Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. annarakṣādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अन्नपानस्वरूपं शरीरसन्धारणार्थं प्रागुक्तम्| पथ्यमपि चान्नपानं विषाद्युपहतं रोगाय मृत्यवे वा सम्पद्यते, अतस्तद्रक्षार्थमध्यायोऽयमारभ्यते-

Adhikarana annarakShAdhyAyaH saptamaH (2-3) · Śloka 3

अथातोऽन्नरक्षाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| )||३||

🔊 Audio coming soon

स०-अन्नस्य रक्षा-अन्नरक्षा| सोपदिष्टा यत्राध्याये, सोऽप्युपचारादन्नरक्षेत्युच्यते| यथा, शिशुपालवधः काव्यमिति| शेषं व्याख्यानमत्र पूर्ववत्कार्यम्|

Adhikarana rAjanikaTe vaidyasthitiH (1) · Śloka 1

राजा राजगृहासन्ने प्राणाचार्यं निवेशयेत्| सर्वदा स भवत्येवं सर्वत्र प्रतिजागृविः||१||

🔊 Audio coming soon

स०-राजा-नृपः, प्राणाचार्यं-वैद्यं, राजगृहासन्ने निवेशयेत्-आवासयेत्| एवं सति यो गुणः स्यात्तमाह-सर्वदेत्यादि| सर्वदा-सर्वकालं रात्रिदिवसमेव, नृपभवनसमीपस्थितः सः-वैद्यः सर्वत्र-अन्नपानशयनमाल्यादौ, प्रतिजागृविः-दत्तावधानो भवति|

Adhikarana vaidyena rAj~jo~annapAnaM viShAdrakShyam (2) · Śloka 2

ननु, किमेवं क्रियते? इत्याह- अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः| योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः||२||

🔊 Audio coming soon

स०-महीपतेः सम्बन्ध्यन्नपानं विषात्-विषसंस्पर्शात्, विशेषेण-अतिशयेन रक्षेत्| अन्नपानमित्युपलक्षणम्| शयनवस्त्रगन्धरत्नमाल्यादीनामपि परिरक्ष्यत्वात्| ननु, किमिति, नृपान्नपानादि विशेषेण रक्षेत् ? इत्याह-योगेत्यादि| योगः-अन्नवस्त्रादिभिः सम्बन्धः| क्षेमः-तेषामन्नादीनां चौराद्युपद्रवरक्षणात्| द्वावप्येतौ तदायत्तौ-नृपायत्तौ स्याताम्| क्षेमशब्दोऽर्धर्चादिः| धर्माद्या इति धर्मार्थकाममोक्षाः| यन्निबन्धनाः-योगक्षेमनिबन्धनाः|

Adhikarana saviShAnnalakShaNam (3-4) · Śloka 4

सम्प्रति विषदुष्टस्य भक्तस्य लक्षणमाह ओदनो विषवान् सान्द्रो यात्यविस्त्राव्यतामिव| चिरेण पच्यते पक्वो भवेत्पर्युषितोपमः||३|| मयूरकण्ठतुल्योष्मा मोहमूर्छाप्रसेककृत्| हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः||४||

🔊 Audio coming soon

स०-विषवानोदनः सान्द्रो-विलेप्याकारः| तथा, विस्रावयितुं शक्यो-विस्राव्यः, नैवं योऽसौ-अविस्राव्यः, तस्य भावः, अविस्राव्यतामिव याति| चिरेण कालेन पच्यते| पक्वश्च पर्युषितभक्तमुपमा यस्य स पर्युषितोपमो भवेत्, निरूष्मा स्तब्धश्च सद्योऽवतारितोऽपि स्यादित्यर्थः| तस्य च भक्तस्य सम्बन्धी मयूरकण्ठतुल्योष्मा मोहादीन् करोति| मयूरकण्ठेन तुल्यो नानावर्णो मयूरकण्ठतुल्यः, स चासावूष्मा चेति| ऊष्मा-बाष्पः| तथा, असावोदनो वर्णगन्धाद्यैर्हीयते| आदि (द्य) शब्देन रसादीनां ग्रहणम्| क्लिद्यते-प्रक्लिन्नो भवति| तथा, जलमध्यक्षिप्ततैलबिन्दुसदृशैश्चन्द्रिकैराचितो भवति| इति चक्षुरादिभिः परीक्षा|

Adhikarana vya~jjanAdInAM parIkShA (5-6) · Śloka 6

व्यञ्जनानां परीक्षामाह व्यञ्जनान्याशु शुष्यन्ति ध्यामक्वाथानि तत्र च| हीनाऽतिरिक्ता विकृता छाया दृश्येत नैव वा||५|| फेनोर्ध्वराजीसीमन्ततन्तुबुद्बुदसम्भवः| विच्छिन्नविरसा रागाः खाण्डवाः शाकमामिषम्||६||

🔊 Audio coming soon

स०-व्यञ्जनानि-वार्ताकादीनि दधितक्रदाडिमादिसंस्कृतानि, आशु-क्षिप्रं शुष्यन्ति| तथा, ध्यामो-मलिनः क्वाथो येषां तान्येवम्| तत्र च-तेषु व्यञ्जनवत्सु क्वाथेषु, हीना-भुजादिहीना, अधिका, विकृता-शिरोविरहादिलक्षणविकारोपेता चात्मीया छाया-प्रतिबिम्बं, दृश्यते| नैव वा-कीदृश्यपि छाया न दृश्यते| न चेदमरिष्टम्, सनिमित्तत्वात्| तेष्वेव व्यञ्जनेषु फेनादीनां सम्भवः| तत्रेति प्रकृतव्यञ्जनोपलक्षितेषु सर्वद्रवेष्वेव| विशेषेण पुनर्लवणोल्बणद्रवे फेनमाला| ऊर्ध्वराजीसम्भवं तु रसकादिषु स्वयं दर्शयिष्यति| विच्छिन्नविरसा रागा इति| रागाः-द्राक्षादिकृताः, ऋतुचर्योक्तलक्षणाः, विच्छिन्ना विरसाश्च भवन्ति| क्वचिद्रागो दृश्यते क्वचिन्नेति विच्छिन्नत्वम्| क्वचिद्रसो दृश्यते क्वचिन्नेति विरसत्वम्| एवं खाण्डवोऽपि| शाकमामिषं च विच्छिन्नं-स्थाने स्थाने त्रुटितम्, विरसं च|

Adhikarana mAMsarasAdidraveShu reShA visheShaH,phaleShupAkavisheShaH mAlyavastradhAtvAdiShu visheShaH (7-12) · Śloka 12

यत्र द्रवे यादृशी राजी सम्भवति, तां विशेषतो दर्शयन्नाह नीला राजी रसे, ताम्रा क्षीरे, दधनि दृश्यते| श्यावाऽऽपीतासिता तक्रे, घृते पानीयसन्निभा||७|| मस्तुनि स्यात्कपोताभा, राजी कृष्णा तुषोदके| काली मद्याम्भसोः, क्षौद्रे हरित्तैलेऽरुणोपमा||८|| पाकः फलानामामानां पक्वानां परिकोथनम्| द्रव्याणामार्द्रशुष्काणां स्यातां म्लानिविवर्णते||९|| मृदूनां कठिनानां च भवेत्स्पर्शविपर्ययः| माल्यस्य स्फुटिताग्रत्वं म्लानिर्गन्धान्तरोद्भवः||१०|| ध्याममण्डलता वस्त्रे, शदनं तन्तुपक्ष्मणाम्| धातुमौक्तिककाष्ठाश्मरत्नादिषु मलाक्तता||११|| स्नेहस्पर्शप्रभाहानिः सप्रभत्वं तु मृण्मये| |१२|

