Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

11. vidradhivr̥ddhigulmanidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

प्रमेहनिदानादनन्तरं विद्रधिनिदानारम्भः, यतोऽनन्तरेऽध्याये पिटिकालक्षणावसरे "विद्रधिर्वक्ष्यते" (श्लो. ३४) इत्युक्तम्|

Adhikarana vidradhivRuddhigulmanidAnAdhyAyaH, vidradhernidAnam, vidradhiH ShaDvidhaH (2-3) · Śloka 3

अतस्तमेव विद्रधिं लक्षयितुमस्याध्यायस्य प्रसङ्ग इत्याह - - - - अथातो विद्रधिवृद्धिगुल्मनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२|| भुक्तैः पर्युषितात्युष्णरूक्षशुष्कविदाहिभिः| जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः||१|| दुष्टत्वङ्मांसमेदोस्थिस्नाय्वसृक्कण्डराश्रयः| यः शोफो बहिरन्तर्वा महामूलो महारुजः||२|| षोढेत्युक्तम्| अथ तदेव षोढत्वं प्रतिपादयितुमाह - - - - वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः| दोषैः पृथक्समुदितैः शोणितेन क्षतेन च||३||

🔊 Audio coming soon

स०-पर्युषितादिभिर्भुक्तैः, तथा जिह्मशय्याविचेष्टाभिः, विविधाश्चेष्टा विचेष्टाः, शय्या च विचेष्टाश्च शय्याविचेष्टाः, जिह्माश्च ताः शय्याविचेष्टाश्च, ताभिः| जिह्माः कुटिला वक्रा इति पर्यायाः| तथा तैस्तैः-तत्रतत्रासृक्प्रदूषणैश्च निर्दिष्टैः, यः शोफो जायते दुष्टत्वगाद्याश्रयो बहिः-बहिर्भागे, अन्तः-अन्तर्भागे वा, स शीघ्रविदाहित्वाच्छोफः षोढा-षट्प्रकारो, विद्रधिः स्मृतः-अभिहितः| शोफशब्दः पृषोदरादित्वात्साधुः| त्वक् च मांसं च मेदश्च अस्थि च स्नायुश्चासृक् च कण्डरा च, ता एवम्| "सुमहान् स्नायुसङ्घातः कण्डरेत्यभिधीयते|" दुष्टाः-दोषैर्दूषिताः, त्वङ्मांसादय आधारो यस्य स दुष्टत्वङ्मांसमेदोस्थिस्नाय्वसृक्कण्डराश्रयः| तथा, महमूलस्तथा महारुजः, अनेनास्य दुरुपक्रमत्वमुक्तम्| तथा, वृत्तः स्यात्, अथवा आयतो-न वर्तुलः, इत्यनेनास्य संस्थानमुक्तम्| स०-पृथग्दोषैः-वातपित्तकफैस्त्रयः, समुदितैः-सन्निपातेन चैकः, तथा शोणितेन-दोषाधिष्ठितेन, क्षतेन-शस्त्रादिघातादिना, चेति|

Adhikarana sa punarbahirantarbhedena dvidhA, bAhyAntarayorlakShaNam (4-5) · Śloka 5

षड्विधस्यापि शोफस्य विद्रध्याख्यस्यान्तर्बहीरूपतया द्विधात्वमित्याह - - - - बाह्योऽत्र तत्रतत्राङ्गे दारुणो ग्रथितोन्नतः| आन्तरो दारुणतरो गम्भीरो गुल्मवद्धनः||४|| वल्मीकवत्समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत्| |५|

🔊 Audio coming soon

स०-अत्र-अनयोर्बाह्याभ्यन्तरभेदभिन्नयोर्विद्रध्योर्मध्यात्, बाह्यो विद्रधिस्तत्रतत्र-नाभ्यादावङ्गे, जायते| तथा, दारुणो ग्रथितोन्नतः| ग्रथित इव ग्रथितः| उन्नतः-उत्तुण्डितः| शोफस्य स्वभावोन्नतत्वादुन्नतग्रहणमतिशयार्थम्| आन्तरो दारुणतरः तथा, गम्भीरः-अन्तर्निगूढः| तथा, गुल्मवद्धनो-गुल्मेन तुल्यः| तथा, समुच्छ्रायी-उन्नतो वल्मीकशिखरवत्| तथा, शीघ्रघाती-बाह्यविद्रधितः शीघ्रव्यापादकः| अग्निशस्त्रवत्-अग्निशस्त्राभ्यां तुल्यः|

Adhikarana vidradheH sthAnAni (5-6) · Śloka 6

| नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणे||५|| स्याद्वृक्कयोरपाने च| |६|

🔊 Audio coming soon

स०-नाभ्याद्यन्यतमे देशे चायं स्यात्|

Adhikarana vAtajasya lakShaNam (6-7) · Śloka 7

वातात्तत्रातितीव्ररुक्| श्यावारुणश्चिरोत्थानपाको विषमसंस्थितः||६|| व्यधच्छेदभ्रमानाहस्पन्दसर्पणशब्दवान्| |७|

🔊 Audio coming soon

स०-तत्र-तेषु विद्रधिषु मध्ये, वातात्तीव्ररुगादिः शब्दवानित्येतदन्तलक्षणः स्यात्|

Adhikarana pittajasya lakShaNam (7-8) · Śloka 8

| रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान्||७|| क्षिप्रोत्थानप्रपाकश्च| |८|

🔊 Audio coming soon

स०-पित्ताद्रक्तताम्रासितादिकः क्षिप्रोत्थानप्रपाकश्चेत्यन्तलक्षणः स्यात्|

Adhikarana kaphajasya lakShaNam (8-9) · Śloka 9

पाण्डुः कण्डूयुतः कफात्| सोत्क्लेशशीतकस्तम्भजृम्भारोचकगौरवः||८|| चिरोत्थानविपाकश्च| |९|

