्नकांस्योपमध्वनिः| |२१|

🔊 Audio coming soon

स०-तत्र-तेषु कासेषु, अनिलोऽधः-अधस्तात्, विहतो-विशेषेणात्यर्थं हतः, ऊर्ध्वं प्रवृत्तोऽनन्तरं क्रमेणोरो-हृदयं, प्राप्य तस्मिन्-उरसि, संसजन्-अभिष्वजमानः, तथा कण्ठेऽपि संसजन्, अनन्तरं शिरस्रोतांसि सम्पूर्य-मस्तकशिरा आद्माप्य, ततः-अनन्तरम्, अङ्गानि-सर्वानवयवान्, उत्क्षिपन्निव-ऊर्ध्वं प्रेरयन्निव, तथाऽक्षिणी क्षिपन्निव-बहिरिव शरीरात्प्रेरयन्, तथा पृष्ठमुरश्च पार्श्वे च पीडयन्, सः-वायुः, वक्क्रेण प्रवर्तते| किम्भूतः ? भिन्नकांस्योपमध्वनिः, भिन्नं-भग्नं, यत् कास्यं तत्तुल्यशब्दः|

Adhikarana kAsaBede yuktiH (21-22) · Śloka 22

ननु, कथमेकरूपायां काससम्प्राप्तौ सत्यामनेकरूपता कासरुग्ध्वनीनां जायते ? इत्याह - | हेतुभेदात्प्रतीघातभेदो वायोः सरंहसः||२१|| यद्रुजाशब्दवैषम्यं कासानां जायते ततः| |२२|

🔊 Audio coming soon

स०-हेतुभेदात्-निदानविशेषात्, काससम्प्राप्तौ वर्तमानस्य वायोः प्रतीघातभेदः-प्रत्याहारविशेषः| किम्भूतस्य वायोः ? सरंहसो-वेगवतः| यत्-यस्मात्, ततः-तस्मात्, रुजाशब्दयोः-शूलध्वन्योः, वैषम्यं-न समता, कासानां जायते| अन्यादृशौ रुक्ऽऽशब्दौ वातकासे, अन्यादृशावन्येषु कासेषु|

Adhikarana vAtakAsasya lakShaNam (22-24) · Śloka 24

अधुना वातकासस्य निदानादिनिर्देशार्थमाह - | कुपितो वातलैर्वातः शुष्कोरःकण्ठवक्क्रताम्||२२|| हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान्| करोति शुष्कं कासं च महावेगरुजास्वनम्||२३|| सोऽङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत्| |२४|

🔊 Audio coming soon

स०-वातलैर्वातः कुपितः शुष्कोरःकण्ठवक्क्रतां हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान् करोति| तथा, अतिवेगपीडाशब्दयुतं शुष्कं च कासं करोति| वातलैरिति निर्देशेऽत्यर्थवातलैः कुपितो वायुरिति बोध्यम्| वातिके कासेऽन्येष्वपि हि कासेष्वीषद्वातलैः कुपितस्य वातस्यानुज्ञाऽस्त्येव| कुपितं वातमन्तरेण हि कासानां जन्मासम्भवः| कोपस्तु कोपकारणैर्विना यथायथं दोषाणां न जायते| तस्मादत्रातिवातलैः कुपित इति बोध्यम्| तथा, सः-वायुः, अङ्गं हर्षयति| तथा, कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत्|

Adhikarana pittakAsasya lakShaNam (24-25) · Śloka 25

| पित्तात्पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः||२४|| पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमकोऽम्लकः| प्रततं कासवेगेन ज्योतिषामिव दर्शनम्||२५||

🔊 Audio coming soon

स०-पित्तात्-पित्तकासात्, पीताक्षिकफतादिकं जायते| ज्योतींषि-तारकाः, तेषां दर्शनमिव|

Adhikarana kaphakAsasya lakShaNam (26-27) · Śloka 27

कफादुरोऽल्परुड्मूर्द्धहृदयं स्तिमितं गुरु| कण्ठोपलेपः सदनं पीनसच्छर्द्यरोचकाः||२६|| रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्तनम्| |२७|