🔊 Audio coming soon

स०-रसे-मांसरसे विषवति, नीला-नीलवर्णा, राजी दृश्यत इति प्रकृतेन सम्बन्धः| एवं चाग्रेऽपि राजी दृश्यत इति योज्यम्| क्षीरे-क्षीरमध्ये, ताम्रा-ताम्रवर्णा| दधनि-दध्निश्यावा| तक्रे आपीतासिता-आनीलपीता| घृते सलिलनिभा| मस्तुनि कपोताभा| तुषोदके-काञ्जिके, राजी कृष्णा| मद्येऽम्भसि च काली| माक्षिके हरिद्वर्णा| तैलेऽरुणोपमा-ईषल्लोहितवर्णा| उदाहरणमात्रं त्वेतत्, तेन वसागन्धस्य च तैले सम्भवः, द्रवौषधस्य कपिला, इति| तथा, आमानां फलानां पाकः| पक्वानां परिकोथनं-शातनं भवति| आर्द्रशुष्काणां यथा संख्यं म्लानता-शुष्काभासत्वम्, तथा विवर्णता-श्यावत्वादि लक्षणा| मृदूनां कठिनत्वम्, कठिनानां मृदुत्वम्, अयं स्पर्शविपर्ययः| माल्यस्य-पुष्पस्य, स्फुटितं-विशीर्णं, अग्रं-प्रान्तो यस्य तत्स्फुटिताग्रम्, तस्य भावस्तत्त्वम्| तथा, म्लान्युद्भवो-म्लानता, गन्धान्तरोद्भवः-स्वगन्धनाशोऽन्यगन्धसम्भवश्च| ध्यामानि-मलिनानि, मण्डलानि-वृत्तानि, तेषां भावो ध्याममण्डलता, वस्त्रे-आस्तरणप्रावरणादिरूपे स्यात्| शदनं-शातः पातः स्यात्| केषाम् ? तन्तुपक्ष्मणाम्,-तन्तूनां-सूत्राणां पक्ष्मणां च पार्श्ववर्तिनां, वस्त्रसम्बन्धिनामेव| धातुः-सुवर्णादिः मौक्तिकं-मुक्ता, काष्ठं-दारु, अश्मा-पाषाणः, रत्नानि-वज्रमरकतादीनि, आदिशब्देन शङ्खशुक्त्यादिपरिग्रहः, तेषु मलाक्तता-पङ्कमलोपदिग्धता| स्नेहहानिः-तेषामेव धात्वादीनां स्नेहस्य व्यपगमः| एवं स्पर्शप्रभाहानिः| मृण्मये तु भाण्डे सविषे निष्प्रभेऽपि सप्रभत्वम्|

Adhikarana viShadAtRulakShaNam (12-13) · Śloka 13

इदानीं यो विषं ददाति, तस्य लक्षणमाह | विषदः श्यावशुष्कास्यो विलक्षो वीक्षते दिशः||१२|| स्वेदवेपथुमांस्त्रस्तो भीतः स्खलति जृम्भते| |१३|

🔊 Audio coming soon

स०-विषं ददातीति-विषदो नरः, श्यावं-श्यामं शुष्कमास्यंमुखं, यस्यासौ श्यावशुष्कास्यः,-श्यामशुष्कवदनः| किं करोति? विलक्षो वीक्षते दिशः,- दिश इति समन्तादित्यर्थः, विलक्ष इति लज्जावान्, वीक्षते-अवलोकयति| किञ्च, स्वदोषशङ्कया स्वेदवान्, वेपथुमान्, त्रस्तः-शरीरेण जातकम्पत्वात्, भीतः-चित्तेन सोद्वेगतयोपलक्ष्यमाणत्वात्| स्तम्भकुड्यादिभिरात्मानमन्तर्धापयितुमिच्छन्नितस्ततो गच्छंश्च स्खलितगतिर्भवति, तत आह-स्खलति| पुनःपुनश्च जृम्भां करोति, तेनाह जृम्भते| उपलक्ष्णं चेदं तत्तत्कालभाविनीनां क्रियाणाम्| तद्यथा (सङ्ग्रहे सू.अ.८)-"अस्थानहासी, पृष्टोऽसम्बद्धमुत्तरं ददाति नैव वा ददाति, विवक्षुर्मुह्यति, अङ्गुलीः स्फोटयति, शिरः कण्डूयते, ओष्ठौ लेढि, भुवं विलिखति, क्रियासु त्वरते, विपरीतमाचरति, स्वभूमौ च नावतिष्ठते|" इति|

Adhikarana saviShasyAnnasyAgnikShepAdinA parIkShA (13-14) · Śloka 14

इदानीं सविषयस्याग्निप्रक्षेपणादिकमुपदिशन्नाह | प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति||१३|| शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्| |१४|

🔊 Audio coming soon

स०-सविषमन्नं प्राप्याऽग्निः स्फुटत्यति-चटचटायते, अतिशयेनेत्यर्थः| एकावर्त इति एक एवावर्तो यस्य, संहतसर्वज्वालत्वादसावेकावर्तः| शिखिकण्ठाभधूमार्चिः,-शिखी-मयूरः, तस्य कण्ठः-इन्द्रायुधवदनेकवर्णः, तस्येवाभा ययोर्धूमार्चिषोस्ते शिखिकण्ठाभे, ते तादृशे धूमार्चिषी यस्याग्नेरसौ शिखिकण्ठाभधूमर्चिः इन्द्रायुधवदनेकवर्णधूमज्वाल इति यावत्| अनर्चिर्वा-अज्वाल इति वा| उग्रगन्धवानिति कुणपगन्धवान्| निदर्शनं चेदम्| धूमोऽप्यस्य प्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्या कुलता अप्युत्पादयति|

Adhikarana makShikAkAkAdiBiH parIkShA saviShAnnatyAgaprakAraH (14-18) · Śloka 18

स्नेहलवणयोगादप्यग्निरेवं स्यात्, अतः पक्षिमृगैरपि परीक्षाप्रकारान्तरं दर्शयन्नाह | म्रीयन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत्|१४| उत्क्रोशन्ति च दृष्ट्वैतच्छुकदात्यूहसारिकाः| हंसः प्रस्खलति, ग्लानिर्जीवञ्जीवस्य जायते||१५|| चकोरस्याऽक्षिवैराग्यं, क्रौञ्चस्य स्यान्मदोदयः| कपोतपरभृद्दक्षचक्रवाका जहत्यसून्||१६|| उद्वेगं याति मार्जारः शकृन्मुञ्चति वानरः| हृष्येन्मयूरस्तदृष्ट्या मन्दतेजो भवेद्विषम्||१७|| इत्यन्नं विषवज्ज्ञात्वा त्यजेदेवं प्रयत्नतः| यथा तेन विपद्येरन्नपि न क्षुद्रजन्तवः||१८||

