Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. garbhāvakrāntiradhyāyaḥ

Adhikarana adhyAyopakramaH shArIrasthAnam · Śloka

🔊 Audio coming soon

श्रीगणेशाय नमः| अथ सूत्रस्थानादनन्तरं शारीरस्थानमिदमारभ्यते| तत्रायं सम्बन्धः,-पूर्वस्मिन्स्थाने कायादीन्यष्टावङ्गानि चिकित्साधारभूतानि सकलतन्त्रसारभूतानि सूत्रितानि "कायबाल" (हृ. सू. अ. १/५) इत्यादिना ग्रन्थेन| कायश्च निजागन्तूनां व्याधीनामधिष्ठानम्| तस्य च कायस्य चतुर्वर्गसाधनस्य पालनार्थं हेतुलिङ्गौषधस्कन्धभेदेन त्रिस्कन्धोऽयं ग्रन्थो ग्रन्थकृता प्रणीतः| ततश्च शरीरस्य प्रथमं सूत्रितत्वात्प्राधान्याच्च प्राक् सूत्रस्थानमनन्तरं शारीरस्थानमिदमारभ्यत इत्याह-

Adhikarana garBAvakrAntiradhyAyaH (2) · Śloka 2

अथातो गर्भावक्रान्ति शारीरं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२||

🔊 Audio coming soon

शरीरमधिकृत्य कृतो ग्रन्थः शारीरः| गर्भस्यावक्रान्तिः-अवक्रमणं सम्प्राप्तिः, यथाऽगर्भो गर्भतां सम्पद्यत इत्यर्थः| गर्भावक्रान्तिर्विद्यते यस्मिन्नध्याय इति मत्वर्थे कप्रत्ययः| तस्य "अध्यायानुवाकयोर्लुक्" इति लुक्| अथादिशब्दानामर्था आयुष्कामीयाध्याये (हृ.सू. अ.१) व्याख्याता एव|

Adhikarana garBotpattiH (1) · Śloka 1

शुद्धे शुक्रार्तवे सत्वः स्वकर्मक्लेशचोदितः| गर्भः सम्पद्यते युक्तिवशादग्निरिवारणौ||१||

🔊 Audio coming soon

शुक्रं-अन्त्यो धातुः| ऋतौ भवमार्तवम्, स्त्रीणां यदपत्यमार्गात् शुद्धमीषत्कृष्णं विगन्धं च वायुप्रेरितं लोहितं प्रवर्तते तदार्तवमुच्यते| शुक्रं चार्तवं च शुक्रार्तवम्, पिण्डे पित्रोः सम्बन्धि गर्भबीजम्, तस्मिन् शुक्रार्तवे, शुद्धे-वातादिभिरदूषितेऽधिष्ठानभूते, सत्वो-जीवः, गर्भः सम्पद्यते| किल नासौ गर्भः, अथ च गर्भतामासादयति| कीदृशः सत्वः ? स्वकर्मेत्यादि| कर्माणि-पूर्वजन्मार्जितानि शुभाशुभानि, स्वानि च तानि कर्माणि च स्वकर्माणि| क्लेशयन्ति-लोकान् दुःखयन्तीति, क्लेशाः| ते च-अविद्यास्मितारागद्वेषाभिनिवेशाः| अतथावस्तुनि तथेति ("अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्म) ख्यातिः-अविद्या| दृग्दर्शनशक्त्योरेकात्मताअस्मिता| सुखानुशयी-रागः| दुःखानुशयी-द्वेषः| स्वरसवाही विदुषोऽपि तथा रूढः-अभिनिवेशः" (पात.यो.सू २/५-६-७-८-९)| स्वकर्माणि च क्लेशाश्च, स्वकर्मक्लेशाः, तैश्चोदितः-प्रेरितो गर्भः सम्पद्यते, न तु कर्मक्लेशवियुक्तः| अत एव वीतरागाणां जन्मासम्भवः, कर्मक्लेशरहितत्वात्| तथा चोक्तम्-"चित्तमेव हि संसारि रागादिक्लेशदूषितम्| तदेव तैर्विनिर्मुक्तं मुक्तमित्यभिधीयते||" इति| अथ किं शुद्धे शुक्रार्तवे एव स्वकर्मक्लेशचोदित एव गर्भः सम्पद्यतेऽथवाऽन्यदपि किञ्चिदपेक्षते ? इत्याह-युक्तिवशादिति| योजनं युक्तिः, उपादेयस्यार्थस्येतिकर्तव्यतासाधनोपायार्थम्| युक्तेर्वशः-सामर्थ्यं प्रभावो, युक्तिवशः| ततः शुद्धे शुक्रार्तवे स्वकर्मक्लेशचोदित एव स सत्वो गर्भः सम्पद्यते, नान्यथा| कथम् ? इत्याह-युक्तिवशादग्निरिवारणौ| तथा हि,- मथ्यमन्थनमथकादिसामग्रीमन्तरेणारणावग्निर्यथा न जायते, तथा गर्भोऽपि यथोक्तसामग्रीवैकल्यात् न भवति| सकलसामग्रीसद्भावत एव भवतीति भावः|

Adhikarana garBasya kukShau vRuddhiprakAraH (2) · Śloka 2

तदेवं गर्भस्य सम्पत्तिमभिधाय यथा तस्य कुक्षौ वृद्धिः स्यात्तथा वक्तिबीजात्मकैर्महाभूतैः सूक्ष्मैः सत्वानुगैश्च सः| मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्द्धते||२||

🔊 Audio coming soon

बीजात्मकैः-गर्भजरायुस्वभावैः शुक्रार्तवरूपतां परिणतैः| कैः ? महाभूतैः, -आकाशादिभिः सत्वरजस्तमोमयैः, "तत्र सत्वबहुलमाकाशम्, रजोबहुलो वायुः, सत्वरजोबहुलोऽग्निः, सत्वतमोबहुला आपः, तमोबहुला पृथ्वी चेति|" (सु.शा. अ.१/२०) इत्येवंरूपैः| सः-गर्भः, कुक्षौ विवर्द्धते-विशेषेण वृद्धिं याति| किम्भूतैः ? सूक्ष्मैः,-अतीन्द्रियैर्योगिदृश्यैः| तथा, सत्वं-चेतोऽनुगच्छन्तीति सत्वानुगानि, तैः| यत्र सत्वं तिष्ठति तत्रावश्यं तान्यपि तिष्ठन्ति, सात्वानुशायित्वात्तेषाम्| तथा चोक्तम् (चरके शा. अ.२/३७)-"अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न वियुक्तपूर्वः|" इत्यादि| चशब्दो हेतुसमुच्चयार्थः| [ न केवलं महाभूतैर्हेतुभूतैर्गर्भो विवर्द्धते यावन्मातुश्चाहाररसजैरित्यतो वक्ष्यमाणाद्धेतोरपि वर्द्धत इत्यर्थः| मातुरित्यादि| मातुः सम्बन्धिभिराहाररसजैश्च कुक्षौ विवर्द्धते| चशब्दोऽत्रानुक्तसमुच्चयार्थः| ] न केवलं पूर्वोक्ताद्यथानिर्दिष्ठाद्धेतोर्गर्भः कुक्षौ विवर्द्धते, यावदनिर्दिष्ठादपि मातुः सौमनस्यादेः कललार्बुद पेश्याद्यवस्थाभावेन विशेषतो वृद्धिं यातीति| कथं विवर्द्धते ? इत्याह-क्रमात्,-न झटित्येव| ननु, "मातुश्चाहाररसजैः" इति कथमुक्तम् ? यतः पञ्चभूतात्मक एवाहाररसः| न च यदात्मकोऽसौ स तस्यैव जन्मकारणं भवितुमर्हति, अव्यतिरिक्तत्वात्| तस्मादेवमयं व्याख्यातव्यः,-आहाररसे जातैराहाररसजैः| सप्तम्यन्तादुपपदाज्जनेर्डः| मातुराहाररसात्मना परिणतैरिति|

Adhikarana garBapraveSopalamBAbhAve~api sthitau dRuShTAntaH (3) · Śloka 3

ननु, सत्वः कुक्षौ प्रविष्टो गर्भस्य वर्द्धने हेतुरुक्तः, न चास्य प्रवेश उपलभ्यते, इत्याह तेजो यथाऽर्करश्मीनां स्फटिकेन तिरस्कृतम्| नेन्धनं दृश्यते गच्छत्सत्वो गर्भाशयं तथा||३||

🔊 Audio coming soon

न केवलं दृश्यत्वादृश्यत्वाभ्यां वस्तुसद्भावासद्भावौ व्यवस्थाऽप्येते, येनादृश्यत्वात्सत्वस्य कुक्षौ प्रवेशासम्भवः| किन्तर्हि ? तत्कार्यान्यथानुपपत्त्याऽपि वस्तुसद्भावो व्यवस्थाप्यत एव| तथा च,- यथाऽर्करश्मीनां सम्बन्धि तेजः स्फटिकेन-सूर्यकान्ताख्येन, तिरस्कृतं-व्यवहितं, स्फटिकस्याधस्तात् स्थितमिन्धनं गच्छत्-व्रजत्, न दृश्यते| अथ च तेजःकार्यमिन्धनं गतं [दृश्यते नान्यसम्बन्धि कार्यम्| तदेवं तेजःकार्यान्यथानुपपत्त्या तेजस इन्धनगमनं ], तथा तत्र तस्य सद्भावोऽप्यधिगम्यते| एवं सत्वो गर्भाशयं गच्छन्-व्रजन्, न दृश्यत एव| वस्तुप्रभावाद्गच्छति च| सत्वशब्द उपलक्षणार्थः, महाभूतान्यपि तदन्तर्गतानि न दृश्यन्त एव, अथ च कार्येणोपलभ्यन्त एव| तदेवं सत्वानुयायिभिर्महाभूतैर्गर्भः कुक्षौ विवर्द्धते, न तु केवलैः सत्वानधिष्ठितैः| चेतोवक्रान्त्या हि क्रमात्कललादिना वस्तुजातं विवृद्धिविमलतामापद्यते, नान्यथा मृतशरीरवत्|

Adhikarana satvasya narAdirUpatve kAraNam (4) · Śloka 4

ननु, सत्वो भूतानुग एकरूप एव| तत्कथमनेकजात्याकृत्या नरतुरगोरगगजगवयादिमत्याऽऽलिङ्गितः सम्पद्यते ? इत्यस्मिन् पर्यनुयोग इदमाह कारणानुविधायित्वात्कार्याणां तत्स्वभावता| नानायोन्याकृतीः सत्वो धत्तेऽतो द्रुतलोहवत्||४||

🔊 Audio coming soon

कारणं-हेतुं, अवश्यमनुविदधतीति कारणानुविधायीनि| आवश्यके णिनिः| कारणस्वभावानि कार्याणि भवन्ति सर्वाण्येव, तस्माद्धेतोः कार्याणां तत्स्वभावता| स्वभावशब्दः सदृशार्थः| तच्छब्देन कारणं परामृश्यते, तस्य-कारणस्य स्वभावता, तत्सादृश्यम्| तस्मात्कार्यकारणसादृश्याद्धेतोः सत्वोमहाभूतानुग एकरूप एव, अनेकरूपा नानायोन्याकृतीः- जातिबिम्बविशेषान्, धत्ते-धारयति| कथमिव ? द्रुतलोहवत्| यथा रूप्यादिवस्तुजातमग्निना द्रुतरूपतां गतमेकरूपमेव सिक्थादिकल्पितायां नानारूपायां मनुष्याद्याकृतौ तन्निषिक्तं तां तामाकृतिं यथाकल्पितां धत्ते, एवं स सत्वो नानायोनौ गच्छति, तां तां यथास्वमाकृतिं धारयति|

Adhikarana strIpunnapuMsakAnAM bhede kAraNam (5) · Śloka 5

तथा अत एव च शुक्रस्य बाहुल्याज्जायते पुमान्| रक्तस्य स्त्री, तयोः साम्ये क्लीबः- |५|

🔊 Audio coming soon

अत एव च - पूर्वोक्तात्कार्यकारणसादृश्याख्याद्धेतोः, शुक्रस्यपुंरेतसो, बाहुल्यात्- बहुत्वात्, सामर्थ्यलभ्याच्च स्त्रीरेतोरजोल्पत्वात् पुमान् जायते न स्त्री, तथाविधस्य कारणस्याभावात्| ["तथा, अत एव-पूर्वोक्तात्कार्यकारणसादृश्यात् स्त्रीरेतसो" रक्तस्य, बाहुल्यात्-बाहुत्वात्, सामर्थ्यलभ्याच्च पुंरेतोल्पत्वात् स्त्री जायते न पुमान्, तथाविधस्य कारणस्याभावात्| ] पुंरेतो हि बलवत्, अल्पं स्त्रीरजोऽभिभूय पुंगर्भस्य कारणतां याति| यदा तु स्त्रीरजसो बलवत्वमल्पत्वं च पुंरेतसः, तदाऽल्पं तु पुंरेतोऽभिभूय स्त्रीरजः स्त्र्याख्यस्य गर्भस्य कारणतामापद्यते| यदा तु शुक्रार्तवयोः साम्यं-तुल्यत्वं भवति, तदा न स्त्री न पुमान् जायते, अपि तु लिङ्गद्वयालिङ्गितः क्लीबः-षण्ढो, जायते| एवं पितुः सम्बन्धि शुक्रं स्त्रीरक्तमिश्रितं गर्भकारणम्| न केवलंपितृसम्बन्ध्येव मातुर्वा| दारुवाहिना तूक्तम्-"स्त्रीपुंसयोस्तु संयोगे यद्यादौ विसृजेत्पुमान्| शुक्रं, ततः पुमान् वीरो जायते बलवान् दृढः|| अथ चेद्वनिता पूर्वं विसृजेद्रक्तसंयुतम्| ततो रूपान्विता कन्या जायते दृढसंहता||" इति| अत एव च पुंगर्भाः केचित्किञ्चिन्मातृसदृशा दृश्यन्ते, स्त्रीगर्भाश्च केचित्किञ्चित्पितृसदृशा दृश्यन्ते| ननु, "रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च| अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रजायते||" (हृ. शा. अ. ३/६२) इत्यविशिष्य निर्दिष्टम्, न तु पुंशुक्राद्गर्भः प्रजायत इत्येवं निर्दिष्टम्| उभयोरपि च स्त्रीपुंसयोरवश्यं सप्तधातुकत्वमभ्युपगन्तव्यम्, न पुंस एव| तदेवं तरुणीनां कुसुमशराक्रान्तमानसानां तथाविधेन पुरुषसंयोगेन विना केवलात् स्मृतिसंस्पर्शदर्शनाच्चलितप्रस्त्रुत (रक्त)रेतसां किमिति गर्भो न जायते ? शुक्रार्तवं हि गर्भकारणम्| तच्च सन्निहितमेवेति केचित्| तान् ब्रूमहे| पुंशुक्राभावात्| पुंशुक्रं हि स्त्रीरेतोरक्तयुक्तं गर्भकारणम्| न च तदत्रास्ति| तदभावाद्गर्भस्यानुत्पत्तिः| तथा सङ्ग्रहेऽप्यध्यगीष्ट (शा. अ. १)-"योषितोऽपि स्त्रवन्त्येव शुक्रं पुंसः समागमे| गर्भस्य तु न तत्किञ्चित्कतोतीति न चिन्त्यते||" इति|

Adhikarana ekadaivAnekagarbhotpattau kAraNam (5-6) · Śloka 6

साम्प्रतं यथाऽनेकगर्भत्वं तुल्यकालं स्यात्तथा प्रतिपादयितुमाह शुक्रार्तवे पुनः||५|| वायुना बहुशो भिन्ने यथास्वं बह्वपत्यता| |६|

🔊 Audio coming soon

वातेन यथास्वं शुक्रार्तवे बहुशो भिन्ने-बहुधा कृते सति, बह्वपत्यता भवति| यथास्वमिति यदा शुक्रमाधिक्येन वर्तमानं वातेन बहुधा भिद्यते तदा पुंगर्भानेकत्वम्, यदा तु स्त्रीरज आधिक्येन वर्तमानं वायुना बहुधा भिद्यते तदा स्त्रीगर्भानेकत्वम्, इति बह्वपत्यता भवति| सूकरसारमेयादिजातिषु त्वनेनैव हेतुना सदाऽवेकापत्यता|

