Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

12. udaranidānādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अथोदरनिदानमारभ्यते| यतोऽनन्तरेऽध्याय आनाहलक्षणमुक्तम्| उदरं च कुक्षिमानह्य दोषाः कुर्वते|

Adhikarana udaranidAnAdhyAyaH, udarasya nidAnam (2-1) · Śloka 1

तस्मादतोऽनन्तरमुदरनिदानमुच्यते इत्याह - - - - अथात उदरनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२| रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु| अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात्||१||

🔊 Audio coming soon

स०-सर्वेऽपि-ज्वरातीसारादयो, रोगा मन्देऽग्नौ सति जायन्ते, अतिशयेन पुनरुदराणि| अन्येभ्यश्चोदरहेतुभ्यो मन्दाग्नित्वं प्रधानमुदराणां कारणमिति मन्देग्नावित्यनेन प्रागुद्दिष्टेन द्योतयति| अजीर्णादित्यादि| चतुर्विधादजीर्णात्-आमविष्टब्धविदग्धरसशेषाख्यात्, तथा मलिनैश्चान्नैः-पूतिपर्युषितसङ्कीर्णादिलक्षणैः, तथा मलसञ्चयात्-चिरकालसम्भृताद्दोषाणां प्रचयात्, उदराणि जायन्ते|

Adhikarana udarasya samprAptiH (2-3) · Śloka 3

अधुना सम्प्राप्तिविशेषमाह - - - - ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनीः| प्राणाग्न्यपानान् सन्दूष्य कुर्यस्त्वङ्मांससन्धिगाः||२|| आध्माप्य कुक्षिमुदरम्| |३|

🔊 Audio coming soon

स०-अम्बुवाहिनीर्वाहिनीः-जलवाहिनी स्रोतांसि, ऊर्ध्वाधो रुद्ध्वा धातवो-वातादयः, उदरं कुर्युः| कीदृशाः ? त्वक् च मांसं च त्वङ्मांसे, तयोः सन्धिः-अन्तरं, तत्र गच्छन्तीति त्वङ्मांससन्धिगाः, तत्रस्था इत्यर्थः| किं कृत्वा ? कुक्षिमाध्माप्य-आनह्य| तथा, प्राणश्चाग्निश्चापानश्च तान् प्राणाग्न्यपानान् सन्दूष्यदूषयित्वा| प्रकृत्या मन्दोऽग्निः पुनर्वातादिभिः सन्दूषितो जठरं करोतीत्यर्थः|

Adhikarana udaramaShTavidham (3) · Śloka 3

अष्टधा तच्च भिद्यते| पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः||३||

🔊 Audio coming soon

स०-तच्च-उदरं, अष्टधा स्यात्| पृथग्दोषैः-वातपित्तकफैस्त्रयः, समस्तैः-सन्निपातेन चैकः, प्लीहोदरं बद्धोदरं क्षतोदरं जलोदरमिति [ च चत्वारः, एवमष्टौ ]| वातादिकृतान्यपि प्लीहाद्युदराणि प्लीहादिनिमित्तसंज्ञयोक्तानि| यथा, वृद्ध्याख्यो रोगः| संज्ञाविशेषश्च चिकित्साविशेषप्रतिपत्त्यर्थः|

Adhikarana udarArtAnAM lakShaNam (4-5) · Śloka 5

तेनार्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः| नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः||४|| स्युः प्रेतरूपाः पुरुषाः| |५|

🔊 Audio coming soon

स०-तेन-उदरेण, आर्ताः-पीडिताः पुरुषाः, शुष्कताल्वोष्ठाः शूनपादादयो नष्टचेष्टादिकाः कृशादयश्च स्युः|

Adhikarana udarasya pUrvarUpam (5-8) · Śloka 8

भाविनस्तस्य लक्षणम्| क्षुन्नाशोऽन्नं चिरात्सर्वं सविदाहं च पच्यते||५|| जीर्णाजीर्णं न जानाति सौहित्यं सहते न च| क्षीयते बलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते||६|| वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः| रुग्बस्तिसन्धौ ततता लघ्वल्पाभोजनैरपि||७|| राजीजन्म वलीनाशो जठरे| |८|

