Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. garbhavyāpadvidhiradhyāyaḥ

Adhikarana garBavyApadvidhiradhyAyaH (2) · Śloka 2

गर्भावक्रान्तिशारीरादनन्तरं गर्भव्यापदं शारीरमारभ्यते| गर्भस्य व्यापत्प्रतीकारविज्ञानार्थमाह अथातो गर्भव्यापदं शारीरं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे|२|

🔊 Audio coming soon

गर्भस्य व्यापत् गर्भव्यापत्, सा विद्यते यस्मिन्निति धः, तस्य "अध्यायानुवाकयोर्लुक्" इति लुक्| यद्यपि चात्र गर्भव्यापदश्चिकित्साऽप्युक्ता न केवलं व्यापत्, तथाऽपि बाहुल्यादिदमुक्तमिति वेद्यम्| अथादीनां पूर्ववद्व्याख्या|

Adhikarana garBiNyAH puShpe dRuShTe kartavyam (1-2) · Śloka 2

गर्भिण्याः परिहार्याणां सेवया रोगतोऽथ वा| पुष्पेदृष्टेऽथवा शूले बाह्यान्तः स्निग्धशीतलम्||१|| सेव्याम्भोजहिमक्षीरिवल्ककल्काज्यलेपितान्| धारयेद्योनिबस्तिभ्यामार्द्रार्द्रान् पिचुनक्तकान्||२||

🔊 Audio coming soon

गर्भिण्याः परिहार्याणां-आहारविहाराणां पूर्वोक्तानामतिव्यवायादीनां, सेवनेन पुष्पे दृष्टे, अथवा रोगतः पुष्पे दृष्टे, रोगस्य च स्वभावापथ्यसर्षपशाकमन्दकदध्यादेराहारान्मात्रादेशकालादिवशाद्वा सम्भवः, गर्भाख्यफलहेतुत्वाद्रक्तं पुष्पमुच्यते, तस्मिन् दृष्टे-चक्षुर्गोचरं प्राप्ते, अथवा शूले-दृष्टे-प्रश्नादिनोपलब्धे सति, दृशिरत्रोपलाब्धिवचनः, बाह्यान्तः स्निग्धशीतलं साधनं-अन्नपानप्रदेहपरिषेकादि, कार्यम्| बहिः-स्नानावगाहादौ, अन्तश्चभोजनानुपानादावित्यर्त्थः| रोगत इति तृतीयार्थे तसिः| तथा, स्त्री योनिबस्तिभ्यां पिचुनक्तकान् धारयेत्| किम्भूतान् ? सेव्यादिभिर्लेपितान्| सेव्यं-उशीरम्| अम्भोजं-पद्मम्| हिमं चन्दनम्| क्षीरं विद्यते येषां ते क्षीरिणो वृक्षाः-पिप्पलादयः, येषां शस्त्रादिच्छिन्नानां क्षीरं दृश्यते| वल्कं-वल्कलम्| सेव्यं चाम्भोजं च हिमं च क्षीरिवल्कं च, तेषां कल्कश्चाज्यं च , तैर्लेपितान्| तथा च किम्भूतान् ? आर्द्रार्द्रान्-अतिशयेनार्द्रीकृतान्| पिचुशब्देन विकेशिकासदृशः कार्पासमयः| नक्तकः-चैलखण्डः|

Adhikarana shatadhautaghRutAktastriyAH snAnAdi (3-6) · Śloka 6

शतधौतघृताक्तां स्त्रीं तदम्भस्यवगाहयेत्| ससिताक्षौद्रकुमुदकमलोत्पलकेसरम्||३|| लिह्यात् क्षीरघृतं खादेच्छृङ्गाटककसेरुकम्| पिबेत्कान्ताब्जशालूकबालोदुम्बरवत्पयः||४|| शृतेन शालिकाकोलीद्विबलामधुकेक्षुभिः| पयसा रक्तशाल्यन्नमद्यात्समधुशर्करम्||५|| रसैर्वा जाङ्गलैः| |६|

🔊 Audio coming soon

शतशब्दो बहुवारपर्यायः, न सङ्ख्यावाचीत्यर्थः| तथा च सङ्ग्रहेऽधीतम् (शा. अ. ४)- सहस्रधौतसर्पिषाऽधोनाभेः सर्वतः प्रदिह्यात्|" इति| शताधौतेन-बहुधा प्रक्षालितेन घृतेन, अक्तां-अभ्यक्तां, स्त्रीं तदम्भस्यवगाहयेत्-तत्र तां निमज्जनं कारयेत्| तदित्यनेन हि सेव्यादिद्रव्यपरामर्शः| स्त्रीमिति वाम्शसोरितीयङ्विकल्पात्पूर्वरूपम्| तथा क्षीरं घृतं च लिह्यात्| किम्भूतम् ? ससितेत्यादि| सह सितया तथा क्षौद्रेण तथा कुमुदकमलोत्पलानां केसरेण-किञ्जल्केन सहितम्| अन्ये तु क्षीराहृतं क्षीरोद्भवं घृतं क्षीरघृतमिति व्याचक्षते| तथा, खादेच्छृङ्गाटकं कसेरुकं च| तथा, पयः-क्षीरं, पिबेत्| किम्भूतम् ? कान्तेत्यादि| कान्ता-गन्धप्रियङ्गुः| अप्सु जातं-अब्जम्, कमलादि| शालूकं-उत्पलमूलम्| बालमुदुम्बरं-अपक्वमुदुम्बरफलम्| कान्ता चाब्जं च शालूकं च बलोदुम्बरं च तानि विद्यन्ते यस्य पयसस्तदेवम्, तैः शृतं क्षीरं पिबेदित्यर्थः| यैर्हि तत्पयः शृतं तानि तत्रावश्यं विद्यन्ते| क्षीरश्रपणविधिश्चातीसारचिकित्सोक्तः (हृ. चि. अ. ९/३९)- "पयस्युत्क्वाथ्य मुस्तानां विंशतिं" इत्याद्यनुसारेणात्र कल्प्यः| तन्त्रान्तरे त्वेवमुक्तम्-"द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः||" इति| अन्ये तु कान्तादिद्रव्याणां चूर्णेन युक्तं कल्केन वा युक्तं पयः पिबेदित्याहुः| पयसा रक्तशाल्यन्नं समधुशर्करं सुशीतं भुञ्जीत| किम्भूतेन क्षीरेण ? शाल्यादिभिः शृतेन-सिद्धेन| देशसात्म्याद्यनुरोधाज्जाङ्गलैर्वा रसैः शाल्यन्नमद्यात्|

Adhikarana SuddhivarjamasroktAcaraNam (6) · Śloka 6

शुद्धिवर्जं चास्रोक्तमाचरेत्| |६|

🔊 Audio coming soon

शुद्धिं वर्जयित्वा, अस्रोक्तं-रक्तपित्ताभिहितं, यत्साधनं तद्वाह्यान्तराचरेत्-सेवेत| अस्रशब्दस्योपलक्षणार्थत्वाद्रक्तपित्तं गम्यते|