Adhikarana viyonivikRutAkArANAmutpattau kAraNam (6) · Śloka 6

ननु, कथं वियोनयो विकृताकाराश्च गर्भाः स्युः ? वियोनिविकृताकारा जायन्ते विकृतैर्मलैः||६||

🔊 Audio coming soon

वियोनयश्च विकृताकाराश्च वियोनिविकृताकाराः, ते तथाविधा गर्भा जायन्ते| कथम् ? इत्याह-विकृतैर्मलैः| वातादिभिर्दुष्टैरुन्मार्गगामिभिः|

Adhikarana strINAM rajaHsrAvo mAsimAsi vIryavatputrotpattau kAraNam (7) · Śloka 7

मासि मासि रजः स्त्रीणां रसजं स्त्रवति त्र्यहम्| वत्सराद्वादशादूर्ध्वं याति पञ्चाशतः क्षयम्||७||

🔊 Audio coming soon

स्त्रीणां मासि मासि-प्रतिमासं, रजो-रक्तं, त्र्यहं स्त्रवति-त्रीणि दिनानि प्रवर्तते| ननु, "शुद्धे शुक्रार्तवे" इति पूर्वं शुक्रमेवोद्दिष्टम्, ततस्तस्यैव निर्देशो न्याय्य इति शुक्रमानुपूर्वीप्राप्तमुल्लङ्घ्य कस्माद्रक्तं निर्दिष्टम्? उच्यते| बहुवक्तव्यत्वात्| रक्ते हि बहुवक्तव्यमस्ति, अतस्तदेव प्राग्वक्तुं युक्तम्| त्र्यहमिति "कालाध्वनोः" इति द्वितीया| किम्भूतं रजः ? रसाज्जातंरसजम्| ननु, रक्तं रसजमेव| वक्ष्यति हि (हृ. शा. अ. ३/६२)- "रसाद्रक्तं ततो मांसं" इत्यादि| तत्किमर्थं रसजमित्युक्तम् ? ब्रूमहे| रसात्-आहाररसात् परिणमतो जातं रसजमित्यत्र निर्दिष्टम्, न तु रसधातोः, इत्यचोद्यमेतत्| कुतःप्रभृति तद्रजः प्रवर्तते ? इत्याह-वत्सरादित्यादि| द्वादशाद्वर्षादूर्ध्वं-अनन्तरं, स्त्रवति| पञ्चाशतो वर्षादूर्ध्वं-परेण, क्षयं याति| द्वादशानां पूरणं वर्षमिति "तस्य पूरणो डट्" इति डट्| द्वादशादिति प्रायिकमेतत्, एकादशवार्षिकाणामपि स्त्रीणां रक्तप्रवृत्तिदर्शनात्| पञ्चाशतः क्षयमित्यत्राप्येवमेव चिन्त्यम्|

Adhikarana garbhasyarogAdiyutatve kAraNam (8-9) · Śloka 9

पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता| शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि||८|| वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः| रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा||९||

🔊 Audio coming soon

पूर्णानि षोडशवर्षाणि यस्याः सा, एवंविधा स्त्री पूर्णविंशेन नरेण सङ्गता-मिथुनतां याता सती, गर्भाशयादिषु शुद्धेषु वीर्यवन्तं-सामर्थ्ययुक्तं, पुत्रं सूते-जनयति| प्रायिकं चैतत्, अर्वागपि साधुगर्भदर्शनात्| अत एवायमेव तन्त्रकारोऽन्यथा सङ्ग्रहे जगाद (शा. अ. १)- "षोडशवर्षायां पञ्चविंशतिवर्षः पुत्रार्थं प्रयतेत|" इति| विंशतेः पूरण इति डटिति "विंशतेः" इति तिलोपे विंशशब्दः| पूर्णो विंशो यस्येति पूर्णविंशः| गर्भस्याशयो गर्भाशयः, तस्मिन्| शुद्धे-निर्मले, वातादिभिरदुष्टे| तथा, मार्गे-प्रकृतत्वादपत्यमार्गे, वातादिभिरदुष्टे| तथा, रक्तेस्त्रीरजसि, शुद्धे| तथा, शुक्रे-पुंबीजे, शुद्धे| तथा, अनिले शुद्धेपित्तादिभिरनावृते| तथा, हृदि-शुद्धे-दोषानधिष्ठितेऽसन्तप्ते| ततः-पूर्वोक्ताद्वयःपरिमाणात्, न्यूनाब्दयोः-हीनवर्षयोः स्त्रीपुरुषयोः पञ्चदशाष्टादशवर्षयोः, रोगी भवति| रोगीत्यतिशय इनिर्मत्वर्थीयः| तथोत्पन्नोऽल्पायुरधन्यश्च-अप्रशस्तो, गर्भो भवति| न भवत्येव वा|

Adhikarana SukrArtavasaMyoge~api garbhAsambhave kAraNam (10) · Śloka 10

ननु, दम्पत्योः शुक्रार्तवसंयोगेऽपि सति क्वचिद्गर्भसम्भूतिर्न दृश्यते| तत्कथमेतत् ? इत्याशङ्क्येदमाह वातादिकुणपग्रन्थिपूयक्षीणमलाह्वयम्| बीजासमर्थं रेतोस्रम्|१०|

🔊 Audio coming soon

आदिशब्देन पित्तश्लेष्मणोः परिग्रहः| वातादयश्च कुणपं च ग्रन्थिश्च पूयश्च क्षीणं च मलं चेति द्वन्द्वः| एत आह्वयः- संज्ञाः, यस्य रेतोस्त्रस्य तदेवम्| आह्वयशब्दः प्रत्येकं वातादिषु योज्यः| रेतश्चास्त्रं च रेतोस्त्रं वाताद्याह्वयम्| वातसंज्ञं शुक्रं वातशुक्रम्| एवं पित्तशुक्रं कफशुक्रम्| कुणपगन्धित्वात्कुणपं नाम शुक्रं कुणपशुक्रम्, तद्रक्तेन दुष्टेन भवति| एवं ग्रन्थिशुक्रं पूयशुक्रं क्षीणशुक्रम्| मलाह्वयं तु द्विधा,-मूत्रपुरीषभेदात्| मूत्रसदृशं शुक्रं मूत्रशुक्रम्| एवं पुरीषशुक्रम्| आर्तवमपि शुक्रवद्दोषदूषितमबीजमेव| तस्य लिङ्गं नाम च शुक्रवद्वेद्यम्| यथा,-वातार्तवं पित्तार्तवमित्यादि, यावत्पुरीषार्तवमिति| साध्यासाध्यविभागश्च तद्वदेव| शुक्रार्तवदोषेषु च चिकित्सामपि तुल्यां ब्रूते| यत्र तु विशेषं द्रक्ष्यति, तत्र विशेषमभिधास्यति| यथा (श्लो.१५)-"पिबेद्ग्रन्थ्यार्तवे पाठा" इत्यादि|

Adhikarana svali~ggairvAtAdidoShajaSukraj~jAnam ,kuNapagranthipUyakShINamalAhvayAnAM retosrANAM kAraNAni (10-12) · Śloka 12

| स्वलिङ्गैर्दोषजं वदेत्||१०|| रक्तेन कुणपं, श्लेष्मवाताभ्यां ग्रन्थिसन्निभम्| पूयाभं रक्तपित्ताभ्यां, क्षीणं मारुतपित्ततः||११|| कृच्छ्राण्येतान्यसाध्यं तु त्रिदोषं मूत्रविट्प्रभम्| |१२|

🔊 Audio coming soon

स्वानि च तानि लिङ्गानि-लक्षणानि च, स्वलिङ्गानि,-यथास्वं वातादीनां रूपाणि| यथा,-रूक्षश्यावारुणादीनि वायोः, विस्त्रगन्ध्यौष्ण्यादीनि पित्तस्य, स्निग्धपाण्डुपिच्छिलादीनि कफस्य तैः स्वलिङ्गैर्वातादिदोषजं वदेत्- जानीयात्,वैद्यः |इति शेषः| रक्तेन दुष्टेन कुणपं-कुणपगन्धित्वात्कुणपसंज्ञं, अन्वर्थं रेतोस्त्रं भवति| एवं ग्रन्थ्यादीनामप्यन्वर्थसंज्ञता बोध्या| श्लेष्मवाताभ्यां दुष्टाभ्यां ग्रन्थिसन्निभं-ग्रन्थ्याकारम्| पूयाभं-पूयसदृशम्, रक्तपित्ताभ्यां रेतोस्त्रं पूयाह्वयं भवति| क्षीणं नाम रेतोस्त्रं मारुतपित्ततो भवति, मारुतपित्ताभ्यां दुष्टाभ्यां दुष्टं तद्दूषाणात् क्षीणतां नीतमित्यर्थः| पूर्वोक्तानीमानि वातादिशुक्रार्तवानि क्षीणशुक्रार्तवान्तानि कृच्छ्रसाध्यत्वात् कृच्छ्राणि| असाध्यं त्विति| मूत्रं च विट् च मूत्रविशौ, तयोरिव प्रभा यस्य तदेवम्| रेतोस्त्रमुभयमपि मलसंज्ञम्| त्रिदोषं-त्रिदोषदुष्टम्| असाध्यं-साधयितुमशक्यम्|

Adhikarana vAtAdijAnAmupakramaH (12) · Śloka 12

इदानीमुपक्रममाह | कुर्याद्वातादिभिर्दुष्टे स्वौषधम्|१२|

🔊 Audio coming soon

स्वं-आत्मीयं, च तदौषधं च स्वौषधम्, वाताद्यौषधमित्यर्थः| तेन वायोः कुपितस्य यदौषधं-प्रशमोपायः स्निग्धोष्णाम्ललवणादि, पित्तस्य मधुरशीतकषायादि, श्लेष्मणः कटुकरूक्षकषायादि, तत्तस्य भेषजमित्यवतिष्ठते| विशेषतस्तु-"वातजेशुक्रदोषे वसुकसैन्धवफलाम्लसिद्धं यवक्षारप्रतीवापं सर्पिष्पानम्, बिल्वविदारीसिद्धं क्षीरयुक्तमास्थापनम्, मधुभद्रदारुसिद्धं तैलमनुवासनम्, क्षीरकुलीररससिद्धं तैलमनुवासनमुत्तरबस्तिश्च| पैत्तिके काण्डेक्षुश्वदंष्ट्रागुडूचीक्वाथसिद्धं मूर्वामधूकप्रतीवापं सर्पिष्पानम्, त्रिवृच्चूर्णः सघृतो विरेकः पयस्याश्रीपर्णीसिद्धं क्षीरयुक्तमास्थापनम्, मधुकमुद्गपर्णीसिद्धं तैलमनुवासनमुत्तरवस्तिश्च| श्लैष्मिके पाषाणभेदाश्मन्तकामलकक्वाथसिद्धं पिप्पलीमधुकचूर्णप्रतीवापं सर्पिष्पानम्, मदनफलकषायो वमनम्, दन्तीविडङ्गचूर्णस्तैललीढो विरेकः, राजवृक्षमदनफलकषायप्रगाढमास्थापनम्, मधुकपिप्लीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च| वातजे पुष्पदोषे भार्गीभद्रदारुसिद्धं सर्पिष्पानम्, काश्मर्यक्षुद्रसहासिद्धं वा क्षीरम्, मधुकशृगालविन्नाकल्कं पयःसर्पिःसहितं प्रियङ्गुतिलकल्कं वा योनौ धारयेत्, सरलमुद्गपर्णीकषायः प्रक्षलनम्| पित्तजे काकोलीद्वयविदारीमूलक्वाथमुत्पलपद्मकक्वाथं मधुकपुष्पकाश्मर्यफलक्वाथं वा सशर्करं पिबेत्, श्वेतचन्दनक्वाथं वा सक्षौद्रम्|" इत्यादिकं सङ्ग्रहात् (शा. अ. १) बोध्यम्|

Adhikarana kuNape upakramaH (12-13) · Śloka 13

इदानीं कुणपचिकित्सामाह | कुणपे पुनः||१२|| धातकीपुष्पखदिरदाडिमार्जुनसाधितम्| पाययेत्सर्पिरथवा विपक्वमसनादिभिः||१३||

🔊 Audio coming soon

कुणपाह्वये तु रेतसि धातक्यादिद्रव्यसाधितं घृतं पाययेत्, वैद्य इति शेषः| अथवा, असनादिभिः-असनादिगुणोद्दिष्टैर्भेषजैः (हृ.सू.अ.१५/१९) विपक्वं घृतं पाययेत्| ननु, कुणप इति सामान्योक्तावपि कथं रेतसीति विषेषो लभ्यते| ब्रूमः| रेतःप्रकरणात्| अपि च कुणपास्त्रस्य पुरस्तादुपक्रमं वक्ष्यति (श्लो.१६)-"पेयं कुणपपूयास्रे" इति| तस्माद्रेतस एवेह ग्रहणं युक्तम्| पुनर्ग्रहणमत्र वातादिदुष्टे रेतस्यस्रोक्तां क्रियां कुर्यादिति द्यातयति|

Adhikarana granthisaMj~je retasyupakramaH (14) · Śloka 14

साम्प्रतं ग्रन्थिसंज्ञे रेतस्युपक्रमं ब्रूते पलाशभस्माश्मभिदा ग्रन्थ्याभे| |१४|

🔊 Audio coming soon

पलाशस्य भस्म पलाशभस्म| अश्मभित्-पाषाणभेदः| पलाशभस्म चाश्मभिच्च, तेन विपक्वं घृतं ग्रन्थ्याभे-ग्रन्थिनाम्नि रेतसि, पाययेत्|

Adhikarana pUyaretasyupakramaH (14) · Śloka 14

पूयरेतसि| परुषकवटादिभ्याम्|१४|

🔊 Audio coming soon

पूयाख्ये रेतसि परूषकवटादिभ्यां विपक्वं घृतं पाययेत्| परुषकश्च वटश्च परूषकवटौ, तावादी ययोर्गणयोस्तौ परुषकवटादी, ताभ्याम्| "परुषकं वरा द्राक्षा" (हृ.सू. अ.१५/१३) इति परुषकादिः| तथा, "न्यग्रोधपिप्पल" (हृ.सू. अ. १५/४१) इति वटादिः|

Adhikarana kShINAhvayeretasyupakramaH (14) · Śloka 14

| क्षीणे शुक्रकरी क्रिया||१४||

🔊 Audio coming soon

क्षीणे-क्षीणत्वात् क्षीणाह्वये रेतसि, शुक्रकरी क्रिया| कार्येति शेषः| शुक्रलमतिशयेन सेव्यमित्यर्थः|

Adhikarana malasadRuSe retasyupakramaH (15) · Śloka 15

संशुद्धो विट्प्रभे सर्पिर्हिङ्गुसेव्यादि(ग्नि)साधितम्| पिबेत्|१५|

🔊 Audio coming soon

संशुद्धः-कृतवमनविरेचनः, विट्प्रभे-विण्मलसद्दशे रेतसि, आतुरो घृतं पिबेत्| किम्भूतम् ? हिङ्गुसेव्यादिसाधितम्| अत्रादिशब्दो व्यवस्थावाची| तेन सङ्ग्रहोक्तस्य (शा. अ. १)- "हिङ्गूशीर[चित्रकैरथवा] चित्रक[वितुन्नक] प्रियङ्गु[हिङ्गु]समङ्गामृणालसिद्धमेलाचोचचूर्णप्रतीवापम्|" इत्यस्य पाठस्य सूचना भवति| हिङ्गुसेव्याग्निसाधितमित्यपरे पेठुः| ननु, "असाध्यं तु त्रिदोषं मूत्रविट्प्रभम्|" (श्लो.१२) इत्युवाच तन्त्रकृत्| तत्किमित्यस्य चिकित्सोपदिष्टा ? ब्रूमः| किञ्चित्साध्यताऽप्यस्यास्तीति प्रतिपादयितुं चिकित्सामुपदिदेश शास्त्रकारः| अत एव मूत्रप्रभस्यासाध्यत्वाच्चिकित्सां नोपादिशत्| मूत्रप्रभार्तवविट्प्रभार्तवयोरप्यसाध्यत्वादेवोपक्रमं नाभ्यधात्|

