Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

14. kuṣṭhaśvitrakr̥minidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

विसर्पनिदानादनन्तरं तुल्यहेत्वादित्वात्कुष्ठनिदानमारभ्यते-

Adhikarana kuShThaSvitrakRuminidAnAdhyAyaH ,kuShThasya nidAnasaMprAptI (2-3) · Śloka 3

अथातः कुष्ठश्वित्रकृमिनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२|| मिथ्याहारविहारेण विशेषेण विरोधिना| साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः||१|| पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वोरिता मलाः| सिराः प्रपद्य तिर्यग्गास्त्वग्लसीकासृगामिषम्||२|| दूषयन्ति श्लथीकृत्य निश्चरन्तस्ततो बहिः| त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत्||३||

🔊 Audio coming soon

स०-मिथ्याहारादिना तथा साधुनिन्दावधादिभिः पाप्मभिः कर्मभिः सद्यः सेवितैः-अनुष्ठितैः, प्राक्तनैर्वा-अन्यजन्माचरितैः| सेवितग्रहणेन सातत्यानुष्ठानं द्योतयति| तेन कदाचित्करणत्वमेषां न कुष्ठहेतुरिति गम्यते| तैस्तथाभूतैः कर्मभिर्मिथ्याहारादिना च ईरिताः-दुष्टाः, मलाः-वातपित्तकफाः, शिरास्तिर्यग्गामिनीः प्रपद्य-आश्रित्य, त्वग्लसीकासृगामिषं दूषयन्ति| तदेव च त्वगादिकं शिथिलीकृत्य ततः-अनन्तरं, बहिर्निश्चरन्तो-बाह्यदेशे प्रसरन्तः, त्वचो [ यत् ] वैवर्ण्यं कुर्वन्ति तत्कुष्ठमुशन्ति, मुनय इति शेषः|

Adhikarana kuShThasya nirvacanam (4-6) · Śloka 6

कुतोऽस्य रोगस्य कुष्ठमिति संज्ञा ? इत्याह - - - - कालेनोपेक्षितं यस्मात्सर्वं कुष्णाति तद्वपुः| प्रपद्य धातून्व्याप्यान्तः सर्वान् संक्लेद्य चावहेत्||४|| सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान्| लोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात्||५|| भक्षयेच्छ्वित्रमस्माच्च कुष्ठबाह्यमुदाहृतम्| |६|

🔊 Audio coming soon

स०-यस्माद्धेतोरुपेक्षितं-अनुपक्रान्तं सत्, कालेन सर्वं वपुः-शरीरं, कृष्णाति तस्मात्तत् कुष्ठमित्युच्यते| तच्च कुष्ठं धातून् सर्वान् प्रपद्य-प्राप्य, अनन्तरमन्तर्व्याप्य-प्रकृतत्वात्तेषामेवान्तरं व्याप्य, तथा सर्वंस्तानेव धातून् संक्लेद्य-क्लेदयित्वा, कृमीनावहेत्-कुर्यात्| किम्भूतान् ? स्वेदादिभिर्युतान्| तथा, सूक्ष्मान्| तथा, सुदारुणान्-दुश्चिकित्स्यान्| यैः-कृमिभिः, तत्कुष्ठं लोमादीन् भक्षयेत्| श्वित्रस्येदृग्रूपता न विद्यते या कुष्ठस्योक्ता| अस्माच्च कारणाच्छ्वित्रं कुष्ठबाह्यमुदाहृतम्, कुष्ठाद्बाह्यं त्वग्गतमात्रमेवोक्तमित्यर्थः|

Adhikarana kuShThasya saptavidhatvaM doShataH (6-7) · Śloka 7

| कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः||६|| ननु, एवं सत्येकदोषजं द्विदोषजं कुष्ठम्, न सर्वं त्रिदोषजं स्यात्, इत्याशङ्क्याह - - - - सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः|७|

🔊 Audio coming soon

स०- कुष्ठानि सप्तधा-सप्तप्रकाराणि| कथम् ? इत्याह-पृथक्-वातपित्तकफैः| तैरेव च मिश्रैः-वातपित्ताभ्यां वातकफाभ्यां पित्तकफाभ्याम्| तैरेव दोषैः समागतैः-सन्निपतितैः| स०- सर्वेष्वपि कुष्ठेषु त्रिदोशेषु - सन्निपातजेष्वपि, अधिकत्वेन व्यपदेशः| सन्निपातस्य समविषमात्मकत्वात्|

Adhikarana kuShThasya aShTAdashatvaM nAmataH (7-10) · Śloka 10

अत आह - - - - वातेन कुष्ठं कापालं, पित्तादौदुम्बरं, कफात्||७|| मण्डलाख्यं विचर्ची च, ऋक्षाख्यं वातपित्तजम्| चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः||८|| वातश्लेष्मोद्भवाः, श्लेष्मपित्ताद्दद्रुशतारुषी| पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा||९|| सर्वैः स्यात्काकणं| |१०|