🔊 Audio coming soon

स०-सविषमन्नमित्यनुवर्तते| मक्षिकाः सविषमन्नं प्राप्यम्रियन्ते-मक्षिकाः सविषेऽन्ने न निलीयन्ते, निलीनास्तु सद्यो विपद्यन्ते| विषदुष्टाहारात् काकः क्षामस्वरो भवेत्| उत्क्रोशन्ति-उच्चैः कूजन्ति, दर्शनादेव शुकदात्यूहसारिकाः| विषदर्शनमात्रादेव च हंसगतिः स्खलति| ग्लानिर्जीवञ्जीवस्य जायते| उपलक्षणं चेदम्| मरणमपि कस्यचिन्न ग्लानिरेव, एवं जीवञ्जीवकस्य| चकोरस्य अक्षिविरक्तता| 'दृष्ट्वैतत्' इति सर्वत्र योजनीयम्| क्रौञ्चस्य मदोदयो-मदोत्पत्तिः स्यात्| कपोतपरभृद्द्दक्षचक्रवाकास्त्यजन्त्यसून्-प्राणान्विमुञ्चन्ति, चात्यर्थं मरणदुःखाभ्याहताः| उद्विजतेऽत्यर्थं मार्जारः| वानरस्तु शकृत्पुरीषं मुञ्चति| उपलक्षणं चेदम्| पृष्ठतोमुखो रोदिति च| तथा, हृष्येन्मयूरस्तद्दृष्ट्वा| तदिति सविषान्नपरामर्शः| दृष्ट्वेत्यनुवर्तमानेऽपि पुनर्दृष्ट्वेति वचनं सर्वत्र मध्ये सम्प्रत्ययार्थम्, आद्यन्ताभ्यं गृहीतत्वात्| विषं चास्य दर्शनादेव मन्दतेजस्कं भवति| इति-एवं पूर्वोक्ताभिः परीक्षाभिः, अन्नं-भक्तादि, विषवत्-विषसंसृष्टं, ज्ञात्वा त्यजेदेतत्| कथम्? प्रयत्नतः-प्रयत्नेन| तमेव प्रयत्नं दर्शयन्नाह-यथा-येन प्रकारेण त्यज्यमानेन, क्षुद्रजन्तवो-मक्षिकादयोऽपि, तेन-विषेण, न विपद्येरन् न नश्येयुः तथा त्यजेत्| क्षुद्रजन्तवोऽपि किं पुनर्महान्तः, इत्यपि शब्दार्थः|

Adhikarana saviShasyAnnasyAgnikShepAdinA parIkShA (13-14) · Śloka 14

इदानीं सविषयस्याग्निप्रक्षेपणादिकमुपदिशन्नाह | प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति||१३|| शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्| ||१४||

🔊 Audio coming soon

स०-सविषमन्नं प्राप्याऽग्निः स्फुटत्यति-चटचटायते, अतिशयेनेत्यर्थः| एकावर्त इति एक एवावर्तो यस्य, संहतसर्वज्वालत्वादसावेकावर्तः| शिखिकण्ठाभधूमार्चिः,-शिखी-मयूरः, तस्य कण्ठः-इन्द्रायुधवदनेकवर्णः, तस्येवाभा ययोर्धूमार्चिषोस्ते शिखिकण्ठाभे, ते तादृशे धूमार्चिषी यस्याग्नेरसौ शिखिकण्ठाभधूमर्चिः इन्द्रायुधवदनेकवर्णधूमज्वाल इति यावत्| अनर्चिर्वा-अज्वाल इति वा| उग्रगन्धवानिति कुणपगन्धवान्| निदर्शनं चेदम्| धूमोऽप्यस्य प्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्या कुलता अप्युत्पादयति|

Adhikarana vaktrage viShe lAlAdayaH teShAmauShadham (21-22) · Śloka 22

लाला जिह्वोष्ठयोर्जाड्यमूषा चिमिचिमायनम्| दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश्च वक्त्रगे||२१|| सेव्याद्यैस्तत्र गण्डूषाः सर्वं च विषजिद्धितम्| |२२|

🔊 Audio coming soon

स०-वक्त्रगे-मुखप्राप्ते, लाला भवति| जिह्वोष्ठयोर्जाड्यं भवति, ऊषादयश्च स्युः| रसाज्ञत्वं-जिह्वा रसं न चेतयत इत्यर्थः| हन्वोः स्तम्भश्च स्यात्| तत्र सेव्याद्यैः-पूर्वोक्तैः, गण्डूषा हिताः| सर्वं च-अन्यदपि, यद्विषं जयति तद्धितम्|

Adhikarana AmAshayagate vamanAdayaH pakkAshyagate vamanAdayaH teShAmauShadham (22-26) · Śloka 26

| आमाशयगते स्वेदमूर्च्छाध्मानमदभ्रमाः||२२|| रोमहर्षो वमिर्दाहश्चक्षुर्हृदयरोधनम्| बिन्दुभिश्चाचयोऽङ्गानां, पक्वाशयगते पुनः||२३|| अनेकवर्णं वमति मूत्रयत्यतिसार्यते| तन्द्रा कृशत्वं पाण्डुत्वमुदरं बलसङ्क्षयः||२४|| तयोर्वान्तविरिक्तस्य हरिद्रे कटभीं गुडम्| सिन्दुवारितनिष्पावबाष्पिकाशतपर्विकाः||२५|| तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम्| नावनाञ्जनपानेषु योजयेद्विषशान्तये||२६||

🔊 Audio coming soon

स०-विषान्ने आमाशयं प्राप्ते स्वेदादयः स्युः| अक्षिहृदययोः रोधनं-स्तम्भः| बिन्दुभिः-नानावर्णैः, अङ्गानामाचयः-समन्ताच्चयनम्| पक्वाशयगते तु विषेऽनेकवर्णं वमति, मूत्रयति, अतिसार्यते, तन्द्रादयश्च भवन्ति| तयोः-आमपक्वाशयगतयोर्विषयोः, वर्तमानस्य पुंसो यथायोगं वान्तविरिक्तस्य हरिद्रे कटभीत्यादिकमौषधं नावनादिषु योजयेत्| तत्र मदनफलालाबुकुम्भीकोशातकीफलैर्मधुयुक्तैर्निष्पावाम्बुयुक्तैर्वमनम्| वान्तस्य स्नेहयित्वा विरेचनम्| पक्वाशयगते त्ववमितस्यैव नीलिनीफलयुक्तेन घृतेन विरेचनमेव|

Adhikarana BuktaviShasyauShadham (27-28) · Śloka 28

विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा| सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्||२७|| शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्| |२८|

🔊 Audio coming soon

स०-विषभुक्ताय पुंसे ऊर्ध्वमधश्च शुद्धाय काले सूक्ष्मं- अतिश्लक्ष्णं ताम्रचूर्णं समाक्षिकं दद्यात्| किम्भूतम्? हृद्विशोधनं,- हृदयशुद्धये इत्यर्थः| विषभुक्तायेति 'आहिताग्न्यादित्वात्' परनिपातः| काल इत्युपलक्षणम्| देशसात्म्याग्न्यादीन् व्यपेक्षेतेत्यर्थः| शुद्धे हृदे-स्वलिङ्गे ज्ञाते, ततः-अनन्तरं, हेमचूर्णस्य शाणं-कर्षचतुर्थांशं, दापयेत्|

Adhikarana suvarNaprayogaPalam (28-29) · Śloka 29

हेम्नि दत्ते सति, यो गुणः स्यात्तमाह | न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम्||२८|| जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः| |२९|

🔊 Audio coming soon

स०- हेम पिबतीति-हेमपः, तस्याङ्गे विषं न सज्जते| कथम्? पद्मपत्रे जलमिव| तस्य च हेमपस्य विस्तीर्णमायुर्जायते| एष विधिर्गरेऽपि स्मृतः, यो विष उक्तः| सज्जत इत्यत्रात्मनेपदं चिन्त्यम्|