Adhikarana granthinAmnyArtave upakrame (15) · Śloka 15

वातद्यार्तवेषु "स्वौषधं कुर्यात्" (श्लो.१२) इत्युक्तम्| कुणपग्रन्थ्यद्यार्तवेषु विशेषेण चिकित्सां वक्ष्यति | ग्रन्थ्यार्तवे पाठाव्योषवृक्षकजं जलम्||१५||

🔊 Audio coming soon

ग्रन्थ्यार्तवे-ग्रन्थिनाम्र्यार्तवे स्त्रीरजसि, जलं पिबेत्| किम्भूतम् ? पाठादिजातम्| पाठा-प्राचीना| व्योषं-त्रिकटुकम्| वृक्षकः-कुटजः|

Adhikarana kuNapapUyAstrayorupakramaH SuddhaSukralakShaNam (16) · Śloka 16

पेयं कुणपपूयास्त्रे चन्दनं वक्ष्यते तु यत्| गुह्यरोगे च तत्सर्वं कार्यं सोत्तरबस्तिकम्||१६||

🔊 Audio coming soon

कुणपाख्ये रजसि पूयाख्ये चापि चन्दनं पेयम्| अत्र 'द्रवानुक्तौ जलं देयम्' (हृ. क. अ. ६/२३) इति परिभाषया जलेन पातव्यमिति बोध्यम्| क्षीणार्तव इह चिकित्सितं नोक्तम्, तच्च स्वधियोह्यम्| यथा क्षीणरेतसि शुक्रकरी क्रिया कार्येत्युक्तम्, तथा क्षीणे रक्ते रक्तकरी क्रिया कार्येति| न च केवलमेतत्पूर्वोक्तमेव चिकित्सितं कार्यम्, यावद्गुह्यरोगप्रतिषेधे यद्वक्ष्यते-भणिष्यते, तदपि सर्वं साधनं यथायोगं वमनादि योनौ पिचुकधारणादिकं च कार्यम्| किम्भूतम् ? सोत्तरबस्तिकम्| सहोत्तरबस्तिना वर्तत इति सोत्तरवस्तिकम्| उत्तरबस्तिरपि तत्र कार्य इत्यर्थः| सोत्तरबस्तिकमिति "तेन सहेति तुल्ययोगे" इति वहुव्रीहिः, "शेषाद्विभाषा" इति कप्, 'वोपसर्जनस्य" इति सभावः| उत्तरबस्तिरपि तत्रौषधमित्यर्थः|

Adhikarana SuddhArtavalakShaNam (17-18) · Śloka 18

बीजासमर्थं रेतोस्त्रमभिधाय साम्प्रतं शुद्धं यच्छुक्रार्तवं बीजसमर्थं तल्लक्षाणार्थमाह शुक्रं शुक्लं गुरु स्निग्धं मधुरं बहलं बहु| घृतमाक्षिकतैलाभं सद्गर्भाय आर्तवं पुनः||१७|| लाक्षारसशशास्त्राभं धौतं यच्च विरज्यते| |१८|

🔊 Audio coming soon

शुद्धे शुक्रार्तव इति पूर्वं शुक्रस्योपदेशात्प्राधान्याच्च शुक्रस्य पूर्वमुपन्यासः| "तत्राहाररसस्य सम्यक्परिणतस्य क्रमान्मज्जानमनुप्राप्तस्य सारः शुक्रसंज्ञां लभते| तच्च क्षीर इव सर्पिरिक्षुरस इव गुडः शरीरे शुक्रधारां कलामाश्रित्य सर्वाङ्गव्यापितया स्थितम्| विशेषतश्च मज्जमुष्कस्तनेषु| हर्षोदीरितं तु सङ्घट्टनेन हृदयावेशात् पिण्डीभूतमङ्गादङ्गात्प्रवर्तते (सङ्ग्रहे शा. अ.१)|" तच्च शुक्लादिगुणयुक्तं शुक्रम्| तथा, घृताभं माक्षिकाभं तैलाभं वा सद्गर्भाय-शोभनगर्भार्थं, भवति| तव घृताभेन गौरवर्णत्वं गर्भस्य, माक्षिकाभेन श्यामवर्णत्वं, तैलाभेन कृष्णवर्णत्वं, भवति| "रक्तमेव स्त्रीणां मासि मासि गर्भकोष्ठमनुप्राप्य त्र्यहं प्रवर्तमानमार्तवमाचक्षते| अतिप्रसङ्गेनानृतौ वा प्रवर्तमानं तदेवासृग्दरादिसंज्ञां लभते" (सं.शा.अ.१)| यदार्तवं लाक्षा रसाभं-अलक्तकरससदृशम् , तथा शशरुधिरसदृशम्, तथा यच्च धौतं सद्विरज्यते-वस्त्रादिलग्नं धौतं सल्लौहित्यं जहातीत्यर्थः| तदीदृशमार्तवं तु सद्गर्भाय सम्पद्यते|

Adhikarana garbhasambhavAtpUrvamitikartavyatA (18-19) · Śloka 19

शुद्धशुक्रार्तवलक्षणमुक्त्वा, इदानीं गर्भसम्भवात्पूर्वमिति कर्तव्यतामाह | शुद्धशुक्रार्तवं स्वस्थं संरक्तं मिथुनं मिथः||१८|| स्नेहैः पुंसवनैः स्निग्धं शुद्धं शीलितबस्तिकम्| |१९|

🔊 Audio coming soon

शुक्रं चार्तवं च शुक्रार्तवे, शुद्धे शुक्रार्तवे यस्य मिथुनस्य तच्छुद्धशुक्रार्तवम्,-स्त्रीपुरुषयुगलं, समुपाचरेदिति सम्बन्धः| तथा, स्वस्थं-अरोगं, रोगलेशेनाप्यनाक्रान्तम्| तथा, मिथः परस्परं, संरक्तं-अनुरागयुक्तमन्योन्यदर्शनेन कुसुमचापाविष्टमेवंविधम्| स्नेहैः पुंसवनैः-यथाभिमतगर्भग्रहणप्रभावैः फलसर्पिर्महाकल्याणकादिभिः, स्निग्धम्| तथा, शुद्धं-कृतवमनविरेचनम्| तथा शीलितबस्तिकम्, शीलिताः-अभ्यासेनानुष्ठिताः, बस्तयो येन-मिथुनेन, तच्चीलितबस्तिकम्| न सकृदेवानुष्ठितबस्तिकमित्यर्थः|

Adhikarana dampatyoH pRuthagupakramaH ,kShIrAdibhirnarasyopacAraH (19) · Śloka 19

| नरं विशेषात्क्षीराज्यैर्मधुरौषधसंस्कृतैः||१९||

🔊 Audio coming soon

विशेषात्-विशेषेणातिशयेन, नरं क्षीरैर्घृतैश्च समुपाचरेदिति सम्बन्धः| विशेषादित्यनेनैतत् द्योतयति| विशेषेण नरं क्षीराज्यैः समुपाचरेत्, न पुनर्नारीमपि तैर्न समुपाचरेदिति| किम्भूतैः ? मधुरौषधसंस्कृतैः मधुराणि-मधुरप्रायाणि मधुरप्रभावानि च तान्यौषधानि-जीवनियादीनी, [च]तैर्मधुरौषधैः, संस्कृतैः-सिद्धैः|

Adhikarana tailAdibhirnAryAH samupacAraH (20) · Śloka 20

नारीं तैलेन माषैश्च पित्तलैः समुपाचरेत्| |२०|

🔊 Audio coming soon

नारीं तैलेन माषैश्च समुपाचरेत्| चशब्दोऽत्र भिन्नक्रमः| पित्तलैश्च समुपाचरेदित्यर्थः| पित्तलानि हि रक्तवृद्धिहेतवः| उक्तं हि (हृ. सू. अ. ११/२६)-"आश्रयाश्रयिणां मिथः| यदेकस्य तदन्यस्य वर्द्धनक्षपणौषधम्||" इति| एवं च तैलं पित्तकृत्त्वादेवोपन्यस्तम्| विशेषादित्यत्राप्यनुवर्तते| क्षीराज्येभ्योऽपि विशेषेण नारिं तैलदिभिः समुपाचरेदित्यर्थः| पुरुषस्य तु रजसोऽभावात्तद्वृद्धिहेतवस्तैलादयो नोपयुज्यन्त एव|

Adhikarana strImadhikRutya garbhagrahaNayogyatA (20-21) · Śloka 21

ऊर्वोक्तसकलसामग्रीयुक्तादपि मिथुनाद्विशिष्टकालमन्तरेण गर्भस्यासम्भव इति स्त्रीमधिकृत्य तद्गर्भग्रहणयोग्यं कालं दर्शयितुमाह | क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम्||२०|| स्वस्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम्| |२१|

🔊 Audio coming soon

कार्श्यहेतुं विना क्षामं, तथा प्रसन्नं-निर्मलं, वदनं-मुखं, यस्याः सैवंभूता, ताम्| श्रोणिश्च पयोधरौ च श्रोणिपयोधरम्, स्फुरत्-कम्पमानं, श्रोणिपयोधरं यस्याः सा, ताम्| श्रोणिः-कटिः| स्त्रस्ते-च(ग)लिते, इवाक्षिणी कुक्षिश्च यस्याः सा ताम्| तथा, पुंसि कामः-अभिलाषो, यस्याः सा, ताम्| एवंविधां स्त्रियमृतुमतीं-ऋतुयुक्तां, विद्यात्| तस्याः स गर्भग्रहणकाल इत्यर्थः| पुंस्कामामिति "संपुंकानां सो वक्तत्र्यः" इति मकारस्य सकारदेशाद्रुत्वाभावः|

Adhikarana RutAvatIte yonisa~gkocAdi (21-22) · Śloka 22

"सर्वं च हेतुमद्ब्रूयात्" इत्यागमः, अत आह | पद्मं सङ्कोचमायाति दिनेऽतीते यथा, तथा||२१|| ऋतावतीते योनिः, सा शुक्रं नातः प्रतीच्छति| |२२|

🔊 Audio coming soon

यथा दिवा प्रफुल्लं पद्ममनन्तरं दिवसातिक्रान्तौ सङ्कोचमायाति-मुकुलभावं प्राप्नोति, तत्स्वभावत्वात्तस्य| तथा-तेनैव प्रकारेण, ऋतावतीते-अतिक्रान्ते द्वादशरात्रस्वभावे योनिः सङ्कोचमायति| सा च-योनिः, [अतः] सङ्कुचितत्वात् शुक्रं न प्रतीच्छतीति|

Adhikarana mAsenopacitaM raktaM vAyuryonimukhAnnudet (22-23) · Śloka 23

विवृताविवृतमुखत्वं हि योनेर्गर्भग्रहणाग्रहणहेतुः| तच्च वायोः क्रियावतः कालसहायस्यायत्तमित्याह | मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः||२२|| ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत्| |२३|

🔊 Audio coming soon

मासेन यदुपचितमाहाररसतो वृद्धिं प्राप्तं रक्तं तत्पुनर्मासेनोपचितं रक्तमृतौ वायुर्योनिमुखान्नुदेत्-प्रेरयेत्| विधौ लिङ्| तदा योनिमुखं विवृतं सम्पद्यते| केन नुदेत् ? धमनीभ्यांस्रोतोविशेषाभ्यां| किम्भूतं रक्तम् ? ईषात्कृष्णं, तथा विगन्धंविस्रगन्धरहितम्| प्रकृतिस्थप्रेरकपवनसम्पर्कादीषत्कृष्णता, न तु कुपितसमीरणप्रेरणसंश्लेषवशादिवात्यन्तं कृष्णता| नापि पित्तेन तथाभूतेन युक्तम्, येन विस्त्रगन्धि स्यात्| नापि श्लेष्मणा तथाभूतेन युक्तम्, येन तद्वर्णयुक्तं स्यात्| तस्माच्छुद्धं विशिष्टे काले योनिमुखात्प्रवर्तमानं रक्तमार्तवसंज्ञां लभते| तदेव चान्यदा योनिमुखात्प्रवर्तमानमसृग्दरसंज्ञामासादयति|

Adhikarana rajasvalayA vartanaprakAraH RutumatyAScaturthadinakRutyam (23-26) · Śloka 26

शुद्धं च रक्तं पुष्पसंज्ञम्, गर्भाख्यस्य फलस्य भविष्यतोऽभिव्यञ्जकत्वात्| अत एवाह | ततः पुष्पेक्षणादेव कल्याणध्यायिनी त्र्यहम्||२३|| मृजालङ्काररहिता दर्भसंस्तरशायिनी| क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम्||२४|| पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी| चतुर्थेऽह्नि ततः स्नाता शुक्लमाल्याम्बरा शुचिः||२५|| इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम्| |२६|

🔊 Audio coming soon

पुष्पेक्षणात्-पुष्पस्य दर्शनादेवानन्तरं, स्त्री त्र्यहं-त्रीणि दिनानि, कल्याणं-शुभं, अवश्यं ध्यायति-चिन्तयतीति कल्याणध्यायिनी स्यात्| आवश्यके णिनिः| तथा, मृजा-स्नानक्रिया, अलङ्कारः-कटकादिः पुष्पादिर्वा, अलङ्क्रियते-भूष्यते शरीरमेभिरिति कृत्वा, एवं गन्धमाल्यस्याप्यलङ्कारत्वम्| तथा च वक्ष्यति (हृ. चि. अ. ५/८२)- "गन्धमाल्यादिकां भूषाम्" इति| मृजालङ्काराभ्यां रहिता-वर्जिता| तथा दर्भाणां संस्तरः-शय्या, तत्र शेते सा दर्भसंस्तरशायिनी| "व्रते" इति णिनिः| तथा, क्षैरेयं-क्षीरसिद्धं, यावकं-यवान्नविशेषं, पर्णे शरावे हस्ते वा भुञ्जीत-भक्षयेत्| कियन्मात्रम् ? स्तोकं-अल्पमात्रम्| तत्क्षैरेयमुपयुक्तं कीदृशं स्यात् ? इत्याह-कोष्ठशोधनकर्षणमिति| शोधनं च कर्षणं च शोधनकर्षणम्| कोष्ठस्य शोधनकर्षणमिति षष्ठीसमासः| शरीरस्य महास्त्रोतो मध्यमो भाग आमपक्वस्याशयः कोष्ठशब्दवाच्यः| स एव गर्भाधिष्ठानम्, अतस्तस्यैव शोधनम्| तथा, तदङ्गानां कर्षणमिति व्याख्येयम्| न पुनः कोष्ठस्य शोधनमन्येषां चाङ्गानां कर्षणम्| तथा हि-त्रिवृदादिना विरिच्यते, नैवमनेन यावकेन| वस्तुस्वाभाव्यात् कोष्ठशोधनकर्षणमात्रमेव क्रियते| क्षैरेयमिति "क्षीराड्ढञ्" इति ढञ्| याव एव यावक इति "यावादिभ्यः कन्" इति कन्| तथा, ब्रह्मचारिणी-त्यक्तव्यवाया, स्यात्| ततः-त्र्यहादूर्ध्वं,चतुर्थे वासरे स्नाता, तथा शुक्लानि माल्यान्यम्बराणि च यस्याः सैवम्, तथा शुचिः-अन्तर्बहिश्च पवित्रा सती, पुरः-पूर्वं, पतिं पश्येत्| सङ्ग्रहेऽप्युक्तम् (शा. अ. १)- चतुर्थे त्वहन्युद्वर्तिता शीतसलिलस्नाताऽनुलिप्ताऽलङ्कृता शुक्लमाल्याम्बरा कृतमङ्गलस्वस्त्ययनैवंविधमेव भर्तारं पश्येदनन्यमनाः| तदा हि यादृशं पश्यति चिन्तयति वा तादृशमेव प्रसूत इति|" इति|

Adhikarana Rutusthitau kAlaparimANam same putraH viShame kanyA (26-27) · Śloka 27

तत्किं त्र्यहमेव ऋतुः, अत्रैव पुष्पदर्शनात्| अथोत्तरकालमपि ? इत्याशङ्क्याह | ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रोऽत्र निन्दिताः||२६|| एकादशी च, युग्मासु स्यात्पुत्रोऽन्यासु कन्यका| |२७|

