Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

13. pāṇḍurōgaśōphavisarpanidānadhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

उदरनिदानादनन्तरं पाण्डुशोफविसर्पनिदानमारभ्यते|

Adhikarana pANDurogashophavisarpanidAnAdhyAyaH, pANDurogasya saMprAptiH (2-4) · Śloka 4

यतो यथैवोदरं दोषसङ्घातजं तथैतेऽपि, इत्याह - - - - अथातः पाण्डुरोगशोफविसर्पनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२|| पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः| तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्||१|| धमनीर्दश सम्प्राप्य व्याप्नुवत्सकलां तनुम्| श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्||२|| त्वङ्मांसयोस्तत्कुरुते त्वचि वर्णान् पृथग्विधान्| पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम्||३|| यतोऽतः पाण्डुरित्युक्तः स रोगः| |४|

🔊 Audio coming soon

स०- यत्र मलाः-वातादयः, पित्तप्रधाना यथोक्तैः-सर्वरोगनिदानाद्युक्तैः, कोपनैः कुपिताः-क्रुद्धाः, पाण्डुरोगहेतवः| कथम् ? इत्याह-तत्रेत्यादि| [ तत्र- ] तेषु तथाभूतेषु सत्सु, वातेन बलिना-बलवता, क्षिप्तं पित्तं हृदि स्थितमनन्तरं तत्पित्तं धमनीर्दश-हृदि स्थिताः, सम्प्राप्य-आश्रित्य, सकलां तनुं व्याप्नुवत्-अश्नुवानम्| सकलशब्दोपादानं मूत्रपुरीषादीनामपि ग्रहणार्थम्| अत एवाख्यास्यति (श्लो. ९) - "कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता|" इति| तथा श्लेष्मत्वग्रक्तमांसानि प्रदूष्य| किम्भूतं पित्तम् ? त्वङ्मासयोरन्तरं-मध्यमाश्रितम्| तत्-पित्तं, त्वचि वर्णान् पृथग्विधान्-नानाप्रकारान्, पाण्डुहारिद्रहरितान् कुरुते| तेषु-वर्णेषु मध्ये, यतो-यस्मात्, अतिशयेन पाण्डुत्वमधिकमतः-अस्मात्, स रोगः पाण्डुरित्युक्तः-संज्ञितः| ननु, 'पित्तप्रधानाः' इति कथमुक्तम् ? यावता (यतो) वायोर्बलीयस्त्वात् 'वातप्रधानाः' इति वक्तुं युक्तं स्यात्| बलीयस्त्वं चानन्तरमेव प्रतिपादितं 'तत्रानिलेन बलिना क्षिप्तं' इति| असदेतत्| यतो नात्र बलीयस्त्वाबलीयस्त्वकृते प्राधान्याप्राधान्ये विवक्षिते| किन्तर्हि ? पाण्डुरोगकरणं प्रति कर्तृत्वाकर्तृत्वे| पित्तस्य च पाण्डुरोगकरणं प्रति मुख्यं कर्तृत्वम्, अतः 'पित्तप्रधानाः' इति युक्तमुक्तम्| ननु, यदि त्रयो दोषाः पाण्डुरोगहेतवः, कथं तर्हि वक्ष्यति ? (श्लो. ७) - "स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्|" इति| उच्यते| सर्वः पाण्डुरोगस्त्रिदोषज एव| किन्तु हेतुविशेषैर्यो रूपभेदस्तेन पञ्चात्मकः शोफवत्, इति न किञ्चिदत्रायुक्तम्|

Adhikarana pANDurogasya sAmAnyalakShaNam (4-7) · Śloka 7

तेन गौरवम्| धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः||४|| ततोऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः| मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च||५|| शूनाक्षिकूटः सदनः कोपनः ष्ठीवनोऽल्पवाक्| अन्नद्विट् शिशिरद्वेषी शीर्णरोमा हतानलः||६|| सन्नसक्थो ज्वरी श्वासी कर्णक्ष्वेडी भ्रमी श्रमी| |७|

🔊 Audio coming soon

स०-तेन-पाण्डुरोगेण, धातूनां-रसरुधिरादीनां, गौरवं शैथिल्यं च स्यात्| तथा, ओजसो गुणक्षयो-माधुर्य(मन्द)शैत्यादीनामोजोगुणानां (हृ. नि. अ. ६|१) विनाशः| तत एव-ओजोगुणक्षयात्, पाण्ड्वामयी नरोऽल्परक्तमेदस्कः| अल्पे रक्तमेदसी यस्य स एवम्| तथा, निःसारो-दुर्बलः स्यात्|तथा श्लथेन्द्रियः| [ श्लथानि- ] शिथिलानि, इन्द्रियाणि-वाक्पाणिपादपायूपस्थरूपाणि, यस्य स श्लथेन्द्रियः| तथा, इन्द्रियशब्देन बुद्धीन्द्रियाणां चक्षुरादीनामधिष्ठानान्युपलक्ष्यन्ते| ननु, पित्तप्रधानाः कुपिता इति पित्तवृद्धिरुक्ता| पित्तवृद्ध्या च रक्तवृद्ध्या भवितव्यम्| तत्कथमुक्तमल्परक्ततेति ? अत्रोच्यते| दोषाणामन्योन्यदूषणात् दूषस्य च दोषैर्दूषितत्वात् प्रसादपरम्परयाऽपुष्टौ सत्यां किट्टबाहुल्यात् पित्त[स्य]अधिक्यम्, न रक्तस्य प्रसादात्मकस्य, इति पित्ताधिक्यमल्परक्तता चेत्युपपन्नम्| तथा, अङ्गैः-अवयवैः, मृद्यमानैरिवासौ नर उपलक्षितः, तथा हृदयेन द्रवता च| तथा, शूनावक्षिकूटौ यस्य स एवम्| तथा, सदनः-अङ्गसादवान्| तथा, कोपनादिकः स्यात्|