🔊 Audio coming soon

स०-कफात्-कफकासात्, उरोऽल्परुगित्यादि जायते| पित्तलैः कुपितात् पित्तात्, तथा श्लेष्मलैः कुपितात् कफात्, इत्यनिर्दिष्टमपि पित्तकफकासयोर्निदिष्टं बोध्यम्|

Adhikarana kShatakAsasya lakShaNam (27-32) · Śloka 32

इदानीं क्षतकासस्य निदानादि निरूपयति - - - - | युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्||२७|| उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली| कुपितः कुरुते कासं कफं तेन सशोणितम्||२८|| पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु| ष्ठीवेत्कण्ठेन रुजता विभिन्नेनेव चोरसा||२९|| सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना| पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान्||३०|| पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च| क्रमाद्वीर्यं रुचिः पक्ता बलं वर्णश्च हीयते||३१|| क्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः| |३२|

🔊 Audio coming soon

स०-युद्धं-बाहुयुद्धं, आद्यं येषां-साहसानां कठिनधनुराकर्षणादीनां, तैः साहसैरयथाबलं-शक्त्यतिक्रमेण, सेवितैः-आचरितैः, उरस्यन्तः-मध्ये, क्षते सति वायुः पित्तेनानुगतः कासं करोति| तैस्तैरिति सर्वनाम्ना दुःशकं हस्त्यश्वादिसाधनं तथोच्चभाषणं गुरुभारोद्यमनं वेगवन्नदीषु प्रतिस्रोतस्तरणादिकमुरःक्षतोत्पादनं गृह्यते| पित्तानुगतमात्रेण च वायोरतिकोपं प्रतिपादयति| अत एवाह-बलीति| पित्तानुगतत्वेनैव स रक्तदूषणं कासं कुर्वन् वायुः, तेन-कासेन, कफं सशोणितं-रक्तयुतं, तथा पीतं कुथितं-पूतिगन्धिं, बहु च ष्ठीवेत्| तथा, कुपितवायुवशात् कफं बहु श्यावं शुष्कं ग्रथितं-पिण्डितं, चष्ठीवेत्| तथा, कण्ठेन रुजता-शूलवता, तथोरसा विभिन्नेनेव-द्विधेव विदीर्णेन, तथा सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना-रुजायुक्तेन, च वक्षसोपलक्षितः पर्वभेदादिमान् पुरुषः, तथा पारावत इवाकूजन्-अव्यक्तं शब्दं कुर्वन्| तथाऽस्य-कासिनः, क्रमेण वीर्यादि हीयते| क्षीणस्य चास्य सासृङ्मूत्रता स्यात् पृष्ठकटीग्रहश्चेति| इदानीं क्षयकासलक्षणं निरूपयति-

Adhikarana kShayakAsasya lakShaNam (32-35) · Śloka 35

इदानीं क्षयकासलक्षणं निरूपयति - - - - | वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः||३२|| कुर्वन्तिः यक्ष्मायतनैः कासं ष्ठीवेत्कफं ततः| पूतिपूयोपमं पीतं विस्रं हरितलोहितम्||३३|| लुच्येत इव पार्श्वे च हृदयं पततीव च| अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः||३४|| स्निग्धप्रसन्नवक्क्रत्वं श्रीमद्दशननेत्रता| ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च||३५||

🔊 Audio coming soon

स०-राजायक्ष्मिणो-राजयक्ष्मवतो नरस्य, वायुः प्रधानो-बली, येषां ते वायुप्रधानाः| तथा, कुपिताः-क्रुद्धाः| के ते ? धातवो-वातादयः, कासं कुर्वन्ति| कैः कुपिताः ? यक्ष्मायनैः-यक्ष्मनिदानोक्तैः साहसादिभिः| ततः-अनन्तरं, पूतिपूयोपमं पीतं विस्रं तथा हरितलोहितं ष्ठीवेत्| तथा, पार्श्वेलुच्येते इव-स्थानात्प्रच्याव्येते इव| हृदयं च पततीव-भ्रश्यतीव| तथा, अस्य-क्षयजकासिनः, अकस्मात्-निमित्तमन्तरेणापि, उष्णशीतेच्छा भवति| कदाचिच्छीतार्तोऽपि नोष्णमभिलषति, कदाचिदत्युष्णक्लान्तोऽपि न शीतमभिलषति| तथा, बह्वाशित्वादयः स्युः| ततः-अनन्तरं, सर्वाणि क्षयरूपाणि-पीनसश्वासादीनि, अस्याविर्भवन्ति|