Adhikarana asaMpUrNatrimAsAyAH puShpadarSane kartavyam (6-7) · Śloka 7

| असम्पूर्णत्रिमासायाः प्रत्याख़्याय प्रसाधयेत्||६|| आमान्वये च| |७|

🔊 Audio coming soon

असम्पूर्णास्त्रयो मासा यस्याः गर्भिण्याः सैवम्| तस्याः पुष्पदर्शने सति गर्भः प्रायो न तिष्ठति, असञ्जातसारत्वात्| तस्मात् प्रत्याख्याय-प्रत्याख्यानं कृत्वा, प्रसाधयेत्-प्रकर्षेण यत्नेन साधयेत्| आमान्वये च| अत्रापि प्रत्याख्याय प्रसाधयेदित्यनुवर्तते| आमानुगते रक्तदर्शने सम्पूर्णत्रिचतुरादिमासाया अपि सञ्जातसारेऽपि गर्भे सति विरुद्धोपक्रमत्वात् प्रत्याख्याय साधनं कारयेत्| तथा हि,-रूक्षतीक्ष्णोष्णकटुप्रायमामघ्नं गर्भिण्या विरुद्धम्, शीतस्निग्धप्रायं चामस्य|

Adhikarana AmaraktayoraviruddhasyopadeSaH (7-9) · Śloka 9

एवमप्यामरक्तयोर्द्वयोर्यदविरुद्धं तदुपदेष्टुमाह तत्रेष्टं शीतं रूक्षोपसंहितम्| उपवासो घनोशीरगुडूच्यरलुधान्यकाः||७|| दुरालभापर्पटकचन्दनातिविषाबलाः| क्वथिताः सलिले पानं तृणधान्यानि भोजनम्||८|| मुद्गादियूषैरामे तु जिते स्निग्धादि पूर्ववत्| |९|

🔊 Audio coming soon

तत्र-आमान्वये सामतायां सत्यां, शीतं यदन्नपानादि, तत्सर्वं बाह्यतोऽन्तश्च हितम्| शीतं रक्तस्य पथ्यं, आमस्य विरुद्धत्वादपथ्यं, इत्याशङ्क्याह-रूक्षोपसंहितम्,-रूक्षेण-तिक्तकषायादिना, युक्तम्| तथा, देशसत्वाद्यनुरोधादुपवासो हितः, न केवलं शीतं रूक्षोपसंहितम्| तथा ग़नादयो द्रव्यविशेषाः सलिले क्वथिताः पानं हितम्| ग़नो-मुस्तः| अरलुः-स्योनाकः| तथा, तृणधान्यानि-नीवारकोद्रवश्यामाकादीनि, भोजनं-आहारः, तत्र-आमान्वये, हितम्| कैः सह ? मुद्गादियूषैः| आदिग्रहणेन मकुष्टमसूरादयः शिम्बीधान्यविशेषाः पित्तश्लेष्महरा गृह्यन्ते| सामतायामेवोत्पन्नायामयमुपक्रमः| आमे तु जिते स्निग्धादि पूर्ववत्| पूर्वस्मिन्निव पूर्ववत्| सप्तम्यन्ताद्वतिः| यथा प्रथमं रक्तदर्शने स्निधशीतलादि हितं, तथाऽत्रापि पूर्वनिर्दिष्टं स्निग्धादि हितमित्यर्थः| स्निग्धशीतानि बाह्यान्तरुपयोज्यानि|

Adhikarana garBenipatite tIkShNamadyapAnAdi (9-12) · Śloka 12

| गर्भे निपतिते तीक्ष्णं मद्यं सामर्थ्यतः पिबेत्||९|| गर्भकोष्ठविशुद्द्यर्थमर्तिविस्मरणाय च| लग़ुना पञ्चमूलेन रूक्षां पेयां ततः पिबेत्||१०|| पेयाममद्यपा कल्के साधितां पाञ्चकौलिके| बिल्वादिपञ्चकक्वाथे तिलोद्दालकतण्डुलैः||११|| मासतुल्यदिनान्येवं पेयादिः पतिते क्रमः| लग़ुरस्नेहलवणो दीपनीययुतो हितः||१२||

🔊 Audio coming soon

गर्भिण्या एवमासेवमानाया अप्यदृष्टवशाद्गर्भे निपतिते-निःशेषेण पतिते सति, तिक्ष्णं-कर्कशं, मद्यं सामर्थ्येन पिबेत्,-बहु पिबेदित्यर्थः| किमर्थम् ? इत्याह-गर्भकोष्ठेत्यादि| गर्भकोष्ठविशुद्ध्यर्थमर्तेः-पीडायाः, विस्मृत्यर्थं च| ततो-मद्यपरिणामादनन्तरं, रूक्षां पेयां पिबेत्| किम्भूताम् ? लघुना पञ्चमूलेन-बृहत्यादिना (हृ.सू.अ.६/१६८), कृताम्| अमद्यपा तु या स्त्री सा गर्भे निपतिते पेयां पिबेत्, न तु मद्यम्| क्व साधितां ? कल्के| किं सम्बन्धिनि ? पाञ्चकौलिके,-पञ्चकोलस्यायं पाञ्चकौलिकः, तस्मिन्| पञ्चकोलकं कल्कीकृत्य तत्र पेयां साधितामित्यर्थः| तथा, बिल्वादिपञ्चकक्वाथे-महत्पञ्चमूलकषाये (हृ. सू. अ. ६/१६७) , साधितां पेयां पिबेदिति योज्यम्| कैः साधिताम् ? तिलोद्दालकतण्डुलैः| उद्दालकोव्रीहिविशेषः| मासैस्तुल्यनि दिनानि-माससङ्ख्या वासराः| यावन्तो मासा गर्भस्य तावन्त्यहानि गर्भे निपतिते सति, एवं-पूर्वोक्तेन प्रकारेण, पेयादिः क्रमः कार्यः| किम्भूतः ? लघुरस्नेहलवणः| न विद्येते स्नेहलवणे यस्य| तथ, दीपनीयैः-अग्निकृद्भिर्मरिचचित्रकादिभिर्द्रव्यैर्युतः| सः-तथाविधः, तत्र क्रमो हितः|

Adhikarana doShAdInAM kledaSoShArtho~ayaM vidhiH (13) · Śloka 13

किमर्थम् ? दोषधातुपरिक्लेदशोषार्थं विधिरित्ययम्| |१३|

🔊 Audio coming soon

दोषौ-पित्तकफावत्र गृह्येते| वातस्य क्लेदासम्भवात्| दोषौ च धातवश्च, तेषां परिक्लेदः, तस्य शोषार्थं-शोषाणाय, अयं विधिरिति|

Adhikarana anantaraM snehAdayo hitAH (13) · Śloka 13

| स्नेहान्नबस्तयश्चोर्ध्वं बल्यदीपनजीवनाः||१३||

🔊 Audio coming soon

ऊर्ध्वं-अतो दोषधादुपरिक्लेदशोषादनन्तरं, स्नेहान्नबस्तयोहिताः| स्नेहश्चतुर्विधः पानादौ हितः| तथा, अन्नं स्निग्धं न रूक्षं, हितम्| बस्तयोऽपि स्निग्धा एव-न रूक्षा हिताः, वातकोपभयात्| किम्भूताः स्नेहान्नबस्तयः ? बल्यदीपनजीवनाः| बल्याः-बलाय हिताः| दीपनाः-वह्नेः सन्धुक्षणकृतः| तथा, जीवनाः-ओजोवृद्धिकराः|