🔊 Audio coming soon

स०-[वातेन-] वातोल्बणेन सन्निपातेन, कापालं नाम कुष्ठं भवति| पित्तात्-पित्ताधिकात्सन्निपातात्, औदुम्बरं नाम कुष्ठं जायते| कफात्-कफाधिकात्सन्निपातात्, मण्डलाख्यं कुष्ठं जायते| तथा विचर्ची च, कफादेवेति चार्थः| ऋक्षाख्यं कुष्ठं वातपित्तजं-वातपित्तोल्बणात्सन्निपाताज्जातम्| एवमग्रेऽपि योज्यम्| चर्मैककुष्ठकिटिभसिध्मालसविपादिका वातश्लेष्मोद्भवाः| श्लेष्मपित्तात् दद्रुशतारुषी द्वे कुष्ठे| न केवलं दद्रु शतारुश्च श्लेष्मपित्तात्, यावत्पुण्डरीकं तथा विस्फोटस्तथा पामा तथा चर्मदलं जायते| सर्वैः-त्रिभिरेव समैर्दोषैः, काकणं नाम कुष्ठमुत्पद्यते| एवमेतान्यष्टादश कुष्ठानि भवन्ति|

Adhikarana saptamahAkuShThAni (10) · Śloka 10

पूर्वं त्रिकं दद्रु सकाकणम्| पुण्डरीकर्क्षजिह्वे च महाकुष्ठानि सप्त तु||१०||

🔊 Audio coming soon

स०-पूर्वं त्रिकं-कापालोदुम्बरमण्डलाख्यं, तथा दद्रुः काकणं पुण्डरीकमृक्षजिह्वं चेति महाकुष्ठानि सप्त स्युः|

Adhikarana kuShThasya pUrvarUpam (11-13) · Śloka 13

अतिश्लक्ष्णखरस्पर्शखेदास्वेदविवर्णताः| दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः श्रमः||११|| व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः| रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम्||१२|| रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्| |१३|

🔊 Audio coming soon

स०-अतिश्लक्ष्णादिकं कुष्ठलक्षणमग्रजम्-प्राग्रूपमित्यर्थः|

Adhikarana kApAlakuShThasya lakShaNam (13-14) · Śloka 14

अधुनैतेषां लक्षणान्याह - - - - कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु||१३|| विस्तृतासमपर्यन्तं हृषितैर्लोमभिश्चितम्| तोदढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च||१४||

🔊 Audio coming soon

स०-कृष्णारुणकपालाभमित्यादिकं कापालस्य लक्षणम्|

Adhikarana udumbarakuShThasya lakShaNam (15-16) · Śloka 16

पक्वोदुम्बरताम्रत्वग्रोम गौरसिराचितम्| बहलं बहलक्लेदरक्तं दाहरुजाधिकम्||१५|| आशूत्थानावदरणकृमि विद्यादुदुम्बरम्| |१६|

🔊 Audio coming soon

स०-पक्वोदुम्बरताम्रेत्यादिकमौदुम्बरस्य लक्षणम्|

Adhikarana maNDalakuShThasya lakShaNam (16-17) · Śloka 17

| स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमनाशुगम्||१६|| अन्योन्यसक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमि| श्लक्ष्णपीताभपर्यन्तं मण्डलं परिमण्डलम्||१७||

🔊 Audio coming soon

स०-स्थिरं स्त्यानमित्यादिकं मण्डलस्य लक्षणम्|

Adhikarana vicarcikAkuShThasya lakShaNam (18) · Śloka 18

सकण्डूपिटिका श्यावा लसीकाढ्या विचर्चिका| |१८|

🔊 Audio coming soon

स०-सकण्डूपिटिकेत्यादिकं विचर्चिकाया लक्षणम्|

Adhikarana RukShajihvakuShThasya lakShaNam (18-19) · Śloka 19

| परुषं तनु रक्तान्तमन्तःश्यावं समुन्नतम्||१८|| सतोददाहरुक्क्लेदं कर्कशैः पिटिकैश्चितम्| ऋक्षजिह्वाकृति प्रोक्तमृक्षजिह्वं बहुक्रिमि||१९||

🔊 Audio coming soon

स०-परुषमित्यादिकं ऋक्षजिह्वस्य लक्षणम्| ऋक्षजिह्वेव प्रकाशखरा आकृतिर्यस्य ऋक्षजिह्वस्य तथैवम्|