🔊 Audio coming soon

पुष्पदर्शनात्प्रभृति यावद्वादशरात्रयस्तावदृतुर्योषितः, न पुनरत्र्यहमेव, यत्र पुष्पं प्रवर्तते, इति ऋतुशब्देन दर्शयति| अत्र-अस्मिन् द्वादशनिशावधावृतुकाले, याः पूर्वास्तिस्त्रो निशाः, यासु प्रायः पुष्पं प्रवर्तते, ता निन्द्याः-गर्ह्याः सद्भिः| न तत्र सन्मतिः स्त्रियं सङ्गच्छेत्| अत एवात्र ब्रह्मचारित्वोपदेशः| तथा, एकादशी निशा निन्द्या-अप्रशस्ता| चशब्दोऽत्रानुक्तायास्त्रयोदश्याः समुच्चयार्थः| त्रयोदश्यां हि मिथुनीभावे नपुंसकस्योत्पत्तिरिति केचिदाहुः| युग्मासु-चतुर्थषष्ठाष्टमदशमद्वादशलक्षणासु निशासु, सङ्गमे पुत्रः स्यात्, अचिन्त्यत्वादृतुभावस्य| तासु हि रात्रिष्वार्तवमल्पीभवति| अन्यासुअयुग्मासु निशासु पञ्चमीसप्तमीनवमीषु, कन्या जायते| तदा हि शुक्रमल्पीभवति, पूर्वोक्ताद्धेतोः| यदि पुनराहारादिवशात् शुक्रस्याधिकत्वमयुग्मासु, युग्मासु चार्तवपूर्णता स्यात्, तदा पुमान् स्त्र्याकृतिर्दुर्बलो हीनाङ्गो वा जायते, स्त्री च पुरुषाकृतिर्दुर्बला हीनाङ्गा वा| एकादशीत्रयोदश्योस्तु नपुंसकमिति| तदेवं दम्पती पुंगर्भमिच्छन्तौ युग्मासु निशासु पुंसवनादिकं कर्माचरेताम्, स्त्रीगर्भमिच्छन्तौ त्वयुग्मासु रात्रिषु|

Adhikarana putrIyavidhiH (27-28) · Śloka 28

| उपाध्यायोऽथ पुत्रीयं कुर्वीत विधिवद्विधिम्||२७|| नमस्कारपरायास्तु शूद्राया मन्त्रवर्जितम्| |२८|

🔊 Audio coming soon

अथेत्यानन्तर्ये मङ्गलसूचको निर्दिष्टः| अत एवायमात्रार्थः-ऋतुकालादनन्तरं मङ्गलपूर्विकां सर्वामिमां वक्ष्यमाणामितिकर्तव्यतां कुर्यादिति| उपाध्यायः-पुरोहितोऽथर्ववेदवित्, पुत्रीयं-पुत्राय हितं, विधिमित्थं कुर्वीत| कथम् ? विधिवत् न यथाकथञ्चित्| विधिवदिति प्रशंसायां मतुप्| क्रियाविशेषणं चैतत्, तेन प्रशस्तं वेदोक्तमन्यूनातिरिक्तविधानं यथा भवति तथाविधं कुर्वीतेत्यवतिष्ठते| ब्रह्माणदिवर्णत्रयस्येमंविधिं कुर्वीत| शूद्रायाः पुनर्नमस्कारपरायाः-नमस्कारप्रधानायाः, यथोक्तं सर्वं विधिं मन्त्रवर्जितं कुर्यात्| पुत्रीयमिति "पुत्राच्छ च" इति च्छः|

Adhikarana evaM dampatyoravaMdhyaHsaMyogaH (28) · Śloka 28

| अवन्ध्य एवं संयोगः स्यादपत्यं च कामतः||२८||

🔊 Audio coming soon

एवं-यथोक्तविध्यनुष्ठाने, दम्पत्योर्यः संयोगो-मिथुनीभावः, स न वन्ध्यः स्यात्| अपि तु सफलो गर्भसम्भवहेतुर्भवेदित्यर्थः| न केवलं दम्पत्योःसंयोग एवं निष्फलो न भवेत्, अपत्यं च कामतः-यथाभिमतं पुंगर्भरूपं स्त्रीगर्भरूपं वा, स्यात्|

Adhikarana dampatyorekAnte maithunam (29) · Śloka 29

अत एवाह सन्तो ह्याहुरपत्यार्थं दम्पत्योः सङ्गतिं रहः| |२९|

🔊 Audio coming soon

रहःशब्देन ग्राम्यवचसाऽत्र ग्राम्यधर्मं सूचयति| हियस्मात्, सन्तः-साधवः, अपत्यार्थं-अपत्यजननाय, दम्पत्योः स्त्रीपुरुषयोः, रहः-एकान्ते, विशिष्टकालोचितं विशिष्टसंयोगं सङ्गतिमाहुः, न ग्राम्यसुखलिप्सायै|

Adhikarana durapatyasya kulA~ggAratvam (29) · Śloka 29

न चापत्यमात्रायेत्याह | दुरपत्यं कुलाङ्गारो गोत्रे जातं महत्यपि||२९||

🔊 Audio coming soon

दुष्टापत्यं स्त्रीगर्भः पुंगर्भो वा, महत्यपि गोत्रे जातं-उत्कृष्टेऽपि कुल उत्पन्नं, आङ्गारकार्यकरणसामर्थ्यात्समस्तत्कुलविनाशहेतुत्वात्कुलाङ्गार इत्युच्यते|

Adhikarana dampatyoH putracintanaprakAraH (30) · Śloka 30

इच्छेतां यादृशं पुत्रं तद्रूपचरितांश्च तौ| चिन्तयेतां जनपदांस्तदाचारपरिच्छदौ||३०||

🔊 Audio coming soon

तौ-दम्पती, यादृशं पुत्रमिच्छेतां-कामयेतां, तद्रूपचरितान् रूपं-वर्णसंस्थानप्रमाणाशाकृत्यादि| तथा चरितं-श्रद्धाश्रुतसत्यार्जवानृशंस्यदानदयादाक्षिण्यस्वभावादि| तस्य-मनीषितस्य, सदृशे रूपचरिते येषां तान् जनपदान् चिन्तयेतां-ध्यायेतां| पुत्रशब्दोऽपत्यमात्रोपलक्षणार्थोऽत्र| तथा हि दुहितरमपि कश्चिदिच्छत्येव| किम्भूतौ तौ पितरौ ? तदाचारपरिच्छदौ| आचरणं-आचारः, कुलानुरूपस्य देशानुरूपस्य चेतिकर्तव्यतालक्षणस्य कर्मणोऽनुष्ठानम्| परिच्छदो-मनुजगवाश्वधनधान्यवस्त्रालङ्काररत्नरथायुधगृहोद्यानवीणापणवगायनशय्यास्तरणादिः| आचारश्च परिच्छदश्चाचारपरिच्छदौ| तदित्यनेनाभिलषितापत्यं परामृश्यते| तस्यैवाचारपरिच्चदौ ययोस्तौ दम्पती इच्छा सदृशरूपचरितान् जनपदान् ध्यायेताम्|

Adhikarana dampatyoH shayyArohAdi (31-32) · Śloka 32

कर्मान्ते च पुमान् सर्पिःक्षीरशाल्योदनाशितः| प्राग्दक्षिणेन पादेन शययां मौहूर्तिकाज्ञया||३१|| आरोहेत् स्त्री तु वामेन तस्य दक्षिणपार्श्वतः| तैलमाषोत्तराहारा तत्र मन्त्रं प्रयोजयेत्||३२||

🔊 Audio coming soon

कर्मान्ते च-पुत्रीयविध्यनुष्ठानावसाने च, पुमान् स्त्रीतः प्राक्-पूर्वं, शय्यामारोहेत्-आक्रमेत्| किम्भूतः ? सर्पिःक्षीरशाल्योदनाशितः,-सर्पिर्मिश्रक्षीरशाल्योदनेनाशितो-भोजितः| कथमारोहेत् ? दक्षिणेन पादेन, मौहूर्तिकाज्ञया-ज्योतिः शास्त्रविदादिष्टः| स्त्री तु वामेन पादेन तस्य दक्षिणपार्श्वतः शय्यामारोहेत्, मौहूर्तिकाज्ञयेति योज्यम्| तुरवधारणे, उभयत्रापि| पुमान् दक्षिणेनैव पादेन प्रागेव, स्त्री पश्चादेव वामेनैव पादेन पुंसो दक्षिणपार्श्वत एव, शय्यामारोहेत्, नान्यथा कृत्वेति|"पुमान् सर्पिःक्षीरशाल्योदनाशितः" इत्युक्तम्| स्त्रियास्तु तत्कालोचितमाहारं निरूपयन्नाह-तैलेत्यादि| तैलं च माषश्च, ताभ्यामुत्तरः-अधिकः, आहारो यस्याः सैवम्| उत्तरशब्दोऽत्र तैलमाषौ पित्तलौ रक्तवृद्धिहेतू तयाऽत्यन्तं सेवितव्यौ, न पुनस्तथा शुक्रवृद्धिकराण्यन्यान्यपि क्षीरादीनि द्रव्याणिति प्रतिपादयति| तत्र च मन्त्रं वक्ष्यमाणं प्रयोजयेत्-पठेत्|

Adhikarana tatramantrapAThaH (33) · Śloka 33

तदेव मन्त्रमाह.... औम् आहिरसि आयुरसि सर्वतः प्रतिष्ठासि धाता त्वां दधातु विधाता त्वां दधातु ब्रह्मवर्चसा भवेति| ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्यस्तथाऽश्विनौ| भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम्||३३||

🔊 Audio coming soon

आहिरसीत्यादि [ वीरं ददतु मे सुतमित्यन्तं मन्त्रं पठेत् ]

Adhikarana anyonyaMsAntvanapUrvakaMsaMveSaH (34) · Śloka 34

सान्त्वयित्वा ततोऽन्योन्यं संविशेतां मुदान्वितौ| उत्ताना तन्मना योषित्तिष्ठेदङ्गैः सुसंस्थितैः||३४||

🔊 Audio coming soon

ततो-मन्त्रपाठादनन्तरं, परस्परं सान्त्वयित्वा-प्रियवचनादिना प्रीतिमुत्पाद्य, सम्वशेतां-मिथुनीभावं गच्छेताम्| किम्भूतौ? मुदा-हर्षेण, अन्वितौ-युतौ| तत्र च संवेशने योषिदुत्ताना तच्चित्ता चावयवैः सुसंस्थितैस्तिष्ठेत्|

Adhikarana evaM kRute garBadhAraNam (35) · Śloka 35

किमेवंसति भवति ? इत्याह तथा हि बीजं गृह्णाति दोषैः स्वस्थानमास्थितैः| |३५|

🔊 Audio coming soon

हि-यस्मात्, तथा-तेन प्रकरेण, सा बीजं गृह्णाति, दोषैः-वातादिभिः स्वस्थानावस्थितैः सद्भिः| सङ्ग्रहे तूक्तम् (शा. अ. १)- "न चासावधस्तिष्ठेत्| तथा हि स्त्रीचेष्टः पुमान् जायते पुंचेष्टा वा स्त्री| न च न्युब्जां पार्श्वगतां वा सेवेत| न्युब्जाया वातो बलवान् स योनिं पीडयति| दक्षिणपार्श्वगायाः श्लेष्मा पीडितश्च्युतोऽपिदधाति गर्भाशयम्| वामपार्श्वगायास्तद्वत्पित्तं विदहति रक्तशुक्रे| तस्मादुत्ताना बीजं गृह्णीयात्|" इति|

Adhikarana sadyogarBayA lakShaNam (35-36) · Śloka 36

| लिङ्गं तु सद्योगर्भाया योन्या बीजस्य सङ्ग्रहः||३५|| तृप्तिर्गुरुत्वं स्फुरणं शुक्रास्राननुबन्धनम्| हृदयस्पन्दनं तन्द्रा त्ऱ्ड्ग्लानिर्लोमहर्षणम्||३६||

🔊 Audio coming soon

सद्यः-तत्क्षणात्, गर्भो यस्याः सैवम्, तस्याः सद्योगर्भाया लक्षणं बीजस्य-गर्भाख्यस्य, योन्या-करणभूतया, सङ्ग्रहः सम्यग्ग्रहणम्| तथा, तृप्तिरिव तृप्तिः गुरुत्वं स्फुरणं च कुक्षेर्भवति| तथा, शुक्रं चास्रं च-शुक्रास्रे, अनुबन्धनं-प्रवर्तनम्, नानुबन्धनं-अननुबन्धनम्, शुक्रास्रयोरप्रवर्तनं-शुक्रास्राननुबन्धनम्,-शुक्रास्रयोर्योनिमुखादवमनं बहिरनिःसरणम्, अत्र च योन्या गृहीतबीजत्वं हेतुः| तथा, हृदयस्पन्दनादयः पञ्च सद्योगर्भाया लक्षणानि भवन्ति| लोमहर्षणं हर्षवशाद्भवति| तथा च सङ्ग्रहे (शा. अ. २)- "प्रहर्षो हृल्लासः" इत्यादि|

Adhikarana garBAvasthAH (37) · Śloka 37

इदानीं गर्भस्यावस्थाः प्रदर्शयितुमाह अव्यक्तः प्रथमे मासि सप्ताहात्कललीभवेत्| गर्भः पुंसवनान्यत्र पूर्वं व्यक्तेः प्रयोजयेत्||३७||

🔊 Audio coming soon

सप्ताहादर्वाग्गर्भगोलकः श्लेष्मपिण्डीभुतो भवेत्| सप्ताहादनन्तरं यावन्मासस्तावदव्यक्ताकृतिः कललीभवेत्| अत्र कललीभूते यावत्स्त्रीपुरुषाद्युत्पत्तिलक्षणा व्यक्तिर्न भवति तावद्व्यक्तेः प्राक् प्रथमे मासि पुंसवनानि प्रयोजयेत्|

Adhikarana puMsavanasya sArdhakatvam (38) · Śloka 38

ननु, "शुद्धेशुक्रार्तवे सत्वः स्वकर्मक्लेशचोदितः| गर्भः सम्पद्यते"(श्लो.१) इत्युक्तम्| तत्र यदि प्राक्कृतेन कर्मणा स्त्रीगर्भः कुक्षिमाक्षिप्तस्तदा पुरुषप्रयत्ने सत्यपि पुंगर्भः कर्तुं न शक्यते| तस्मात्पुंसवनमनर्थकमेवेत्याशङ्क्याह बली पुरुषकारो हि दैवमप्यतिवर्तते| |३८|

🔊 Audio coming soon

हि-यस्मात्, पुरुषकारो बलवान् दुर्बलं दैवमतिवर्ततेअतिक्रम्य वर्तते| अपिशब्दात् पुरुषकारमपि दुर्बलं दिष्टं बलीयोऽतिक्रम्य वर्तत इति प्रतिपादयति| अत एव प्राक्कृतेन कर्माणा बलीयसाऽऽक्षिप्तस्य स्त्रीगर्भस्य पुंसवनादिदानेन पौरुषेण कर्मणा शतशोऽपि प्रयोजितेन न कथञ्चित्पुंगर्भता कर्तुं पार्यत इति| उक्तं च (चरके वि.अ. ३/३६)-"दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते| दैवेन चेतरत्कर्म प्रकृष्टनोपहन्यते||" इति| अत्र पुंसवनादि सम्यक् प्रयोजितं सिध्यसिध्यनुमीयमानं प्राक्कृतस्य कर्मणो हीनबलत्वप्रबलत्वमवगमयति|

Adhikarana puMsavanaprayogaH (38-39) · Śloka 39

अधुना पुंसवनादिप्रयोगमाह | पुष्ये पुरुषकं हैमं राजतं वाऽथवाऽऽयसम्||३८|| कृत्वाऽग्निवर्णं निर्वाप्य क्षीरे तस्यञ्जलिं पिबेत्| |३९|

🔊 Audio coming soon

पुष्ये-पुष्यनक्षत्रयुक्ते काले, पुरुषकं-पुत्तलकं, हेमादिकृतमग्निवर्णं कृत्वा सुध्माततया, ततः क्षीरे निर्वाप्य-निवेश्य, तस्य-क्षीरस्य, अञ्जलिं-पलचतुष्टयाख्यं, पिबेत्| पुरुषकमिति पुरुष इवेत्यस्मिन्नर्थे "इवे प्रतिकृतौ" इति कन्| हैममिति हेम्तोविकारार्थेऽण् "नस्तद्धिते" इति टिलोपः| राजतमिति "प्राणिरजतादिभ्योऽञ् इत्यञ्| आयसमिति "तस्येदम्" इत्यण्|