Adhikarana upaviShTakagarBasya lakShaNAdi (14-15) · Śloka 15

इदानीमुपविष्टकनागोदरयोर्गर्भयोर्हेतुलिङ्गौषधानि वितानयितुमाह सञ्जातसारे महति गर्भे योनिपरिस्रवात्| वृद्धिमप्राप्राप्नुवन् गर्भः कोष्ठे तिष्ठति सस्फुरः||१४|| उपविष्टकमाहुस्तं, वर्द्धते तेन नोदरम्| |१५|

🔊 Audio coming soon

सञ्जातः सारो-बलं, यस्यासौ सञ्जातसारो-बलवान् गर्भः, तस्मिन्| तथा, महति-प्रवृद्धे सति| गर्भिण्याः परिहार्यापरिहारद्योऽसौ योनेः परिस्रवः-परिस्रवणं, तस्मात्| परिस्रव इति च सामान्येन निर्देशात् कदाचिद्रक्तरूपः कदाचिदन्यादृशोऽपि गर्भात्स्रवति| परिस्रवाच्च कारणात् वृद्धिमप्राप्नुवन्-अगच्छन्, कोष्ठ एव-गर्भाधार एव, तिष्ठति गर्भः| यतो योनिपरिस्रवात्कारणात् वायुः कुपितः पित्तश्लेष्माणौ परिगृह्य गर्भस्य रसवहां नाडीम् प्रतिपीड्यावतिष्ठते| ततो नाड्यां दोषैः कुल्यायामिव तृणपत्रादिभिः प्रतिच्छन्नायां रसस्यासम्यग्वहनान्नाडीरोधाद्दृद्ध्याभावो गर्भस्य| किम्भूतः कोष्ठे तिष्ठति ? सस्फुरः| स्फुरणंस्फुरः| अज्विधौ भयादीनामुपसङ्ख्यानमित्यच्| गाङ्कुटादिभ्यो ञ्णिङिदिति ङित्त्वाद्गुणाभावः| सह स्फुरेण-चलनेन, वर्तत इति सस्फुरः| एतावन्मात्रविशेषावस्थः कोष्ठे तिष्ठति| तं-तथाविधं गर्भं, उपविष्टकसंज्ञमाहुः| 'मुनयः' इति शेषः| तेन-तथाभूतेन गर्भेण कोष्ठस्थितेन, तस्या उदरं न वर्द्धते-न वृद्धिं याति, गर्भस्यैवावृद्धेः| न हि यद्यस्य वृद्धौ वर्द्धते तदवृद्धौ तस्य वृद्धिः स्यात्| तथा हि,-चन्द्रवृद्धावेव समुद्रवेलाया वृद्धिः| उपविष्टकावस्थश्च गर्भो न वर्द्धते| अतस्तत्कारणाभवादुदरस्याप्यवृद्धिः|

Adhikarana nAgodarAKyasya lakShaNAdi (15-16) · Śloka 16

एवमुपविष्टकमुक्त्वा नागोदराख्यं वक्तुमाह शोकोपवासरूक्षाद्यैरथवा योन्यतिस्रवात्||१५|| वाते क्रुद्धे कृशः शुष्येद्गर्भो नागोदरं तु तम्| उदरं वृद्धमप्यत्र हीयते स्फुरणं चिरात्||१६||

🔊 Audio coming soon

शोकोपवासरूक्षाद्यैः-गर्भगर्भिण्यपचयकारिभिः पवनप्रकोपकारिभिर्हेतुभिः, वाते क्रुद्धे-कुपिते, अथवा गर्भगर्भिण्योरुपचयप्रदैराहारविहारैरुपचितयोर्गर्भगर्भिण्योरपि कदाचिदत्यर्थं रक्तस्रुतिकारणान्यासेवेत स्त्री, तदानीं तस्या योन्यतिस्रवो जायते| तस्माद्योन्यतिस्रवात्कारणादपि पवने कुपिते, कृशो गर्भः सम्पद्यते| शुष्येदित्यत्र चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः| न केवलं कृशो भवति शुष्येच्चेत्यर्थः| तं-तथाभूतं गर्भं, नागोदरसंज्ञकं केषांचिन्मते चोपशुष्ककसंज्ञकं विद्यात्| अत्र-नागोदरसंज्ञके गर्भेऽन्तःस्थिते, उदरं वृद्धमपि-महदपि सत्, हीयते-हानिं याति| स्फुरणं च चिरात्-चिरेण भवति| उपविष्टके तु केवलमवृद्धिर्न तु हानिः|

Adhikarana tayoScikitsA (17-18) · Śloka 18

तयोर्बृंहणवातघ्नमधुरद्रव्यसंस्कृतैः| ग़ृतक्षीररसैस्तृप्तिरामगर्भांश्च ख़ादयेत्||१७|| तैरेव च सुभिक्षायाः क्षोभणं यानवाहनैः| |१८|

🔊 Audio coming soon

तयोः-उपविष्टकनागोदराख्ययोर्गर्भयोः, घृतक्षीररसैस्तृप्तिर्गभिण्याः कार्येति शेषः| किम्भूतैस्तैः ? बृंहणवातघ्नमधुरद्रव्य संस्कृतैः-सिद्धैः| बृंहणानि च तानि वातघ्नानि च मधुराणि च, एवंभूतानि यानि द्रव्याणि द्राक्षाशर्करादीनि, न तु व्यस्तानि बृंहणानि वातघ्नानि मधुराणि च| तत्र केवलं बृंहणानि-प्रियङ्गुप्रभृतीनि, न तु वातघ्नानि| वातघ्नानि च बृंहणानि, न तु मधुररसानि, यथा-नागरादीनि| मधुराणि न वातघ्नानि नापि बृंहणानि, यथा-तण्डुलीयमसूरादीनि| तदेतैर्व्यस्तगुणैर्द्रव्यैः संस्कृतेन घृतादिना तृप्तिर्न कार्या, किं तर्हि ? समस्तबृंहणादिगुणयुक्तैर्द्रव्यैः संस्कृतैरिति बोध्यम्| तथा च सङ्ग्रहेऽधिजगे (शा.अ.४)-'तयोर्जीवनीयबृंहणीयमधुरौषधसिद्धानां सर्पिषामुपयोगः|" इत्यादि| तथा, तद्गर्भपुष्टये तां गर्भिणीमामगर्भांश्च खादयेत्, वैद्य इति शेषः| आअमगर्भान् स्वादन्त्याः कदाचिद्गर्भिण्या जुगुप्सा स्यात्, अतो गर्भगर्भिण्योर्द्वयोरपि व्यापदो भवेयुरिति ण्यन्तोऽत्र खादिर्निर्दिष्टः| वैद्यो हि तां तथा युक्त्या खादयेत्, यथाऽसौ न जुगुप्सेत| आमगर्भा अपरिपूर्णगर्भा उच्यन्ते| तथा, तैरेवबृंहणादिद्रव्यसंस्कृतैर्घृतक्षीररसैरामगर्भैश्च, सुभिक्षायाः-तृप्तिं प्राप्तायाः, क्षोभणं कार्यम्| कैः ? यानैः-रथादिभिः, वाहनैः गजतुरगादिभिः| तत्रारोप्य तां गर्भिणीं वेगेन नयेदित्यर्थः|