Adhikarana carmakuShThasya lakShaNam (20) · Śloka 20

हस्तिचर्मखरस्पर्शं चर्म| |२०|

🔊 Audio coming soon

स०-हस्तिचर्मवत् खरस्पर्शं चर्माख्यं कुष्ठम्|

Adhikarana ekakuShThasya lakShaNam (20) · Śloka 20

एकाख्यं महाश्रयम्| अस्वेदं मत्स्यशकलसन्निभम् |२०|

🔊 Audio coming soon

स०-एकसंज्ञं कुष्ठं महाश्रयं-विस्तीर्णाशयम्| तथा, अस्वेदं-स्वेदरहितम्| तथा, मत्स्यशकलसन्निभं-मत्स्यत्वङ्मण्डलसदृशम्| सुश्रुते त्वेककुष्ठस्यैवं लक्षणमभ्यधायि (नि. अ. ५|९) - "कृत्स्नो देहो यस्य रक्तोऽरुणो वा तदेकाख्यं कुष्ठमाहुः सुकष्टम्|" इति| खरनादेऽप्युक्तम्-"महदस्वेदनं मत्स्यशकलाकारमेकजम्|" इति|

Adhikarana kiTibhakuShThasya lakShaNam (20-21) · Śloka 21

| किटिभं पुनः||२०|| रूक्षं किणखरस्पर्शं कण्डूमत्परुषासितम्| |२१|

🔊 Audio coming soon

स०-किटिभं तु रूक्षं किणखरस्पर्शं कण्डूमत्परुषासितम्|

Adhikarana sidhmakuShThasya lakShaNam (21-23) · Śloka 23

| सिध्मं रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत्||२१|| श्लक्ष्णस्पर्शं तनु श्वेतताम्रं दौग्धिकपुष्पवत्| प्रायेण चोर्ध्वकाये स्यात्|२३|

🔊 Audio coming soon

स०-सिध्मं नाम कुष्ठं बही रूक्षम्, अन्तः स्निग्धम्, घृष्टं सद्रजः किरेत्-क्षिपेत्| तथा श्लक्ष्णस्पर्शम्| तथा तनु| वर्णेन श्वेतताम्रम्, दौग्धिकपुष्पवत्-अलाबुकुसुमाभम्| तच्च प्रायेण-बाहुल्येन, ऊर्ध्वकाये स्यात्| खरनादेऽप्युक्तम्-"अलाबुपुष्पवत्सिध्मं घृष्टं यच्चोद्वमेद्रजः|" इति|

Adhikarana alasakakuShThasya lakShaNam (22-23) · Śloka 23

| गण्डैः कण्डूयुतैश्चितम्||२२|| रक्तैरलसकम्| |२३|

🔊 Audio coming soon

स०-अलसकं नाम कुष्ठं गण्डै रक्तवर्णैः कण्डूयुतैश्च व्याप्तं भवेत्|

Adhikarana vipAdikAkuShThasya lakShaNam (23) · Śloka 23

पाणिपाददार्यो विपादिकाः| तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटिकाचिताः||२३||

🔊 Audio coming soon

स०-विपादिकाः पाणिपाददार्यः स्युः| तथा, तीव्रार्त्यः-अत्यन्तपीडया युताः| तथा, मन्दकण्ड्वः-अल्पखर्जूकाः| तथा, सरागपिटिकाचिताश्च| पाणिपादौ दारयन्तीति कर्मण्यणतान्ङीप्|

Adhikarana dadrukuShThasya lakShaNam (24) · Śloka 24

दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः| उत्सन्नमण्डला दद्रूः कण्डूमत्यनुषङ्गिणी||२४||

🔊 Audio coming soon

स०-दूर्वावद्दीर्घप्रताना दद्रूः| तथा, अतसीपुष्पाभा| तथा, उत्सन्नमण्डला च| तथा, कण्डूमती| तथा, अनुषङ्गिणी-प्रसक्तानुप्रसक्त्या संश्लेषवती शरीरमनुधावती|

Adhikarana shatAruH kuShThasya lakShaNam (25) · Śloka 25

स्थूलमूलं सदाहार्ति रक्तश्यावं बहुव्रणम्| शतारुः क्लेदजन्त्वाढ्यं प्रायशः पर्वजन्म च||२५||

🔊 Audio coming soon

स०-शतारुर्नाम कुष्ठं स्थूलमूलादिलक्षणम्, यावत् प्रायशः पर्वजन्म चेति|

Adhikarana puNDarIkakuShThasya lakShaNam (26-27) · Śloka 27

रक्तान्तमन्तरा पाण्डु कण्डूदाहरुजान्वितम्| सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः||२६|| घनभूरिलसीकासृक्प्रायमाशु विभेदि च| पुण्डरीकम्|२७|