🔊 Audio coming soon

स०-कफात् पाण्डुः-वर्णेन| तथा, कण्डूयुत इत्यादिचिरोत्थानविपाकश्चेत्यन्तलक्षणः स्यात्|

Adhikarana sannipAtajasya lakShaNam (9) · Śloka 9

सङ्कीर्णः सन्निपाततः| |९|

🔊 Audio coming soon

स०-सन्निपातजो विद्रधिः सङ्कीर्णो-वातादिदोषव्यामिश्रलक्षणः|

Adhikarana raktajasya lakShaNam (9-10) · Śloka 10

| सामर्थ्याच्चात्र विभजेद्बाह्याभ्यन्तरलक्षणम्||९|| कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः| पित्तलिङ्गोऽसृजा बाह्यः स्त्रीणामेव तथाऽऽन्तरः||१०||

🔊 Audio coming soon

स०-अत्र-विद्रधौ, पूर्वोक्ताद्दारुणाद्दा(णदा)रुणतरत्वादिलक्षणात्-सामर्थ्यात्, बाह्याभ्यन्तरलक्षणं विभजेत्-बाह्यस्य विद्रधेस्तथाऽऽभ्यन्तरस्य च लक्षणं वदेत्| स०-रक्तेन विद्रधिः कृष्णस्फोटैरावृतः-चितो, यावत्तीव्रदाहरुजाज्वरः| तथा पित्तलिङ्गो-"रक्तताम्रासितः" (श्लो. ७) इत्यादिलक्षणः स च बाह्यो-बाह्य एव नान्तरो नराणाम्, वस्तुस्वाभाव्यात्| आन्तरो यो विद्रधिरसृजा जायते, स स्त्रीणामेव-न नराणाम्, वस्तुस्वाभाव्यात्|

Adhikarana kShatajasya lakShaNam (11-12) · Śloka 12

अथ क्षतविद्रधिं लक्षयति - - - - शस्त्राद्यैरभिघातेन क्षते वाऽपथ्यकारिणः| क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन्||११|| पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्युपद्रवम्| |१२|

🔊 Audio coming soon

स०-शस्त्रलोष्टाद्यैर्योऽभिघातस्तेन हेतुना यः क्षतोष्मा, अथवाऽभिघातमन्तरेणापि व्रणाद्युद्भवात् क्षते जाते सत्यपथ्यकारिणः पुंसो यः क्षतोष्मा-अग्निः, स वायुना विक्षिप्तः पित्तमीरयन्-कोपयन्| किम्भूतं पित्तम् ? सरक्तम्| तथा, पित्तासृग्भ्यामुत्पन्नयोर्विद्रध्योर्यल्लक्षणं तत्समानलक्षणं विद्रधिं कुर्यात्| तथा, भूर्युपद्रवम्| इयानेव चास्य विशेषः, पित्तासृग्विद्रध्योः सकाशात्|

Adhikarana vidradhInAM sthAnabhedenopadravAH (12-16) · Śloka 16

| तेषूपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः||१२|| तमेवोपद्रवभेदं दर्शयति - - - - नाभ्यां हिध्मा, भवेद्बस्तौ मूत्रं कृच्छ्रेण पूति च| श्वासो यकृति, रोधस्तु प्लीह्न्युच्छ्वासस्य, तृट् पुनः||१३|| गलग्रहश्च क्लोम्नि, स्यात्सर्वाङ्गप्रग्रहो हृदि| प्रमोहस्तमकः कासो हृदये घट्टनं व्यथा||१४|| कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म च| सक्थ्नोर्ग्रहो वङ्क्षणयोर्वृक्कयोः कटिपृष्ठयोः||१५|| पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम्| |१६|

🔊 Audio coming soon

स०-तेषु-विद्रधिषु, उपद्रवविशेषोऽधिष्ठानविशेषाद्भवति| स०-नाभ्यां जाते विद्रधौ हिध्मा विशेषेण भवेत्| बस्तौ जाते मूत्रं पूति कृच्छ्रेण च भवेत्| यकृति जाते श्वासः स्यात्| प्लीह्नि जात उच्छ्वासस्य रोधः| क्लोम्नि जाते गलग्रह इव गलग्रहो व्याधिविशेषः स्यात्तृष्णा च| हृदि जाते सर्वस्याङ्गस्य प्रकर्षेण ग्रहः स्यात्| तथा, प्रमोहादयः स्युः| तमकः-श्वासविशेषः| हृदये घट्टनं व्यथा च| कुक्षौ जाते सति कुक्षिपार्श्वयोरन्तरेंऽसयोश्च पीडा भवति, तथा कुक्षावाटोपसम्भवः| वङ्क्षणयोर्जाते सक्थ्नोर्ग्रहो निश्चल इव सक्थिनी जायेते| वृक्कयोर्जाते कट्याः पृष्ठस्य च ग्रहः, पीडा च पार्श्वयोः स्यात्| पायौ-गुदे जाते, पवनस्य-अपानाख्यस्य वायोः, निरोधः स्यात्|

Adhikarana vidradhInAM Amapakvavidagdhatvam (16) · Śloka 16

| आमपक्वविदग्धत्वं तेषां शोफवदादिशेत्||१६||

🔊 Audio coming soon

स०-तेषां-विद्रधीनां, आमत्वं पक्वत्वं विदग्धत्वं-पाकातिक्रान्तत्वं, शोफवदादिशेत्| शोफानामिव शोफवत्, षष्ठ्यन्ताद्वतिः| तत्र शोफस्य शस्त्रकर्मविधौ (हृ. सू. अ. २९|२) - "शोफोऽल्पोऽल्पोष्मरुक्" इत्यादिना ग्रन्थेनामादिलक्षणमुक्तम्, तथैव विद्रधिषु बोध्यम्|