🔊 Audio coming soon

स०-तस्य भाविनो-भविष्यतो, लक्षणं क्षुन्नाशादिकं स्यात्| तथा, बस्तिसन्धौ रुक्-शूलम्| तथा, लगुभोजनैरल्पभोजनैरभोजनैरपि च बस्तिसन्धौ ततता-विस्तीर्णता, आध्माततेत्यर्थः| तथा, राजीनां जन्म-सम्भवो, वलीनां च नाशो जठरे स्यात्|

Adhikarana udarasya sAmAnyalakShaNam (8-9) · Śloka 9

जठरेषु तु| सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता||८|| दाहः श्वयथुराध्मानमन्ते सलिलसम्भवः| |९|

🔊 Audio coming soon

स०-जठरेषु-जठराख्येषु, सर्वेषु तु रोगेषु तन्द्रा-आलस्यं, तथा सदनं देहस्य भवति| तथा, मलस्य सङ्गः-पुरीषस्याप्रवृत्तिः| तथा, अल्पाग्नित्वम्| तथा, दाहः श्वयथुराध्मानं च| अन्ते-अवसाने, सलिलसम्भवः|

Adhikarana atoyasyodarasya lakShaNam (9-12) · Śloka 12

अतोयमदुरं किं लक्षणम् ? इत्याह - - - - | सर्वं त्वतोयमरुणमशोफं नातिभारिकम्||९|| गवाक्षितं सिराजालैः सदा गुडगुडायते| नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति||१०|| मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनाः| सशब्दो निश्चरेद्वायुर्विड्बद्धा मूत्रमल्पकम्||११|| नातिमन्दोऽनलो लौल्पं न च स्याद्विरसं मुखम्| |१२|

🔊 Audio coming soon

स०-सर्वमुदरमतोयं-जलोदरतामप्राप्तं, वर्णतोऽरुणं, तथाऽशोफं-शोफेनानाक्रान्तं, तथा नातिभारिकं-नातिशयेन गुरु, तथा सिराजालैः-सिरासमूहैर्जालाकृतिभिः, गवाक्षितं-निरन्तरमाक्रान्तं, सदा-सर्वकालं, गुडगुडायते-गुडगुड ईदृशमव्यक्तं शब्दमाचरति| तथा, मारुतो नाभिं विष्टभ्य-स्तब्धतां नीत्वा, तथाऽन्त्रं च विष्टभ्य, वेगं कृत्वा-हृत्कटीनाभिपायुवङ्क्षणवेदना इत्येवंरूपमात्मीयं संरम्भं प्रदर्श्यानन्तरं, प्रणश्यति| तथा, सशब्दो वायुरन्तर्निश्चरेत्-निर्याति| तथा विड्बद्धा, तथा मूत्रमतिशयेनाल्पं स्यात्| तथा किञ्चिन्मन्दोऽग्निः, तथा लौल्यं-गृद्धिः, न च विरसं मुखं स्यात्| यत्र तदतोयसम्भवं वेद्यम्| अस्माच्च विपरीतलक्षणं सामर्थ्यात् सतोयम्|

Adhikarana vAtodarasya lakShaNam (12-15) · Śloka 15

| तत्र वातोदरे शोफः पाणिपान्मुष्ककुक्षिषु||१२|| कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम्| शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः||१३|| श्यावारुणत्वगादित्वमकस्माद्वृद्धिह्लासवत्| सतोदभेदमुदरं तनुकृष्णसिराततम्||१४|| आध्मातदृतिवच्छब्दमाहतं प्रकरोति च| वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः||१५||