🔊 Audio coming soon

स०-पुण्डरीकं नाम कुष्ठं रक्तपर्यन्तम्| तथा, अन्तरा-मध्ये, पाण्डु| तथा, कण्डूदाहरुजायुतम्| तथा, उन्नतियुक्तम्| तथा, रक्तैरंशुभिः-सूक्ष्मरेखाभिः, आचितं-व्याप्तं, पद्मपत्रमिव| तथा, घनभूरिलसीकासृक्प्रायम्| आशु च विभेदि|

Adhikarana visphoTakuShThasya lakShaNam (27-28) · Śloka 28

| तनुत्वग्भिश्चितं स्फोटैः सितारुणैः||२७|| विस्फोटम्| |२८|

🔊 Audio coming soon

स०-विस्फोटं नाम कुष्ठं तनुत्वग्भिः स्फोटैश्चितं-व्याप्तम्| किम्भूतैः ? सितारुणैः-श्वेतलोहितैः|

Adhikarana pAmAkuShThasya lakShaNam (28) · Śloka 28

पिटिकाः पामा कण्डूक्लेदरुजाधिकाः| सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्पणिकूर्परे||२८||

🔊 Audio coming soon

स०-पिटिकाः कण्डूक्लेदरुजाधिकाः पामेत्युच्यते| किम्भूताः ?सूक्ष्माः श्यावारुणाः बह्व्यश्च| प्रायो-बाहुल्येन, सा च पामा स्फिजोः पाण्योः कूर्परयोश्च स्यात्|

Adhikarana carmadalakuShThasya lakShaNam (29) · Śloka 29

सस्फोटमस्पर्शसहं कण्डूषातोददाहवत्| रक्तं दलच्चर्मदलम्|२९|

🔊 Audio coming soon

स०-चर्मदलं नाम कुष्ठं स्फोटवत् तथा स्पर्शाक्षमम्| तथा, कण्ड्वादियुतम्| तथा, रक्तं-वर्णेन| तथा दलत्-स्फुटत्, स्यात्|

Adhikarana kAkaNakuShThasya lakShaNam (29-30) · Śloka 30

| काकणं तीव्रदाहरुक्||२९|| पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम्| कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्||३०||

🔊 Audio coming soon

स०-काकणं नाम कुष्ठं तीव्रदाहरुक्| तथा पूर्वं-प्रथमं, रक्तं तथा कृष्णं काकणन्तीफलोपमं-गुञ्जाफलसदृशम्| ततः-अनन्तरं, सर्वैः कुष्ठलिङ्गैर्युतम्| नैकवर्णं-अपि तु श्वेतपीतादिवर्णमपि स्यादित्यर्थः| सुश्रुते तु मण्डलशतारुर्विपादिकालसकचर्मदलविश्फोटाख्यानि नोदितानि| स्थूलारुष्कमहाकुष्ठपरीसर्वविसर्परकसारुणाख्यानि तत्रोक्तानि| एवं च तल्लक्षणम् (नि. अ. ५|८) - "यत्र स्थूलमूलान्यरूंषि जायन्ते सन्धिषूग्राणि तत् स्थूलारुष्कं कुष्ठम्| उत्पद्यन्ते सर्वदेहे महाख्यं त्वक्सङ्कोचस्वापतोदाङ्गसादाः| यस्मिन् दीर्घाः स्फोटिकाः स्राववत्यः संसर्पेयुस्तं परीसर्पमाहुः|| तुल्यः सर्पेद्यो विसर्पेण शीघ्रं त्वग्रक्तादीन्व्याप्य स स्याद्विसर्पः| कृत्स्ने देहे स्फोटिकाः स्रावहीनाः कण्डूप्राया रक्तसास्ताः प्रदिष्टाः| अरुणानि तनूनि विसर्पिणि तापयुतान्यरुणानि|" इति| तदेतेषु कुष्ठमेदेषु यथा नामविपर्ययस्तथा लक्षणविपर्ययोऽपि| किन्त्वेतेऽपि कुष्ठभेदा दृश्यन्ते एव, इत्येतदपि लक्षणमादरणीयमेवेति मन्यामहेऽधिकं कुष्ठेषु, इत्यादि|

Adhikarana kuShTheShu doSholbaNatA (31) · Śloka 31

कुष्ठेषु त्रिदोषजेषु सत्सु, इदं वाताधिकं कुष्ठमिदं पित्ताधिकं कुष्ठमिदं कफाधिकं कुष्ठमिति कथं ज्ञातव्यम्? इत्याह - - - - दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः| कुष्ठेषु दोषोल्बणताम्|३१|