Adhikarana urdhvAdhaHsrAve sthAnavisheShaH (17) · Śloka 17

नाभेरूर्ध्वं मुखात्पक्वाः प्रस्रवन्त्यधरे गुदात्| गुदास्यान्नाभिजो|१७|

🔊 Audio coming soon

स०-नाभेरूर्ध्वं-ऊर्ध्वप्रदेशेषूत्पन्नाः, पक्वाः सन्तो मुखात्-आस्यात्, स्रावं स्रवन्ति| नाभेरधरे-अधस्तात्, पक्वाः सन्तो गुदात् स्रावं स्रवन्ति| नाभिजः पुनर्विद्रधिरुत्पन्नो गुदास्यात्-उभयतः, स्रावं स्रवति| गुदं चास्यं च गुदास्यम्, तस्मात्|

Adhikarana vidradhau vraNavaddoShavij~jAnam (17-18) · Śloka 18

| विद्याद्दोषं क्लेदाच्च विद्रधौ||१७|| यथास्वं व्रणवत्| |१८|

🔊 Audio coming soon

स०-विद्रधौ व्रण इव यथास्वं वातादिदोषं क्लेदाद्विद्यात्| व्रणप्रतिषेधोक्तया रीत्या (हृ. उ. अ. २५|६) मस्तुमांसपुलाकाम्बुतुल्यतन्वल्पसंस्रत्यादिकया वातिकं विद्रधिं विद्यात्| मूत्रकिंशुकभस्माम्बुतैलाम्भोष्णबहुस्रुतेत्यादिकया च पैत्तिकं विद्रधिं विद्यात्| बहुश्वेतघनस्रुत्यादिकया च कफजं विद्रधिं विद्यात्| चशब्दान्न केवलं पूर्वोक्तात् "वातात्तत्रातितीव्ररुक्" (श्लो. ६) इत्यादेर्वातादिलक्षणाद्वातादिदोषविद्रधिं जानीयत्, क्लेदाच्चेत्यर्थः| व्रणवदिति सप्तम्यन्ताद्वतिः, विद्रधाविति सप्तम्यन्तनिर्देशात्| तथा चोक्तं भाष्ये-"उपमाने यः संशयः स उपमेयाद्ब्यावर्तते|" इति|

Adhikarana vidradhInAM sAdhyAsAdhyatvam (18-19) · Śloka 19

अथैषां साध्यासाध्यविभागार्थमाह - - - - तत्र विवर्ज्यः सन्निपातजः| पक्वो हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा||१८|| पक्वश्चान्तः स्रवन् वक्क्रात् क्षीणस्योपद्रवान्वितः| |१९|

🔊 Audio coming soon

स०-सन्निपातजो यो विद्रधिः स विवर्ज्योऽसाध्यत्वात्| तथा, पक्वोऽन्तर्बहिरेव वा भिन्नोऽन्तः-अन्तर्भिन्नो, बाह्यो-बहिर्भिन्नो, हृन्नाभिबस्तिस्थो वर्ज्य एव| पक्वश्चान्तरो हृदादिभ्योऽन्यत्रापि जातो वक्त्रेण स्रवन् क्षीणस्योपद्रवैः-हिध्मादिभिः, युक्तो वर्ज्य एव|

Adhikarana stanavidradherlakShaNam (19-21) · Śloka 21

इदानीं स्तनविद्रधिर्योषितां यथा स्यात् तथा वक्ति - - - - | एवमेव स्तनसिरा विवृताः प्राप्य योषिताम्||१९|| सूतानां गर्भिणीनां वा सम्भवेच्छ्वयथुर्घनः| स्तने सदुग्धेऽदुग्धे वा बाह्यविद्रधिलक्षणः||२०|| नाडीनां सूक्ष्मवक्त्रत्वात्कन्यानां न स जायते| |२१| इति विद्रधिनिदानम्|२१|

🔊 Audio coming soon

स०-[ एवमेव- ] यथैव विद्रध्याख्यः श्वयथुविशेषो भुक्तैः पर्युषितादिभिस्तैस्तैश्चासृक्प्रदूषणैर्दुष्टत्वङ्मांसमेदोस्थिस्नाय्वसृक्कण्डराश्रयः, तथैव सूतानां गर्भिणीनां वा स्त्रीणां स्तने सदुग्धेऽथवाऽदुग्धे स्तनसिरा विवृताः प्राप्य-आक्रम्य, बाह्यविद्रधिलक्षणः-"बाह्योऽत्र तत्रतत्राङ्गे" (श्लो. ४) इत्यादिलक्षणो घनो-निबिडो, यः श्वयथुः सम्भवेत् स स्तनविद्रधिसंज्ञः| नाडीनां-स्तनसिराणां, सूक्ष्मवक्त्रत्वात् स कन्यानां न जायते|

Adhikarana vRuddheH saMprAptiH (21-22) · Śloka 22

अथ श्वयथुसामान्यादिदानीं वृद्धिं-वर्ध्मापरनामानं व्याधिं, वक्तुमुपक्रमते - - - - अथ वृद्धिनिदानम्| | कृद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन्||२१|| मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीः| प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः||२२||

🔊 Audio coming soon

स०-वायुः प्रकुपितो वृद्धिं करोति| किं धातुक्षयात् कुपितः ? नेत्याह-रुद्धगतिः| रुद्धा गतिर्यस्येति रुद्धगतिः, आवृतमार्ग इत्यर्थः| किम्भूतः ? शोफशूलकरः| तथा, चरन्-देशाद्देशान्तरं गच्छन्| वङ्क्षणतः-ततो देशात्, मुष्कौ-वृषणौ, यथा प्राप्य तथा फलकोशाभिवाहिनीः सिराः प्रकर्षेण पीडयित्वा| कस्य वृद्धिं करोति ? इत्याह-फलकोशयोः,-वृषणयोः|