Adhikarana pANDurogasya pa~jcavidhatvam (7) · Śloka 7

| स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्||७||

🔊 Audio coming soon

स०-सः-पाण्डुरोगः, पञ्चधा स्यात्| कथम् ? इत्याह-पृथग्दोषैः सन्निपातेन मृद्भक्षणाच्च| ननु, मृत्तिकादनात् पृथग्पाण्डुरोगो न वाच्यः, पृथग्वातादिदोषजे पाण्डुरोगेऽन्तर्भूतत्वात्| मृदा हि वातादिप्रकोपो विधीयते तिक्तोषणादिभिरिव| वातादिप्रकोपश्च पाण्डुरोगकृत्| तस्मात्पृथङ्मृदो न युक्तो निर्देशः| अत्र ब्रूमः| मृदोऽन्ये ये वातादिप्रकोपहेतवः पाण्डुरोगसम्पादने सम्भावनायोग्याः, ते पाण्डुरोगं सम्पाद्य हेतुस्वरूपसत्तया विनिवर्तन्ते| मृत्तिका तु तीक्ष्णैः संशोधनैर्विना पाण्डुरोगं यावत्कायेऽवतिष्ठते| इत्ययं वातादिकोपहेतुभ्योऽन्येभ्यो मृदः पाण्डुरोगं प्रति विशेषः| तस्मान्मृदा पृथक् पाण्डुरोगो वक्तुं न्याय्यः|

Adhikarana pANDurogasya pUrvarUpam (8-9) · Śloka 9

प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि| अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवह्निता||८|| सादः श्रमो| |९|

🔊 Audio coming soon

स०-अस्य पाण्डुरोगस्य हृदयस्पन्दनादि प्राग्रूपम्|

Adhikarana vAtajasya lakShaNam (9-10) · Śloka 10

अनिलात्तत्र गात्ररुक्तोदकम्पनम्| कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता||९|| शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्धरुक्| |१०|

🔊 Audio coming soon

स०-तत्र-तेषु पाण्डुरोगेषु मध्ये, वातात्पाण्डुरोगे गात्ररुगादयः स्युः|

Adhikarana pittajasya lakShaNam (10-11) · Śloka 11

| पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः||१०|| तृट्स्वेदमूर्च्छाशीतेच्छा दौर्गन्ध्यं कटुवक्क्रता| वर्चोभेदोऽम्लको दाहः|११|

🔊 Audio coming soon

स०-पित्ताद्धरितपीताभसिरादित्वं(त्वादि) स्यात्|

Adhikarana kaphajasya lakShaNam (11-12) · Śloka 12

| कफाच्छुक्लसिरादिता||११|| तन्द्रा लवणवक्त्रत्वं रोमहर्षः स्वरक्षयः कासश्चछर्दिश्च| |१२|

🔊 Audio coming soon

स०-कफाच्छुक्लसिरादिता[दि] स्यात्|

Adhikarana sannipAtajasya lakShaNam (12) · Śloka 12

| निचयान्मिश्रलिङ्गोऽतिदुःसहः||१२||

🔊 Audio coming soon

स०-निचयात्-सन्निपातात्, मिश्रलिङ्गः पाण्डुरोगः सोऽतिदुःसहो-घोरतमः|

Adhikarana mRuttikAjasya lakShaNam (13-15) · Śloka 15

मृत्कषायाऽनिलं पित्तमूषरा मधुरा कफम्| दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च||१३|| स्रोतांस्यपक्वैवापूर्य कुर्याद्रुद्ध्वा च पूर्ववत्| पाण्डुरोगं ततः शूननाभिपादास्यमेहनः||१४|| पुरीषं कृमिमन्मुञ्चेद्भिन्नं सासृक्कफं नरः| |१५|

🔊 Audio coming soon

स०-मृद्भक्षिता कषायरसा वातं दूषयित्वा पाण्डुरोगं कुर्यात्| ऊषरा-सक्षारमृत्तिका, पित्तं दूषयित्वा पाण्डुरोगं कुर्यात्| मधुरा मृत्तिका कफं दूषयित्वा पाण्डुरोगं कुर्यात्| तथा, रसादींश्च धातून् दूषयित्वा रौक्ष्याच्च हेतोर्भुक्तं विरूक्ष्य चेति| यतः स्वभावत एव मृत्तिका रूक्षा| तस्माद्भुक्तं विरूक्षयति| स्रोतांसि चापूर्य रुद्ध्वाऽपक्वैव सती पाण्डुरोगं पूर्ववत् पित्तप्रधानाः कुपिता इत्यादिना न्यायेन कुर्यात्| मृत्तिकाया गुरुत्वात् पाकाभावः| अथवा अशब्दोऽत्रेषदर्थे| अलोमिका एडकेति यथा| तेन किञ्चित्पक्वेति गम्यते| ततः-तेन पाण्डुरोगेण, शूननाभ्यादिकः सन् कृम्यादियुतं पुरीषं मुञ्चेत्|