🔊 Audio coming soon

स०-कुष्ठेषु दोषोल्बणतां-दोषाधिक्यं, दोषभेदीयविहितयथायथं लिङ्गकर्मभिरादिशेत्| लिङ्गानि च तानि कर्माणि च लिङ्गकर्माणि| यथा-वायोः स्रंसादीनि, पित्तस्य दाहादीनि, श्लेष्मणः स्नेहकाठिन्यादीनि, यथायथमात्मीयैरेव कर्मभिर्यतस्तेषां लिङ्गं लक्ष्यते ततस्तेषां दोषाणां कर्माण्येव लिङ्गान्युच्यन्ते| अत एव च स्रंसादीनि कर्माणि दोषाणामुक्त्वाऽनन्तरमिदमुवाच (हृ. सू. अ. १२|५४) - "इत्यशेषामयव्यापि यदुक्तं दोषलक्षणम्| दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत्||" इति|

Adhikarana kuShThasya asAdhyatvam (31-32) · Śloka 32

| सर्वदोषोल्बणं त्यजेत्||३१|| रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्| |३२|

🔊 Audio coming soon

स०-सर्वदोषोल्बणं-सन्निपातजं, कुष्ठं त्यजेत्-न चिकित्सेत्| रिष्टोक्तमिति यच्च विकृतिविज्ञानीये कथितं (हृ. शा. अ. ५|९८) - "कुष्ठं विशीर्यमाणाङ्गं" इत्यादि, तच्च नोपक्रमेत्| यच्च कुष्ठमस्थिमज्जशुक्रसमाश्रयं तच्च त्यजेत्|

Adhikarana kuShThasya yApyatvam (32) · Śloka 32

| याप्यं मेदोगतम्|३२|

🔊 Audio coming soon

स०-मेदोगतं कुष्ठं याप्यं-पथ्यादिभिर्यापयितुं शक्यम्|

Adhikarana kuShThasya kRucchratvam (32) · Śloka 32

| कृच्छ्रं पित्तद्वन्द्वास्रमांसगम्||३२||

🔊 Audio coming soon

स०-पित्तस्य द्वन्द्वं पित्तद्वन्द्वम्| पित्तद्वन्द्वजं तथा रक्तगं मांसगं च कुष्ठं कृच्छ्रं-कृच्छ्रसाध्यम्|

Adhikarana kuShThasya sukhasAdhyatvam (33) · Śloka 33

अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत्| |३३|

🔊 Audio coming soon

स०-कफवाताढ्यमकृच्छ्रं-सुखसाध्यम्| तथा त्वक्स्थं, तथा एकदोषाधिकं च यत्कुष्ठं तच्च सुखसाध्यम्|

Adhikarana rasagatakuShTasya lakShaNam, raktagatasya lakShaNam, mAMsagatasya lakShaNam, medogatasya lakShaNam, asthimajjAgatasya lakShaNam, shukragatasya lakShaNam (33-36) · Śloka 36

| तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः||३३|| स्वेदस्वापश्वयथवः शोणिते, पिशिते पुनः| पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम्||३४|| कौण्यं गतिक्षयोऽङ्गानां दलनं स्याच्च मेदसि| नासाभङ्गोऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः||३५|| क्षते च कृमयः, शुक्रे स्वदारापत्यबाधनम्| |३६|

🔊 Audio coming soon

स०-तत्र-तेषु कुष्ठेषु मध्ये, त्वचि प्राप्ते कुष्ठे तोदादयः स्युः| रक्तस्थे कुष्ठे स्वेदाद्याः स्युः| मांसस्थे कुष्ठे पाणिपादाश्रिताः स्फोटाः स्युः, सन्धिषु चातिशयेन क्लेदो भवति| मेदसि स्थिते कुष्ठे कौण्यं-कुणिता, तथा गतिक्षयः, तथाऽङ्गानां दलनं-छेदनमिव, स्यात्| अस्थिमज्जस्थे कुष्ठे नासायाः-घ्राणस्य भङ्गः, तथा नेत्रयो रागः स्वरस्य च क्षयः स्यात्, क्षते च कृमयः स्युः| शुक्रस्थे कुष्ठे दारणामपत्यानां च बाधनं-उपद्रवैः स्वेदादिभिः पीडनं स्यात्|

Adhikarana asRugAdiShu yathApUrvaM li~ggAni (36-1) · Śloka 1

| यथापूर्वं च सर्वाणि स्युर्लिङ्गान्यसृगादिषु||३६|| इति कुष्ठनिदानम्||१||

🔊 Audio coming soon

स०-असृगादिषु धातुषु कुष्ठाक्रान्तदेहानां नराणां यानि लिङ्गान्युक्तानि तानि यथापूर्वं स्युः| यथा-स्वेदादीनि रक्तस्थे कथितानि पाण्याद्याश्रिताः स्फोटादयश्च मांसस्थे स्युः| एवं मेदःप्रभृतिषु योज्यम्| एवं च स्वेदस्वापादीनि सर्वाण्यपि शुक्रस्थे कुष्ठे दाराणामपत्यानां च स्युरिति यथापूर्वंशब्दस्यार्थः|