🔊 Audio coming soon

स०-तत्र-तेषूदरेषु मध्ये, वातोदरे शोफः पाण्यादिषु, तथा कुक्ष्यादिषु रुक् पर्वभेदनं तथा शुष्ककासादयः स्युः| अकस्मात्-निमित्तं विना, उदरं वृद्धिह्रासयुतं स्यात्, तथा सतोदभेदं, तथा तनुकृष्णसिराभिस्ततं-व्याप्तम्, आहतं च तदुदरमाध्मातभस्त्रेव शब्दं करोति| अत्र च-वातोदरे, वायुः सरुक्शब्दः सर्वतोगतिश्च सन् विचरेत्-भ्रमति|

Adhikarana pittodarasya lakShaNam (16-17) · Śloka 17

पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता| भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित्||१६|| पीतताम्रसिरानद्धं सस्वेदं सोश्म दह्यते| धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते||१७||

🔊 Audio coming soon

स०-पित्तोदरे ज्वरादयः स्युः| तथा, त्वगादौ पीतत्वं भवति| जठरं हरितवर्णं तथा पीतताम्राभिः सिराभिर्नद्धं-युक्तं, सस्वेदं शोष्म च स्यात्, दह्यते-तप्यते च| तथा, धूमायति| तथा, मृदुः-अकठिनः, स्पर्शो यस्य तदेवम्| तथा, क्षिप्रपाकं स्यात्| प्रदूयते-उपतप्यते च|

Adhikarana kaphodarasya lakShaNam (18-19) · Śloka 19

श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्| निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता||१८|| उदरं स्तिमितं श्लक्ष्णं शुक्लराजीततं महत्| चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम्||१९||

🔊 Audio coming soon

स०-श्लेष्मोदरेऽङ्गसादादयः स्युः| तथोदरं स्तिमितं-निश्चलम्, तथा श्लक्ष्णं-कोमलस्पर्शम्, तथा शुक्लराजीभिस्ततं-व्याप्तम्, तथा बृहत्, तथा चिराभिवृद्धि कठिनं च तथा शीतस्पर्शम्, तथा गुरु, तथा स्थिरं-न तु चलम्|

Adhikarana sannipAtodarasya lakShaNam (20-22) · Śloka 22

अधुना सन्निपातोदरं लक्षयितुमाह - - - - त्रिदोषकोपनैस्तैस्तैः स्त्रीदत्तैश्च रजोमलैः| गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः||२०|| कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्च्छाभ्रमान्वितम्| कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्||२१|| बाधते तच्च सुतरां शीतवाताभ्रदर्शने| |२२|

🔊 Audio coming soon

स०-मलाः-वातादयः, सरक्ताः सञ्चितास्त्रिलिङ्गं-त्रिदोषलक्षणं, तथा शोषादियुतं, तथा शीघ्रपाकं, तथा सुदारुणमुदरं कुर्युः| किम्भूतैः सञ्चिताः ? त्रिदोषकोपनैः-सङ्कीर्णादिभोजनैः, तैस्तैः-सर्वरोगनिदानोक्तैः, तथा स्त्रिया दत्तै रजोमलैः-कार्मणापरपर्यायैर्वशीकरणैः, तथा गरेण दूषीविषाद्यैश्च| आदिशब्देन विरुद्धाभ्यवहारादेर्ग्रहणम्| अनेनास्य हेतुविशेषकथनम्| कीदृशा दोषाः ? कोष्ठं प्राप्य-आश्रित्य, विकुर्वाणाः-विक्रियां याताः| तच्च-जठरं, सुतरां शीतवाताभ्रदर्शने बाधते| इत्यनेनास्य विशेषलक्षणं कथितम्|

Adhikarana plIhodarasya lakShaNam (22-26) · Śloka 26

प्लीहोदरादीन्यधुना लक्षयति - - - - | अत्याशितस्य सङ्क्षोभाद्यानयानादिचेष्टितैः||२२|| अतिव्यवायकर्माध्ववमनव्याधिकर्शनैः| वामपार्श्वाश्रितः प्लीहाच्युतः स्थानाद्विवर्द्धते||२३|| शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्| सोऽष्ठीलेवातिकठिनः प्राक् ततः कूर्मपृष्ठवत्||२४|| क्रमेण वर्द्धमानश्च कुक्षावुदरमावहेत्| श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः||२५|| पाण्डुत्वमूर्च्छाछर्दीभिर्दाहमोहैश्च संयुतम्| अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्||२६||