Adhikarana puShye gauradaNDAdicaturNAM pAnam (39-40) · Śloka 40

| गौरदण्डमपामार्गं जीवकर्षभसैर्यकान्||३९|| पिबेत्पुष्ये जले पिष्टानेकद्वित्रिसमस्तशः| |४०|

🔊 Audio coming soon

गौरदण्डादींश्चतुरो द्रव्यविशेषान् पिबेत्| किम्भूतान् ? जले पिष्टान्-कल्कीकृतान्| कथं कृत्वा ? एकद्वित्रिसमस्तशः एकादिषु प्रत्येकं शस्प्रत्ययार्थयोगः| तेनैकमेकं कृत्वा, द्वौ द्वौ कृत्वा, त्रींस्त्रीन्कृत्वा, चतुरश्चतुरः कृत्वा, एतान् पिबेदित्यर्थोऽवतिष्ठते| कदा प्राश्यम् ? पुष्ये-पुष्ययुक्ते काले|

Adhikarana SvetabRuhatImUlasya strInAsApuTe secanam (40-41) · Śloka 41

| क्षीरेण श्वेतबृहतीमूलं नासापुटे स्वयम्||४०|| पुत्रार्थं दक्षिणे सिञ्चेद्वामे दुहितृवाञ्छया| |४१|

🔊 Audio coming soon

शुक्लपुष्पकण्टकारिकाया मूलं क्षीरेण कल्कीकृत्य स्वयं-स्त्री, दक्षिणे नासापुटे पुत्रार्थं-पुत्रसम्पत्तये, सिञ्चेत्| दुहितृवाच्छया-सुताकाम्यया, वामे नासापुटे सिञ्चेत्|

Adhikarana putrotpAdasthitipradAnyauShadhAni (41-42) · Śloka 42

| पयसा लक्ष्मणामूलं पुत्रोत्पादस्थितिप्रदम्||४१|| नासयाऽऽस्येन वा पीतं वटशुङ्गाष्टकं तथा| ओषधीर्जीवनीयाश्च बाह्यान्तरुपयोजयेत्||४२||

🔊 Audio coming soon

पयसा-क्षीरेण, लक्ष्मणामूलं कल्कीकृत्य पीतं पुत्रोत्पादप्रदं पुत्रस्थितिप्रदं च भवति| कथं पीतम् ? नासयाऽऽस्येन वा, कदाचिन्नासिकया कदाचिदास्येन| यस्याः पुत्रो नोत्पद्यते तथोत्पन्नो वा स्थितिं न लभते-चिरं न जीवति, तयैवं पातव्यमित्यर्थः| वटशुङ्गाष्टकं तथा-तेनैव प्रकारेण नासया आस्येन वा पीतं पुत्रोत्पादस्थितिप्रदं भवति| न्यग्रोधस्य प्रथमोद्भिन्नः प्ररोहो-वटशुङ्गः, तस्याष्टकमिति| प्रभावस्याचिन्त्यत्वादेतत्सङ्ख्यावच्छिन्नत्वम्| जीवनीया या ओषध्यो-जीवन्तीकाकोल्याद्या दश, याः शोधनादिगणसङ्ग्रहोक्ताः (हृ.सू.अ.१५/८), ता बाह्यान्तरुपयोजयेत्| तत्र स्नानोद्वर्तनादिना बाह्य उपयोगः, आहारपानादिनाऽन्तरुपयोगः|

Adhikarana garBadhAraNe upacAraH (43) · Śloka 43

उपचारः प्रियहितैर्भर्त्रा भृत्यैश्च गर्भधृक्| नवनीतघृतक्षीरैः सदा चैनामुपाचरेत्||४३||

🔊 Audio coming soon

उपचारः-उपचरणम्| प्रियाः-इष्टाः, हिताः-पथ्याः, आहारविहाराः, तैः प्रियहितैर्य उपचारो भर्त्रा-पत्या कृतो, भृत्यैश्च य एवंभूतः कृतः, स गर्भधृक्-तदनुष्ठानाद्गर्भः स्थितिं दधातीत्यर्थः| एनां च स्त्रियं नवनीतादिभिर्यथासात्म्यं सदोपाचरेत्|

Adhikarana garBiNyA ativyavAyatyAgAdi (44-47) · Śloka 47

अतिव्यवायमायासं भारं प्रावरणं गुरु| अकालजागरस्वप्नं कठिनोत्कटकासनम्||४४|| शोकक्रोधभयोद्वेगवेगश्रद्धाविधारणम्| उपवासाध्वतीक्ष्णोष्णगुरुविष्टम्भिभोजनम्||४५|| रक्तं निवसनं श्वभ्रकूपेक्षां मद्यमामिषम्| उत्तानशयनं यच्च स्त्रियो नेच्छन्ति तत्त्यजेत्||४६|| तथा रक्तस्त्रुतिं शुद्धिं बस्तिमामासतोऽष्टमात्| एभिर्गर्भः स्त्रवेदामः कुक्षौ शुष्येन्म्रियेत वा||४७||

🔊 Audio coming soon

गर्भिणी स्त्री अतिव्यवायादीनुत्तानशयनान्तांस्त्यजेत्| न केवलमेतान् अन्यद्यच्चाहारविहारादिवस्तुजातं स्त्रियो-बहुशः प्रसूतास्तत्कालव्यापारनिपुणा वा याः काश्चन स्त्रियो, नेच्छन्ति तदपि वर्जयेत्| तथा रक्तस्त्रुतिं, शुद्धिं च-वमनविरेचनरूपां, वर्जयेत्| बस्तिं-अनुवासनं, अष्टमं मासं मर्यादीकृत्य वर्जयेत्| अष्टमे तु मासे बस्तिं प्रयोजयेदेवेत्यर्थः| एभिः-वर्ज्यैर्वस्तुभिरासेव्यमानैः, गर्भ आमः-असम्पूर्णः, स्त्रवेत्-पतेत्, कुक्षौ वा शुष्येत्, म्रियेत वा-मृत्युं वा गर्भः प्राप्नुयात्|

Adhikarana vAtalAdyAhAraiH kubjAdayo garBAH (48) · Śloka 48

वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः| पित्तलैः ख़लतिः पिङ्गः श्वित्री पाण्डुः कफात्मभिः||४८||

🔊 Audio coming soon

वातलैश्चाहारैर्मात्रा सेवितैः कुब्जोऽन्धो जडो वामनो वा गर्भो भवति| पित्तलैराहारैर्मात्रा सेवितैः खलतिः-खल्वाटः, पिङ्गो वा स्यात्| कफकृद्भिराहारैर्मात्रा सेवितैः श्वित्रवान् पाण्डुर्वा स्यात्|

Adhikarana mRudvAdyauShadharvyAdhijayaH (49) · Śloka 49

व्याधींश्चास्या मृदुसुख़ैरतीक्ष्णैरौषधैर्जयेत्| |४९|

🔊 Audio coming soon

अस्याश्च-गर्भिण्याः, ये व्याधयो जायन्ते, तान् व्याधीन् मृदुसुखैरौषधैस्तथाऽतीक्ष्णैर्जयेत्| मृदूनि च तानि सुखानि च-मृदुसुखानि| मृदूनि-अकर्कशानि वीर्यादिभिर्नोत्कृष्टसामर्थ्यानि सुकुमारोचितानि| सुखानि-सुखोपभोग्यानि, प्रियाणीति यावत्| ननु, मृदूनि परिहृत्यातीक्ष्णानि चेति निर्देष्टव्यम्| किमुभयोरुपादानेन ? यतो मृदूनि-अकर्कशानि, अतीक्ष्णान्यपि-अकर्कशानि, इत्यनर्थान्तरत्वमेतयोः| अत्रोच्यते| मृदूनि-अकर्कशानि शर्करादीनि, उत्कृष्टशक्तीनि मरिचादीनि-अतीक्ष्णानि, तीक्ष्णानि पुनस्तीक्ष्णगुणयुक्तानि राजिकादीनि दोषोत्क्लेशकराणि भेषजानि भवन्ति, इति द्वयोरुपादानं युक्तम्| तन्त्रान्तरे (सङ्ग्रहे) त्वेवमुक्तम् (शा.अ.२)-"इत्यनात्ययिके व्याधौ विधिरात्ययिके पुनः| तीक्ष्णैरपि क्रियायोगैः स्त्रियं यत्नेन पालयेत्||" इति| यच्च व्यवायादि गर्भिण्याः परिहार्यत्वेन निर्दिष्टम्, तथा "व्याधींश्चास्या मृदुसुखैरतीक्ष्णैरौषधैर्जयेत्|" इति| तदस्मिन् काले विशेषेणेति द्रष्टव्यम्, न तथाऽन्यदा| तथा चान्यदाऽतिव्यवायादिसेवनान्न तथा प्रत्यवायभयम्, तथा तीक्ष्णौषधप्रयोगाच्च| अत एव "तथा रक्तस्त्रुतिं शुद्धिं बस्तिमामासतोऽष्टमात्|" इत्येतत्पृथङ्निर्दिशत्यतिव्यवायादिपरिहार्यगणमध्ये| प्रथमे मास्यव्यक्तलिङ्गः कललावस्थो गर्भो भवेत्| द्वितीये तु मासि गर्भः कीदृशः स्यात् ? इत्याह-

Adhikarana dvitIyemAsi garBasya peSyAdyAkRutiH (49-50) · Śloka 50

प्रथमे मास्यव्यक्तलिङ्गः कललावस्थो गर्भो भवेत्| द्वितीये तु मासि गर्भः कीदृशः स्यात् ? इत्याह | द्वितीये मासि कललाद्धनः पेश्यथवाऽर्बुदम्||४९|| पुंस्त्रीक्लीबाः क्रमात्तेभ्यः| |५०|

🔊 Audio coming soon

द्वितीये मासि कललाद्धनः पेश्यथवाऽर्बुदं गर्भः स्यादिति योज्यम्| तेभ्यो-घनादिरूपेभ्यः, क्रमात्-परिपाठ्या, पुंस्त्रीक्लीबाः सम्पद्यन्ते| घनात् पुमान्| पेश्याः स्त्री| अर्बुदात् क्लीबः-षण्ढो, न स्त्री न पुमानिति|

Adhikarana vyakta garBasya lakShaNam (50-52) · Śloka 52

तत्र व्यक्तस्य लक्षणम्| क्षामता गरिमा कुक्षेर्मूर्च्छा च्छर्दिररोचकः||५०|| जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्| अम्लेष्टता स्तनौ पीनौ सस्तन्यौ कृष्णचूचुकौ||५१|| पादशोफो विदाहोऽन्ये श्रद्धाश्च विविधात्मिकाः| |५२|

🔊 Audio coming soon

तत्र-व्यक्ताव्यक्तयोर्मध्यात्, व्यक्तो निर्धार्यते| व्यक्तस्य गर्भस्य वक्ष्यमाणं लक्षणं क्षामतेत्यादिकम्| गरिमेति गुरोर्भाव इति "पृथ्वादिभ्य इमनिज्वा" इतीमनिच्, "प्रियस्थिर" इत्यादिना गरादेशः| विदाहोऽन्य इति| अन्ये आचार्या विदाहो देहे भवतीत्याहुः| नानाप्रकाराश्च श्रद्धाः-पथ्यापथ्यविषया अभिलाषाः, व्यक्तस्य गर्भस्य लक्षणम्| सङ्ग्रहे तूक्तम् (शा.अ.२)-"तस्याश्च रजोवाहिनां स्रोतसां वर्त्मान्युपरुध्यन्ते गर्भेण| तस्मात्ततः परमार्तवं न दृश्यते| ततस्तदधः प्रतिहतमपरमपरं चोपचीयमानमपरेत्याहुः|" इति|

Adhikarana garBiNyAH icCitahitAhitasyadeyatve kAraNam (52-53) · Śloka 53

गर्भिण्याश्च श्रद्धासूत्पन्नासु किमपथ्यं तस्यै देयं न वा ? इत्येवं संदेहे तद्युदासार्थमाह | मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत्||५२|| सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम्| |५३|

🔊 Audio coming soon

हि-यस्मात्, अस्य-गर्भस्य, यद्धृदयं-चेतनाधिष्ठानं, तन्मातृजम्| तथा चोक्तम् (हृ. शा. अ.३/४)-"मृद्वत्र मातृजं रक्त" इत्यादि| तच्च-गर्भहृदयं, मातृहृदयेन सम्बद्धं-संयुक्तं, भवति| ततश्च गर्भिणीहृदयेन सन्तप्तेन गर्भहृदयमपि सन्तप्यते| परस्परं हृदयस्य सम्बद्धत्वात्| अत एव च गर्भिणी द्विहृदया दौर्हृदिनीत्युच्यते| अत एव च परायत्तहृदयत्वात्तत्कालेस्वस्वभावोचितमभिलाषं विहाय नानाभिलाषो जायते| यतश्चैवं तेन कारणेन गर्भिण्याः श्रद्धाविमाननं-आभिलाषाप्रतिपूरणं, नेष्टम्|

Adhikarana hitena sAkamahitamapyalpaM deyam (53) · Śloka 53

तदर्थमाह | देयमप्यहितं तस्यै हितोपहितमल्पकम्||५३||

🔊 Audio coming soon

तस्यै-गर्भिण्यै, हितेन-पथ्येन, युक्तमहितं-अपथ्यमपि विदाहिविष्टम्भ्यादि पूर्वनिषिद्धं यत्तदपि, देयम्| अपिशब्देनकिमु तस्यै प्रार्थ्यमानायै हितं देयमिति गमयति| किं मात्रामनपेक्ष्यैवाहितं देयम् ? नेत्याह| अल्पकं-अतिशयेनाल्पम्|

Adhikarana ahitadAne kAraNam (54) · Śloka 54

ननु, यद्यहितं तत्कस्माद्दीयते ? इत्याह श्रद्धाविघाताद्गर्भस्य विकृतिश्च्युतिरेव वा| |५४|

🔊 Audio coming soon

यदि चिरकालोषितः कुक्षौ गर्भस्तदा तस्य गर्भस्य विकृतिःवैरूप्यं भवेत्, श्रद्धाविमाननचिन्तानिदानकुपितसमीरत्वात्| तथाऽचिरोषितो गर्भस्तदा तस्य गर्भस्य च्युतिः-विनाशो भवेत्, अत एव श्रद्धाविमाननचिन्तानिदानकुपितपवनत्वाद्धेतोः| लब्धदौर्हृदा तु वीर्यवन्तं चिरायुषं च सुतं सूते|

Adhikarana tRutIye mAsi gAtrapa~jcakAdervyaktatvam (54-55) · Śloka 55

| व्यक्तीभवति मासेऽस्य तृतीये गात्रपञ्चकम्||५४|| मूर्द्धा द्वे सक्थिनी बाहू सर्वसूक्ष्माङ्गजन्म च| सममेव हि मूर्द्धाद्यैर्ज्ञानं च सुख़दुःख़योः||५५||

🔊 Audio coming soon

अस्य-गर्भस्य, तृतीये मासि गात्रपञ्चकं व्यक्तीभवति,-अव्यक्तरूपं व्यक्तं तदानीं सम्पद्यत इत्यर्थः| तदेव पञ्चाङ्गमाह मूर्द्धा द्वे सक्थिनी बाहू इति| सर्वेषां सूक्ष्माणां चाङ्गानां चेतनाधिष्ठानानां जन्म-उत्पतिः, अन्यत्र जन्मोत्तरकालजेभ्यो दन्तादिभ्यः| तथा, सममेव-तुल्यकालमेव, मूर्द्धाद्यैः सुखदुःखयोर्ज्ञानं भवति,-तदानीं सुखसंविद्दुःखसंविच्च गर्भस्य जायत इत्यर्थः| चः समुच्चये| हिर्यस्मादर्थे|