Adhikarana kAmalAyAH lakShaNam (15-17) · Śloka 17

अथ प्रतिज्ञावाक्येऽनुक्तामपि कामलां तुल्यहेत्वादिकत्वात् प्रदर्शयन्नाह - - - - | यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम्||१५|| कोष्ठशाखाश्रयां पित्तं दग्ध्वाऽसृङ्मांसमावहेत्| हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया||१६|| दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः||१७|| किं पाण्डुरोगिण एव पित्तलान्यासेवमानस्य कामला भवेत्, उतापाण्डुरोगिणोऽपि ? इत्याह - - - - भवेत्पित्तोल्बणस्यासौ पाण्डुरोगादृतेऽपि च||१७||

🔊 Audio coming soon

स०-यो नरः पाण्डुरोगी सन् पित्तलं-मरिचकाञ्चिकादिद्रव्यमत्यर्थं, सेवेत-उपयुङ्क्ते, तस्य-पाण्डुरोगिणः, पित्तं कर्तृ कामलामावहेत्| कीदृशीम्| कोष्ठशाखाश्रयाम्| कोष्ठो-महास्रोतः, शाखा-रक्तादयस्त्वक् च, इति तदुभयमाश्रयो यस्यास्ताम्, किं कृत्वा ? रक्तं मांसं च दग्ध्वा| कथम् ? हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया| तदा च पुरुषो दाहादिमान् मण्डूकच्छायो दुर्बलेन्द्रियश्च स्यात्| दुर्बलानि-स्वविषयेऽप्यशक्तानि, इन्द्रियाणि यस्य स एवम्| स०-पाण्डुरोगमन्तरेणापि पित्ताधिकस्य नरस्य पित्तलान्यासेवमानस्यासौ कोष्ठशाखाश्रया कामला स्यात्, न केवलं पाण्डुरोगिणः|

Adhikarana kumbhakAmalAyAH lakShaNam (18) · Śloka 18

उपेक्षया च शोफाढ्या सा कृच्छ्रा कुम्भकामला| |१८|

🔊 Audio coming soon

स०-उपेक्षया-चिकित्सां विना, सैव-कामला, यदा शोफाढ्या-श्वयथुबहुला, स्यात्तदा कुम्भकामलेत्युच्यते| कृच्छ्रा-कृच्छ्रसाध्या|

Adhikarana halImakasya lakShaNam (18-20) · Śloka 20

हलीमकं लक्षयति - - - - | हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत्||१८|| वातपित्ताद्भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुर्ज्वरः| तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम्||१९|| अलसं चेति शंसन्ति| |२०|

🔊 Audio coming soon

स०-पाण्डुरोगे सति यदा हरितश्यावपीतता भ्रमादयश्च वातपित्तात्स्युः, अतश्च तं हलीमकं शंसन्ति, मुनय इति शेषः| तं च हलीमकं, लोढरं तथाऽलसं चाचक्षते|

Adhikarana shophasya saMprAptiH (20-22) · Śloka 22

तेषां पूर्वमुपद्रवाः| शोफप्रधानाः कथिताः स एवातो निगद्यते||२०|| इति पाण्डुरोगनिदानम्| अथ शोफनिदानम्| पित्तरक्तकफान्वायुर्दुष्टो दुष्टान् बहिःसिराः| नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम्||२१|| उत्सेधं संहतं शोफं तमाहुर्निचयादतः| सर्वं|२२|

🔊 Audio coming soon

स०-तेषां-पाण्डुरोगप्रकाराणां, पूर्वमुपद्रवा यतः शोफप्रधानाः कथिताः| अतः-अस्माद्धेतोः, पाण्डुरोगनिदानादनन्तरं शोफ एव भण्यते, न विसर्पः| शोफः प्रधानः-प्रथमो, येषां त एवं कथिताः| क्वः ? इहैव| यथोक्तम् (श्लो. ६)- "शूनाक्षिकूटः" इत्यादि| तथा (श्लो. १४)- "शूननाभिपादास्यमेहनः" इति| स०-बहिर्भूताः सिरा बहिःसिराः,-बाह्याः सिराः| वायुः पित्तरक्तकफान् कर्मभूतान् बहिः सिराः कर्मभूता नीत्वोत्सेधं कुर्यात्| नयतेर्द्विकर्मकत्वात् पित्तादयो बहिःसिराश्च कर्म| यथा,-अजां नयति ग्राममिति| तेनायमर्थोऽवतिष्ठते-बहिःसिरासु पित्तादीन्नीत्वेति| किम्भूतो वायुः ? दुष्टः सन्,-कोपनैः कुपितः| किम्भूतमुत्सेधम् ? त्वक् च मांसं च त्वङ्मांसे, ते संश्रयः-आश्रयो, यस्य तम्| तैर्हीति हिशब्दोऽवधारणे| तैरेव-बहिःसिराः प्राप्तैः पित्तरक्तकफैः, रुद्धगतिः| अत एव संहतं-समन्ताद्धतं निश्चलमिव सम्पन्नं, उत्सेधम्| यतश्चैवं वातपित्तकफैः शोफः सञ्जायते, तस्मात्सर्वं शोफं निचयात्-दोषत्रयात्, आहुः|