🔊 Audio coming soon

स०-अतितृप्तस्य नरस्य यानगमनादिचेष्टितैर्यः सङ्क्षोभस्तस्मात्, तथाऽतिव्यवायादिभिः कर्शनैः प्लीहा स्थानात्-स्वाशयात्, च्युतो विवर्धते-विशेषेण वृद्धिं गच्छति| किम्भूतः प्लीहा ? वामपार्श्वाश्रितः| अथवा रसादिभ्यो धातुभ्यः शोणितं विवृद्धं-वृद्धिहेतुभिरधिकं कृत्वा वृद्धिं प्राप्तं, अनन्तरं तं-प्लीहानं स्वस्थानाच्च्युतमच्युतं वा, विशेषेण वर्धयेत्-स्वप्रमाणादाधिक्यं जनयेत्| सः-प्लीहा, अष्ठीलेवातिकठिनः प्राग्भूत्वा, ततः-अनन्तरं, कच्छपपृष्ठाकृतिः क्रमेण-न सहसैव, वर्धमानः-आधिक्यं गच्छन्, कुक्षौ-स्वीये स्थाने, उदरं विदध्यात्| कीदृशम् ? श्वासादिभिर्दाहमोहपर्यन्तैः संयुतम्| तथा, अरुणाभं-अरुणवर्णम्, अथवा विवर्णं-अनिश्चितवर्णम्, तथा नीलहारिद्रराजिमत् एवंविधा राजयो विद्यन्ते यस्मिंस्तदेवम्|

Adhikarana plIhodare doShAnubandhaH (27) · Śloka 27

उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः| गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्||२७||

🔊 Audio coming soon

स०-तत्र-प्लीहोदरे, पृथग्लक्षणलक्षितान्मलान्-वातादीन्, क्रमेणोदावर्तादिना विद्यात्| तत्रोदावर्तरुजानाहैर्वातं विद्यात्| मोहतृड्दहनज्वरैः पित्तं विद्यात्| गौरवारुचिकाठिन्यैः कफं विद्यात्|

Adhikarana yakRududarasya lakShaNam (28) · Śloka 28

अथ यकृल्लक्षयति - - - - प्लीहवद्दक्षिणात्पार्श्वात् कुर्याद्यकृदपि च्युतम्| |२८|

🔊 Audio coming soon

स०-यथा पूर्वोक्तैर्हेतुभिः प्लीहा वामपार्श्वाच्च्युतो विवर्धते-विवृद्धो भूत्वाऽनन्तरमुदरमावहेत्, तद्वद्यकृदपि दक्षिणात् पार्श्वाच्च्युतं सद्वर्धते-वृद्धं सदुदरं कुरुते| अथवा शोणितं स्वहेतुतो विवृद्धं यकृद्विवर्धयेत्, तच्च विवृद्धमुदरमावहेत्| इति प्लीहोदरयकृदुदरयोः सादृश्यम्|

Adhikarana baddhodarasya lakShaNam (28-32) · Śloka 32

अथ बद्धोदरं लक्षयति - - - - | पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे||२८|| दुर्नामभिरुदावतैरन्यैर्वाऽन्त्रोपलोपिभिः| वर्चःपित्तकफान् रुद्ध्वा करोति कुपितोऽनिलः||२९|| अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः| कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक्||३०|| मलसङ्गोऽरुचिश्च्छर्दिरुदरं मूढमारुतम्| स्थिरं नीलारुणसिराराजिनद्धमराजि वा||३१|| नाभेरुपरि च प्रायो गोपुच्छाकृति जायते| |३२|