Adhikarana kShayakAsasya sAdhyatvAdikam (36-37) · Śloka 37

इत्येष क्षयजः कासः क्षीणानां देहनाशनः| याप्यो वा बलिनां, तद्वत् क्षतजोऽभिनवौ तु तौ||३६|| सिध्येतामपि सानाथ्यात्| |३७|

🔊 Audio coming soon

स०-इत्येषः-एवमादिरूपः, क्षयजः कासः क्षीणानां देहनाशनः| बलिनां-अक्षीणानां, याप्यो वा देहनाशनो वेति वाशब्दस्यार्थः| तद्वत्-क्षयजकासवत्| क्षतजः कासः क्षीणानां देहनाशनो बलवतां याप्यो वा देहनाशनो वा भवति| अभिनवौ तु तौ-नवोत्थितौ पुनः क्षयक्षतजकासौ, बलिनां सिध्येतामपि; न केवलमसाध्ययाप्यावित्यपिशब्देन द्योत्यते| कुतः सिध्येताम् ? सानाथ्यात्-चतुष्पात्सम्पत्तेरित्यर्थः| इदानीं शेषाणामपि कासानां साध्ययाप्यविभागं निरूपयति-

Adhikarana kShatakAsasya sAdhyatvAdikam, kShayakShatakAsayoHsAdhyatvAdikam (37) · Śloka 37

इदानीं शेषाणामपि कासानां साध्ययाप्यविभागं निरूपयति - - - - साध्या दोषैः पृथक् त्रयः| मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च||३७||

🔊 Audio coming soon

स०-पृथग्दोषैः-वातपित्तश्लेष्मभिः, ये जातास्त्रयः कासास्ते साध्याः| ये पुनरुत्तरकालमाहारविहारादिना मिश्राः-मिश्रलक्षणाः सम्पन्नाः, ते याप्याः| किं सर्व एव मिश्रदोषोत्पन्ना याप्याः ? नेत्याह-द्वयात्,- दोषद्वयात्, ये मिश्राः सम्पन्नास्ते याप्याः| न पुनर्दोषत्रयाद्ये मिश्रलक्षणास्तेऽपि याप्या इति द्वयग्रहणात् प्रतिपादयति| सर्वे-कासा ये साध्या उक्ताः पृथग्दोषजास्तेऽपि, जरसा-जरया हेतुभूतया, स्थविरस्योत्पन्ना याप्याः| वृद्धो हि निष्कास एव याप्यानाम्| तथा चोवाच सङ्ग्रहे (सू. अ. १३) - "वृद्धो याप्यानाम्|" इति|

Adhikarana vAtAdyekadoShajakAsAnAM sAdhyatvAdikam dvidoShajakAsAnAM sAdhyatvAdikam sarveShAM kAsAnAM sAdhyatvAdikam kAsasyAnupekShaNIyatvam (3) · Śloka 3

कासाच्छ्वासक्षयच्छर्दिस्वरसादादयो गदाः| भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत्||३८|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने रक्तपित्तकासनिदानं नाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon

स०-[ यस्मात्- ] यतः कारणात्, कासादुपेक्षया सहकारिकारणभूतया श्वासादयो रोगा भवन्ति, तस्मात् तं-कासं, त्वरया-शीग़्रमेव, जयेत्| आदिशब्देनात्र पीनसादयो यक्ष्मनिदानोक्ता गृह्यन्त इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां तृतीये निदानस्थाने रक्तपित्तकासनिदानं नाम तृतीयोऽध्यायः समाप्तः|| ३||