Adhikarana mAtrA~abhyavahRutAnnapAnAbhyAMgarbhavardhanaprakAraH (56) · Śloka 56

अत्र मात्राऽभ्यवहृताभ्यामन्नपानाभ्यां कथं गर्भो वर्द्धते ? इत्याह गर्भस्य नाभौ मातुश्च हृदि नाडी निबध्यते| यया स पुष्टिमाप्नोति केदार इव कुल्यया||५६||

🔊 Audio coming soon

एकैव नाडी गर्भस्य नाभौ मातुश्च हृदये निबध्यते-अदृष्टवशात्संश्लिष्यते| यया-नाड्या, सः-गर्भः पुष्टिमाप्नोति आवहति| क इव ? केदार इव कुल्यया,-लघुनद्या जलं वहन्त्या केदारस्थः शाल्यादिर्यथाऽमिवर्द्धते, तथैव मातृहृदया श्रितया नाड्या मात्राऽभ्यवहृतादाहाराज्जाठराग्निना पच्यमानात् प्रसादाख्येन रसेन| यस्मात् "व्यक्तीभवदङ्गप्रत्यङ्गस्य [अस्य] नाभ्यां प्रतिबद्धा नाडी, नाड्यामपरा, तस्यां मातृहृदयम्| ततो मातृहृदयादाहाररससारो धमनीभिः स्यन्दमानोऽपरामुपैति| ततः क्रमान्नाभिं च| ततश्च स पुनर्गर्भस्य पक्काशये [स्व] कायाग्निना पच्यमानः प्रसादबाहुल्याद्धात्वादि पुष्टिकरः सम्पद्यते| तथा रोमकूपैरुपस्नेह एव प्रविशति| (स्नेहो रस एव च पयोभूतः| अजातस्य) साक्षादन्नपानाननुप्रवेशात् रसस्य वा समलत्वाभावात् (अमलत्वाच्च रसस्य) गर्भस्य स्थूलमूत्रपुरीषाद्यसम्भवः|" (सं.शा. अ.२)|

Adhikarana caturthapa~jcamayora~ggAnAM cetanAyASca krameNa vyaktiH (57) · Śloka 57

चतुर्थे व्यक्तताऽङ्गानां, चेतनायाश्च पञ्चमे| |५७|

🔊 Audio coming soon

गर्भस्येत्यनुवर्तते| चतुर्थे मासि गर्भस्य सर्वेषामङ्गानां सूक्ष्मत्वादव्यक्तरूपाणां व्यक्तता भवति| चेतनायाः पुनर्मनोद्वितीयनामिकाया अव्यक्तरूपायाः पञ्चमे मासि व्यक्तता जायते|

Adhikarana ShaShThesnAyvAdInAM vyaktatA (57) · Śloka 57

| षष्ठे स्नायुसिरारोमबलवर्णनख़त्वचाम्||५७||

🔊 Audio coming soon

षष्ठे मास्यव्यक्तरूपाणां स्नाय्वादीनां व्यक्तता जायते|

Adhikarana saptame sarvA~ggaiH pUrNatA (58) · Śloka 58

सर्वैः सर्वाङ्गसम्पूर्णो भावैः पुष्यति सप्तमे| |५८|

🔊 Audio coming soon

सप्तमे मासि सर्वैः-सकलैः, भावैः-वस्तुभिः, सर्वाङ्गसम्पूर्णो गर्भः पुष्यति-पोषं याति| अङ्गसम्पूर्णः पुष्यतीत्येतावतैव प्रकृतार्थावगतेः सर्वग्रहणमधिकार्थद्योतनाय| तेन सर्वेण जन्मजीवनलक्षणेनार्थेनाङ्गैश्च सम्पूर्णो भवतीत्यवतिष्ठते| अकालप्रसवत्वात्तु न तथा गर्भस्य जन्मजीवनलक्षणो योऽसावर्थः सोऽप्यस्मिन् भवतीति ज्ञाप्यते| तथा चास्मिन् मासि गर्भो जातो जीवति, किन्त्वकालप्रसवत्वान्न तथा दीर्घजीवितत्वादिकं स्यात्| वक्ष्यति हि (श्लो.६६)-"कालः सूतेरतः परम्" इति| अमुमेव च न्यायं चेतसि विधायाष्टमे मास्योजःस्वरूपनिगदनप्रस्तावे "जातो न जीवति शिशुः" इति वक्ष्यति (श्लो. ६३)| अन्यथाऽकालप्रसवत्वादेवास्मिन् गर्भस्य जीवनं न सम्भाव्यत एव| "जातो न जीवति" इत्येतद्वाक्यमनर्थकमिव स्यात्| तस्मात्सप्तमे मासि जातो जीवतीति सुप्रतिपादितमेतत्|

Adhikarana garBotpIDitA vAtAdayaH kaNDvAdikarAH (58) · Śloka 58

गर्भेणोत्पीडिता दोषास्तस्मिन् हृदयमाश्रिताः| कण्डूं विदाहं कुर्वन्ति गर्भिण्याः किक्किसानि च||५८||

🔊 Audio coming soon

गर्भेणोत्पीडिताः-ऊर्ध्वं पीडिताः, दोषाः-वातादयः, तस्मिन् काले हृदयमाश्रिता गर्भिण्याः कण्डूं विदाहं [ च ] कुर्वन्ति| तथा, किक्विसानि कुर्वन्ति| ऊरुस्तनोदरे वलिविशेषा रेखाकारास्तत्काले प्रायो ये जायन्ते ते-किक्विससंज्ञाः| कैश्चित् 'शूकैरिव पूर्णता-किक्विसानि' इति व्याख्यायि| पाणिपादां समूलेषु विविधः सन्तापो-विदाह उच्यते|

Adhikarana tadupaSamArthaM navanItAdi sevanam (59-62) · Śloka 62

नवनीतं हितं तत्र कोलाम्बुमधुरौषधैः| सिद्धमल्पपटुस्नेहं लघु स्वादु च भोजनम्||५९|| चन्दनोशीरकल्केन लिम्पेदूरुस्तनोदरम्| श्रेष्ठया वैणहरिणशशशोणितयुक्तया||६०|| अश्वघ्नपत्रसिद्धेन तैलेनाभ्यज्य मर्दयेत्| पटोलनिम्बमञ्जिष्ठासुरसैः सेचयेत्पुनः||६१|| दार्वीमधुकतोयेन मृजां च परिशीलयेत्| |६२|

🔊 Audio coming soon

तत्र-तेषु कण्ड्वादिषु, उपशमार्थं नवनीतं हितम्, अन्तर्बहिश्चोपयोगितया| कीदृशम् ? कोलाम्बुना मधुरौषधैः द्राक्षादिभिश्च कल्कीकृतैः, सिद्धं-पक्वम्| तथा, तत्र भोजनं हितम्| किम्भूतम् ? अल्पं पटु-लवणं, स्नेहश्च यत्र तदेवम्| तथा, लघु-मात्रास्वभावाभ्याम्| तथा, स्वादु-मधुरम्| तथा, चन्दनोशीरयोर्यः कल्कः-पिष्टो जलेनालोडितः, तेमोरुस्तनोदरं लिम्पेत्| श्रेष्ठया वा-त्रिफलया वा, ऊरुस्तनोदरं लिम्पेत्| किम्भूतया ? एणादिरुधिरपिष्टया| तथा, अश्वघ्नपत्रसिद्धेन तैलेनाभ्यज्य-अभ्यक्तमङ्गं कृत्वा, अनन्तरं पटोलनिम्बमञ्जिष्ठासुरसैर्मर्दयेत्| अश्वघ्नः-करवीरः| सेचयेत्पुनः-परिषेकं च कुर्यात्| दार्वीमधुकतोयेन-दारुहरिद्रामधुयष्टिकाभ्यां क्वथितेन जलेन, मृजां-शुद्धिं स्नानादिकां, शीलयेत्| सङ्ग्रहे तूक्तम् (शा.अ.३)-"परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा| कण्डूयनं वर्जयेत् त्वग्भेदवैरूप्यपरिहारार्थम्| स्नानोद्वर्तनं च शीलयेत्| मधुरं चाहारमल्पमल्पस्नेहलवणमल्पोदकानुपानं भुञ्जीत|" इति|

Adhikarana aShTame mAtAputrayorojasaH sa~jcArAdi (62-63) · Śloka 63

इदानीमष्टमे मासि गर्भस्वरूपं तत्रेतिकर्तव्यतां चाचष्टे | ओजोऽष्टमे सञ्चरति मातापुत्रौ मुहुः क्रमात्||६२|| तेन तौ म्लानमुदितौ तत्र जातो न जीवति| शिशुरोजोनवस्थानान्नारी संशयिता भवेत्||६३||

🔊 Audio coming soon

ओजः-सर्वधातूनां तेजः कर्तृ, मातापुत्रौ कर्मभूतौ, सञ्चरति| माता च पुत्रश्चेति द्वन्द्वः| "आनङृतो द्वन्द्वे" इत्यानङादेशः| कथं सञ्चरति ? मुहुर्मुहुः| क्रमात्-क्रमेण, कदाचिद्गर्भिणीमोजः सञ्चरति कदाचित्पुत्रमिति| एवं [ तेन-] कदाचित्केनौजःसञ्चरणेन, तौ-मातापुत्रौ, म्लानमुदितौस्याताम्| तया पूर्वनिरूपितया गर्भगर्भिण्युभयसम्बद्धया नाड्योभयत्र सञ्चरत्तदोज उभयसम्बद्धं यदा गर्भं सञ्चरति तदा गर्भो मुदितो-हृषितो, भवेदोजःसम्पत्त्या, गर्भिणी च म्लाना भवेत्| यदा च तदोजो गर्भिणीं सञ्चरति तदा तयैवोजः सम्पत्त्या गर्भिणी मुदिता भवेत्, शिशुर्म्लानो भवेदोजः सम्पत्त्यभावात्| [ तत्र-] तस्मिन् काले, शिशुः-बालो, जातः-उत्पन्नो, न जीवति| कुतः ? ओजोनवस्थानात्| ओजसस्तदानीं शिशावनवस्थितत्वात्,-अचिरकालप्ररूढत्वादोजसः| गर्भिण्यां तु न सर्वमचिरकालमनवस्थितमोजः, यथा गर्भे| तस्मान्न तस्या निरोजस्त्वम्| अत एवाह-नारीसंशयिता भवेत्,-कदाचिज्जीवति कदाचिन्न जीवतीति संशयितार्थः|

Adhikarana aShTame mAsi kShIrapeyAdi sevanam (64-65) · Śloka 65

क्षीरपेया च पेयाऽत्र सघृताऽन्वासनं घृतम्| मधुरैः साधितं शुद्ध्यै पुराणशकृतस्तथा||६४|| शुष्कमूलककोलाम्लकषायेण प्रशस्यते| शताह्वाकल्कितो बस्तिः सतैलघृतसैन्धवः||६५||

🔊 Audio coming soon

अत्र-अष्टमे मासि, क्षीरसंस्कृता पेया पातव्या| किम्भूता? सघृता| तथा, अन्वासनं घृतं शस्यते| कीदृक्? मधुरैः-द्राक्षादिभिः, साधितं-पक्वम्| तथा-तेनैव प्रकारेण, पुराणशकृतः शुद्ध्यर्थं, बस्तिः-निरूहः , प्रशस्यते-युज्यते| तत्र च बस्तौ कः कषायः ? कः कल्कः? इत्याह-शुष्कमूलकेति| शुष्कमूलकादीनां कषायेण, तथा शताह्वाकल्कितः, तथा सह तैलेन घृतेन सैन्धवेन च|

Adhikarana prasUtikAlaH (66) · Śloka 66

तस्मिंस्त्वेकाहयातेऽपि कालः सूतेरतः परम्| |६६|

🔊 Audio coming soon

एकं च तदहश्चैकाहम्| "राजाहःसखिभ्यष्टच्" इति टच्| "अह्नष्टखोरेव" इति टिलोपः| एकाहेन यातोऽतिक्रान्तोऽन्तरितोऽष्टमो मासः-एकाहयातः, [ तस्मिन्| ] तस्मिन्-अष्टमेमासि, पुनरेकदिवसातिक्रान्तेऽप्यतः परं सूतेः-प्रसवस्य, कालो यावद्वर्षम्| अपिशब्दाद्याते त्वष्टमे मास्यतः परं सूतेः काल इति गम्यते| अष्टमान्मासादनन्तरं नवमदशमैकादशद्वादशमासान् यावत्| एषु मासेषु गर्भो जातो दीर्घायुष्ट्वादियुक्तो जीवति|

Adhikarana dvAdaSamAsAdUrdhvaM garBo vikArakari (66) · Śloka 66

| वर्षाद्विकारकारी स्यात्कुक्षौ वातेन धारितः||६६||

🔊 Audio coming soon

वर्षादित्यानन्तर्ये पञ्चमी| वर्षात्-द्वादशमासादनन्तरं, गर्भः कुक्षौ वातेन धारितो-रुद्धनिष्क्रमणो, विकारकारी भवेत् विकारमवश्यं करोति| गर्भस्य सन्निवेशोऽपि सङ्ग्रहे प्रोक्तः, यथा (शा. अ. २)-"गर्भस्तु मातृपृष्ठाभिमुखो ललाटे कृताञ्जलिः सङ्कुचिताङ्गो गर्भकोष्ठे दक्षिणम् पार्श्वमाश्रित्यावतिष्ठते पुमान्, वामं स्त्री, मध्यं नपुंसकम्| तत्र स्थितश्च गर्भो मातरि स्वपत्यां स्वपिति प्रतिबुद्धायां प्रतिबुध्यते|" इति|

Adhikarana navame snigdhaudanAdeH Sastatvam (67) · Śloka 67

शस्तश्च नवमे मासि स्निग्धो मांसरसौदनः| बहुस्नेहा यवागूर्वा पूर्वोक्तं चानुवासनम्||६७||

🔊 Audio coming soon

नवमे मासि स्निग्धो मांसरसयुक्त ओदनः शस्तो-हितः| अथवा, पेया बहुस्नेहा शस्तेति लिङ्गविपरिणामेन सम्बन्धः| पूर्वोक्तमनुवासनं-"घृतं मधुरैः साधितं" इत्यादि, तच्च शस्तम्|

Adhikarana tadA yonau vAtavijayArthaM picusthApanAdi (68) · Śloka 68

तत एव पिचुं चास्या योनौ नित्यं निधापयेत्| वातघ्नपत्रभङ्गाम्भः शीतं स्नानेऽन्वहं हितम्||६८||

🔊 Audio coming soon

तत एव-अन्वासनघृतात्, पिचुं-नक्तकं, अस्याः-गर्भिण्याः, योनौ नित्यं-सदा, निधापयेत्-तत्र स्थापयेत्, वातविजयार्थम्| पवनेनानाक्रान्तयोनिर्हि सुखं गर्भं सूते| तथा, वातघ्नानां द्रव्याणां पत्राणि, तेषां भङ्गः-समूहः, तेन क्वथितमम्भः शीतं कृत्वा स्नानेऽन्वहं-अहरहः, गर्भिण्यै हितम्| अन्वहमित्यनश्चेति टच्|

Adhikarana garBaprasavaparyantaM garBiNyAH sasnehA~ggatvaM (69) · Śloka 69

निःस्नेहाङ्गी न नवमान्मासात्प्रभृति वासयेत्| |६९|

🔊 Audio coming soon

निःस्नेहगात्रां गर्भिणीं न वासयेत्, अपि तु सस्नेहाङ्गीं स्थापयेत्| निःशेषेण निरस्तः स्नेहो यस्मादङ्गात्तदेवं निःस्नेहमङ्गं यस्याः सा निःस्नेहाङ्गी, ताम्| अङ्गगात्रकण्ठेभ्यो वक्तव्यमितिङीप्| कुतः कालादारभ्य ? नवमान्मासात्प्रभृति| यद्यपि कालोऽत्र न निर्दिष्टः, तथाऽपि नवमान्मासादारभ्य सामर्थ्याद्यावन्मुक्तगर्भशल्या स्यात्, तावन्निःस्नेहाङ्गीं गर्भिणीं न स्थापयेदिति लभ्यते| सस्नेहाङ्गधारणं च तस्याः कुपितवायोर्नित्यं सन्निहितत्वात्|