Adhikarana virUddhAhArasya viShagarIpamatvam (29) · Śloka 29

| विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||

🔊 Audio coming soon

स०-विरुद्धं चाहारं विषगरोपमं विद्यात्| विषगरवद्विरुद्धाहारा अपि व्याधिमृत्युहेतव इत्यर्थः| तथा चोक्तं सङ्ह्ग्रहे(सू.अ.९)-"विस्फोटगुल्ममदविद्रधिमेहयक्ष्मतेजोबलस्मृतिमतीन्द्रयचित्तनाशम्| कुर्याद्विरुद्धमशनं ज्वरमस्रपित्तमष्टौ गदांश्च महतो विषवच्च मृत्युम्|" इति|

Adhikarana virUddhabhojanam (30-31) · Śloka 31

तदेव विरुद्धभोजनमाह आनूपमामिषं माषक्षौद्रक्षीरविरूढकैः| विरुध्यते सह बिसैर्मूलकेन गुडेन वा||३०|| विशेषात्पयसा मत्स्या मत्स्येष्वपि चिलीचिमः| |३१|

🔊 Audio coming soon

स०-आमिषं-मांसं, आनूपं-महामृगवारिचरवारिशयाख्यं, माषादिभिः सप्तभिः सह विरुध्यते| आनूपेष्वपि मध्ये विशेषात्-अतिशयेन, पयसा सह मत्स्या विरुध्यन्ते| यतो मत्स्यक्षीरे स्वादुरसविपाकित्वान्महाभिष्यन्दिनी, शीतोष्णयोगाच्च परस्परविरुद्वे| मस्त्येष्वपि चिलीचिमाख्यो मत्स्यः पयसा सहात्यन्तविरुद्धः| स पुनः शकली लोहिताक्षः सर्वतो लोहितराजिः प्रायो भूमौ चरति, सोऽत्यभिष्यन्दितमत्वात्सुतरां विरुद्धः| एष चाहारोऽनिर्दिष्टविकारकारी यथोक्तान् विस्फोटादीन् करोति| कालान्तरेण च चिकित्सां विना प्राणानपि हरति| कश्चिच्च विरुद्धाहारो निर्दिष्टविकारकारी| यथा "उपोदकाऽतिसाराय" इति|

Adhikarana anUpamAMsasya mAShAdibhirvirodhaH payaso~amlAdibhirvirodhaH (31-32) · Śloka 32

विरुद्धमम्लं पयसा सह सर्वं फलं तथा||३१|| तद्वत्कुलत्थवरककङ्गुवल्लमकुष्टकाः|३२|

🔊 Audio coming soon

स०-अम्लं द्रव्यं पयसा सह सर्वं विरुद्धम्| सर्वग्रहणं द्रवाद्रवग्रहणार्थम्| द्रवं-काञ्जिकादि, अद्रवं-चुक्रिकादिकमित्यर्थः| अन्यथा पयसो द्रवसमानजातीयत्वात् काञ्जिकाद्येव द्रवद्रव्यं विरुध्येत, न चुक्रिकादिकमपि| ननु, तृतीययैव सहार्थो लब्ध एव| यथा-"वाराहं श्वाविधा नाद्यात्" इत्यत्र| ततः किं सहशब्देन| सत्यमेतत्| सहग्रहणं तु नियमार्थम्| सहैकध्यमम्लेनोपयुज्यमानं विरुद्धम्| यदा त्वम्लेन गोरसादिना क्षीरशाकसंज्ञव्यञ्जनकरणार्थं पयः संस्क्रियते तदा तस्य द्रव्यान्तरत्वापत्तेर्विरोधो नास्ति| तथा, दधिक्षीरादिना घृतं पच्यते तत्राऽप्यविरोध एव, द्रव्यान्तरत्वात्| पूर्वस्याऽपि सहशब्दस्यैवं प्रायमेव प्रयोजनमभ्यूह्यमिति| अपि च, क्षीरे भुक्ते उत्तरकालमप्यम्लं न भोज्यमिति प्रतिपादनार्थं च सहग्रहणम्| तथा चोक्तं सङ्ग्रहे (सू.अ.)-"सर्वं चाम्लं पयसा सहैकध्यं तदुत्तरं वा विरुद्धम्" इति| फलं तथेति| फलं-अक्षोडादि च, पयसा सह विरुद्धम्| सर्वशब्दः सर्वत्र न सम्बन्धनीयः, यतो न सर्वं फलं पयसा सहाभ्यवहर्तुं विरुद्धम्| अपि तु किञ्चिदेव| तथा च मुनिः परिसंख्ययैवाऽपठत्(च.सू.अ.२६|८६)- "तथाऽऽम्राम्रातकलकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्य जाम्बवकपित्थतिन्तिडीकपालेवताक्षोडपनसनारिकेरदाडिमामलकान्येवं प्रकाराणि चान्यानि" इति| तस्मान्न सर्वं फलं पयसा सहाभ्यवहर्तुं विरुद्धम्, किन्तु मुन्युक्तमेव| तद्वदिति फलवत्, कुलत्थादयः पयसा सह विरुद्धाः| वरको-व्रीहिभेदः, "वरकोद्दालक" इति प्रागुक्तेः (हृ.सू.अ.६|९)| वल्लमकुष्टकौ शिम्बीधान्यविशेषौ| उपलक्षणं चेदम्| 'माषनिष्पावावपि' हि विरुद्धौ पयसा सहेति सङ्ग्रहे (सू.अ.९) कथितम्|

Adhikarana payoharItakayorvirodhaH (32) · Śloka 32

| भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत्||३२||

🔊 Audio coming soon

स०-भक्षयित्वेति| हरितकं मूलककुठेरादि भुक्त्वा पयस्त्यजेत्, न पुनः शाकं मूलकादि स्निग्धस्विन्नं शाकसाधनेन साधितं भुक्त्वा क्षीरं न भक्षयेत्| एतस्मादेव च ज्ञापकात् मूलकादीनामुभयरूपत्वं वेद्यम्, हरितकत्वं शाकत्वं च| तथा च मूलकादीनां यदि शाकत्वप्रसिद्धिरेवाऽभविष्यत्, ततो "हरितकं मूलकादि भक्षयित्वा" इति तन्त्रकृन्नावक्ष्यत्| तस्मान्मूलकस्य हरितकत्वं शाकत्वं च ज्ञेयम्| लशुनेन सह क्षीरस्य प्रयोगो य उक्तः (हृ.चि.अ.९४|४५)-"साधयेच्छुद्धुशुष्कस्य लशुनस्य चतुःपलम्|" इति| स न विरुद्धः, अग्न्यादिसम्पर्काद्रव्यान्तरत्वापत्तेः|

Adhikarana varAhashvAvidhoH pRuShatakukkuTayordagdhA AmamAMsapittayoH mAShasUpamUlakayoH avikusumbhashAkayoH bisavirUdakayoH lakucaphalasya mAShAdibhiH kadalIphalasya takradibhiH kAkamAcyAH kaNAdibhiH (33-36) · Śloka 36