🔊 Audio coming soon

स०-पक्ष्माणि च वालाश्च पक्ष्मवालाः, तैरन्नेन सह भुक्तैर्बद्धायने गुदे सत्यपानो वायुर्विगुणः-कुपितो, जठरं करोति| बद्धमयनं-द्वारं पुरीषानिलवाहि, यस्य तदेवंविधे गुदे| तथा दुर्नामभिर्गुदे बद्धायने, तथोदावर्तैर्बद्धायने, तथाऽन्यैर्वाऽन्त्रोपलेपिभिः-उपदेहिभिर्दध्योदनमाशोमादिभिः, गुदे बद्धायने, अपानो जठरं करोति| किं कृत्वा ? वर्चःपित्तकफान् रुद्ध्वा-आवृत्य, तद्बद्धोदरमुच्यते| तेन-बद्धोदरेण, दाहज्वरतृट्क्षवाः स्युः| तथा, कासश्वासावूरुसदनं शिरोहुन्नाभिपायुरुक् स्यात्| तथा, मलानां-मूत्रपुरीषादीनां, सङ्गः-अप्रवर्तनम्| अरुचिस्तथा छर्दिः स्यात्| तथोदरं मूढमारुतं भवेत्| मूढो-बहिरनिःसरणरूपो, मारुतो यस्मिंस्तदेवम्| मूढमारुतत्वस्य सामान्यलक्षणेनैव गृहीतत्वात्पुनर्ग्रहणमतिशयार्थम्| तथा, स्थिरं-अचलम्| तथा, नीलारुणसिराराजिभिर्नद्धं-व्याप्तम्, अथवाऽराजि स्यात्| तच्चोदरं प्रायो नाभेरुपरिष्टाद्गोपुच्छाकृति जायते| यथायथोर्ध्वं तथातथा सूक्ष्ममित्यर्थः| अनेनास्य संस्थानमुक्तम्|

Adhikarana chidrodarasya lakShaNam (32-36) · Śloka 36

अधुना छिद्रोदरं लक्षयति - - - - | अस्थ्यादिशल्यैः सान्नैश्चद्भुक्तैरत्यशनेन वा||३२|| भिद्यते पच्यते वाऽन्त्रं तच्छिद्रैश्च स्रवन्बहिः| आम एव गुदादेति ततोऽल्पाल्पं सविड्रसः||३३|| तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः| शेषश्चापूर्य जठरं जठरं घोरमावहेत्||३४|| वर्द्धयेत्तदधो नाभेराशु चैति जलात्मताम्| उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृड्भ्रमैः||३५|| छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे| |३६|

🔊 Audio coming soon

स०-अस्थितृणकण्टकपाषाणधातुशृङ्गदार्वादिशल्यैः सान्नैः-सहभोजनेन भुक्तैः| अथवा, अत्यशनेन-अतिमात्रभोजनेन, यदाऽन्त्रं भिद्यते-सच्छिद्रं सम्पद्यते, अथवा पच्यते-पाकं याति| तच्छिद्रैश्च-अन्त्रच्छिद्रैर्भेदोत्पन्नैः, पाकतो वा, बहिराम एव-अपरिपक्व एव, सविड्रसः स्रवन्नल्पाल्पमेव गुदादेति-आयाति| तुल्यः-सदृशः, कुणपगन्धेन-शवगन्धेन| तथा पिच्छिलः, पीतलोहितश्च वर्णेन| शेषश्च रसो-यो गुदान्नागच्छति, स जठरमापूर्य-पूरयित्वा, घोरं-कष्टतरं, जठराख्यं व्याधिं कुर्यात्| तत्-उदरं, अधो नाभेर्वर्धयेत्-वृद्धिं गच्छेत्| वर्धिश्चुरादिः| तथा, आशु-शीघ्रमेव, जलात्मतां-जलोदरत्वमेति, उद्रिक्तदोषरूपं च| उद्रिक्तं-अधिकं, दोषाणां-वातपित्तकफानां, रूपं-आकृतिः, यस्य तदेवम्| तथा, श्वासतृड्भ्रमैर्व्याप्तमिदमुदरं छिद्रोदरं प्राहुराचार्याः| अपरे त्वाचार्याः परिस्रावीत्याहुः|