Adhikarana vRuddhiH saptavidhaH (23) · Śloka 23

अधुनाऽस्य व्याधेः सङ्ख्यां कुर्वन्नाह - - - - दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः| मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्||२३||

🔊 Audio coming soon

स०-पृथग्वातपित्तकफैर्दोषैस्तथाऽस्रेण मेदसा मूत्रेण च तथाऽऽन्त्रेण च, एवं दोषास्रमेदोमूत्रान्त्रैः स वृद्ध्याख्यो गदः सप्तधा-सप्तप्रकारो, मतः| न केवलं [ वात ] वृद्धाख्यो यो गदः स एवानिलजो यावन्मूत्रान्त्रजावपि यौ वृद्ध्याख्यौ गदौ तावप्यनिलजौ| ननु, एवं पृथङ्निर्देशो मूत्रान्त्रजयोः कर्तुं न युक्तोऽनिलजत्वात्, इत्याह-हेतुभेदस्तु केवलम्| सत्यम्| मूत्रान्त्रजावप्यनिलाज्जायेते| किन्तु कारणभेदान्मूत्रान्त्रजाविति निर्दिष्टौ| यतो मूत्रान्त्रेऽधिष्ठाय वायुर्मूत्रान्त्रजौ गदौ वृद्ध्याख्यौ करोति| एवं तौ परमार्थतो वातजावपि मूत्रान्त्रजावुच्यते, तथारूपाद्धेतुभूतादुत्पन्नत्वात्| एतच्चोपलक्षणमात्रम्| मेदोरक्तजावपि वृद्धिगदौ दोषजावेव, कफपित्ताभ्यां दूष्यसंज्ञके मेदोरक्तेऽधिष्ठाय कृतत्वात्| तस्मान्मेदोरक्तहेतुवशान्मेदोरक्तजाविति संज्ञया तावुक्तौ| एवमन्येऽप्येवंरूपा व्याधयो बोध्याः|

Adhikarana vAtajasya lakShaNam (24) · Śloka 24

वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक्| |२४|

🔊 Audio coming soon

स०-तत्र वाताद्वृद्धिर्वातेन पूरिता या दृतिः-भस्रा, तस्या इव स्पर्शो यस्य स एवंभूतो भवति| तथा, रूक्षः| तथा, अहेतुः-निमित्तं विना, रुक्-पीडा, यस्मिन् स एवम्|

Adhikarana pittajasya lakShaNam (24) · Śloka 24

| पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्||२४||

🔊 Audio coming soon

स०-पित्ताद्वृद्धिः पक्वोदुम्बरफलतुल्यो दाहादिमांश्च स्यात्|

Adhikarana kaphajasya lakShaNam (25) · Śloka 25

कफाच्छितो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक्| |२५|

🔊 Audio coming soon

स०-कफाद्वृद्धिः शीतादियुक्तः स्यात्|

Adhikarana raktajasya lakShaNam (25) · Śloka 25

| कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः||२५||

🔊 Audio coming soon

स०-रक्ताद्वृद्धिः कृष्णस्फोटैश्चितः पित्तवृद्धिलिङ्गश्च| पित्तवृद्धिलिङ्गानीव लिङ्गानि यस्य स एवम्| सप्तम्युपमानपूर्वस्येत्यादिनोत्तरपदलोपी समासः|

Adhikarana medojasya lakShaNam (26) · Śloka 26

कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः| |२६|

🔊 Audio coming soon

स०-मेदसा वृद्धिः कफवदिति कार्ये कारणोपचारात्कफकार्यो रोगः कफ उक्तः| विशेषमत्राह-मृदुस्तालफलोपम इति|

Adhikarana mUtrajasya lakShaNam (26-27) · Śloka 27

| मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः||२६|| अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः| मूत्रकृच्छ्रमधस्ताच्च वलयं फलकोशयोः||२७||

🔊 Audio coming soon

स०-मूत्रजो वृद्धिर्मूत्रधारणशीलस्य जलपूर्णभस्त्रेव स्यात्| स तु-मूत्रजो वृद्धिः, गच्छतो-व्रजतः, क्षोभं याति सरुक् मृदुश्च स्यात्| तथा, मूत्रकृच्छ्रं स्यात्| फलकोशयोरधस्ताच्च वलयं-कटकं, स्यात्|

Adhikarana annajasya lakShaNam, annajasyAsAdhyatvam (28-2) · Śloka 2

वातकोपिभिराहारैः शीततोयावगाहनैः| धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः||२८|| क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा| पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्||२९|| कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा| उपेक्ष्यमाणस्य च मुष्कवृद्धि- माध्मानरुक्स्तम्भवतीं स वायुः| प्रपीडितोऽन्तः स्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः||३०|| अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः||३१|| इति वृद्धिनिदानम्||२||

🔊 Audio coming soon

स०-वातकोप्याहारादिभिरन्यैश्च पूर्वोक्तैः क्षोभणैः-कोपनैः, क्षुभितः-कुपितो, यदाऽल्पस्यान्त्रस्यावयवः-एकदेशः, तं स्वनिवेशात्-स्वस्थानात्, विगुणीकृत्याधो नयेत् तदा पवनो वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं कुर्यात्| उपेक्ष्यमाणस्येत्यादि| उपेक्ष्यमाणस्य-अचिकित्स्यमानस्य वृद्ध्याख्यगदस्य, स पूर्वनिर्दिष्टो वायुर्मुष्कयोर्वृद्धिं-वर्द्धनं, कुर्यात्| किम्भूताम् ? आध्मानरुक्ऽऽस्तम्भवतीम्| तथा, प्रपीडितो बाह्यादन्तः स्वनवान्-सशब्दः, प्रयाति| मुक्तः-अप्रपीडितः, प्रध्मापयन् पुनरेति-आगच्छति| उपजातिवृत्तम्| अयं-एवंलक्षणः, अन्त्रवृद्धिरसाध्यो न पुनः सर्व एवेत्ययंशब्देन द्योतयति| किमस्य लक्षणम् ? इत्याह-वातवृद्धिसमाकृतिः,-"वातपूर्णदृतिस्पर्श" (श्लो. २४) इत्यादिलक्षणलक्षितः|