वाराहं श्वाविधा नाद्याद्दध्ना पृषतकुक्कुटौ| आममांसानि पित्तेन, माषसूपेन मूलकम्||३३|| अविं कुसुम्भशाकेन, बिसैः, सह विरूढकम्| माषसूपगुडक्षीरदध्याज्यैर्लाकुचं फलम्||३४|| फलं कदल्यास्तक्रेण दध्ना तालफलेन वा| कणोषणाभ्यां मधुना काकमाचीं गुडेन वा||३५|| सिद्धां वा मत्स्यपचने पचने नागरस्य वा| सिद्धामन्यत्र वा पात्रे कामात्तामुषितां निशाम्||३६||

🔊 Audio coming soon

स०-श्वाविधा-सेधामांसेन सह, वाराहं मांसं नाद्यात्| अग्रेऽपि नाद्यादिति क्रियायोगो यावत्त्यजेदिति क्रियान्तरम्| पृषतकुक्कुटौ दध्ना सह नाद्यात्| आमानि-अपक्वानि मांसानि पित्तेन सह| माषसूपेन सह मूलकम्| आविं-मेषं, कुसुम्भशाकेन सह| विरूढकं-अङ्कुरितधान्यं, बिसैः सह| माषसूपादीनामन्यतमेन सह लकुचफलम्| कदल्याः फलं तक्रेण सह, दध्ना वा, तालफलेन वा| कणोषणाभ्यां सह काकमाचीम्, केवलेन माक्षिकेण सह काकमाचीम्, गुडेन वा सह काकमाचीम्, मत्स्याः पच्यन्ते यस्मिन् भाण्डे तत्र वा सिद्धां काकमाचीम्, नाद्यात्| नागरस्य वा पचने-शुण्ठीपाकभाण्डे सिद्धां काकमाचीम्, तथाऽन्यत्र वा भाजने यथारुचिसिद्धां कामात्तां काकमाचीं, रत्रिमुषितां-पर्युषितां, नाद्यात्|

Adhikarana pippalyAH matsyanistalanasnehena sarShiShaH kAMsye dashAhamuShitasya uShNArUShkarayoH (37) · Śloka 37

मत्स्यनिस्तलस्नेहे साधिताः पिप्पलीस्त्यजेत्| ` कांस्ये दशाहमुषितं सर्पिरुष्णं त्वरुष्करे||३७||

🔊 Audio coming soon

स०- मत्यानिस्तल्यन्ते- भृज्यन्ते, येन स्नेहेन सह- मत्स्यनिस्तलस्नेहः, तत्र साधिताः पिप्पलीस्त्यजेत्, विरुद्धत्वात्| नाद्यादिति प्रकृतेऽपि त्यजेदिति वचनं न केवलं नाद्यात्, लेपादिकमपि न कुर्यादिति प्रतिपादनार्थम्| उत्तरत्रापि त्यजेदित्यस्यानुवृत्तावेतदेव तात्पर्यम्| कांस्यपात्रे दशरात्रमुषितं सर्पिस्त्यजेत्| दशाहादर्वागविरुद्धमेव| अरुष्करे- भल्लातकविषये, उष्णं- अन्नपानादिकं त्यजेत्| तथा, "पेयं नोष्णोपचारेण" इत्यनेन मद्यस्योष्णं निषिद्धं| तथा, "उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैः "इति माक्षिकस्य| तथा, दध्नो-"नैवाद्यान्निशिनैवोष्णं वसन्तोष्ण" इत्यादिभिः| तस्मान्मधुमद्यदधिभल्लातकेष्वप्युष्णं विरुद्धमित्यत्राचार्यो युक्त्या प्रत्यपादयत्| सङ्ग्रहे तु स्पष्टं कृत्वोक्तं (सू. अ. ९)-"मद्यमधुदधिभल्लातकेषु चोष्णं|" इति|

Adhikarana BAsasya shUlasaMskArAt kampillasya takrasaMskArAt (38) · Śloka 38

भासो विरुध्यते शूल्यः कम्पिल्लस्तक्रसाधितः| |३८|

🔊 Audio coming soon

स०- भासः-पक्षिविशेषः शूल्यो विरुध्यते, शूले संस्कृतो भासः कृतपक्तिर्विरुध्यत इत्यर्थः| शूल्य इति "शूलोखाद्यत्" इति यत्| कम्पिल्लस्तक्रसाधितो विरुध्यते| सङ्ग्रहे चातोऽधिकमप्युक्तम्| यथा (सू.अ.९)-"सौवीरेण तिलशष्कुली| क्षीरेण लवणम्| नवनीतेन शाकम्| नवपुराणमामपक्वं चैकध्यम्| तथा सलिलावगाहः सहसोष्णाभितप्तस्य त्वग्दृष्ट्यपघाताय तृष्णातिवृद्धये च| तथैव पयःपानं रक्तपित्ताय| शरीरेणाऽयस्तस्य सहसाऽऽभ्यवहारश्छर्दिषे गुल्माय वा| वाचा त्वायस्तस्य स्वरसादाय|" इति|

Adhikarana pAyasAdInAM mithaH saMyogAt (38) · Śloka 38

| एकध्यं पायससुराकृशराः प्रिवर्जयेत्||३८||

🔊 Audio coming soon

स०-एकध्यं-एकत्र, पायससुराकृशरास्त्यजेत्| एकध्यमिति "एकाद्धो ध्यमुञ्" इति ध्यमुञ्|

Adhikarana madhvAdInAM mithaH saMyuktAnAm (39) · Śloka 39

मधुसर्पिर्वसातैलपानीयानि द्विशस्त्रिशः| एकत्र वा समांशानि विरुध्यन्ते परस्परम्||३९||

🔊 Audio coming soon

स०-मध्वादीनि समांशानि-तुल्यप्रमाणानि, मिथो विरुध्यन्ते| कथम् ? द्वे वा, त्रीणि वा, एकत्र वा सर्वाणि| यथा-मधुसर्पिषी, मधुवसे, मधुतैले, मधुसर्पिर्वसाः, मधुसर्पिर्वसातैलानि, इत्येवमादीनि| ननु, यद्येवंविधो विरोध उच्यते तत्कथमगस्त्यलेहे (हृ.चि.अ.३|१२८)-"कुडवं च पृथग्घृतात्| तैलात्सपिप्पलीचुर्णात्सिद्धशीते च माक्षिकात्||" इति तैलघृतमधूनां तुल्यांशानां प्रयोगः ? ब्रूमः| केवलानां मध्वादीनां समांशानामुपयोगो विरुद्धः न तु द्रव्यान्तरसंयुक्तानाम्| अपि तु द्रव्यान्तरसंयुक्तानां तेषां संयोगसंस्कारादिवशाद्विशिष्टगुणान्तरोत्पत्तिर्दृष्टा| तस्मादगस्त्यलेहादौ द्रव्यान्तरसंयोगादिवशादविरुद्ध एव|

Adhikarana madhvAjyayordivyAnupAnAt madhupuShkarabIjayoH madhumaireyashArkarANAm kShaireyasya manthAnupAnAt hAridrakaTutailayoH (40-41) · Śloka 41

भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः| मधुपुष्करबीजं च, मधुमैरेयशार्करम्||४०|| मन्थानुपानः क्षैरेयो, हारिद्रः कटुतैलवान्| |४१|