Adhikarana shophasya navavidhatvam (22-23) · Śloka 23

ननु, एवं सतीदं विरुध्यते "दोषैः पृथग्द्वयैः सर्वै" इति| अत आह - - - - | हेतुविशेषैस्तु रूपभेदान्नवात्मकम्||२२|| दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि| |२३|

🔊 Audio coming soon

स०-तुशब्दो विशेषार्थः| यद्यपि सर्वस्त्रिदोषजः शोफस्तथाऽपि हेतुविशेषैर्यो रूपभेदस्तस्मान्नवात्मकं शोफमाहुः| तथा हि-योऽयं सन्निपातः शोफहेतुरेष कदाचित्समं कृत्वा कुप्यति कदाचिद्विषमं कृत्वैकदोषवृद्धिस्वरूपतया| एवं च हेतुविशेषैर्यो लक्षणभेदस्तस्मान्नवप्रकारत्वं शोफस्य न्याय्यमेव| लक्षणभेदश्चैषां स्पष्ट एव| तथा चाभिघाताद्धेतोश्च यथावदन्यल्लक्षणं विषाद्धेतोरन्यल्लक्षणं तद्वत् पृथग्वातादेश्च यथावदन्यत् द्वन्द्वजे चान्यत् सन्निपातजे चान्यदिति| एवं लक्षणविशेषान्नवात्मकमाहुः| उपलक्षणं चेदम्, चिकित्साविशेषादपि हि नवात्मक एव शोफः|

Adhikarana shophasya dvidhAtvam (23-24) · Śloka 24

| द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजं च तम्||२३|| पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः| |२४|

🔊 Audio coming soon

स०-अथवा निजागन्तुभेदेन द्विधा श्वयथुमाहुः| तथा, तं-शोफं, सर्वाङ्गजं-सर्वशरीरजं, एकाङ्गजं-एकावयवजं च, इति पुनर्द्विप्रकारमाहुः| पृथुश्चोन्नतश्च ग्रथितश्च तेषां भावः पृथून्नतग्रथितता, तया विशेषास्तैस्त्रिधा-त्रिप्रकारं, शोफं विदुः| विदुरिति "विद ज्ञाने" इत्यस्मादुसादेशः| पृथुत्वेन-विस्तीर्णकृतत्वेन विशेषेण, तथोन्नतत्वेन विशेषेण, तथा ग्रथितस्वरूपत्वेन विशेषेणेति योज्यम्|

Adhikarana shophasya tridhAtvam, shophasya nidAnasaMprAptI (24-29) · Śloka 29

| सामान्यहेतुः शोफानां दोषजानां विशेषतः||२४|| व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम्| अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम्||२५|| लवणक्षारतीक्ष्णोष्णशाकाम्बु स्वप्नजागरम्| मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम्||२६|| पदातेर्मार्गगमनं यानेन क्षोभिणाऽपि वा| श्वासकासातिसारार्शोजठरप्रदरज्वराः||२७|| विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः| अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः||२८|| ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः| सर्वाङ्गगाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः||२९||

🔊 Audio coming soon

स०-वक्ष्यमाणो गुर्वम्लस्निग्धादिको वर्गः [ शोफानां- ] श्वयथूनां निजानामागन्तूनां च, सामान्यहेतुः-उत्पत्तौ कारणम्| दोषजानां श्वयथूनां पुनरतिशयेन हेतुः, न तथाऽऽगन्तूनां, इति विशेषशब्देन द्योतयति| व्याधिकर्मोपवासादिभिः क्षीणस्य, व्याधिना-ज्वरादिना क्षीणस्य, तथा कर्मणा-पञ्चविधेन वमनविरेचननिरूहानुवासननस्याख्येन, तथोपवासेन, आदिग्रहणादन्येन च मार्गादिना क्षीणस्य, द्रुतं कृत्वा-सहसैव, गुर्वादिकं भजतः| अथेति समुच्चये| व्याध्यादिक्षीणलक्षणेभ्यः सकाशादन्यस्य स्वस्थादेरप्यतिमात्रं-मात्रामतिक्रम्य, भजतो दोषा वक्षसि स्थिता ऊर्ध्वं शोफं कुर्वन्ति, प्रकृतत्वाद्वक्षस ऊर्ध्वम्| बस्तौ स्थिता अधः शोफं कुर्वन्ति| मध्ये स्थिता दोषा मध्ये शोफं कुर्वन्ति| ग्राम्याणां-चटककुक्कुटादीनां, मांसं ग्राम्यमांसम्| वल्लूरं-शुष्कमांसम्| स्वप्नोऽत्राहःस्वप्नो जागरश्च रात्रिजागरो बोध्यः| यानेन-तुरगादिना, क्षोभिणा-शरीरसंरम्भजनकेन| तथा, श्वासादयः पाण्डुपर्यन्ता रोगाः प्राधान्येन| तथा, अन्येऽपि-श्वासकासादिव्यतिरिक्ता रोगाः, मिथ्योपक्रान्ताः-मिथ्योपचरिता अयथाशास्त्रमुपक्रान्ताः, शोफहेतवः| तैरपि दोषा वक्षसि स्थिता ऊर्ध्वं शोफं कुर्वन्ति| बस्तौ स्थिता अधो, मध्यगा मध्ये, सर्वाङ्गगाः सर्वगतं, प्रत्यङ्गेषु तदाश्रयाः, दोषाः शोफं कुर्वन्ति|