Adhikarana gulmo~aShTavidhaH (32-33) · Śloka 33

वृध्याख्यस्य व्याधेरनन्तरं शोफसामान्यात् गुल्मस्यावसरः, इति तं लक्षयितुमाह - - - - अथ गुल्मनिदानम्| रूक्षकृष्णारुणसिरातन्तुजालगवाक्षितः| गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः||३२|| आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः| |३३|

🔊 Audio coming soon

स०-सर्वगुल्मानां सामान्यलक्षणं रूक्षकृष्णेत्यादिग्रन्थनिर्दिष्टम्| गवाक्षितो-निरन्तरमाक्रान्तः| गुल्मोऽष्टधेति सङ्ख्यारूपा सम्प्राप्तिः| तदेवाष्टधात्वं प्रतिपादयितुमाह-पृथग्दोषैः-वातपित्तकफैः, त्रयः| तथा, संसृष्टैः-संसर्गेण, त्रयः| निचयं गतैः-सन्निपातेन, एकः| तथा, अष्टमो नारीणां चार्तवस्य दोषेण-दुष्टतया, स्यात्|

Adhikarana gulmasya nidAnam, gulmasya saMprAptiH (33-38) · Śloka 38

| ज्वरच्छर्द्यतिसाराद्यैर्वमनाद्यैश्च कर्मभिः||३३|| कर्शितो वातलान्यत्ति शीतं वाऽम्बु बुभुक्षितः| यः पिबत्यनु चान्नानि लङ्घनप्लवनादिकम्||३४|| सेवते देहसङ्क्षोभि छर्दिं वा समुदीरयेत्| अनुदीर्णामुदीर्णान्वा वातादीन्न विमुञ्चति||३५|| स्नेहस्वेदावनभ्यस्य शोधनं वा निषेवते| शुद्धो वाऽऽशुविदाहीनि भजते स्यन्दनानि वा||३६|| वातोल्बणास्तस्य मलाः पृथक् क्रुद्धा द्विशोऽथवा| सर्वे वा रक्तयुक्ता वा महास्रोतोनुशायिनः||३७|| ऊर्ध्वाधोमार्गमावृत्य कुर्वते शूलपूर्वकम्| स्पर्शोपलभ्यं गुल्माख्यमुत्प्लुतं ग्रन्थिरूपिणम्||३८||

🔊 Audio coming soon

स०-"ज्वरच्छर्दि" इत्यादि यावत् "भजते स्यन्दनानि वा" इति निदानम्| अतिसाराद्यैरित्यादिशब्देन ग्रहण्यादयो गृह्यन्ते, वमनाद्यैरित्यत्र च विरेचनास्थापनादयः| ज्वरादिभिर्व्याधिभिर्वमनादिभिश्च कर्शितो यो वातलान्यन्नानि भुङ्क्ते| अथवा, बुभुक्षितो-भोजनं विनैव, शीतं-अपक्वमम्बु, यः पिबति| तथा चोक्तम् (सङ्ग्रहे सू. अ. ६)- "अनवस्थितदोषाग्नेर्व्याधिक्षीणबलस्य च| नाल्पमप्याममुदकं हितं, तद्धि त्रिदोषकृत्||" इति| अनु चान्नानि-भोजनादनन्तरं, लङ्घनादिकं यत्कर्म देहसङ्क्षोभि-शरीरसंरम्भोत्पादकं, तत्सेवते| छर्दिं वा योऽनुदीर्णां-अनुत्क्लिष्टां, समुदीरयेत्-समन्तादूर्ध्वं नयेत्| उदीर्णान् वातादीन्-वातमूत्रपुरीषादीनागतान्, न विमुञ्चति| तथा यः कश्चन स्नेहस्वेदावनभ्यस्य-पुनःपुनरकृत्वा, शोधनं-वमनविरेचनादि, निषेवते| अथवा, शुद्धः-कृतवमनविरेचनः, आशु-समनन्तरमेव, विदाहीन्यन्नपानानि भजते-सन्तापनान्यन्नपानानि भुङ्क्ते| पच्यमानान्यन्नपानानि यानि विदाहावस्थां प्राप्तान्यामाशय एव चिरमवतिष्ठन्ते तानि विदाहीन्युच्यन्ते| अथवा, कृतवमनविरेचनोऽनन्तरमेव स्यन्दनानि-स्रुतिरूपश्लेष्मकारीण्यन्नपानानि, भजते| तस्य मलाः-वातादयो, गुल्मसंज्ञं व्याधिं कुर्वते| कीदृशाः ? वातोल्बणाः-वातकारणाः| न हि पवनकारणमन्तरेण श्लेष्मपित्तरक्तानां संघट्टना घटते| तस्मात् पित्तादीनामुत्पत्तिकारणानां वातस्य च पित्तादिगुल्मेषु गुल्मनिष्पादनं प्रति तुल्यकक्षतामनेन विशेषणेन प्रतिपादयत्याचार्यः| यदि पुनरुल्बणः-अधिकः, इति व्याख्यायते| तदानीं पित्तगुल्मेऽप्यधिकत्वं वातस्येति वातगुल्मपित्तगुल्मादीनां विषयविभागो न स्यात्| तस्माद्वातकारणत्वं वातोल्बणा इत्यनेन विवक्षितमिति वेद्यम्| किम्भूता दोषाः ? क्रुद्धाः-कुपिताः| कथम् ? पृथक्-प्रत्येकं कृत्वा| अथवा, द्विशो-द्वौ द्वौ कृत्वा, संसर्गस्था इत्यर्थः| सर्वे वा-समस्ता रक्तयुक्ता वेति| वाशब्दः समुच्चये, रक्तयुक्ताश्चेत्यर्थः| तथा च खरनादेऽभिहितम्-"वायुः, क्रुद्धः कफं रक्तं पित्तं चादाय पिण्डितम्| गुल्मं कुर्यात्" इत्यादि यावत् "रक्तपित्तकफा वातपिण्डिता गुल्म उच्यते|" इति| तथा महास्रोतोनुशायिनः| महास्रोतः-आमपक्वाशयस्थानं, तदनुशेरते ये ते महास्रोतोनुशायिनः| किं कृत्वा गुल्मं निष्पादयन्ति ? इत्याह-ऊर्ध्वाध इत्यादि| ऊर्ध्वाधोमार्गमावृत्य-आपूर्य, अनेनास्य सम्प्राप्तिरुक्ता| शूलं पूर्वं यस्मिन् स एवं तं शूलपूर्वकम्,-पूर्वं शूलं कृत्वा पश्चाद्दोषा गुल्मं कुर्वन्ति, अनेनास्य प्राग्रूपमुक्तम्| तथा स्पर्शोपलभ्यं-अश्मादिसदृशम्, तथा उत्प्लुतं-ऊर्ध्वं गतम्| तथा ग्रन्थिरूपिणं-ग्रन्थ्याकारम्, इत्यनेनास्य संस्थानमुक्तम्|