🔊 Audio coming soon

स०-भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानेन विरुध्येते| तृतीयार्थे तसिप्रत्ययः| अपिशब्दान्न केवलं समांश इत्यर्थः| मधु-माक्षिकं, पुष्करबीजं चैकध्यं विरुध्यते| तथा, मधुमार्द्वीकं, मैरेयं-खर्जूरासवं, शार्करं-शर्करया कृतं मद्यं, एतदेकत्रोपयुक्तं विरुध्यते| क्षैरेयः-पायसो, मन्थानुपानो विरुद्धः| मन्थोऽनुपानं यस्य स एवम्| क्षैरेय इति "क्षीराड्ढञ्" इति ढञ्| हारिद्रः-कुप्रसवः शाकविशेषः सर्पच्छत्रानुकारी पीताभासः, कटुतैलवान्-सर्षपतैलभृष्टो, विरुद्धः|

Adhikarana upodakAyAstilakalkasaMskAreNa (41) · Śloka 41

| उपोदकाऽतिसाराय तिलकल्केन साधिता||४१||

🔊 Audio coming soon

स०-उपोदका तिलकल्केन साधिताऽतिसाराय| तादर्थ्ये चतुर्थ्यत्र| अर्थो-निमित्तम्, तस्मै इदं-तदर्थम्, तदर्थमेवतादर्थ्यम्| तेनातीसारकारणमित्ययमर्थो जायते|

Adhikarana balAkAyA varAhavasABarjanAt (42) · Śloka 42

बलाका वारुणियुक्ता कुल्माषैश्च विरुध्यते| भृष्टा वराहवसया सैव सद्यो निहन्त्यसून्||४२||

🔊 Audio coming soon

स०-बलाका-पक्षिजातिः, वारुण्या-प्रसन्नया युक्ता, विरुद्धा| कुल्माषैः-नातिस्विन्नमुद्गादिभिश्च सह विरुध्यते| सैव बलाका, वराहवसया भृष्टा सद्यः-तत्क्षणादेव, प्राणान् मारयति|

Adhikarana tittiryAdInAM saMskAravisheShAt (43) · Śloka 43

तद्वत्तित्तिरिपत्राढ्यगोधालावकपिञ्जलाः| एरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः||४३||

🔊 Audio coming soon

स०-तित्तिर्यादय एरण्डेनाग्निना सिद्धाः, तत्तैलेन-एरण्डतैलेन, विमूर्च्छिताः-बहुशो भृष्टाः, तद्वत्-बलाकावत् सद्यो जीवितहराः| पत्राढ्यो-मयूरः|

Adhikarana hArItasya saMskAravisheShAt (44) · Śloka 44

हारीतमांसं हारिद्रशूलकप्रोतपाचितम्| हरिद्रावह्निना सद्यो व्यापादयति जीवितम्||४४||

🔊 Audio coming soon

स०-हारीतस्य-पक्षिविशेषस्य, मांसं हारिद्रशूलके प्रोतं- आसक्तं, च तत्पाचितं च हारिद्राग्निना सद्यो जीवितं हन्ति|

Adhikarana hAritasya BasmAdisaMyogAt (45) · Śloka 45

भस्मपांशुपरिध्वस्तं तदेव च समाक्षिकम्| |४५|

🔊 Audio coming soon

स०-तदेव-हारीतमांसं, भस्मपांशुपरिध्वस्तं समाक्षिकं विरुद्धम्| भस्म च पांशुश्च भस्मपांशू,-भूतिरेणू, ताभ्यां परिध्वस्तं-धूसरितम्| सिद्धसारे चोक्तम्-"न जातु कटुतैलेन भृष्टामद्यादुपोदकाम्| प्रियङ्गुकल्कदिग्धाङ्गः पायसं न समाचरेत्||" इति|

Adhikarana virUddhasya sAmAnyalakShaNAm (45-46) · Śloka 46

| यत्किञ्चिद्दोषमुत्क्लेश्य न हरेत्तत्समासतः||४५|| विरुद्धं| |४६|

🔊 Audio coming soon

द्रव्याणामानन्त्यात् प्रतिपदोक्त्याऽशेषविरुद्धसङ्ग्रहः कर्तुमशक्यः, इति तत्सङ्ग्रहार्थं व्यापि लक्षणमाह- स०-यत्किञ्चित्-अन्नपानमौषधं वा, दोषमुत्क्लेश्य-स्वस्थानात्सञ्चलय्य, न हरेत्-बहिर्न निष्कासयेत्, तत्र समासतः संक्षेपतो विरुद्धम्|

Adhikarana virUddhajavyAdhInAM pratIkAraH (46) · Śloka 46

शुद्धिरत्रेष्टा शमो वा तद्विरोधिभिः| |४६|

🔊 Audio coming soon

स०-शुद्धिरत्रेष्टा| अत्र-विरुद्द्धाहारकृते विकारे, शुद्धिः वमनविरेकादिरूपा, इष्टा-श्रेष्ठा| कुपितदोषसमूहस्य वमनादिभिर्निर्हरणात्तन्निर्हारे चारोग्योत्पत्तिः| शमो वेति| न केवलं शुद्धिरिष्टा, शमश्चेष्टः| कैः? तेषां-वैरोधिककोपितदोषाणां तत्कृतानां वा विस्फोटादीनां विकाराणां, विरोधिभिः-प्रतिपक्षभूतैरोषधैः|

Adhikarana anutpannAnAM pratibandhahetuH pratIkAraH (46) · Śloka 46

न च शोधनशमनरूप एवोपक्रमोऽत्रेत्याह- | द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिः||४६||

🔊 Audio coming soon

स०-तैरेव-वैरोधिककुपितदोषप्रतिपक्षभूतैर्द्रव्यैः, पूर्वं-प्रथमं, या शरीरस्याभिसंस्कृतिः, सा च विरुद्धाहारकृते विकारे प्रशस्तेति| यथा,-माक्षिकहरीतक्यादिना पित्तश्लेष्महरणौषधेन सन्ततशीलनादभिसंस्कृते देहे पित्तश्लेष्मकरं विरुद्धमुपयुक्तं सद्विकर्तुमशक्तम्| एतदुक्तं भवति,-विरुद्धप्रतिपक्षगुणवता द्रव्येण देहस्तथा दार्ढ्यं ग्राहितो यथा विरुद्धमपि द्रव्यं विकारं कर्तुं नालम्|

Adhikarana vyAyAmAdInAmanutpattihetutvam (47) · Śloka 47

व्यायामस्निग्धदीप्ताग्निवयःस्थबलशालिनाम्| विरोध्द्यपि न पीडायै सात्म्यमल्पं च भोजनम्||४७||

🔊 Audio coming soon

स०-व्यायामो विद्यते येषामिति "अर्शआदित्वात्" अच्| वयःस्थाः-तरुणाः| बलेन शालितुं-श्लाघितुं शीलं येषां ते-बलशालिनः| स्निग्धाः स्निग्धवृष्याहारसात्म्याः| व्यायामिनां विरोध्यपि भोजनं न पीडायै-न रोगोत्पत्तये| एवं स्निग्धादीनां प्रत्येकं सम्बन्धः कार्यः| केचित् "व्यायामि" इति पठन्ति| तथा, विरुद्धमप्यन्नं यदभ्यासात् सात्म्यं-सात्मीभूतं, तथा, अल्पं-अल्पमात्रया च यद्भोजनं, तच्च विरुद्धमपि न पीडायै इति योज्यम्| अथ यद्यपथ्यमपि सात्म्यतां प्राप्तं तत्किं त्याज्यं न वा? कथं च त्याज्यं ? कथं च पथ्यं भोज्यं? इत्याह-

Adhikarana sAtmyIkaraNe kramaH (48) · Śloka 48

पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्| निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम्||४८||