Adhikarana lInAKyagarBasya cikitsA (18-20) · Śloka 20

अथ लीनाख्यस्य गर्भस्य चिकित्सामाह | लीनाख्ये निस्फुरे श्येनगोमत्स्योत्क्रोशबर्हिजाः||१८|| रसा बहुघृता देया माषमूलकजा अपि| बालबिल्वंतिलान्माषान्सक्तूंश्च पयसा पिबेत्||१९|| समेद्यमांसं मधु वा कट्यभ्यङ्गं च शीलयेत्| |२०|

🔊 Audio coming soon

अस्योपिविष्टकनागोदराभ्यामेव हेतुलक्षणयोरुक्तत्वात् यदेव निस्फुरणत्वादि विशेषान्तरं तदेवेह तन्त्रकृतोक्तम्| सङ्ग्रहे तु पपाठ (शा. अ. ४)- "यस्याः पुनर्वातोपसृष्ठस्रोतसो लीनो गर्भः प्रसुप्तो न स्पन्दते तं लीनमित्याहुः|" इति| तत्र लीनाख्ये गर्भे सति गर्भिण्याः श्येनादिजा रसा बहुघृता देयाः| आदिशब्देन (उपलक्षणत्वेन) [ सङ्ग्रहोक्तानां ] तित्तिरिकुक्कुटादीनां ग्रहणम्| तथा, माषमूलकजा रसा बहुघृता देयाः| तथा, सात्म्यादिवशात् बालविल्बादीन् समस्तानैकध्यं कृत्वा क्षीरेण पिबेत्| तथा सह मेदुरमासेन मार्द्वीकं वा पिबेत्| कट्यां चाभ्यङ्गं शीलयेत्-अभ्यसेत्|

Adhikarana tasyA AnandakaraNAdi (20) · Śloka 20

| हर्षयेत्सततं चैनामेवं गर्भः प्रवर्द्धते||२०||

🔊 Audio coming soon

सततं-मुहुर्मुहुश्च, एनां-गर्भिणीमुपविष्टकनागोदरलीनाख़्यगर्भोदरस्थां, हर्षयेत्-मुदितां कुर्यात्| एवं-अनयेतिकर्तव्यतया कृतया, गर्भः प्रवर्द्धते-वृद्धिं याति|

Adhikarana anyathA vaiparItyam (21) · Śloka 21

पुष्टोऽन्यथा वर्षगणैः कृच्छ्राज्जायेत, नैव वा| |२१|

🔊 Audio coming soon

अन्यथा-अन्येन प्रकारेण पूर्वोक्तविपर्ययेण रूक्षात्मना सेवितेन मातुराहाररसेनाल्पेन, पुष्टः-चेतनामात्रावशेष एव, वत्सरसन्दोहैः कृच्छ्राज्जायेत-कष्टेन योनितो निष्क्रामेत्| नैव वेति| अथवा यावज्जीवं गर्भीण्याः कुक्षावेवावसीदेत् न ततो निष्क्रामेत् कुक्षावेवावतिष्ठेत|

Adhikarana garBiNyA udAvartAKye vyAdhAvupAyAdi (21-22) · Śloka 22

| उदावर्तं तु गर्भीण्याः स्नेहैराशुतरां जयेत्||२१|| योग्यैश्च बस्तिभिर्हन्यात्सगर्भां स हि गर्भीणीम्| |२२|

🔊 Audio coming soon

गर्भिण्या यद्युदावर्ताख्यो व्याधिः स्यात्, तं स्नेहैः-चतुर्भिर्यथायोग्यौषधसाधितैः पानादिना सेवितैः, आशुतरां-अतित्वरितं, जयेत्| तथा, योग्यैः-तत्कालोचितैः, बस्तिभिः-अनुवासनैः, जयेत्| ननु, गर्भिण्या वर्ज्येषु "बस्तिमामासतोऽष्टमात्" इति प्रागुक्तम् (हृ. शा. अ. १/४७)| तत्कथमिह सामान्येनानुवासनं तन्त्रकृदुपादिक्षत् ? इत्याह-हन्यादित्यादि| स यस्मादुदावर्तो गर्भेण सह गर्भिणीं हन्यात्, अतस्तमाशुतरां जयेत्|

Adhikarana udara eva garBe mRute lakShNAni (22-24) · Śloka 24

| गर्भेऽतिदोषोपचयादपथ्यैर्दैवतोऽपि वा||२२|| मृतेऽन्तरुदरं शीतं स्तब्धं ध्मातं भृशव्यथम्| गर्भास्पन्दो भ्रमतृष्णा कृच्छ्रादुच्छ्वसनं क्लमः||२३|| अरतिः स्रस्तनेत्रत्वमावीनामसमुद्भवः| ||२४||

🔊 Audio coming soon

दोषाणां-वातादीनां, उपचयः-प्रवृद्धत्वम्, अतिशयेन दोषोपचयोऽतिदोषोपचयः, तस्माद्धेतोः, अन्तः-उदरमध्ये, गर्भे मृते सति, अपथ्यैः-स्वभावमात्राकालादिविरुद्धस्वभावैर्वा, अन्तर्मृते, अथवा दैवात् (दैवतः)-अन्यजन्मार्जितशुभाशुभर्मवशात्, अन्तर्मृते गर्भे सति, गर्भीण्या उदरं शीतं-ऊष्मरहितं, भवति| तथा, स्तब्धं-निश्चलं, भवति| तथा, ध्मातंदृतिवद्वातपूरितम्| तथा, भृशव्यथं-अतिवेदनं, भवति| तथा, गर्भास्पन्दो-गर्भस्यास्फुरणं, भ्रमस्तृष्णा च भवति| तथा, कृच्छ्रात्-कृच्छ्रेण, गर्भीण्या उच्छ्वसनं-ऊर्ध्वश्वसनम्| तथा क्लमो-ग्लानिः| तथा, अरतिः-स्थानासनशयनादिष्वनवस्थितत्वं चेतसः| तथा, स्रस्ते च ते नेत्रे च, तयोर्भावः स्रस्तनेत्रत्वम्, स्रस्ते-स्थानाच्च्युते इव| तथा, आवीनां-आसन्नप्रसवकालजशूलविशेषाणां, असमुद्भवः-अनुत्पादः|

Adhikarana antarmRutagarBAyAupacArAH (25-27) · Śloka 27

तस्याः कोष्णाम्बुसिक्तायाः पिष्ट्वा योनिं प्रलेपयेत्| गुडं किण्वं सलवणं तथान्तः पूरयेन्मुहुः| ग़ृतेन कल्कीकृतया शाल्मल्यतसिपिच्छया||२५|| मन्त्रैर्योगैर्जरायूक्तैर्मूढगर्भो न चेत्पतेत्| अथापृच्छयेश्वरं वैद्यो यत्नेनाशु तमाहरेत्||२६|| हस्तमभ्यज्य योनिं च साज्यशाल्मलिपिच्छया| हस्तेन शक्यं तेनैव|२७|