Adhikarana shophasya pUrvarUpam (30) · Śloka 30

तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम्| |३०|

🔊 Audio coming soon

स०-तस्य-श्वयथोः, पूर्वरूपं तत्पूर्वरूपम्| दवथुः-चक्षुरादिषु यस्तीव्र ऊष्मा स भण्यते| यदुक्तम्-"दवथुश्चक्षुरादिभ्यस्तीव्रमूष्मप्रवर्तनम्|" इति| तथा, सिरायामो-यत्र प्रदेशे श्वयथुरुद्बुभूषुस्तत्र सिराणां दैर्घ्यमिव| तथा, अङ्गगौरवं स्यात्|

Adhikarana vAtajasya lakShaNam (30-32) · Śloka 32

| वाताच्छोफश्चलो रूक्षः खररोमाऽरुणासितः||३०|| सङ्कोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान्| क्षिप्रोत्थानशमः शीघ्रमुन्नमेत्पीडितस्तनुः||३१|| स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान्| त्वक् च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते||३२||

🔊 Audio coming soon

स०-वाताच्छोफश्चलादिलक्षणः|

Adhikarana pittajasya lakShaNam (33-34) · Śloka 34

पीतरक्तासिताभासः पित्तादाताम्ररोमकृत्| शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनुः||३३|| सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः| शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः||३४||

🔊 Audio coming soon

स०-पित्ताच्छोफः पीतरक्तासिताभासादिलक्षणः| स च मध्ये-मध्यप्रदेशे, प्राक्-पूर्वं, जायते| प्राग्ग्रहणं पश्चात्सकलेऽपि देहदेशे स्यादिति द्योतयति|

Adhikarana kaphajasya lakShaNam (35-37) · Śloka 37

कण्डूमान् पाण्डुरोमत्वक्कठिनः शीतलो गुरुः| स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्राच्छर्द्यग्निसादकृत्||३५|| आक्रान्तो नोन्नमेत्कृच्छ्रशमजन्मा निशाबलः| स्रवेन्नासृक् चिरात्पिच्छां कुशशस्त्रादिविक्षतः||३६|| स्पर्शोष्णकाङ्क्षी च कफात्| |३७|

🔊 Audio coming soon

स०-कफाच्छोफः कण्डूयुतादिलक्षणः स्यात्| तथा, आक्रान्तः-पीडितः सन्, वातिक इव नोन्नमेत्| तथा, कृच्छ्रे शमजन्मनी यस्य स एवम्| तथा, निशाबलो-रात्रावधिक इत्यर्थः| तथा, कुशशस्त्रादिभिर्विक्षतः स शोफो न रक्तं स्रवेत्| किन्तर्हि ? चिरेण पिच्छां-लसीकापरपर्यायां, स्रवेत्| तथा, स्पर्शाभिलाषी उष्णाभिलाषी च स्यात्|

Adhikarana dvidoShajAnAM lakShaNam (37) · Śloka 37

यथास्वं द्वन्द्वजास्त्रयः| सङ्कराद्धेतुलिङ्गानाम्|३७|

🔊 Audio coming soon

स०-हेतवश्च लिङ्गानि च, तेषां सङ्करात्-सङ्कीर्णत्वेन, यथास्वं द्वन्द्वजास्त्रयः शोफाः, स्युरिति शेषः|

Adhikarana tridoShajasya lakShaNam (37) · Śloka 37

| निचयान्निचयात्मकः||३७||

🔊 Audio coming soon

स०-निचयात्मको-दोषत्रयजः शोफो, निचयात्-हेतुलिङ्गनिचयात्, स्यात्|

Adhikarana abhighAtajasya lakShaNam (38-39) · Śloka 39

अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः| हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः||३८|| रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्| भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः||३९||

🔊 Audio coming soon

स०-तथा, शस्त्रादिच्छेदभेदक्षतादिभिर्यः शोफः सोऽभिघातेन, वेद्य इति शेषः| तथा, हिमेनानिलेन तथोदध्यनिलेन-सागरजेन वायुना, तथा रसैः शूकैश्च भल्लातकपिकच्छुजैः संस्पर्शाच्छ्वयथुर्विसर्पवान् भवेत्| स च भृशोष्मा लोहिताभासश्च बाहुल्येन च पित्तलक्षणः स्यात्| पित्तशोफस्य लक्षणं पित्तशोफलक्षणम्, पित्तशोफलक्षणमिव लक्षणं यस्य स पित्तलक्षणः| सप्तम्युपमानपूर्वस्येति बहुव्रीहिरुत्तरपदलोपश्च|

Adhikarana viShajasya lakShaNam (40-42) · Śloka 42

विषजः सविषप्राणिपरिसर्पणमूत्रणात्| दंष्ट्रादन्तनखापातादविषप्राणिनामपि||४०|| विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात्| विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्||४१|| मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः| |४२|