🔊 Audio coming soon

स०-अपथ्यं-अहितमन्नं पानं वा यल्लङ्घनप्लवनजागरणस्वप्नादिकं वा चेष्टितमहितमभ्यस्तं तत् पादेन-चतुर्थांशेन त्यजेत्, अहितफलत्वात्| तद्धि शरीरोचितमप्यपथ्यत्वादुदर्के दोषाय सम्पद्यते, न गुणाय| यदि तु तदपथ्यमभ्यस्तं तथा सात्म्यीभूतं यस्मिंश्चतुर्थाशेनाऽपि त्यज्यमानेन शरीरबाधा शङ्क्यते वह्निमान्द्याद्वा, तदा पादपादेन-षोडशांशेन वा त्यजेत्| इति वाशब्दार्थः| तेन तुल्यं वर्तते-तद्वत्,-तेनैव क्रमेण पादेन पादपादेन वा, हितं निषेवेत-शीलयेत्| कथमेतद्द्वयमप्यपथ्यपथ्यरूपं त्याज्यं निषेव्यं च ? इत्याह-एकेत्यादि| एकश्च द्वौ च त्रयश्च तैरन्तरीकृतम्| एकद्वित्रिभिरन्नकालैर्व्यवधानं कृत्वा [यथा भवति तथा] अपथ्यं पादेन पादपादेन वा त्यजेत्| तद्वत् हितं सेवेत| एकद्वित्र्यन्तरीकृतमिति क्रियाविशेषणत्वादत्र नपुंसकलिङ्गत्वम्| अधुनैतदेव स्पष्टीकृत्योच्यते| अपथ्यात्पाटलव्रीह्यादेरभ्यस्तात्पादमेकं त्यक्त्वाऽनुचितात्पथ्याद्रक्तशाल्यादेस्तमेव पादं दत्त्वा चतुष्पात्त्वं सम्पाद्य योज्यम्| एवमन्नकालमेकमतिवाहयेत्| एवं पादेनापथ्यमभ्यस्तं त्यक्तं भवति| पथ्यं चानुचितं निषेवितं भवति| ततो द्वितीयेऽन्नकाले सर्वमपथ्यं योजनीयम्| एवमेकेनान्नकालेनापथ्यपादोऽन्तरीकृतः| ततस्तृतीयेऽप्युचितादपथ्यात् पादद्वयमपास्यानुचितात्पथ्यात् पादद्वयमुपयुज्य, ततश्चतुर्थे सर्वमपथ्यं भोज्यं पञ्चमे च| एवमन्नकालद्वयेन पथ्यपादद्वयसहितमपथ्यपादद्वयमन्तरीकृतम्| ततः षष्ठेऽन्नकाले पादमुचितादपथ्यात् पादत्रयमनुचितात्पथ्याद्भुक्त्वा, सप्तमाष्टमनवमान्नकालेषु सर्वमपथ्यं भोज्यम्| एवमन्नकालत्रयेणापथ्यमन्तरीकृतम्| ततो दशमेऽन्नकाले सर्वं पथ्यं सेवनीयम्| एवं पादपादेनाप्ययमेव क्रमः| स्पष्टार्थं च दिक्प्रदशर्यते| यथा-यवकादेः षोडशांशं त्यक्त्वाऽनुचिताच्छाल्यादेः पथ्यात्षोडशांशमेव दत्त्वा चतुष्पात्त्वं सम्पाद्य भोज्यम्| एवमपथ्यमभ्यस्तं पादपादेन त्यक्तं भवति पथ्यं चानुचितं निषेवितं भवति| द्वितीयेऽन्नकाले सर्वमपथ्यं सेव्यम्| एवमेके (नान्नकाले) नापथ्यषोडशांशोऽन्तरीकृतः| ततस्तृतीयेऽप्युचितादपथ्यात् पादपादद्वयमपास्यानुचितात्पथ्यात् पादपादद्वयं दत्त्वा चतुष्पात्त्वं सम्पाद्य सेव्यम्| ततश्चतुर्थे पञ्चमे चान्नकाले सर्वमपथ्यं भोज्यम्| एवं कालद्वयेन पादपादद्वयमपथ्यस्यान्तरीकृतम्| ततः षष्ठेऽन्नकालेऽनुचितात्पथ्यात् पादपादत्रयमुचितादपथ्यात् पादपादास्त्रयोदशेति भोज्यम्| ततः सप्तमाष्टमनवमान्नकालेषु सर्वमपथ्यं भोज्यम्| एवं कालत्रयेणान्तरीकृतम्| ततो दशमेऽन्नकाले पथ्यादनुचितात् पादपादाश्चत्वारः, अपथ्यपादपादा द्वादशेति भोज्यम्| तत एकादशेऽन्नकाले सर्वमपथ्यं भोज्यम्| तत एकेनान्नकालेनान्तरीकृतम्| एवमन्नकालद्वयत्रयान्तरितं च तावद्योज्यम्, यावत्पथ्यस्य षोडशपादाः सेव्यतया सम्पद्यन्ते|

Adhikarana akrameNa sAtmyIkaraNe doShaH (41) · Śloka 41

एवमनेन क्रमेणापथ्यदोषास्त्यक्ताः पीडायै न भवन्ति, पथ्यगुणाश्च संवर्धिताः स्थिरतां प्राप्नुवन्ति| इत्यत आह अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा| सात्म्यासात्म्यविकाराय जायते सहसाऽन्यथा||४१||

🔊 Audio coming soon

स०-हि-यस्मात्, सहसा-क्रममिममनालोच्य, अन्यथा उक्तविध्यतिक्रमेण, अपथ्यमपि त्यक्तं सात्म्यविकाराय जायते| पथ्यमेव वा सहसा शीलितमसात्म्यविकाराय जायते| सात्म्यासात्म्याभ्यां विकारः-सात्म्यासात्म्यविकारः, तस्मै "क्ल्ऱ्पिसम्पद्यमाने" इति चतुर्थी|

Adhikarana krameNa sAtmyIkaraNe guNAH (50) · Śloka 50

क्रमेण त्वपथ्यत्यागपथ्यशीलने विधीयमाने गुणाय स्यातामिति दर्शयति क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः| सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||५०||

🔊 Audio coming soon

स०-दोषाः अपथ्याभ्यासजाः, क्रमेण-पूर्वोक्तेन, अपचिताः-क्षयं नीताः, गुणाश्च-पथ्योपयोगजाः, क्रमेण-पूर्वोक्तेनैव, उपचिताः-वृद्धिं नीताः सन्तः, पुरुषाणां यथासङ्ख्यमपुनर्भावं यान्ति दोषाः| गुणाश्चाप्रकम्प्याः-स्थिरा भवन्ति|

Adhikarana apathyasya sAtmyIkaraNaniShedhaH (51) · Śloka 51

साम्प्रतमहिताहारसेवनं सदा त्याज्यमिति सद्युक्तिं दर्शयति अत्यन्तसन्निधानानां दोषाणां दूषणात्मनाम्| अहितैर्दूषणं भूयो न विद्वान् कर्तुमर्हति||५१||

🔊 Audio coming soon

स०-दोषाणामहितैः-आहारादिभिः दूषणं कर्तुं विद्वान्-पण्डितो, नार्हति-न युज्यते| किम्भूतानाम्? अत्यन्तं-अतिशयेन, सन्निधानं-निकटत्वं, येषां दोषाणां त एवं तेषाम्| तथा, दूषणात्मनां-दूषणस्वभावानाम्|