Adhikarana gulmasya utpattiH (39-41) · Śloka 41

अधुना वातगुल्मं लक्षयति - - - - कर्शनात्कफविट्पित्तैर्मार्गस्यावरणेन वा| वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः||३९|| स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये| पिण्डितत्वादमूर्तोऽपि मूर्तत्वमिव संश्रितः||४०|| गुल्म इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयः| |४१|

🔊 Audio coming soon

स०-कर्शनात्-धातुक्षयात्, वायुर्दुष्टः कदाचित् कफविट्पित्तैः कृतेन मार्गस्यावरणेन-रोधेन, कोष्ठे-आमपक्वाशयाख्ये, कृताश्रयो-गृहीतास्पदः, तथा रौक्ष्यात्कारणात् काठिन्यमागतः-पिण्डितत्वं प्राप्तः, स्वाश्रये-पक्वाशयस्थाने, दुष्टः स्वतन्त्रः, पराश्रये-आमाशयस्थाने, दुष्टः परतन्त्रः पित्तकफयोरायत्तः, पिण्डितत्वात्कारणात् स्पर्शोपलभ्यः सन्, अमूर्तोऽपि-अकठिनोऽपि, मूर्तत्वमिव-काठिन्यमिव, संश्रितः-सम्पन्नो, गुल्म इत्यभिधीयते, तन्त्रकृद्भिरिति शेषः| बस्तिनाभिहृत्पार्श्वसंश्रयः, बस्त्यादिः संश्रयः-आधारो, यस्य स एवम्|

Adhikarana vAtajasya lakShaNam (41-44) · Śloka 44

| वातान्मन्याशिरःशूलं ज्वरप्लीहान्त्रकूजनम्||४१|| व्यधः सूच्येव विट्सङ्गः कृच्छ्रादुच्छ्वसनं मुहुः| स्तम्भो गात्रे मुखे शोषः कार्श्यं विषमवह्निता||४२|| रूक्षकृष्णत्वगादित्वं चलत्वादनिलस्य च| अनिरूपितसंस्थानस्थानवृद्धिक्षयव्यथः||४३|| पिपीलिकाव्याप्त इव गुल्मः स्फुरति तुद्यते| |४४|

🔊 Audio coming soon

स०-वाताद्गुल्मे सति मन्याशूलादयो भवन्ति| तथा, चलत्वाच्च वायोर्गुल्मोऽनिरूपितसंस्थानस्थानवृद्धिक्षयव्यथः स्यात्| अनिरूपिताः संस्थानादयो यस्य स एवम्| संस्थानं-आकारः| स्थानं-आश्रयः| तथा, पिपीलिकाभिर्व्याप्तः-चित इव, गुल्मः स्फुरति तुद्यते च| तुद्यत इति कर्मकर्तरि|

Adhikarana pittajasya lakShaNam (44-45) · Śloka 45

| पित्ताद्दाहोऽम्लको मूर्च्छाविड्भेदस्वेदतृडूज्वराः||४४|| हारिद्रत्वं त्वगाद्येषु गुल्मश्च स्पर्शनासहः| दूयते दीप्यते सोष्मा स्वस्थानं दहतीव च||४५||

🔊 Audio coming soon

स०-पित्ताद्गुल्मे दाहादयः स्युः| तथा त्वङ्नखादिषु हारिद्रो वर्णः स्यात्| गुल्मश्च स्पर्शनं न सहते-स्पर्शनासहः, स्यात्| तथा, दूयते-उपतप्यते, दीप्यते-ज्वलतीव| सोष्मा च स्यात्| स च स्वस्थानं-गुल्माश्रितमास्पदं, दहतीव-तप्तायःपिण्ड इव| दूयत इति "दूड् परितापे" दिवादिः|

Adhikarana kaphajasya lakShaNam (46-47) · Śloka 47

कफात्स्तैमित्यमरुचिः सदनं शिशिरज्वरः| पीनसालस्यहृल्लासकासशुक्लत्वगादिताः||४६|| गुल्मोऽवगाढः कठिनो गुरुः सुप्तः स्थिरोऽल्परुक्| |४७|