🔊 Audio coming soon

तस्याः-अन्तर्मृतगर्भायाः ईषदुष्णजलसिक्ताया योनिं प्रलेपयेत्-प्रदेहयेत्| गुडादिकं पिष्ट्वा सामर्थ्याद्गुडादिकेनैव लेपयेदिति योज्यम्| तथाऽन्तः पूरयेत्, शाल्मल्यतसिपिच्छयेति सम्बन्धनीयम्| योनेः प्रकृतत्वात्तस्या अन्तः-अभ्यन्तरं, अन्तर्बहिश्च| कीदृश्या पिच्छया ? घृतेन कल्कीकृतया,-पिष्टया| एवं योनेर्मुहुर्मुहुरभ्यन्तरं पूरयित्वाऽनन्तरं मूढगर्भपातनार्थं मन्त्रान् सिद्धान् प्रयोजयेत्| तथा, जरायूक्ताः-जराय्वपतने कथिताः तांश्च योगान् प्रयोजयेत्| मन्त्रैः-सङ्ग्रहोक्तैः (शा. अ.३)-"क्षितिर्जलं" इत्यादिभिः, अथर्ववोदोक्तैश्च मन्त्रैर्जरायोः पातनार्थमुक्तैः| एवमनुष्ठीयमानेऽपि मूढगर्भो यदि न पतति, अथ-अनन्तरं, ईश्वरं-नृपं, आपृच्छय-तदाज्ञां गृहीत्वा, तं-मूढगर्भं, आशु गर्भिण्या आहरेत्-आकर्षेत्| कथम् ? हस्तमभ्यज्य-लेपयित्वा, तथा योनिमभ्यज्य| केन ? साज्येत्यादि| शाल्मत्याः पिच्छा शाल्मलिपिच्छा-निर्यासः, सहाज्येन वर्तत इति साज्या, साज्या शासौ शाल्मलिपिच्छा च तया, हस्तंयोनिं चाभ्यज्य यत्नेन गर्भमाहरेत्| हस्तेन शक्यमाक्रष्टुं तेनैव-हस्तेन साज्यशाल्मलिपिच्छाक्तेन, तं-गर्भं, समाकर्षेत्|

Adhikarana antarmRutagarBasyAkarShaNAdi (27-28) · Śloka 28

| गात्रं च विषमं स्थितम्||२७|| आञ्छनोत्पीडसम्पीडविक्षेपोत्क्षेपणादिभिः| आनुलोम्य समाकर्षेद्योनिं प्रत्यार्जवागतम्||२८||

🔊 Audio coming soon

गात्रं च गर्भस्य विषमं कृत्वा स्थितं-अयथामार्गेण स्थितं, आञ्छनादिभिरानुलोम्य-स्पष्टत्वं प्राप्ते गात्रे सति, योन्यभिमुखमार्जवेन-ऋजुमार्गेणागतं सन्तं, आहरेत्| आञ्छनेन-आयामेन दीर्घतया स्थापनेन, तथोत्पीडनेन-ऊर्ध्वं पीडनेन, तथासमन्तात्पीडनेन, तथा विक्षेपेण-विशेषप्रेरणेन, तथा उत्कर्षेण क्षेपणं-उत्क्षेपणं तेन, आदिग्रहणादेवंप्रायैरन्यैरपि स्वबुद्धिपरिकल्पितैः, स्पष्टत्वं प्राप्ते सति|

Adhikarana SastropAyasAdhyA mUDhagarBacikitsA (29-30) · Śloka 30

इदानीम् शस्त्रोपायसाध्यां मूढगर्भचिकित्सामाह हस्तपादशिरोभिर्यो योनिं भुग्नः प्रपद्यते| पादेन योनिमेकेन भुग्नोऽन्येन गुदं च यः||२९|| विष्कम्भौ नाम तौ मूढौ शस्त्रदारणमर्हतः| |३०|

🔊 Audio coming soon

हस्तेन पादेन शिरसा, अतुल्यकालं-कदाचिद्धस्तेन कदाचित्पादेन कदाचिच्छिरसा, योनिं प्रति भुग्नः-कुटिलः, प्रपद्यतेआयाति, यः स एको विष्कम्भो नाम मूढगर्भः| तथा, पादेनैकेन योनिं तथा द्वितीयपादेन गुदं-पायुं, भुग्नः सन् यो मूढगर्भः प्रपद्यते, सोऽपरो विष्कम्भः| तौ-एतौ द्वौ, विष्कम्भौ नाम मूढौ-मूढगर्भौ, शस्त्रदारणमर्हतः| हस्तेनाक्रष्टुमशक्यत्वात्तयोः शस्त्रदारणं कार्यमित्यर्थः|

Adhikarana maNDalA~gguliSastrAByAM dAraNam (30) · Śloka 30

अत एवाह | मण्डलाङ्गुलिशस्त्राभ्यां तत्र कर्म प्रशस्यते||३०||

🔊 Audio coming soon

मण्डलं चाङ्गुलिश्च मण्डलाङ्गुली| मण्डलशब्देन मण्डलाग्रं शस्त्रमुपलक्ष्यते, अङ्गुलिशब्देन चाङ्गुलिशस्त्रम्| ते नामनी ययोः शस्त्रयोस्ते मण्डलाङ्गुलिशस्त्रे शस्त्रविध्यध्यायोक्ते (हृ. सू. अ. २६/५-१३) , ताभ्यां मण्डलाङ्गुलिशस्त्राभ्यां [ तत्र- ] तयोर्विष्कम्भाख्ययोर्मूढगर्भयोः, कर्म प्रशस्यते| ताभ्यां शस्त्राभ्यां दारणमेतयोः कार्यमित्यर्थः|

Adhikarana vRuddhipatraSastrasya niShedhaH (31) · Śloka 31

वृद्धिपत्रं हि तीक्ष्णाग्रं न योनाववचारयेत्| |३१|

🔊 Audio coming soon

वृद्धिपत्रसंज्ञं शस्त्रं यस्मात्तीक्ष्णाग्रमतस्तद्योनौ नावचारयेत्-तेन तत्र विदारणं न विधेयम्, प्रत्यवायभयात्|

Adhikarana pUrvaM kapAladAraNAdi (31-33) · Śloka 33

दारणं च यथा विधेयं तथा ऽऽह | पूर्वं शिरःकपालानि दारयित्वा विशोधयेत्||३१|| कक्षोरस्तालुचिबुकप्रदेशेऽन्यतमे ततः| समालम्ब्य दृढं कर्षेत्कुशलो गर्भशङ्कुना||३२|| अभिन्नशिरसं त्वक्षिकूटयोर्गण्डयोरपि| |३३|

🔊 Audio coming soon

पूर्वं शिरःसम्बन्धीनि कपालानि विशोधयेत्| किं कृत्वा ? शस्त्रेण दारयित्वा,-छित्वा| एवं शिरःकपालानि शोधयित्वागर्भिणीकोष्ठबाह्यानि कृत्वा, ततः-अनन्तरं, कक्षोरस्तालुचिबुकप्रदेशेऽन्यतमे-तद्विषये, समालम्ब्य-तं गर्भं गृहीत्वा, दृढं कृत्वा आकर्षेत्| केन ? गर्भशङ्कुना| कः ? कुशलः,-अभ्यस्तकर्मा वैद्यः| अभिन्नशिरसं-अविदारितोत्तमाङ्गं पुनर्गर्भं, अक्षिकूटयोस्तथा गण्डयोस्तद्विषयेऽन्यतमे प्रदेशे-कदाचिदक्षिकूटप्रदेशे कदाचिद्गण्डप्रदेशे, समालम्ब्य तं गर्भं दृढं गर्भशङ्कुना गृहीत्वा कर्षेत्|