Adhikarana shvitrasya sAmAnyalakShaNam (37) · Śloka 37

कुष्ठनिदानादनन्तरं श्वित्रस्योच्यते| कुष्ठश्वित्रयोरेककारणत्वात्| अत एवाह - - - - अथ श्वित्रनिदानम्| कुष्ठैकसम्भवं श्वित्रं किलासं दारुणं च तत्| निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्||३७||

🔊 Audio coming soon

स०-कुष्ठानामेकः-समानः, सम्भवो यस्य तच्छ्वित्रं कुष्ठैकसम्भवं भवति| किलासं दारुणं च तन्निर्दिष्टम्, न केवलं श्वित्रमिति| तच्चापरिस्रावि-न कुष्ठवत् स्रवति| उद्भवो-जन्म, संश्रयः-आश्रयः, उद्भवश्च संश्रयश्चोद्भवसंश्रयौ, धातुशब्देनोभयं परिगृह्यते, वातादयस्त्रयो दोषास्तथा रक्तादयस्त्रयो धातवः, धातवश्च धातवश्च धातवः, त्रयो धातवो यथाक्रममुद्भवसंश्रयौ यस्य तत् त्रिधातूद्भवसंश्रयम्|

Adhikarana vAtajasya lakShaNam, pittajasya lakShaNam, kaphajasya lakShaNam (38-39) · Śloka 39

वाताद्रूक्षारुणं, पित्तात्ताम्रं कमलपत्रवत्| सदाहं रोमविध्वंसि, कफाच्छ्वेतं घनं गुरु||३८|| सकण्डु च, क्रमाद्रक्तमांसमेदःसु चादिशेत्| |३९|

🔊 Audio coming soon

स०-वाताद्रूक्षारुणं श्वित्रं स्यात्| पित्तात् कमलपत्रमिव ताम्रं वर्णेन, तथा सदाहम्, तथा रोमविध्वंसि-रोमशातनस्वभावम्| कफाच्छ्वेतम्, तथा घनम्, तथा गुरु-अङ्गेनानुभूयते, तथा सह कण्ड्वा वर्तत इति सकण्डु| क्रमात्-यथाक्रमं, वाताद्युद्भवं श्वित्रं रक्तमांसमेदःसु चादिशेत्| तत्र वातोद्भवं श्वित्रं रक्ताश्रयम्| पित्तोद्भवं मांसाश्रयम्| कफोद्भवं मेदोधात्वाश्रयमिति क्रमशब्दस्यार्थः|

Adhikarana shvitrasya sAdhyakRucchrAsAdhyatvam (39) · Śloka 39

| वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्||३९||

🔊 Audio coming soon

स०-एवेति चार्थे| उभयं-दोषोद्भवं रक्ताद्याश्रयं श्वित्रं, वर्णेन चेदृक्-अरुणं ताम्रं श्वेतं यथाक्रमम्, न पुनर्वाताद्युद्भवत्वदन्यवर्णं रक्तादिसंश्रयत्वादन्यवर्णमित्यर्थः| तच्च-श्वित्रं वाताद्युद्भवं रक्तादिसंश्रयं च, उत्तरोत्तरं कृच्छ्रसाध्यमादिशेदिति प्रकृतम्| रक्ताश्रयाद्वातजात्कृच्छ्रात् मांसाश्रयं पित्तजं कृच्छ्रतरम्| ततो मेदःसंश्रितं कफजं कृच्छ्रतममिति|

Adhikarana sarve rogAH prAyaH sa~jcAriNaH (40-2) · Śloka 2

अधुना साध्यासाध्यविभागार्थमाह - - - - अशुक्लरोमाबहलमसंसृष्टं मिथो नवम्| अनग्निदग्धजं साध्यं श्वित्रं, वर्ज्यमतोऽन्यथा||४०|| गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्| स्पर्शैकाहारशय्यादिसेवनात् प्रायशो गदाः||४१|| सर्वे सञ्चारिणो, नेत्रत्वग्विकारा विशेषतः| |४२| इति श्वित्रनिदानम्||२||