🔊 Audio coming soon

स०-विषजः शोफः सविषाणां प्राणिनामङ्गे परिसर्पणात्-गमनात्, तथा तेषामेव मूत्रणात्| तथा, दंष्ट्रादन्तनखानामापातात् अविषप्राणिनामपि शोफः स्यात्| अपिशब्दान्न केवलं सविषप्राणिनाम्| तथा, विण्मूत्रशुक्रैरुपहतं-तत्स्पर्शाद्दूषितमप्रशस्तम्| विण्मूत्रशुक्रोपहतं च तन्मलवच्च विण्मूत्रशुक्रोपहतमलवत्, तथाविधं च तद्वस्त्रं च, तस्य सङ्करः-संस्पर्शः, तस्मादपि शोफः स्यात्| तथा विषवृक्षाणामनिलस्तस्य संस्पर्शात्, गरयोगस्यावचूर्णनं-अवध्वंसनं, तस्माच्च मृद्वादिगुणयुक्तः श्वयथुः स्यात्|

Adhikarana shophasya sAdhyAsAdhyatvam (42-4) · Śloka 4

| नवोऽनुपद्रवः शोफः साध्योऽसाध्यः पुरेरितः||४२|| इति शोफनिदानम्||४||

🔊 Audio coming soon

स०-नवः-अचिरोत्पन्नः, तथाऽनुपद्रवः-उपद्रवरहितः, शोफः साध्यः| असाध्यः पुरा-विकृतिविज्ञानीये, ईरितः-अभिहितः| यथोक्तम् (हृ. शा. अ. ५|९२) - "अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम्| नारीं शोफो मुखाद्धन्ति कुक्षिगुह्यादुभावपि||" इति|

Adhikarana visarpasya aShTavidhatvam (43) · Śloka 43

श्वयथुवद्दोषैर्दूष्यैश्च यतो विसर्पो भवति,अतस्तन्निदानं प्रकम्यते - - - - अथ विसर्पनिदानम्| स्याद्विसर्पोऽभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत्| |४३|

🔊 Audio coming soon

स०-विसर्पः सर्व एव शोफवत्| दोषैः-पृथग्वातपित्तकफैर्द्वयैः समस्तैस्तथाऽभिघातात्, एवमभिघातान्तैर्दोषैः शोफवद्विसर्पसम्भवः| दूष्यैरपि शोफवत्| एवं "पित्तरक्तकफान् वायुः" (श्लो. २१) इत्यादिरपि ग्रन्थोऽत्र योज्यः|

Adhikarana visarpasya tryadhiShThAnatvam (43-44) · Śloka 44

| त्र्यधिष्ठानं च तं प्राहुर्बाह्यान्तरुभयाश्रयात्||४३|| यथोत्तरं च दुःसाध्याः| |४४|

🔊 Audio coming soon

स०-तं च-विसर्पं, त्र्यधिष्ठानं प्राहुः, आत्रेयादय इति शेषः| [ कस्मात् ? ] बाह्यान्तरुभयाश्रयात्-पूर्वार्जितकर्मवशात् कदाचिद्बाह्याश्रयो विसर्पो जायते, बाह्य आश्रयो यस्य स तथा, एवं कदाचिदन्तराश्रयः, कदाचिदुभयाश्रयः, [ तस्मात् ]| ते च बाह्यान्तरुभयाश्रया विसर्पा यथोत्तरं दुःसाध्याः| दुःखेन साध्यन्त इति दुःसाध्याः|

Adhikarana visarpasya saMprAptiH (44-45) · Śloka 45

तत्र दोषा यथायथम्| प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः||४४|| देहे शीघ्रं विसर्पन्ति तेऽन्तरन्तःस्थिता बहिः| बहिःस्था द्वितये द्विस्थाः|४५|

🔊 Audio coming soon

स०-तस्मिन् विसर्पे यथायथं प्रकोपणैः-तिक्तोषणादिभिः, प्रकुपिता विशेषेण पुनर्विदाहिभिरत्यर्थं कृत्वा प्रकुपिता देहे शीघ्रं-आश्वेव, विसर्पन्ति| तेऽन्तःस्थिता अन्तर्विसर्पन्ति| बहिःस्था दोषा बहिर्विसर्पन्ति| द्वितयेऽन्तर्बहीरूपे, द्विस्थाः-उभयस्थाः सन्तो, विसर्पन्ति|

Adhikarana antarAshrayasya lakShaNam, bahirAshrayasya lakShaNam (45-47) · Śloka 47

| विद्यात्तत्रान्तराश्रयम्||४५|| मर्मोपतापात्सम्मोहादयनानां विघट्टनात्| तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्||४६|| आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात्| |४७|

🔊 Audio coming soon

स०-तत्र-तेषु त्रिषु विसर्पेषु मध्ये, अन्तराश्रयं विसर्पं मर्मोपतापादिभिर्विद्यात्| मर्मणां-हृदयादीनां, उपतापो-दुःखं, तस्मात्| तथा, सम्मोहात्-मूर्च्छोद्भवात्| अयनानां-कर्णनासादीनां, विघट्टनात्-विशेषेण चलनादतिशयेन परिस्फुरणादित्यर्थः| तथा, तृष्णाया अतियोगात्| तथा वेगानां-नानारूपाणां वेदनानां, विषमं कृत्वा-विच्छिद्य विच्छिद्य कृत्वा, प्रवर्तनात्| आशुच-शीघ्रमेव, अग्निबलयोर्भ्रंशात्-विनाशात्| अतो [ विपर्ययात्-पूर्वोक्तान्तर्विसर्प ] लक्षणविपर्ययात्, बाह्यं-बाह्याश्रयं, विसर्पं विद्यात्|