Adhikarana putrAdyanumApakAni (69-71) · Śloka 71

इदानीं गर्भिण्या यैर्लक्षणैरव्यभिचारिभिः पुत्रदुहितृनपुंसकयमकप्रसवोऽनुमीयते, तान्याह | प्राग्दक्षिणस्तनस्तन्या पूर्वं तत्पार्श्वचेष्टिनी||६९|| पुन्नामदौर्हृदप्रश्नरता पुंस्वप्नदर्शिनी| उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले||७०|| पुत्रं सूतेऽन्यथा कन्यां या चेच्छति नृसङ्गतिम्| नृत्यवादित्रगान्धर्वगन्धमाल्यप्रिया च या||७१||

🔊 Audio coming soon

प्राक्-पूर्वं, दक्षिणे स्तने स्तन्यं-क्षीरं, यस्याः प्रादुर्भवति सा पुत्रं सूत इति सम्बन्धः| तथा, पूर्वं तत्पार्श्वचेष्टिनी| तच्चब्देन दक्षिणपार्श्वं परामृश्यते| तेन-दक्षिणेन पार्श्वेन, चेष्टितं-गमनस्वपनादिकं, यस्याः सा-तत्पार्श्वचेष्टिनी, पुत्रं सूत इति सर्वत्र योज्यम्| तथा गच्छन्त्याः पूर्वं दक्षिणपादोत्क्षेपः, हस्तकरणीये च पूर्वं दक्षिणेन पाणिना चेष्टते, इति तत्पार्श्वचेष्टा बोध्या`| पुन्नामेत्यादि| पुंलिङ्गोपलक्षितं नाम-पुन्नाम, दौर्हृदं च प्रश्नश्च दौर्हृदप्रश्नौ| पुन्नाम्नोर्दौर्हृदप्रश्नयो रताभियुक्ता, पुन्नाम्नि दौर्हृदे रता| दौर्हृदकाले योऽभिलाषविशेषो गर्भिण्याः स दौर्हृदशब्दवाच्यः| तथा, पुन्नाम्नि प्रश्नेऽभिरता-पुनः पुनः पुन्नामप्रश्नं करोति| तथा, पुन्नामधेयान् स्वप्नान्-पुरुषगजवाजिवराहादीन् आम्रदाडिमाशोकवृक्षादीन् वा, द्रष्टुं शीलं यस्याः सैवम्| तथा, उन्नते दक्षिणे गर्भकोष्ठाख्ये कुक्षौ| तथा, गर्भे-गर्भसंस्थाने, परिमण्डले-वर्तुले सति, पुत्रं सूते| अन्यथा-पुत्रप्रसवसूचकाद्धेतोर्वैपरीत्ये च, कान्यां सूते| यथा-प्राग्दक्षिणस्तनस्तन्येत्यादि पुत्रप्रसवसूचकं लक्षणम्, अतोऽन्यथा प्राग्वामस्तनस्तन्येत्यादि लक्षणं गर्भिण्याः कन्याप्रसवसूचकम्| न केवलं पुत्रप्रसवलक्षणाद्विपर्ययेण कन्यां सूते, यावत् या चेच्छति नृसङ्गतिम्| या च-गर्भिणी पुरुषेण सह सङ्गतिमिच्छति-कामयते, सा कन्यां सूते| तथा या च नृत्यादिप्रिया सा कन्यां सूते|

Adhikarana ShaNDaprasavalakShaNaM (72) · Śloka 72

इदानीम् षण्ढप्रसवलक्षणमाह क्लीबं तत्सङ्करे, तत्र मध्यं कुक्षेः समुन्नतम्| |७२|

🔊 Audio coming soon

तदित्यनेनात्र पुत्रप्रसूतिलक्षणं दुहितृप्रसूतिलक्षणं च द्वयमपि परामृश्यते| द्वयस्यैतस्य लक्षणस्य सङ्करे-सङ्कीर्णलक्षण तायां, क्लीबं-नपुंसकं गर्भं, सूते| तत्र-तस्मिन् क्लीबे गर्भे कुक्षिस्थिते, कुक्षेर्मध्यं समुन्नतं भवति|

Adhikarana yamalagarBalakShaNam (72) · Śloka 72

| यमौ पार्श्वद्वयोन्नामात्कुक्षौ द्रोण्यामिव स्थिते||७२||

🔊 Audio coming soon

यमौ द्वौ गर्भौ, गर्भिणी सूते| कथमिति तल्लक्षणार्थमाह पार्श्वद्वयोन्नामात्,- पार्श्वद्वयोत्सेधात्| अत एव कुक्षौ-उदरे, द्रोण्यामिव स्थिते| द्रोणी-मध्यनिम्ना, कुक्षिरपि पार्श्वद्वयोन्नत्या मध्यनिम्ना भवति|

Adhikarana navamAsAtprAk sUtikAgRuhASrayo garBiNyAH (73) · Śloka 73

प्राक् चैव नवमान्मासात् सा सूतिगृहमाश्रयेत्| देशे प्रशस्ते सम्भारैः सम्पन्नं साधकेऽहनि||७३||

🔊 Audio coming soon

सा-गर्भिणी, सूतिगृहं-सूतिकागारं, नवमान्मासात्पूर्वमेवाश्रयेत्| कुत्र देशे कृतम् ? इत्याह-देशे प्रशस्ते,-प्राक्प्रवण उदक्प्रवणे वा, वास्तुविद्याविद्भिः परीक्ष्य कल्पितम्| कीदृशम् ? सम्भारैः सम्पन्नं,-सकलैरुपकरणैर्युक्तम्| तथा, साधकेऽहनिशुभपुंनक्षत्रे दिवसे सति|

Adhikarana tadgRuhe sUtyudIkShaNam (74) · Śloka 74

तत्रोदीक्षेत सा सूतिं सूतिकापरिवारिता| |७४|

🔊 Audio coming soon

तत्र-सूतिकागृहे, स्थिता सूतिमुदीक्षेत,-अहमत्र प्रसविष्य इति चेतसि निधाय सा-गर्भिणी, तत्रासीतेत्यर्थः| किम्भूता ? सूतिकापरिवारिता,-अनेकवारप्रसवानुभूततत्कालोचितव्यवहारकुशलाभिः स्त्रीभिः परिवारिता| सङ्ग्रहे तूक्तम् (शा. अ. ३) "बहुशः प्रसूताभिरनुरक्ताभिरविषादिनीभिरविसंवादिनीभिःक्लेशसहाभिः परिवृता स्वस्त्ययनपराऽनुलोमनैराहारविहारैरनुलोमितवातमूत्रपुरीषा प्रसवकालमुदीक्षेत| स्वल्पेऽपि च विण्मूत्रविबन्धे फलवर्तीः प्रयोजयेत्|" इति|

Adhikarana AsannaprasavAyAlakShaNam (74-76) · Śloka 76

इदानीमासन्नप्रसवाया लक्षणमाह | अद्यश्वःप्रसवे ग्लानिः कुक्ष्यक्षिश्लथता क्लमः||७४|| अधोगुरुत्वमरुचिः प्रसेको बहुमूत्रता| वेदनोरूदरकटीपृष्ठहृद्वस्तिवङ्क्षणे||७५|| योनिभेदरुजातोदस्फुरणस्रवणानि च| आवीनामनु जन्मातस्ततो गर्भोदकस्त्रुतिः||७६||

🔊 Audio coming soon

अद्य वा श्वो वा आसन्नः प्रसवः, तस्मिन् आसन्न (अद्यश्वः)-प्रसवे ग्लान्यादयो भवेयुः, गर्भिण्या इति सम्बन्धः| ग्लानिः-हर्षक्षयः| तथा, कुक्षी चाक्षिणी च कुक्ष्यक्षि, तस्य श्लथता शिथिलत्वं, स्वस्थानाच्चलितत्वमिव| तथा, क्लमः-उपतापः| तथा, अधोगुरुत्वादीनि भवन्ति| तथा,ऊर्वादिषु वेदनापीडा भवति| तथा, योनिभेदादयः स्युः| अतः-अस्माद्योनिभेदादेः, अनु-पश्चात्, आवीनां-गर्भनिष्क्रमणकालशूलविशेषाणां, जन्म-उत्पादः| ततः-अनन्तरं, गर्भोदकस्त्रुतिः-तत्कालं योनितो जलस्त्रावः, स्त्रावमात्रः स गर्भोदकसंज्ञः|

Adhikarana garbhasruteranantaraM saghRutapeyA pAnam (77-78) · Śloka 78

अथोपस्थितगर्भां तां कृतकौतुकमङ्गलाम्| हस्तस्थपुन्नामफलां स्वभ्यक्तोष्णाम्बुसेचिताम्||७७|| पाययेत्सघृतां पेयां| |७८|

🔊 Audio coming soon

अथ-गर्भोदकस्त्रुतेरनन्तरं, तां-गर्भिणीं, उपस्थितगर्भांअभिमुखीभूतगर्भामाविजन्मोदकस्रावादिना ज्ञात्वा, सघृतां पेयां पाययेत्| किम्भूताम् ? कृतकौतुकमङ्गलाम्| विशिष्टकाल एव यो रक्षाबन्धो बाह्वादौ बध्यते स कौतुकवाच्यः| कौतुकाख्यं मङ्गलं कौतुकमङ्गलम्| कृतं कौतुकमङ्गलं यस्याः, ताम्| तथा, हस्तस्थं पुन्नाम-दाडिमादि, फलं यस्याः, ताम्| तथा, सुष्ठु अक्तां-अभ्यक्ताम्| तथा, उष्णाम्बुसेचिताम्| इत्यस्यानन्तरं "पाययेत्पेयां" इति पाठेनोष्णाम्बुसेचनादनन्तरं पेयापानं कार्यमिति बोधयति

Adhikarana BUSayane sthitAyA mardanAdi (78-79) · Śloka 79

तनौ भूशयने स्थिताम्| आभुग्नसक्थिमुत्तानामभ्यक्ताङ्गीं पुनः पुनः||७८|| अधो नाभेर्विमृद्नीयात्कारयेज्जृम्भचङ्क्रमम्| |७९|

🔊 Audio coming soon

तनौ-मृदुनि, भूशयने स्थितां मृद्नीयात्,-न खट्वादिशयने स्थिताम्| तथा चोक्तं सङ्ग्रहे (शा. अ. ३)- "सुरक्तार्षभचर्मप्रच्छदे मृदुनि भूशयने शयानां" इत्यादि| कुतोऽङ्गात्प्रभृति विशेषेण मृद्नीयात् ? नाभेरधः,-नोर्ध्वं नाभेः| किम्भूतां ताम् ? आभुग्नसक्थिम्, आसमन्ताद्भुग्ने-कुटिले, सक्थ्नी यस्याः साऽऽभुग्नसक्थः, तां तथाविधां मृद्नीयात्| तथा, पुनःपुनरभ्यक्ताङ्गीं वातकोपभयात्| तथा, जृम्भो चङ्क्रमं च तां कारयेत्| जृम्भो- जृम्भणम्| चङ्क्रमः-चङ्क्रमणं द्रुतगमनम्|

Adhikarana evamanuShThite Palam (79-80) · Śloka 80

किमेवमनुष्ठिते सति भवति ? इत्याह | गर्भः प्रयात्यवागेवं, तल्लिङ्गं हृद्विमोक्षतः||७९|| आविश्य जठरं गर्भो बस्तेरुपरि तिष्ठति| |८०|

🔊 Audio coming soon

एवं-अनयेतिकर्तव्यतयाऽनुष्ठितया, गर्भोऽवाक् प्रयातिऊर्ध्वादधो गच्छति, हृत्स्थानं परित्यज्याधोऽवस्थितिं करोतीत्यर्थः| सङ्ग्रहे तूक्तम् (शा. अ. ३)- "दद्यात् कुष्ठलाङ्गलिकीवचाचव्यचित्रकचिरिबिल्वचूर्णमुपाघ्रातुं मुहुर्मुहुः| तथा भूर्जपत्रशिंशिपासर्जरसानामन्यतमधूममन्तरान्तरा च| पार्श्वपृष्ठकटीसक्थिदेशान् कोष्णेन तैलेनाभ्यज्यानुसुखमस्या विमृद्गीयात्| एवमवाक् परिवर्तते गर्भः|" इति| मुसलेनोलूखलं धान्यपूर्णमाहननीयं गर्भस्यावाक्स्थितय इति केचिदाहुः| तदयुक्तम्| यतो गर्भिण्यास्तावह्यायामवर्जनं सततमुपदिष्टम्| विशेषतश्च प्रसवकाले प्रचलितसर्वधातुदोषायाः सुकुमारायानार्याः, मुसलव्यायामप्रेरितो हि वायुः प्राणान् हिंस्यादिति| विमर्दनादिक्रियां च गर्भिण्यास्तावत्कारयेत् यावद्गर्भनिष्क्रमणं न भवति| अथ मातृहृदयान्मुक्तो गर्भः केन लक्षणेन ज्ञायते ? इत्याह-तल्लिङ्गमित्यादि| तदित्यनेन गर्भः परामृश्यते| तस्य गर्भस्य, लिङ्गं-लक्षणं, तल्लिङ्गम्| गर्भस्यैतल्लिङ्गं यद्धृद्विमोक्षतो हृदयमोचनादनन्तरं स गर्भो जठरमाविश्य बस्तेरुपरि तिष्ठति|

Adhikarana garBiNyAH KaTvAropAdi (80) · Śloka 80

आव्योऽभित्वरयन्त्येनां खट्वामारोपयेत्ततः| ||८०||

🔊 Audio coming soon

आव्यः-प्रसवकालशूलविशेषाः, यस्मादेनां-गर्भिणीं, अभित्वरयन्ति, अनवरतमुत्पद्यमानत्वात्| ततःतस्मात्, एनां गर्भिणीं, खट्वामारोपयेत्-आरोहयेत्|

Adhikarana aBya~ggAdinA yonivikAsanam (81) · Śloka 81

अथ सम्पीडिते गर्भे योनिमस्याः प्रसारयेत्| मृदु पूर्वं प्रवाहेत बाढमाप्रसवाच्च सा||८१||

🔊 Audio coming soon

अथ-खट्वारोहणादनन्तरं खट्वास्थिताया गर्भे सम्पीडिते समन्तात्पीडिते, वायुना योनिमुखाक्रान्ततया, अस्या गर्भिण्या योनिं प्रसारयेत्-आभ्यङ्गादिदानेन विकासयेत्| ततः सा-गर्भिणी, गर्भं मृदु कृत्वा पूर्वं प्रवाहेत, यावद्योनिमुखे नागतो गर्भः| गर्भं योनिद्वारमागतं तु ज्ञात्वा बाढंभृशं प्रवाहेत, आप्रसवात्-प्रसवं यावत्| तथा चोक्तं सङ्ग्रहे (शा. अ. ३)- "शनैः शनैश्च पूर्वं प्रवाहिष्ठाः, निर्गमे बाढं गर्भस्य योनिमुखप्रतिपत्तौ बाढतरमाप्रसवादिति|" इति| आङ्मर्यादा वचन इत्याडः कर्मप्रवचनीयत्वे पञ्चम्यपाङ्परिभिरिति पञ्चमी|

Adhikarana tasyA harShotpAdanam (82) · Śloka 82

हर्षयेत्तां मुहुः पुत्रजन्मशब्दजलानिलैः| |८२|

🔊 Audio coming soon

तां-गर्भिणीं, अनन्तरं [मुहुः] हर्षयेत्-सुमनसं मुहुः कारयेत्| केन? पुत्रजन्मशब्देन,-प्रसूता प्रसूताऽसि सुभगे धन्यं पुत्रमित्येवंरूपेणासकृत् स्त्रीभिरुच्चारितेन, तथा जलेन शीतलेन, तथाऽनिलेन| सङ्ग्रहेऽप्युक्तम् (शा. अ. ३)- "एनां ब्रूयाच्च सुभगे शनैः शनैः प्रवाहयस्व शोभनस्ते मुखवर्णः पुत्रं जनयिष्यसीति| तथाऽन्या तु वामकर्णेऽस्या मन्त्रमिमं जपेत्| 'क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजापतिः| सगर्भां त्वां सदा पातु वैशल्यं चादधात्विति|| प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने| कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितम्||' इति| तथा, 'इहामृतं च सोमश्च चित्रभानुश्च भामिनि| उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते|| इदममृतमपां समुद्धृतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि| तदनलपवनार्कवासवास्ते सह लवणाम्बुधरौर्दिशन्तु शान्तिम्||' इति| अथापरा स्त्री गर्भिणीमनुशिष्यात्| अनागतायां वेदनायां मा प्रवाहिष्ठाः| अकालप्रवाहणं हि विण्मूत्रादिवेगानामिवोदीरणमनर्थकरमहितं च| गर्भस्य श्वासकासशोफकुब्जतादिकरत्वात्|' इति|