🔊 Audio coming soon

स०-कफाद्गुल्मे सति स्तैमित्यादयः स्युः| गुल्मोऽवगाढादियुक्तः स्यात्|

Adhikarana dvidoShajAnAM lakShaNam (47-48) · Śloka 48

| स्वदोषस्थानधामानः स्वे स्वे काले च रुक्कराः||४७|| प्रायः| |४८|

🔊 Audio coming soon

स०-ते च गुल्माः स्वदोषस्थानधामानो दोषस्य-वातादेः, स्थानं-पक्वाशयादि स्वमात्मीयमात्मीयं, दोषस्थानं तद्धाम-स्थानं, येषां-वातपित्तकफगुल्मानां, ते प्रायो-बाहुल्येन, स्वदोषस्थानधामानः| तथा स्वे स्वे काले-आत्मीये वयोहोरात्रिभुक्तानामन्तमध्यादिलक्षणे, यथासङ्ख्यं वातपित्तकफगुल्माक्कराः-शूलकराः, भवन्ति|

Adhikarana tridoShajasya lakShaNam (48-49) · Śloka 49

त्रयस्तु द्वन्द्वोत्था गुल्माः संसृष्टलक्षणाः| सर्वजस्तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः||४८|| सोऽसाध्यो| |४९|

🔊 Audio coming soon

स०-द्वन्द्वोत्थाः-संसर्गजा गुल्मास्त्रयः,संसृष्टलक्षणाः स्युः| स०-सर्वजस्त्रिदोषजो गुल्मस्तीव्ररुगादियुक्तः| स चासाध्यः|

Adhikarana raktajasya lakShaNam (49-54) · Śloka 54

रक्तगुल्मस्तु स्त्रिया एव प्रजायते| अत्रैवोपपत्तिमाह - - - - ऋतौ वा नवसूता वा यदि वा योनिरोगिणी||४९|| सेवते वातलानि स्त्री क्रुद्धस्तस्याः समीरणः| निरुणद्ध्यार्तवं योन्यां प्रतिमासमवस्थितम्||५०|| कुक्षिं करोति तद्गर्भलिङ्गमाविष्करोति च| हृल्लासदौहृदस्तन्यदर्शनक्षामतादिकम्||५१|| क्रमेण वायुसंसर्गात्पित्तयोनितया च तत्| शोणितं कुरुते तस्या वातपित्तोत्थुगुल्मजान्||५२|| रुक्स्तम्भदाहातीसारतृड्ज्वरादीनुपद्रवान्| गर्भाशये च सुतरां शूलं दुष्टासृगाश्रये||५३|| योन्याश्च स्रावदौर्गन्ध्यतोदस्पन्दनवेदनाः| |५४|

🔊 Audio coming soon

स०-रक्तगुल्मः पुनः स्त्रिया एव प्रजायते| स०-ऋतौ-आर्तवकाले, नवप्रसूता वा योनिरोगिणी वा स्त्री वातलान्यन्नपानानि यदि सेवते तस्याः-स्त्रियाः समीरणः-पवनः, कुपितो योन्यां प्रतिमासं यदवस्थितमार्तवं तदुपरुणद्धि| तत्-आर्तवं, कुक्षिं करोति, गर्भलिङ्गं चाविष्करोति-प्रकटयति| गर्भलिङ्गमिव लिङ्गं यस्येति "सप्तम्युपमानपूर्वस्य" इति बहुब्रीहिरुत्तरपदलोपश्च| अथ तदेव गर्भलिङ्गमाह-हृल्लासेत्यादि| मुनिस्तु रक्तगुल्मे (च. नि. अ. ३|१४)- "पादयोः श्वयथुर्भवति|" इत्यूचे| आदिशब्देन मूर्च्छादीनां ग्रहणम्| स०-क्रमेण-अनन्तरं, वायुसंसर्गात्-मरुत्संश्लेषात्, तथा पित्तयोनितया च-पित्तस्य कारणत्वेन, तच्छोणितं वातपित्तोत्थगुल्मजानुपद्रवान् कुरुते रुक्स्तम्भदाहातीसारतृड्ज्वरादीन्| अनया च भङ्ग्या वातपित्तगुल्मयोरुपद्रवा अप्युक्ता भवन्ति| गर्भाशय इत्यादि| गुल्मश्च गर्भाशये सुतरां शूलं करोति| किम्भूते ? दुष्टस्यासृज आश्रये-आधारभूते| योन्याश्च स्रावादीन् कुरुते|

Adhikarana garbhalakShaNaraktajalakShaNayorbhedaH (54-55) · Śloka 55

गर्भलक्षणाद्रक्तगुल्मस्य विलक्षणं लक्षणमाह - - - - | न चाङ्गैर्गर्भवद्गुल्मः स्फुरत्यपि तु शूलवान्||५४|| पिण्डीभूतः स एवास्याः कदाचित्स्पन्दते चिरात्| न चास्या वर्द्धते कुक्षिगुल्म एव तु वर्द्धते||५५||

🔊 Audio coming soon

स०-न च गर्भ इवाङ्गैः-पाण्यादिभिरवयवैः, स्फुरति-निःस्पन्दते गुल्मोऽङ्गाभावात्, अपि तु शूलवान्| स एव-गुल्मः, पिण्डीभूतः कदाचिच्चिरेणास्याः स्पन्दते-न गर्भवच्छीघ्रम्| तथा, गर्भेऽन्तःस्थिते कुक्षिरस्या वर्धते| गुल्मे त्वन्तःस्थिते स एव वर्धते गुल्मो, न कुक्षिः| इति गर्भरक्तगुल्मयोर्लक्षणभेदः|

Adhikarana gulmavidradhyorbhedaH (56-57) · Śloka 57

अथ गुल्मविद्रध्योर्लक्षणभेदं कथयति - - - - स्वदोषसंश्रयो गुल्मः सर्वो भवति तेन सः| पाकं चिरेण भजते नैव वा, विद्रधिः पुनः||५६|| पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयत्वतः| अतः शीघ्रविदाहित्वाद्विद्रधिः सोऽभिधीयते||५७||