Adhikarana udakodarasya lakShaNam (36-40) · Śloka 40

अथोदकोदरदर्शनार्थमाह - - - - | प्रवृत्तस्नेहपानादेः सहसाऽऽमाम्बुपायिनः||३६|| अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य वा| रुद्ध्वाऽम्बुमार्गाननिलः कफश्च जलमूर्छितः||३७|| वर्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ| ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम्||३८|| कासश्वासारुचियुतं नानावर्णसिराततम्| तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु||३९|| दकोदरं महत्स्निग्धं स्थिरमावृत्तनाभि तत्| |४०|

🔊 Audio coming soon

स०-प्रवृत्तं-आरब्धं, स्नेहपानादि येन स प्रवृत्तस्नेहपानादिः| आदिग्रहणाद्वमनादिकं कर्म पञ्चविधं गृह्यते| तस्य तथाभूतस्य सहसाऽऽमाम्बुपायिनः-सहसैवापक्वपानीयपस्य, तथा मन्दाग्नेः-नष्टवह्नेः, तथा क्षीणस्य-विशिष्टव्याध्याक्रान्ततया धात्वपचयवतः, तथाऽतिकृशस्य-अनशनादिना क्षीणमेदोमांसस्य, एवंविधस्य पुरुषस्यात्यम्बुपानादम्बुमार्गान्-तोयवाहिनि स्रोतांसि, रुद्ध्वाऽनिलः कफश्च| किम्भूतः ? जलमूर्छितः-तोयमिश्रितः| तावुभौ वातकफौ जलमूर्छितावुदराश्रितौ तदेवाम्बु तत्स्थानात्-उदकस्थानात् क्लेमतो, वर्द्धयेताम्| ततः-अनन्तरं, उदरं स्यात्| तृष्णादियुतं, तथा कासादियुतं, तथा नानावर्णाभिः-अनेकवर्णाभिः सिराभिः, ततं-व्याप्तम्| तोयेत्यादि| शब्दस्य प्रक्षोभः-संरम्भः शब्दप्रक्षोभः, वेपथुः-कम्पः, स्पर्शश्च शब्दप्रक्षोभश्च वेपथुश्च त एवम्, तोयेन पूर्णा तोयपूर्णा, सा चासौ दृतिश्च तोयपूर्णदृतिः, तोयपूर्णदृतिवत् स्पर्शशब्दप्रक्षोभवेपथवो यस्मिन्नुदरे तत्तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु, दकोदरं-जलोदरं, स्यात्| तच्च महत्-अन्येभ्य उदरेभ्यो विस्तीर्णम्, तथा स्निग्धं, तथा स्थिरं-अचलम्, आवृत्तनाभि तत्, आसमन्ताद्वृत्ता-वर्तुला, नाभिर्यस्य तदेवम्|

Adhikarana upekShayA sarveShUdareShu jalasaMbhave saMprAptirlakShaNaM ca (40-44) · Śloka 44

अधुना जठरेऽप्यवसाने यथा जलसम्भवः स्यात्तथाऽऽह - - - - | उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः||४०|| पाकाद्द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि| स्वदेश्च बाह्यस्रोतःसु विहतस्तिर्यगास्थितः||४१|| तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्| गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत्||४२|| मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति| तदनूदकजन्मास्मिन्कुक्षिवृद्धिस्ततोऽधिकम्||४३|| सिरान्तर्धानमुदकजठरोक्तं च लक्षणम्| |४४|