Adhikarana harShAdyutpAdane Palam (82) · Śloka 82

अथ किं हर्षाद्युत्पादनेन स्यात् ? इत्याह | प्रत्यायान्ति तथा प्राणाः सूतिक्लेशावसादिताः||८२||

🔊 Audio coming soon

तथा-तेन प्रकारेण हर्षादिजननेन, प्राणाः सूतेः क्लेशाः-आधयः, तत्कृतानि दुःखानि, तैरवसादिताः-ग्लानिं नीताः, गर्भिण्याः प्रत्यायान्ति-पुनर्नवीभवन्ति|

Adhikarana garBasya sa~gge kRuShNasarpanirmokena dhUpanAdi (83-87) · Śloka 87

धूपयेद्गर्भसङ्गे तु योनिं कृष्णाहिकञ्चुकैः| हिरण्यपुष्पीमूलं च पाणिपादेन धारयेत्||८३|| सुवर्चलां विशल्यां वा जराय्वपतनेऽपि च| कार्यमेतत्तथोत्क्षिप्य बाह्वोरेनां विकम्पयेत्||८४|| कटीमाकोटयेत्पार्ष्ण्या स्फिजौ गाढं निपीडयेत्| तालुकण्ठं स्पृशेद्वेण्या मूर्ध्नि दद्यात्स्नुहीपयः||८५|| भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः| पृथग्द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम्||८६|| कुष्ठतालीसकल्कं वा सुरामण्डेन पाययेत्| यूषेण वा कुलत्थानां बाल्वजेनासवेन वा||८७||

🔊 Audio coming soon

गर्भस्य सङ्गे-सक्तौ, योनिं कृष्णसर्पनिर्मोकेन धूपयेत्-धूपनं योनौ कुर्यात्| धूपयेदिति "गुपूधूप" इत्यादिना आयप्रत्ययः, ततो विधौ लिङ्| तथा, हिरण्यपुष्पीमूलं पाणिना पादेन च सा गर्भिणी धारयेत्| अथवा, सुवर्चलां विशल्यां वा धारयेत्| एतत्-गर्भसङ्गोक्तं, जरायोः-अपराख्यस्य, अपतने-अनिष्क्रान्तौ, कार्यं-विधातव्यम्| न केवलं गर्भसङ्गोक्तं कार्यं यावदेनां-अपतितजरायुं, बाह्वोर्द्वयोरुत्क्षिप्य विकम्पयेत्-विधुनीत| सङ्ग्रहे तूक्तम् (शा. अ. ३)- "न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवदुत्पीड्यान्येन पृष्ठत उपसङ्गृह्य विधुनुयात्|" इति| तथा, पार्ष्ण्या कटीमाकोटयेदिति पुनः पुनः कट्यां पार्ष्णिघातं कुर्यादित्यर्थः| तथा, स्फिजौ युतौ सुष्ठु निपीडयेत्| तथा, वेण्या-केशरचनाविशेषाख्यया, तालुकण्ठं स्पृशेत्| सङ्ग्रहेऽप्युक्तम् (शा. अ. ३)- "वेण्याऽङ्गुल्या वा केशवेष्टितया वा तालुकण्ठं परामृशेत्|" इति| तथा, मूर्ध्नि-मस्तके, स्नुहीपयः-सुधादुग्धं दद्यात्| तथा भूर्जादिभिर्द्रव्यैः पृथक्-प्रत्येकं, अथवा द्वाभ्यां कृत्वा, समस्तैर्वा, योन्या लेपनं धूपनं च कार्यमिति शेषः| कुष्ठतालीसपत्रयोः कल्कं वा सुरामण्डेन-सुराभागेनोपरिस्थितेन, तां पाययेत्| अथवा, कुलत्थानां यूषेण-क्वाथेन, पाययेत्| बाल्वजेनासवेन वा| बल्वजं वारिणा आसुत्य रात्रौ धारितं तच्छीतकषायो बाल्वज आसव उच्यते| सङ्ग्रहेऽप्युक्तम् (शा. अ. ३)- "भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत्| भूर्जगुग्गुलुभ्यां वा| शालिमूलसिद्धेन वा सर्पिषा योनिमभ्यज्य कटुकालाबुजालिनीनिम्बसर्पनिर्मोकैर्धूपयेत्| अनभ्यक्तां वा कटुतैलमिश्रैः कल्कीकृतैर्वा तैलाक्तैरालिम्पेत्| गुडनागरकल्केन वा| तदेव वा भक्षयेत्| लाङ्गलीमूलकल्केन वा पाणिपादमुदरं च लिम्पेत्|" इति| तथोक्तम् (सं. शा. अ. ३)-"कुष्ठैलाकल्कं वा सुरया पाययेत्| अर्कालर्ककषायं वा सुरोन्मिश्रम्| कुष्ठलाङ्गलिकीमूलकल्कं वा मद्यमूत्रान्यतरेण| [ वत्सकादिचूर्णं वा मद्येन| ] शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य च तैलस्य पिचुं ग्राहयेत्|" इति|

Adhikarana tato~anuvAsanam (88-90) · Śloka 90

शताह्वासर्षपाजाजीशिग्रुतीक्ष्णकचित्रकैः| सहिङ्गुकुष्ठमदनैर्मूत्रे क्षीरे च सार्षपम्||८८|| तैलं सिद्धं हितं पायौ योन्यां वाऽप्यनुवासनम्| शतपुष्पावचाकुष्ठकणासर्षकल्कितः||८९|| निरूहः पातयत्याशु सस्नेहलवणोऽपराम्| तत्सङ्गे ह्यनिलो हेतुः सा निर्यात्याशु तज्जयात्||९०||

🔊 Audio coming soon

शताह्वादिभिर्द्रव्यैः सार्षपं तैलं मूत्रे क्षीरे चोभयस्मिन् सिद्धं पक्वं, अनुवासनं हितम्| क्व? पायौ-गुदे| अथवा योन्यां गर्भनिष्क्रमणद्वारे| तथा, शताह्वादिभिर्द्रव्यैः कल्कितो निरूहोबस्तिकल्पोक्तौ यौगिकः, सह स्नेहेन लवणेन च वर्तमानः, आशु शीघ्रमेव, अपरां-जरायुसंज्ञां, पातयति| यस्मात्तत्सङ्गेऽनिलो हेतुः-वायुः, कारणम्| तज्जयात्-वातजयात्, सा-अपरा, निर्याति-कुक्षितो बहिर्निष्क्रामति| पवनविजये च बस्तिः प्रधानम्| तथा चोक्तम् (हृ. सू. अ. १९/१)-" वातोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते|" इत्यादि| सङ्ग्रहे तु गर्भिण्या आस्थापनेऽनुवासने च सन्निवेशविशेष उक्तः| यथा (शा. अ. ३)- "गर्भिणीं तु न्युब्जामास्थापयेदनुवासयेच्च| तथाऽस्या विवृतमार्गतया सम्यगौषधमनुप्रविशति|" इति|

Adhikarana kuSalayoShitA tasyAharaNam (91) · Śloka 91

कुशला पाणिनाऽक्तेन हरेत्क्लृप्तनख़ेन वा| |९१|

🔊 Audio coming soon

अथवा कुशला-तद्व्यापारनिपुणा योषित्, पाणिना सर्पिषाऽभ्यक्तेन तां हरेत्| किम्भूतेन पाणिना ? क्लृप्तनखेन, क्लृप्ताः-कल्पिताः शस्त्रेण, नखा यस्य तेन, तथाविधेन पाणिना नालानुसारत आकर्षेत्| सङ्ग्रहेऽप्युक्तम् (शा. अ. ३)- "[ उमा ] शाल्मलीपिच्छया वा सघृतया योनिं पूरयित्वा विधुनुयात्|" इति|

Adhikarana tailena mardanAdi (91) · Śloka 91

| मुक्तगर्भापरां योनिं तैलेनाङ्गं च मर्दयेत्||९१||

🔊 Audio coming soon

गर्भश्चापारा च गर्भापरम्, मुक्तं गर्भापरं यया योन्या, तां योनिं तैलेन मर्दयेत्| अङ्गं-शरीरं च, मर्दयेत्|

Adhikarana makkalAKye roge yavakShArapAnAdi (92-93) · Śloka 93

मक्कल्लाख्ये शिरोबस्तिकोष्ठशूले तु पाययेत्| सुचूर्णितं यवक्षारं घृतेनोष्णजलेन वा||९२|| धान्याम्बु वा गुडव्योषत्रिजातकरजोन्वितम्| |९३|

🔊 Audio coming soon

मक्कल्लाख्ये रोग उत्पन्ने शिरोबस्तिकोष्ठशूललक्षणे सति यवक्षारं सूक्ष्मचूर्णितं घृतेनाथवोष्णजलेन तां सूतां पाययेत्| धान्याम्बु वा तां पाययेत्| किम्भूतम् ? गुडव्योषत्रिजातकरजोन्वितम्| गुड इति सामान्योक्तावपि पुराणोऽत्र गुडो ग्राह्यः, पथ्यत्वात्| मक्कल्लाख्यो-रोगः| शिरोबस्तिकोष्ठशूल इति लाघवेन तन्त्रकृताऽस्य लक्षणमुक्तम्|

Adhikarana bAlasyopacAraH (93) · Śloka 93

| अथ बालोपचारेण बालं योषिदुपाचरेत्||९३||

🔊 Audio coming soon

अथ बालं-जातमात्रमेव, उपाचरेत्-उपपादयेत्| का ? योषित्,-बहुकृत्वः प्रसूता, न पुमान्| केन ? बालोपचारेण, बालोपचरणीयोक्तेनाहारविहारादिना|

Adhikarana buBukShitAyA tailamAtrAdi pAnam (94-95) · Śloka 95

सूतिका क्षुद्वती तैलाद्धृताद्वा महतीं पिबेत्| पञ्चकोलकिनीं मात्रामनु चोष्णं गुडोदकम्||९४|| वातघ्नौषधतोयं वा, तथा वायुर्न कुप्यति| विशुध्यति च दुष्टास्रं द्वित्रिरात्रमयं क्रमः||९५||

🔊 Audio coming soon

सूतिका क्षुद्वती-बुभुक्षिता सती, तैलादथवा घृतान्महतीं मात्रां पिबेत्| किम्भूताम् ? पञ्चकोलकं विद्यते यस्या मात्रायास्तां पञ्चकोलकिनीम्| सूक्ष्मचूर्णीकृतपञ्चकोलकयुक्तां तां मात्रां पिबेदित्यर्थः| अष्टाभिर्यामैर्या जरां गच्छति सा स्नेह मात्रा महती| अनु चोष्णं गुडोदकं पिबेदिति योज्यम्| वातहरद्रव्यक्वाथं वा पश्चात्पिबेत्| तथा-एवं कृते सति, वार्युन कुप्यति-न कोपं याति शून्यं कोष्ठं प्राप्य| दुष्टं रक्तं च विशुध्यति| अयं-एषः, क्रमो द्विरात्रं त्रिरात्रं वा यथायोगं कार्यः|

Adhikarana snehAyogyAyAH snehaMvinA pUrvavidhiH (96) · Śloka 96

स्नेहायोग्या तु निःस्नेहममुमेव विधिं भजेत्| पीतवत्याश्च जठरं यमकाक्तं विवेष्टयेत्||९६||

🔊 Audio coming soon

स्नेहपानायोग्या तु स्त्री-या स्नेहं नार्हति सा, निःस्नेहं-स्नेहं विना, अमुमेव-पूर्वोक्तं विधिं, भजेत्| पीतवत्याश्च तस्या जठरं यमकाक्तं-तैलघृताभ्यामभ्यक्तं, विवेष्टयेद्वाससेति शेषः| पीतवत्या इत्यविशेषनिर्देशः कदाचित् स्नेहयोग्या स्नेहं पीतवती, स्नेहायोग्या तूष्णं गुडोदकं पीतवती, अथवा वातघ्नौषधतोयं पीतवती, इति सामान्येन यो निर्देशस्तस्यार्थः|

Adhikarana snAtAyAH peyApAnam (97-99) · Śloka 99

जीर्णे स्नाता पिबेत्पेयां पूर्वोक्तौषधसाधिताम्| त्र्यहादूर्ध्वं विदार्यादिवर्गक्वाथेन साधिता||९७|| हिता यवागूः स्नेहाढ्या सात्म्यतः पयसाऽथवा| सप्तरात्रात्परं चास्यै क्रमशो बृंहणं हितम्||९८|| द्वादशाहेऽनतिक्रान्ते पिशितं नोपयोजयेत्| |९९|

🔊 Audio coming soon

स्नेहे जीर्णे कवोष्णगुडोदके वातघ्नौषधतोये वा, अनन्तरं स्नाता सती पूर्वोक्तौषसाधितां-पञ्चकोलकृतां, पेयां पिबेत्| त्र्यहादूर्ध्वं-अनन्तरं, विदार्यादिवर्गोक्तौषधैः सिद्धा यवागूः- पेया,स्नेहाढ्या हिता| अथवा सात्म्यतः-सात्म्यवशात्, पयसा-क्षीरेण साधिता, यवागूर्हिता| सप्तरात्रात्परं-अनन्तरं, क्रमशो-न सहसा, तस्यै बृंहणं हितम्| बृंहणं च जीवनीयबृंहणीयमधुरवर्गसिद्धैरभ्यङ्गोद्वर्तनपरिषेकावगाहनैर्हृद्यैश्चान्नपानैर्विधातव्यम्| द्वादशाहेऽनतिक्रान्ते-अपरिसमाप्ते, पिशितं-मासं, नोपयोजयेत्-नाभ्यवहारयेत्, स्कन्दादिद्वादशग्रहाभिषङ्गपरिहारार्थम्| मांसभोजनेन हि कदाचित्तैरभिषङ्गो भवेत्, तेषां मांसादत्वात्|

Adhikarana sUtAyAH yatnenopacAraH (99-100) · Śloka 100

| यत्नेनोपचरेत्सूतां दुःसाध्यो हि तदामयः||९९|| गर्भवृद्धिप्रसवरुक्क्लेदास्रस्रुतिपीडनैः| |१००|

🔊 Audio coming soon

सूतां स्त्रीं यत्नेन-तात्पर्येण, उपचरेत्-उपक्रमेत्| कुतो हेतोः ? इत्याह-हि-यस्मात्, तस्या आमयो-रोगो दुःसाध्यः-कृच्छ्रेणोपक्रम्यः| किमिति कृच्छ्रसाध्यः ? इत्याह-गर्भेत्यादि| वृद्धिश्च प्रसवश्च वृद्धिप्रसवौ, गर्भस्य वृद्धिप्रसवौ च रुक् च क्लेदास्रस्रुतिश्च पीडनं च गर्भवृद्धिप्रसवरुक्क्लेदास्रस्रुतिपीडनानि, तैर्हेतुभूतैस्तदामयो दुःसाध्यः| रुक्-प्रवाहवेदना|

Adhikarana evaM sArdhamAsavidhiH (1) · Śloka 1

| एवं च मासादध्यर्धान्मुक्ताहारादियन्त्रणा||१००|| गतसूताभिधाना स्यात्पुनरार्तवदर्शनात्| १०० १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थाने गर्भावक्रान्तिर्नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

एवं-अनेन प्रकारेण, सार्धं मासमुपस्कृता क्रमेण मुक्ताहारविहारयन्त्रणा स्यात्| अध्यर्धमासात्परेण गतसूताभिधानाव्यपेतप्रसूतिव्यपदेशा, पुनरार्तवदर्शनाद्भवेत्| सङ्ग्रहे तूक्तम् (शा. अ. २)- "जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते| वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति||" इति| इतिश्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां द्वितीये शारीरस्थाने गर्भा- वक्रान्तिर्नाम प्रथमोऽध्यायः समाप्तः|| १||