🔊 Audio coming soon

स०-सर्वो गुल्मः स्वदोषः संश्रयो यस्य स एवम्| येन येन दोषेण वाताद्यन्यतमेनाथवा द्वन्द्वस्वरूपेण सन्निपातेनान्येन वा गुल्मो जायते स दोषस्तस्य गुल्मस्याश्रयः| तदेवं वातगुल्मस्य वात एवाश्रयो, न तस्य पित्तादयः| पित्तादिकृतानां त एवाश्रयाः, न पवन आश्रयः| एवं स्वदोषसंश्रयो गुल्मः सर्वो भवति| तेन-स्वदोषसंश्रयाख्येन कारणेन, गुल्मश्चिरेण कालेन पाकं भजते| एतच्च पित्तगुल्मं प्रति प्रायेण तथैकीयमतेनोक्तम्| अत एवाह-नैव वेति| अथवा गुल्मः पाकं न भजत एव| विद्रधिस्तु शीघ्रं-अचिरेणैव कालेन, पाकं भजते, अत्यर्थं दुष्टरक्ताश्रयत्वात्| अतः शीघ्रविदाहित्वात् कारणादसौ विद्रधिरभिधीयते| तथा चागमः (सुश्रुते नि. अ. ९|३२)- "मांसशोणिभूयस्त्वात् पाकं गच्छति विद्रधिः| मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति||" इति| तथा प्रायेण वातात्मकः सर्वो गुल्मो जायते| वात एवामूर्तोऽपि मूर्तत्वमिव संश्रितो गुल्म इत्युच्यते| अत एव वातस्यैव सर्वगुल्मेकारणं प्रति प्राधान्यम्| तस्माद्गुल्मस्य पाकानुपपत्तिः|

Adhikarana bAhyAbhyantarayorlakShaNam (58-3) · Śloka 3

अथ गुल्मस्य बाह्याभ्यन्तरलक्षणमाह - - - - गुल्मेऽन्तराश्रये बस्तिकुक्षिहृत्प्लीहवेदनाः| अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम्||५८|| अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक्| वैवर्ण्यमवकाशस्य बहिरुन्नतताऽधिकम्||५९|| इति गुल्मनिदानम्||३||

🔊 Audio coming soon

स०-गुल्मेऽन्तराश्रये-आभ्यन्तरे, बस्त्यादिवेदनादयः स्युः| तथा, अग्न्यादिभ्रंशो-विनाशो, वेगानां च प्रवर्तनं न भवति| अतः-अस्माद्बाह्ये, विपर्ययो-वैपरीत्यम्| यथा,-अग्न्यादिभ्रंशाभावो वेगानां च प्रवर्तनं भवति| तथा, बस्तिहृदयादिषु कोष्ठाङ्गेष्वतिरुङ्न भवति| यथाऽन्तरे तथाऽवकाशस्य गुल्मप्रदेशस्य वैवर्ण्यं-शरीरादन्यवर्णत्वम्| बहिः-बाह्यभागे, उन्नतत्वमधिकं भवति|

Adhikarana AnAhasya lakShaNam (60) · Śloka 60

गुल्मानामानाहभूयिष्ठत्वादानाहलक्षणमाह - - - - साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्| ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते||६०||

🔊 Audio coming soon

स०-ऊर्ध्वाधोवातरोधेन कारणभूतेनोदरे भृशमाध्मानं यत् तमानाहं प्रचक्षते, मुनयः इति शेषः| किम्भूतम् ? साटोपं-सशब्दम्, तथाऽत्युग्रा रुक्-पीडा, यत्र तदेवम्| सुश्रुतेन प्रत्याध्मानस्यापि लक्षणमभ्यधायि (नि. अ. १|८९) - "विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्| प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम्||" इति|

Adhikarana aShThIlAyAH lakShaNam, pratyaShThIlAyAH lakShaNam (61) · Śloka 61

घनोऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः| आनाहलिङ्गस्तिर्यक्तु प्रत्यष्ठीला तदाकृतिः||६१||

🔊 Audio coming soon

स०-[ घनो- ]निबिडो, यो ग्रन्थिरष्ठीलयोपमीयते तथोर्ध्वं समुन्नतः-नाधस्तात्, स ग्रन्थिरानाहलिङ्गोऽष्ठीला भण्यते| तिर्यक् च (पुनः) यो ग्रन्थिः-नोर्ध्वं समुन्नतः, तदाकृतिः-अष्ठीलासदृशः, स ग्रन्थिः प्रत्यष्ठीलोच्यते|

Adhikarana tUnIpratUnyoH lakShaNam (62) · Śloka 62

तूनीप्रतून्यौ लक्षयति - - - - पक्वाशयाद्गुदोपस्थं वायुस्तीव्ररुजः प्रयान्| तूनी, प्रतूनी तु भवेत्स एवातो विपर्यये||६२||

🔊 Audio coming soon

स०-गुदं चोपस्थं च गुदोपस्थम्| पक्वाशयात्-ततो देशात्, वायुस्तीव्ररुजः सन् गुदोपस्थं प्रयान्-गच्छन्, तूनीत्युच्यते| स एव-वायुः, अतो विपर्यये-गुदोपस्थात्पक्वाशयं गच्छन्, तीव्ररुजः सन् प्रतूनीति गद्यते|

Adhikarana gulmasya pUrvarUpam (11) · Śloka 11

उद्गारबाहुल्यपुरीषबन्ध- तृप्त्यक्षमत्वान्त्रविकूजनानि| आटोपमाध्मानमपक्तिशक्ति- मासन्नगुल्मस्य वदन्ति चिह्नम्||६३|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने विद्रधिवृद्धिगुल्मनिदानं नामैकादशोऽध्यायः||११||

🔊 Audio coming soon

स०-उद्गारबाहुल्यादीन्यासन्नगुल्मस्य चिह्नं-प्राग्रूपं, वदन्ति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने विद्रधिवृद्धिगुल्मनिदानं नामैकादशोऽध्यायः समाप्तः|| ११||