🔊 Audio coming soon

स०-अशुक्लरोम यच्छित्रं, तथा अबहलं-अघनं, तथा मिथः-परस्परं, असंसृष्टं-अमिलितं, तथा नवं-अवर्षातिक्रान्तं, तथाऽनग्निदग्धजं-अग्निदग्धजं यन्न भवति, तच्च साध्यम्| वर्ज्यमतोऽन्यथा-शुक्लरोम श्वित्रं, तथा बहलं, तथा परस्परसंसृष्टं, तथा चिरकालोत्पन्नमग्निदग्धजं च, तच्चासाध्यम्| गुह्यपाणितलौष्ठेषु जातमचिरन्तनमप्यचिन्त्यस्वभावत्वेन वर्ज्यम्| स०-सर्वे रोगाः प्रायशो-बाहुल्येन, सञ्चारिणः-सञ्चरणशीलाः| कुतः ? एके च त आहारशय्यादयश्चैकाहारशय्यादयः, आदिशब्देनासनादीनां ग्रहणम्, स्पर्शः-संश्लेषः, स्पर्शश्च एकाहारशय्यादयश्च, तेषां सेवनं-भजनं, तस्मात्| नेत्रे च त्वक् च नेत्रत्वक्, तत्र विकाराः-गदाः, ते विशेषेण सञ्चारिणः|

Adhikarana kRumINAM dvividhatvam (42) · Śloka 42

अधुना क्रमप्राप्तान् कृमीनधिकृत्याह - - - - अथ कृमिनिदानम्| कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः||४२||

🔊 Audio coming soon

स०-कृमयो द्विधा प्रोक्ताः, मुनिभिरिति शेषः| तुरवधारणे, द्विधैवेत्यर्थः| कथम् ? इत्याह-बाह्याभ्यन्तरमेदतः| एके बाह्या ये केशवस्त्रादिजा यूकालिक्षादयः| अन्ये चान्तराः, यथा-अन्त्रादादयः|

Adhikarana kRumINAM caturvidhatvaM janmataH (43) · Śloka 43

जन्मभेदेन चतुष्प्रकाराः| कथम् ? इत्याह - - - - बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः| |४३|

🔊 Audio coming soon

स०-बहिर्मलजन्मानः केशवस्त्रमलेभ्यः शरीरबाह्येभ्य उत्पन्नत्वात्, तथा कफजन्मानो रक्तजन्मानो विड्जन्मानश्चेति चतुर्विधाः| विट्-पुरीषम्|

Adhikarana kRumINAM viMshatividhatvaM nAmataH (43) · Śloka 43

| नामतो विंशतिविधाः|४३|

🔊 Audio coming soon

स०-नामतो-नामभेदात्, कृमयो विंशतिप्रकाराः|

Adhikarana bAhyajAnAM nidAnanAmalakShaNAni (43-45) · Śloka 45

| बाह्यास्तत्रामृजोद्भवाः||४३|| तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः| बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः||४४|| द्विधा ते कोठपिटिकाकण्डूगण्डान् प्रकुर्वते| |४५|

🔊 Audio coming soon

स०-तत्र-तेषु बाह्याभ्यन्तरेषु कृमिषु मध्ये, अमृजोद्भवाः-बाह्यमलरूपेणोत्पन्नाः, बाह्याः| ते च तिलानामिव प्रमाणसंस्थानवर्णा येषां त एवम्| केशा [ अम्बरं- ] वस्त्रं चाश्रयो येषां त एवम्| तथा बहुपादाः सूक्ष्माश्च| नामतो-नाम्ना, यूका लिक्षाश्चेति द्विधा| ते च कोठादीन् विदधति|

Adhikarana antarjAnAM nidAnam (45) · Śloka 45

| कुष्ठैकहेतवोऽन्तर्जाः|४५|

🔊 Audio coming soon

स०-अन्तर्जाः-अन्तराः कृमयः, कुष्ठैकहेतवः कुष्ठेन सहैकः-तुल्यो, हेतुः-निदानं मिथ्याहारादिकं, येषां त एवम्|

Adhikarana kaphajAnAM nidAnam (45-46) · Śloka 46

| श्लेष्मजास्तेषु चाधिकम्||४५|| मधुरान्नगुडक्षीरदधिसक्तुनवौदनैः| |४६|

🔊 Audio coming soon

स०-तेषु-अन्तर्जेषु कृमिषु मध्ये, श्लेष्मजा अधिकं-अतिशयेन, मधुरान्नादिभिः स्युः|

Adhikarana purIShajAnAM nidAnam (46) · Śloka 46

रक्तजानां निदानविशेषो वक्ष्यमाण इति पुरीषोत्थांस्ता(त्थानां ता)वदाह - - - - | शकृज्जा बहुविड्धान्यपर्णशाकोलकादिभिः||४६||

🔊 Audio coming soon

स०-शकृज्जाः शकृदुद्भूताः, ते कुष्ठैकहेतुसामान्येऽप्यधिकं बहुविड्धान्यैः-यवमाषादिभिः, बहुविड्मिरेव पर्णशाकैः-पालङ्क्यादिभिः, तथोलकादिभिः| उलकः-स्वेदपर्यायः| अपरे तु "उलुकादिभिः" इति जगुः| उलुकं-हरितावस्थं शिम्बीधान्यमिति व्याचक्षते च|