Adhikarana bAhucCedanAdi (33-34) · Śloka 34

| बाहुं च्छित्वांऽससक्तस्य वाताध्मातोदरस्य तु||३३|| विदार्य कोष्ठमन्त्राणि बहिर्वा सन्निरस्य च| |३४|

🔊 Audio coming soon

अंसाभ्यां सक्तोंऽससक्तः, तस्य बाहुं च्छित्वाऽऽकर्षणं कुर्यात्| वामेनांसेन सक्तस्य वामं बाहुं दक्षिणेनांसेन सक्तस्य दक्षिणं बाहुं च्छित्वेत्यर्थः| वातेनाध्मातं-दृतिवत्पूरितं, उदरं यस्य मूढगर्भस्याऽसौ वाताध्मातोदरः, तस्य तु कोष्ठं-आमपक्वाशयाश्रयं, विदार्य-पाटयित्वा, अन्त्राणी च बहिः सम्यङ्क्षिरस्य-बाह्यतः प्रक्षिप्य, आकर्षेत्|

Adhikarana kaTIsaktasya dAraNAdi (34) · Śloka 34

| कटीसक्तस्य तद्वच्च तत्कपालानि दारयेत्||३४||

🔊 Audio coming soon

कटीसक्तस्येति तृतिया समासः| कट्या सक्तस्य-ककुद्मत्या लीनस्य, तद्वच्चेति तेन-वाताध्मातोदरेण, तुल्यं कर्म दारणात्मकं कृत्वा, तत्कपालानि तस्याः-कट्याः, कपालानि-खण्डनि, विदारयेत्|

Adhikarana sAmAnyena mUDhagarBacikitsA (35) · Śloka 35

इति विशेषेण गर्भस्याकर्षणमुक्त्वा, सामान्येन मूढगर्भचिकित्सामाह यद्यद्वायुवशादङ्गं सज्जेद्गर्भस्य खण्डशः| तत्तच्छित्त्वाऽऽहरेत्सम्यग्रक्षेन्नारीं च यत्नतः||३५||

🔊 Audio coming soon

यद्यदङ्गं मूढगर्भस्य वायुवशात् सज्जेत्-संश्लिष्येत्, तत्तदङ्गं खण्डशो-लवशः, च्छित्वा-दारयित्वा, सम्यगाहरेत्| किलैकवेलया सकलगर्भशरीरच्छेदनादन्तस्थितमूढगर्भाया नार्या अपि बलवच्छस्त्रनिपातनाद्विघातः सम्भाव्यत इति खण्डश इत्युक्तम्| अत एवाह-रक्षेदित्यादि| नारीं च यत्नेन-तात्पर्यं कृत्वा, रक्षेत्| यथा नार्या अङ्गं किञ्चिदपि न चिद्यते तथा विधेयमित्यर्थः|

Adhikarana tatra BiShajA svamatyA yatnaH kAryaH (36) · Śloka 36

गर्भस्य हि गतिं चित्रां करोति विगुणोऽनिलः| तत्रानल्पमतिस्तस्मादवस्थापेक्षमाचरेत्||३६||

🔊 Audio coming soon

यस्माद्गर्भस्य चित्रां-नानारूपां, गतिं-अवस्थितिं, विगुणः प्रकुपितः, प्रभञ्जनः करोति, तस्माद्योऽनल्पमतिः-महाबुद्धिर्वैद्यः, स तत्र-तस्यां गतौ, अवस्थापेक्षमाचरेत्,-मूढगर्भं प्रत्यनुक्तमप्यवस्थितं कर्म कुर्यादित्यर्थः|

Adhikarana jIvato garbhasya chedananiShedhaadi (37) · Śloka 37

छिन्द्याद्गर्भं न जीवन्तं मातरं स हि मारयेत्| सहात्मना, न चोपेक्ष्यः क्षणमप्यस्तजीवितः||३७||

🔊 Audio coming soon

जीवन्तं गर्भं गर्भिण्यन्तर्मृतगर्भलक्षणानभिज्ञो वैद्याभिमानी यः स तं गर्भं न दारयेत्| कुतो हेतोः ? इत्याह-यस्मात्समातरं मारयेत्| कथम् ? सहात्मना,- मातरमात्मानं च, स छिन्नो गर्भो व्यापादयेदित्यर्थः| न चास्तजीवितो-गर्भिण्या अन्तर्मृतो गर्भः, क्षणमपि-मुहूर्तमात्रमपि, उपेक्ष्यः| अपि तु तस्य द्रागेव प्रतिक्रियां कुर्यात्|

Adhikarana mUDhagarBastriyA asAdhyatvam (38) · Śloka 38

इदानीमुपेक्ष्यां मूढगर्भा स्त्रियमाह योनिसंवरणभ्रंशमक्कल्लश्वासपीडिताम्| पूत्युद्गारां हिमाङ्गी च मूढगर्भां परित्यजेत्||३८||

🔊 Audio coming soon

योनेः संवरणं-संवृतयोनित्वम्, तथा तस्या एव योनेर्भ्रशः स्वस्थानाच्च्यवनम्, तथा मक्कल्लः-शिरोबस्तिकोष्ठशूललक्षणः प्रागुक्तो व्याधिः, तैर्योनिसंवरणादिभिः पीडिताम्| तथा, पूत्युद्गाराम्| तथा, हिमाङ्गीम्| एवंविधां मूढगर्भां त्यजेत्-नोपक्रमेत्|

Adhikarana aparApAtanam (39-40) · Śloka 40

अथापतन्तीमपरां पातयेत्पूर्ववद्भिषक्| एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा||३९|| दद्यादभ्यक्तदेहायै योनौ स्नेहपिचुं ततः| योनिर्मृदुर्भवेत्तेन शूलं चास्याः प्रशाम्यति||४०||

🔊 Audio coming soon

अथ-मूढगर्भाहरणादनन्तरं, अपरां-जरायुसंज्ञां, अपतन्तीमनिष्क्रामन्तीं, पूर्ववत्पातयेत्| पूर्वेण तुल्यं-पूर्ववत्, पूर्वोक्तेनापरापातनोक्तविधिना "हिरण्यपुष्पीमूलं च" (हृ.शा. अ. १/८३) इत्यादिनेत्यर्थः| एवं-अनन्तरोक्तेन विधिना, निर्हृतं शल्यं-गर्भजरायुसंज्ञं, यस्यास्तां तु स्त्रियमुष्णेन जलेन सिञ्चेत्| ततः-स्नानादनन्तरं, अभ्यक्तशरीरायै स्त्रियै योनौ स्नेहपिचुं दद्यात्| तेन-स्नेहपिचुना, अस्याः-योषितः, योनिर्मृदुर्भवेत्| शूलं-रुजा च, प्रशम्यति|