🔊 Audio coming soon

स०-उपेक्षया-अचिकित्सनात्, सर्वेषूदरेषु, दोषाः-वातपित्तकफाः, स्वस्थानतः-आत्मीयात् स्थानात्, च्युताः-स्थानान्तरं गताः, तथा पाकाद्धेतोस्ते दोषा द्रवा अधिकं द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि| अन्धयश्च स्रोतोमुखानि च सन्धिस्रोतोमुखानि-द्वाराणि| न केवलं स्वयं दोषा द्रवत्वं गताः, यावत्सन्धिस्रोतोमुखान्यपि द्रवीकुर्युः, इत्यपिशब्दार्थः| स्वेदश्च बाह्यस्रोतःसु संवृतेषु विहतो-निरुद्धः, तिर्यगास्थितः-तिर्यक् प्रवृत्तश्च, तदेवोदकं प्राक् कुक्षौ वृद्धिं गतमाप्याय्य-वृद्धिं गमयित्वा, पिच्छां कुर्यात्| तदा भवेद्गुरूदरं स्थिरं-अचलं, वृत्तं-वर्तुलं, च| तथाऽऽहतं च पाण्यादिना न शब्दवत्-नशब्दयुक्तम्, तथा मृदु-अकठिनम्, तथा व्यपेता राज्यो यस्मात् तद्व्यपेतराजीकं स्यात्| नाभ्यां च स्पृष्टं सत् सर्पति-प्रसारि सम्पद्यते| तदनु-ततोऽनन्तरम्, अस्मिन्-उदराख्ये व्याधौ, उदकजन्म-जलसम्भवः| ततः-अनन्तरं, अधिकं कृत्वा कुक्षिवृद्धिर्भवेत्| तथा, सिरान्तर्धानं-सिराणामदर्शनम्| किमेतदेव लक्षणम्? नेत्याह-उदकजठरोक्तं च लक्षणम्| न केवलं यदधुनैवोक्तं लक्षणम्, यावज्जलोदरोक्तं चेति चशब्दस्यार्थः|

Adhikarana udarANAM kRucchrasAdhyAsAdhyatvam (44-45) · Śloka 45

इदानीमुदराणां सुखसाध्यत्वाभावात् कृच्छ्रसाध्यासाध्यत्वे वेदयति - - - - | वातपित्तकफप्लीहसन्निपातोदकोदरम्||४४|| कृच्छ्रं यथोत्तरम् पक्षात्परं प्रायोऽपरे हतः| सर्वं च जातसलिलं रिष्टोक्तोपद्रवान्वितम्||४५||

🔊 Audio coming soon

स०-वाताद्युद्भवमुदरं यथोत्तरं कृच्छ्रम्| तेन वातोदरात् पित्तोदरात् पित्तोदरं यावदुदकोदरमत्यर्थं कृच्छ्रम्, कृच्छ्रसाध्यत्वात्| स०-पाठापेक्षया ये द्वे अपरे-बद्धक्षतोदरे, ते प्रायः पक्षात्परं-अनन्तरं, हतो-मारयतः| प्रायोग्रहणात्-कदाचिन्नियतायुष्युत्पन्ने नैव मारयतः| स०-किलोपेक्षया सर्वेषूदरेष्वन्ते सलिलसम्भव इत्युक्तम्| सर्वं च जठरं जातोदकं यद्वातादिसमुत्थं कृच्छ्रमुक्तं तदपि हन्त्येव| अत्रापि प्रायोग्रहणमनुवर्तनीयम्| कदाचिज्जातोदकमपि न मारयति, अपि तु यापयत्येव| तथा, रिष्टोक्तोपद्रवान्वितं-रिष्टाध्यायोक्तैरुपद्रवैर्युक्तं "जठरं हन्ति दुर्बलम्| शूनाक्षं कुटिलोपस्थं" (हृ. शा. अ. ५|९०) इत्यादिभिश्च, तदपि हन्ति|

Adhikarana udarasya yatnasAdhyatvam (12) · Śloka 12

जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्| बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्||४६|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने उदरनिदानं नाम द्वादशोऽध्यायः||१२||

🔊 Audio coming soon

स०-जन्मनैव-जात्यैव स्वभावेनैव, उदरं सर्वं प्रायः कृच्छ्रतमं मतम्, व्याधिस्वभावात्| प्रायोग्रहणात्किञ्चिदुदरं कृच्छ्रमेव भवति, न कृच्छ्रतमम्| अत एवाह-बलिन इत्यादि| बलिनो-बलवतः, तदुदरमुत्थितं नवं सत् अजातोदकं सत्, यत्नसाध्यमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थाने उदरनिदानं नाम द्वादशोऽध्यायः समाप्तः|| १२||