Adhikarana kaphajAnAM sthAnAkAranAmalakShaNAni (47-50) · Śloka 50

कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः| पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः||४७|| रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः| श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते||४८|| अन्त्रादा उदरावेष्टा हृदयादा महाकुहाः| कुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते||४९|| हृल्लासमास्यस्रवणमविपाकमरोचकम्| मूर्च्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्||५०||

🔊 Audio coming soon

स०-कफादामाशये जाताः-न पक्वाशये| तत्र हि पृथगध्येष्यते (श्लो. ५३) - "पक्वाशये पुरीषोत्थाः" इति| ते च वृद्धाः सन्तः सर्वतः-सर्वस्मिन् शरीरे, सर्पन्ति-प्रसरन्ति| सर्वत इति "आद्यादित्वात्(दिभ्यः)" तसिः| पृथुब्रध्ननिभा इत्यादिना संस्थानकथनम्| श्वेता इत्यादिना वर्णकथनम्| नामतो-नाम्ना च, ते सप्तधा-सप्तप्रकाराः| तुश्चार्थे| तान्येव सप्त नामान्याह-अन्त्रादा इत्यादिना| अन्त्राण्यदन्तीत्यन्त्रादाः, इत्यादीन्यर्थानुगतानि नामानि| कानिचित् यादृच्छिकानि कुरव इत्यादीनि| ते च-कफजाः कृमयो, हृल्लासादिकं कुर्वन्ति|

Adhikarana raktajAnAM sthAnAkAranAmalakShaNAni (51-52) · Śloka 52

अधुना रक्तजानाह - - - - रक्तवाहिसिरोत्थाना रक्तजा जन्तवोऽणवः| अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः||५१|| केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः| षट् ते कुष्ठैककर्माणः सहसौरसमातरः||५२||

🔊 Audio coming soon

स०-रक्तजाः कृमयो रक्तवाहिसिरोत्थानाः स्युः| तथा, अपादा वृत्तास्ताम्रवर्णाश्च| सौक्ष्म्यात्-सूक्ष्मत्वात्कारणात्, केचिददर्शनाः-प्रत्यक्षप्रमाणासमधिगम्याः कार्येणैवानुमीयन्ते| तेषां नामान्याह-केशादा लोमविध्वंसा लोमविध्वंसा लोमद्वीपा उदुम्बरा इति| तथा सह सौरसमातृभ्याम् वर्तन्त इति सहसौरसमातरः| सौरसमातृसंज्ञं नामद्वयम्| एवं षडेते रक्तजाः कृमयः| अन्ये त्वेवं पठन्ति "सहजा रसमातरः " इति| सह शरीरेण जायन्त इति सहजाः, रसो माता-जननी, येषां तत्प्रभवत्वात्ते रसमातर इति| कुष्ठेन सहैकं कर्म-रोमहर्षकण्डूतोदादिकं केशलोमध्वंसादिकं त्वक्सिरास्नायुमांसतरुणास्थिभक्षणं वा, येषां त एवम्|

Adhikarana purIShajAnAM sthAnAkAranAmalakShaNAni (14) · Śloka 14

पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः| वृद्धाः सन्तो भवेयुश्च ते यदाऽऽमाशयोन्मुखाः||५३|| तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः| पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः||५४|| ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः| सौसुरादाः सुलूनाख्या लेलिहा जनयन्ति च||५५|| विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः| रोमहर्षाग्निसदनगुदकण्डूर्विनिर्गमात्||५६|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने कुष्ठश्वित्रकृमिनिदानं नाम चतुर्दशोऽध्यायः||१४||

🔊 Audio coming soon

स०-पुरीषोत्थाः पक्वाशय एव जायन्ते| पुरीषस्य पक्वाशयस्थत्वात्| ते चाधोविसर्पिणः स्युः-नोर्ध्वगाः| वृद्धाः सन्तो-वृद्धिं गताः, यदाऽऽमाशयोन्मुखास्ते स्युस्तदाऽस्य-कृमिमतो रोगिणः, उद्गारनिःश्वासा विड्गन्धानुविधायिनः-पुरीषगन्धानुकारिणो, भवेयुः| तथा ते पृथुवृत्ततनुस्थूलाः संस्थानेन स्युः, श्यावपीतसितासिता वर्णेन, तथा नाम्रा पञ्च सङ्ख्यया| तान्येव नामान्याह-ककेरुकेत्यादिना| ते च विनिर्गमाद्धेतोर्विड्भेदादीन् जनयन्ति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने कुष्ठश्वित्रकृमिनिदानं नाम चतुर्दशोऽध्यायः समाप्तः|| १४||