Adhikarana nirhRutaSalyAyA upacAraH (41-46) · Śloka 46

दीप्यकातिविषारास्नाहिङ्ग्वेलापञ्चकोलकात्| चूर्णं स्नेहेन कल्कं वा क्वाथं वा(तां)पाययेत्ततः||४१|| कटुकातिविषापाठाशाकत्वग्घिङ्गुतेजिनीः| तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च||४२|| त्रिरात्रमेवं, सप्ताहं स्नेहमेव ततः पिबेत्| सायं पिबेदरिष्टं च तथा सुकृतमासवम्||४३|| शिरीषककुभक्वाथपिचून् योनौ विनिक्षिपेत्| उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत्||४४|| पयो वातहरैः सिद्धं दशाहं भोजने हितम्| रसो दशाहं च परं लघुपथ्याल्पभोजना||४५|| स्वेदाभ्यङ्गपरा स्नेहान् बलातैलादिकान् भजेत्| ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च||४६||

🔊 Audio coming soon

ततः-स्नानाभ्यङ्गादनन्तरं, दीप्यकादेश्चूर्ण स्नेहेन-घृतादिना प्रकृत्यादिवशात् यथायोग्येन,, तां-स्त्रियं, पाययेत्| कल्कं वादीप्यकादेर्जलेन पिष्ट्वा, स्नेहेन तां पाययेत्| क्वाथं वा दीप्यकादेस्तां पाययेत्| तथा, कटुकादीनि तद्वत् तां स्त्रियं पाययेत्| एतानि द्रव्याणि चूर्णीकृत्य स्नेहेन कल्कीकृत्य क्वाथीकृत्य वा पाययेत्| शाकं-खरच्छदम्| त्वक्-त्वचम्| तेजिनी-तेजोवती| किमर्थं पाययेत् ? दोषस्यन्दार्थम्| दोषस्य-रक्तादेः, स्यन्दः-स्रवणं, तदर्थं पाययेत्| तथा, वेदनायाः-पीडायाः, उपशान्त्यर्थं च| त्रिरात्रमेवं मूढगर्भाकर्षणदिनात्प्रभृति कार्यम्| ततः-त्रिरात्रादनन्तरं, सा मूढगर्भा, सप्ताहं स्नेहमेव पिबेत्, न तु रूक्षौषधम्, इत्येवकारोऽवधारणार्थो द्योतयति| सायं-दिनान्ते, अरिष्टं-पूर्वोक्तलक्षणं, पिबेत्| तथा, शोभनं कृत्वा कृतं-निष्पादितं, आसवं-मद्यविशेषं, तथा शिरीषककुभक्वाथाक्तान् पिचून्-विकेशिकाप्रायान् कार्पासादिमयान्, योनौ विनिक्षिपेत्| उपद्रवा ज्वरादयश्चान्ये ये भवेयुः, तान्-उपद्रवान्, यथास्वमुपाचरेत्,-यस्य ज्वरादेर्य आत्मीय उपक्रमः, तेन तमुपक्रमेदित्यर्थः| एतच्च पूर्वोक्तमासेव्य, अनन्तरं यत्कर्तव्यं मूढगर्भायाः स्त्रियास्तदाह- पयः-क्षीरं, अनन्तरं तस्यै दशाहं भोजने हितम्| किम्भूतम् ? वातहरैः-रास्नादिभिर्द्रव्यैः, सिद्धं-शृतम्| दशाहादनन्तरं द्वितीयं च दशाहं रसो भोजने हितः| परं-अतो दिनविंशतेरनन्तरं, सा-स्त्री, लघुपथ्याल्पभोजना सती, तथा स्वेदाभ्यङ्गपरातत्प्रधाना सती, स्नेहान्-बलातैलादिकान्, भजेत्| ऊर्ध्वं-अनन्तरं चतुर्भ्यो मासेभ्यः पञ्चममासात्प्रभृति, सा-निष्क्रान्तमूढगर्भा स्त्री, क्रमेण-न तु सहसा, सुखानि-अन्नपानाहारविहाररूपाणि, भजेत्|

Adhikarana balAtailam (47-52) · Śloka 52

अथ बलातैलं निरूपयति बलामूलकषायस्य भागाः षट् पयसस्तथा| यवकोलकुलत्थानां दशमूलस्य चैकतः||४७|| निष्क्वाथभागो भागश्च तैलस्य तु चतुर्दशः| द्विमेदादारुमञ्जिष्ठाकाकोलीद्वयचन्दनैः||४८|| सारिवाकुष्ठतगरजीवकर्षभसन्धवैः| कालानुसार्याशैलेयवचागुरुपुनर्नवैः||४९|| अश्वगन्धावरीक्षीरशुक्लायष्टीवरारसैः| शताह्वाशूर्पपर्ण्येलात्वक्पत्रैः श्लक्ष्णकल्कितैः||५०|| पक्वं मृद्वग्निना तैलं सर्ववातविकारजित्| सूतिकाबालमर्मास्थिहतक्षीणेषु पूजितम्||५१|| ज्वरगुल्मग्रहोन्मादमूत्राघातान्त्रवृद्धिजित्| धन्वन्तरेरभिमतं योनिरोगक्षयापहम्||५२||

🔊 Audio coming soon

बलाया मूलानि, तेषां कषायः-क्वाथः, तस्य भागाः षट्| तैलैकभागापेक्षयैतद्बोध्यम्| पयसस्तथा-क्षीरस्य षडेव भागाः| यवकोलकुलत्थानां दशमूलस्य चैकतः-एकत्र क्वथितानां निष्क्वाथभागः| यवादीनां तैलसमो निष्क्वाथभाग एक इत्यर्थः| एवं त्रयोदश भागा भवन्ति| तैलस्य तु चतुर्दशो भागः| चतुर्दशानां पूरणः "तस्य पूरणे डट्" इति डट्| एतदेव स्पष्टीक्रियते शिष्यहितार्थम्| तत्र यदा षोडशपलानि तैलस्य श्रपयितव्यानि तदा बलामूलपलानि चतुर्विशतिर्भवन्ति, जलपलशतानि त्रीणि चतुरशीत्यधिकानि, ततश्चतुर्थाशेन षण्णवतिः क्वाथपलानि| क्षीरपलानि षण्णवतिः| यवादीनां पलानि चत्वारि, पानीयपलानि चतुःषष्टिः, षोडशपलानि कषायस्य| द्विमेदादीनि द्रव्याणिप्रत्येकमर्धकर्षप्रमाणानि रक्तिकया पञ्चमभागसहितया सधानकयाऽधिकानीति| कालानुसार्या-उत्पलसारिवा| क्षीरशुक्लाक्षीरविदारी| वरा-त्रिफला| रसो-बोलः| योऽयं यवकोलकुलत्थदशमूलैरेको भागः परिकल्पितः, तत्र यवकोलकुलत्थानां त्रयोंऽशा दशमूलस्य दशांशा इति व्याख्येयम्| "कल्पयेत्सदृशान्भागान् प्रमाणं यत्र नोदितम्|" (हृ. क. अ. ६/२४) इति वचनात्| सङ्ग्रहेऽप्युक्तम् (शा. अ. ४)- "यवकोलकुलत्थदशमूलकषायस्य भागः" इति| ये तु यवकोलकुलत्थानां त्रयोंऽशा दशमूलस्य चतुर्थोंऽश इति भागोऽयं कल्प्य इत्याहुः, ते तु पौर्वापर्यं न पर्यालोचयन्त्येव| यतः "कल्पयेत्" इत्यादिकया परिभाषया द्रव्याणामेषां समांशत्वं नियमितमेव| पृथक् षष्ठ्याऽत्र यो निर्देशः स चन्दोनुरोधादेव बोध्यः| तथा चानेनैव तन्त्रकृता सङ्ग्रहे समस्तान्येवैतानि द्रव्याणि निर्दिष्टानि| अपि च, दशमूलस्याधिक्येन वातरोगहन्तृत्वं यथाऽस्य तैलस्य, न तथा यवादिभिरिति सर्वथा पूर्वं व्याख्यानं श्रेयः| मृद्वग्निनेति मृदुशब्दोऽग्निविशेषणाय प्रयुक्तः| किल खरतरदहनसम्पर्कात् क्षीरबाहुल्येनास्य तैलस्य झटिति पाकातिक्रान्तताऽपि किञ्चित्सम्भाव्यते| एतच्च तैलमशेषवातरोगहन्तृ| तथा, सूतिकादिषु प्रशस्तम्| तथा, ज्वरादिजित्| तथा, भगवतो धन्वन्तरेरभिमतम्, अतिशयगुणवत्वात्| तथा, योनिरोगं क्षयं चापहन्ति|