Adhikarana vAtajasya lakShaNam (47-48) · Śloka 48

| तत्र वातात्परीसर्पो वातज्वरसमव्यथः||४७|| शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान्| |४८|

🔊 Audio coming soon

स०-[तत्र-] तेषु विसर्पेषु मध्ये, वाताद्यो विसर्पः स वातज्वरतुल्यव्यथः स्यात् शोफादियुतश्च|

Adhikarana pittajasya lakShaNam (48) · Śloka 48

| पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः||४८||

🔊 Audio coming soon

स०-पित्ताद्विसर्पो द्रुतगतिः-शीघ्रव्यापी, तथा पित्तज्वरलिङ्गोऽतिलोहितश्च स्यात्| पित्तज्वरलिङ्गानीव लिङ्गानि यस्य, इति सप्तम्युपमानपूर्वस्येत्यादिना बहुव्रीहिरुत्तरपदलोपश्च|

Adhikarana kaphajasya lakShaNam (49) · Śloka 49

कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्| |४९|

🔊 Audio coming soon

स०-कफाद्विसर्पः कण्डूमान् स्निग्धः कफज्वरतुल्यरुक् च| वातादिज्वरलक्षणं यथोक्तम् (हृ. नि. अ. २|११) - "वैषम्यं तत्रतत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः|" इत्यादि|

Adhikarana upekShayA sarveShAM sphoTayutatvam (49-50) · Śloka 50

| स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः||४९|| ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम्| |५०|

🔊 Audio coming soon

स०-सर्वे च विसर्पा उपेक्षिताः-उपक्रमरहिताः, स्फोटैश्चीयन्ते-व्याप्यन्ते| किम्भूतैः ? स्वदोषलिङ्गैः-यथायथं स्वदोषलक्षणैः| ते च पक्वभिन्नाः स्वंस्वं-आत्मीयमात्मीयं दोषं(षजं), व्रणलक्षणं बिभ्रति-धारयन्ति| पूर्वं पक्वाः पश्चाद्भिन्नाः पक्वभिन्नाः, "पूर्वकाल" इत्यादिना समासः| "तत्र मारुतात्| श्यावः कृष्णोऽरुणः" (हृ. उ. अ. २५|५) इत्यादिग्रन्थनिर्दिष्टं व्रणलक्षणम्| "पित्तेन क्षिप्रजः" इत्यादिग्रन्थनिर्दिष्टम्| एवं कफादिलक्षणमपि बोध्यम्|

Adhikarana agnivisarpasya lakShaNam (50-56) · Śloka 56

अधुना द्वन्द्वजं लक्षयति - - - - | वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्भ्रमैः||५०|| अस्थिभेदाग्निसदनतमकारोचकैर्युतः| करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत्||५१|| यं यं देशं विसर्पश्च विसर्पति भवेत्स सः| शान्ताङ्गारासितो नीलो रक्तो वाऽऽशु च चीयते||५२|| अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद् द्रुतं च सः| मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः||५३|| व्यथेताङ्गं हरेत्संज्ञां निद्रां च श्वासमीरयेत्| हिध्मां च स गतोऽवस्थामीदृशीं लभते न ना||५४|| क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु| चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम्||५५|| दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते| |५६|

🔊 Audio coming soon

स०-वातपित्ताद्विसर्पो ज्वरादिभिर्युतः सकलमङ्गं च दीप्ताङ्गारावकीर्णवत्-ज्वलिताङ्गारव्याप्तसदृशं करोति| यं यं च शरीरदेशं विसर्पो विसर्पति-प्रसरति, स स प्रदेशः शान्तागारवदसितो नीलो रक्तो वा भवेत्| तथा, सः-विसर्पो, द्रागेवाग्निदग्ध इव स्फोटैश्चीयते-व्याप्यते| स च विसर्पः शीघ्रगत्वात्-तत्स्वभाववशात्, मर्मानुसारी द्रुतं-त्वरितं कृत्वा, स्यात्| तत एव च वातोऽतिबलो-बलीयान्, अङ्गं-शरीरं, व्यथेत-पीडयेत्| संज्ञां-संविदं, हरेत्-नाशयेत्, निद्रां च हरेत्| श्वासमीरयेत्-कुर्यात्, तथा हिध्मां च| सः-विसर्पी, ना-पुरुषः, ईदृशीमवस्थां गतः-प्राप्तः, चेतोनवस्थालक्षणया-अरत्या, ग्रस्तः-अभिभूतो, न क्वचिद्भूमिशय्यासनादिषु शर्म-सुखं, लभते| अरतिग्रस्त इति हेतौ प्रथमा, अरतिग्रस्तत्वादित्यर्थः| एवं क्वचिदपि सुखालाभाद्भूम्यादिषु चेष्टमानः-परिलुठन्, ततः क्लिष्टो-मनसा कायेन च, मनोदेहश्रमोद्भवां-तदुत्थां, निद्रामश्नुते| किम्भूतः ? दुष्प्रबोधः,-दुःखेन प्रबोधो-निद्रापगमो, यस्य स एवम्| एष चाग्न्याख्यो विसर्प उच्यते|