Adhikarana mRutagarBiNyA jIvadgarBaniShkAsanAdi (53) · Śloka 53

बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि| जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम्||५३||

🔊 Audio coming soon

विपन्नायाः-मृताया गर्भिण्याः, यदि कुक्षिः प्रस्पन्दते-अत्यन्तं चलति| क्व प्रदेशे ? बस्तिद्वारे,-तत्समीपे| कदा ? जन्मकाले,-गर्भप्रसवोन्मुखे काले| तदा कुशलो वैद्यः शीघ्रं [ ततः-] कुक्षिप्रस्पन्दनादनन्तरं, पाटयित्वा शिशुं-बालं, उद्धरेत्|

Adhikarana garBe sravati saptasu mAseShu saptayogAH (54-58) · Śloka 58

मधुकं शाकबीजं च पयस्या सुरदारु च| अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी||५४|| वृक्षादनी पयस्या च लता सोत्पलसारिवा| अनन्ता सारिवा रास्ना पद्मा च मधुयष्टिका||५५|| बृहतीद्वयकाश्मर्यक्षीरिशुङ्गत्वचा घृतम्| पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका||५६|| शृङ्गाटकं बिसं द्राक्षा कसेरु मधुकं सिता| सप्तैतान् पयसा योगानर्द्धश्लोकसमापनान्||५७|| क्रमात्सप्तसु मासेषु गर्भे स्रवति योजयेत्| |५८|

🔊 Audio coming soon

मधुकादिद्रव्योपलक्षितान् सप्त योगान् क्रमात्-यथाक्रमनिर्दिष्टानतिक्रमेण, सप्तसु मासेषु गर्भे स्रवति तद्रक्षार्थं तान् योजयेत्| कीदृशान् योगान् ? अर्द्धश्लोकेन समापनं-समाप्तिः, येषां तानर्द्धश्लोकसमापनान्| अश्मन्तको-यमलपत्रकः| ताम्रवल्ली-रामतरुणी, मञ्जिष्ठेत्येके| लता-गन्धप्रियङ्गुः, गौरसारिवेत्यन्ये| उत्पलसारिवा-कृष्णसारिवा| क्षीरिणां-न्यग्रोधादीनां, शुङ्गाः, तथा तेषामेव त्वक् चेति द्वन्द्वः| "द्वन्द्वाच्चुदषहान्तात्" इति टच्|

Adhikarana aShTamanavamadaSamamAseShu yogAH (58-60) · Śloka 60

| कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिकात्||५८|| मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाऽष्टमे| नवमे सारिवानन्तापयस्यामधुयष्टिभिः||५९|| योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया| अथवा यष्टिमधुकनागरामरदारुभिः||६०||

🔊 Audio coming soon

कपित्थादीनां समाहारद्वन्द्वः| कपित्थादेर्द्रव्यान्मूलैः शृतं क्षीरमष्टमे मासि प्रयुञ्जीत| नवमे मासि सारिवादिभिः सिद्धं क्षीरं प्रयुञ्जीत| दशमे मासि काकोल्यादिसिद्धं क्षीरमथवा यष्ट्यादिभिः सिद्धं योजयेत्|

Adhikarana garBaviShaye~aj~jAnAM mativiBramaH (2) · Śloka 2

अवस्थितं लोहितमङ्गनाया वातेन गर्भं ब्रुवतेऽनभिज्ञाः| गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः स्रुते पुनः केवल एव रक्ते||६१|| गर्भं जडा भूतहृतं वदन्ति मूर्तेन दृष्टं हरणं यतस्तैः| ओजोशनत्वादथवाऽव्यवस्थै- र्भूतैरुपेक्ष्येत न गर्भमाता||६२|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थाने गर्भव्यापन्नाम द्वितीयोऽध्यायः||२||

🔊 Audio coming soon

लोहितं वातेन हेतुनाऽवस्थितं-कुक्षौ पवनेन रुद्धं, गर्भं ब्रुवतेऽनभिज्ञाः| नञत्र पर्युदासे, अभिज्ञसद्दृशा इत्यर्थः| कुतस्तेषां भ्रान्तिः ? इति तद्वीजमाह-गर्भाकृतित्वादिति| गर्भस्याकृतिः-संस्थानमुन्नत्यादिकम्, तथा "हृल्लासदौर्हृद" (हृ. नि. अ. ११/५१) इत्यादि रक्तगुल्मनिदानोक्तं लक्षणं, वातरुद्धलोहितावस्थितौ गर्भस्थितौ चोभयत्र समानम्| अतोऽल्पबुद्धित्वादवस्थितं लोहितं गर्भं ब्रुवते| कटुकोष्णादिभिः-अवस्थितलोहितस्रुतिहेतुभिः, स्रुते केवल एव रक्ते-गर्भरहिते, जडाः निर्बुद्धयो, भूतहृतमिति गर्भं वदन्ति| पुनःशब्दः शिरसः कम्पं कृत्वा तेषामसम्भाव्याङ्गीकारेण सर्वजनप्रथितेन जडत्वं सहेतुकं प्रतिपादयति| अत एवाह-यतो,-यस्मात्, मूर्तेः-शरीरस्य, हरणं तैः-भूतैः, न द्दृष्टं-न क्वचिदुपलब्धम्, अतः-असम्भाव्यवस्तुप्रतिज्ञानात्, तेषां जडत्वमित्यर्थः| ननु, एतदपि कथमुच्यते ? इत्याह-ओजोशनत्वात्| यस्मात्ते भूता ओजोशनाः-ओजोभक्षणमर्यादाः| अथवा कदाचित्ते-भूता उल्लङ्घितमर्यादाःस्युः| तैः-तथाभूतैः, अव्यवस्थैः-अव्यवस्थावस्थितैः, भूतैर्गर्भस्य माता नोपेक्ष्येत, अपि तु ह्रियेतैव| तथा हि-यथा गर्भमातोपचितशरीरा न तथा गर्भ इति| उपजातीन्द्रवज्राख्ये वृत्ते| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां द्वितीये शारीरस्थाने गर्भ व्यापन्नाम द्वितीयोऽध्यायः समाप्तः|| २||