Adhikarana granthivisarpasya lakShaNam (56-59) · Śloka 59

| कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम्||५६|| रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम्| दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम्||५७|| ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम्| श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः||५८|| मोहवैवर्ण्यमूर्छाङ्गभङ्गाग्निसदनैर्युताम्| इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः||५९||

🔊 Audio coming soon

स०-कफेन पवनो रुद्धस्तमेव-कफं, बहुधा भित्वा ग्रन्थीनां मालां कुरुते| रक्तं च वृद्धरक्तस्य नरस्य दूषयित्वा ग्रन्थीनां मालां कुरुते| किम्भूतं रक्तम् ? त्वक्सिरास्नावमांसगम्| किम्भूतानां ग्रन्थीनाम् ? दीर्घाणुवृत्तस्थूलखरस्वभावानां तथा रक्तवर्णानाम्| किम्भूताम्, मालाम् ? तीव्ररुग्ज्वराम्| तीव्रौ रुग्ज्वरौ यस्यास्ताम् तथा श्वासादिभिर्युताम्| इत्ययं-अनन्तरोक्तो, ग्रन्थिवीसर्प उच्यते| कफवातकोपजश्चायं वेद्यः|

Adhikarana kardamavisarpasya lakShaNam (60-64) · Śloka 64

कफपित्ताज्ज्वरः स्तम्भो निद्रातन्द्राशिरोरुजः| अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः||६०|| मूर्च्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम्| आमोपवेशनं लेपः स्रोतसां स च सर्पति||६१|| प्रायेणामाशये गृह्णन्नेकदेशं न चातिरुक्| पिटकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः||६२|| मेचकाभोऽसितः स्निग्धो मलिनः शोफवान् गुरुः| गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते||६३|| पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः| शवगन्धिश्च वीसर्पं कर्दमाख्यमुशन्ति तम्||६४||

🔊 Audio coming soon

स०-कफपित्तात् कर्दमाख्यो जायते| तत्र ज्वरादयः स्युः| स च-विसर्पः, प्रायेण-बाहुल्येन, आमाशये-नाभिस्तनान्तरमध्ये, एकदेशं गृह्णन्-आक्रामन्, अनन्तरं देहं सर्पति-व्याप्नोति| न चातिरुक् स्यात्| तथा, पिटकैरवकीर्णो-व्याप्तः, स्यात्| किम्भूतैः ? अतिपीतलोहितपाण्डुरैः| तथा, मेचकाभादिकः स्यात्| मेचको-मयूरकण्ठसदृशो वर्णः| तं-तादृशं, विसर्पं कर्दमाख्यं-कर्दमसंज्ञं, उशन्ति, मुनय इति शेषः|

Adhikarana tridoShajasya lakShaNam (65) · Śloka 65

सर्वजो लक्षणैः सर्वैः सर्वधात्वतिसर्पणः| |६५|

🔊 Audio coming soon

स०-सर्वैस्त्रिभिर्दोषैर्जातः सर्वजः-सन्निपातोद्भवो, वीसर्पः सर्वैर्लक्षणैरुपलक्षितः| स च सर्वान् धातूनतिशयेन सर्पति सर्वधात्वतिसर्पणः स्यात्|

Adhikarana kShatajasya lakShaNam (65-66) · Śloka 66

| बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन्||६५|| विसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम्| स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम्||६६||

🔊 Audio coming soon

स०-मारुतो-वातः, क्षताद्बाह्यकारणात् क्रुद्धः सन् विसर्पं कुर्यात्| किं कुर्वन् ? पित्तं सह रक्तेन प्रेरयन्| तथा, स्फोटैः-पिटकैः, चित्तं-व्याप्तम्| किम्भूतैः ? कुलत्थसदृशैः| तथा, शोफादिभिराढ्यं-अतिशयेन युतम्| तथा, श्यावलोहितं-वर्णेन|

Adhikarana visarpANAM sAdhyAsAdhyatvam (13) · Śloka 13

पृथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः| असाध्यो क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः||६७|| शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः| ६७ १/२| इति विसर्पनिदानम्| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने पाण्डुरोगशोफविसर्पनिदानं नाम त्रयोदशोऽध्यायः||१३||

🔊 Audio coming soon

स०-पृथग्दोषैः-वातपित्तकफैः केवलैः, त्रयो विसर्पाः साधयितुं शक्याः| द्वन्द्वजाश्चानुपद्रवाः-कासवैवर्ण्यज्वरादिभिरुपद्रवैः (हृ. शा. अ. ५|९७) रहिताः, त्रयः साध्याः| क्षतसर्वोत्थौ द्वौ विसर्पावसाध्यौ, तथास्वभावत्वात्| सर्वे विसर्पाश्चाक्रान्तमर्मकाः-अभिभूतमर्मकाश्च, असाध्याः| तथा, शीर्णानि स्नायुसिरामांसानि यैस्तेऽप्यसाध्याः| तथा, प्रकर्षेण-अतिशयेन क्लिन्नाः, तथा शवगन्धयः-कुणपगन्धतुल्याः, ये तेऽप्यसाध्याः| शवस्येव गन्धो येषामिति "उपमानाच्च" इति गन्धस्येदादेशः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने पाण्डुरोगशोफविसर्पनिदानं नाम त्रयोदशोऽध्यायः समाप्तः|| १३||