Adhikarana yuktiprayojitairAhArAdiBiH sharIradhAraNam (52) · Śloka 52

एतत्प्रसङ्गेन चेदमाह आहारशयनाब्रह्मचर्येर्युक्त्या प्रयोजितैः| शरीरं धार्यते नित्यमागारमिव धारणैः||५२||

🔊 Audio coming soon

स०-आहारः-अन्नपानसेवा| शयनं-स्वप्नः| अब्रह्मचर्यं स्त्रीणां सेवा| आहारादीनां द्वन्द्वः| एतैर्युक्त्या प्रयोजितैः शरीरं सततं धार्यते| किमिव कैः? आगारं-गृहमिव, धारणैः स्तम्भैर्यथा|

Adhikarana tatrAhArasyAtideshaH (2) · Śloka 2

आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते| ||२||

🔊 Audio coming soon

स०-तत्र-तेषु त्रिषु मध्यात्, आहारो वर्णितः-ऋतुचर्यायां द्रवान्नस्वरूपविज्ञानीययोश्च| तत्र तत्र च-शास्त्रभागे ज्वरचिकित्सादौ च, वक्ष्यते|

Adhikarana nidrAyattaM sukhaduHkhAdikam (53-54) · Śloka 54

शयनाब्रह्मचर्ययोस्त्विहैव विधिं वक्तुकाम आह- | निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्||५३|| वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च| |५४|

🔊 Audio coming soon

स०-निद्रायत्तं-निद्राधीनम्| सुखं-आरोग्यम्| दुःखं-रोगः| तथा, पुष्ट्यादि च| जीवितं न च जीवितमिति सम्बन्धः| अजीवितेन-मरणेन योगो भवतीत्यर्थः|

Adhikarana nidrAyAshcaturvidhatvam (54-55) · Śloka 55

साम्प्रतं दुष्टनिद्रां निर्दिशति- | अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता||५४|| सुखायुषी पराकुर्यात् कालरात्रिरिवापरा| |५५|

🔊 Audio coming soon

स०-अकाले निषेविताऽति च निषेविता न च निषेविता निद्रा सुखं-आरोग्यलक्ष्णम्, आयुश्च-जीवितम्, ते सुखायुषी पराकुर्यात्-नाशयेत्| केव? अपरा कालरात्रिरिव|

Adhikarana caturvidhAyAH svarUpam (55-56) · Śloka 56

अथ निद्रागुणप्रसङ्गेन तत्प्रतिपक्षभूतस्य जागरणस्यापि गुणमाह | रात्रौ जागरणं रूक्षं, स्निग्धं प्रस्वपनं दिवा||५५|| अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्| |५६|

🔊 Audio coming soon

स०-अपिशब्दावत्र सामर्थ्यलब्धौ बोद्धव्यौ| तेन रात्रावपि जागरणं रूक्षम्, दिवा त्वाग्नेयमत्यर्थं रूक्षं कालेनाहितबलत्वात्| तथा, प्रस्वपनं दिवाऽपि स्निग्धम्, रात्रौ तु सौम्ये कालेऽतिशयेन स्निग्धमित्यवतिष्ठते| अपिशब्दाभ्यामन्तरेण तु रात्रावेव जागरणं रूक्षम्, दिवा तु स्निग्धमित्यर्थो जायते| व्यवच्छेद्यफलत्वाद्वाक्यानाम्| एवं दिवस एव स्निग्धं प्रस्वपनम्, रात्रौ तु रूक्षमिति| न चैतद्युज्यते| यदि जागरणं सदा रूक्षं नाभविष्यत्, तत्कथमिदमुपपत्स्यते ? "बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि| विषार्तः कण्ठरोगी च नैव जातु निशास्वपि||" इति| एषां ह्यापतर्पणमेव हितम्| यच्चापतर्पणं तदवश्यं रूक्षम्| तस्मादेतैरपतर्पणस्वभावं जागरणमेव सेव्यम्| तथा, "ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः| दिवास्वप्नोहितोऽन्यस्मिन् कफपित्तकरो हि सः|| मुक्त्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः| क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः|| वृद्धबालाबलक्षीणक्षततृट्शूलपीडितान्| अजीर्ण्यभिहितोन्मत्तान् दिवा स्वप्नोचितानपि||" तदेतेषां सन्तर्पणार्हत्वात्सन्तर्पणमेव हितम्| यच्च सन्तर्पणं तदवश्यं स्निग्धम्| तस्मादेतैः सन्तर्पणस्वभावमेव सदा प्रस्वपनं सेव्यम्| एवं च पूर्वमेव व्याख्यानं युक्तम्| प्रस्वप्नजागरणक्रिययोरद्रव्ययोरपि रूक्षस्निग्धत्वमुपचारादुपपन्नम्| यथा,-रूक्षं द्रव्यं गुग्गुल्वादि कफमेदःप्रभृतीन् सौम्यान् भावान् क्षपयति, तथैव यदा जागरणमपि तत्क्षपयद्दृष्टं तदा तद्रूक्षकार्यकरणादरूक्षमपि रूक्षमित्युपचर्यते| तथा, प्रस्वपनादर्वाक् कफमेदःप्रभृतीनां सोम्यानां भावानां स्वहेतोरुत्पादस्तथा नोपलभ्यते, यथा प्रस्वपनादनन्तरम्| तस्मात्प्रस्वपनमस्निग्धमपि स्निग्धमित्युपचर्यते| प्रचल इवाचरतीति क्यङन्तान्निष्ठा| आसीनस्य उपविष्टस्य, प्रचलायितं-अवघूर्णितं,-आसीनप्रचलायितम्, न तु प्रस्वपनं सर्वसर्विकया| येन स्नेहनहेतुः स्यात्| रूक्षकार्या करणादरूक्षम्| अनभिष्यन्दि तु विशेषेण| आसीनप्रचलायितं पुनरीदृग्रूपमित्यर्थः|

Adhikarana divAsvapnasyApavAdaH (56-59) · Śloka 59

यदि स्निग्धत्वादभिष्यन्दी दिवास्वप्नः, तत्किं कदाचिदपि न कार्यः? इत्याह- ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः||५६|| दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः| मुक्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः||५७|| क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः| वृद्धबालाबलक्षीणक्षततृट्शूलपीडितान्||५८|| अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितानपि| धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति||५९||

🔊 Audio coming soon

स०-ग्रीष्मकाले दिवास्वप्नो हितः| यतस्तस्मिन् काले पवनच्चयो भवति| आदानस्य च परिपुष्टत्वादतिरौक्ष्यं भवति| रात्रयश्चनिद्रासमाप्त्ययोग्या अल्पा भवन्ति| दिवास्वप्नश्च सन्तर्पकः| ग्रीष्मादपरस्मिन् काले कफपित्तकरः| सोऽचिन्त्यत्वाद्धेतुप्रभावस्य| भाष्यादिक्लान्तादीन् मुक्त्वा-वर्जयित्वा| तेनैतदुक्तं भवति,-ग्रीष्मादपरस्मिन्नपि काले स्वप्न एषां हित एव| यानं अश्वादि| क्षतः-खड्गादिच्छिन्नः| अभिहतो-लगुडादिना| दिवास्वप्नोचिताः-शीलितदिवास्वप्नाः| तत्र भाष्यादिक्लान्तानां पवनकोपात् स्वप्नोऽनुज्ञातः| श्वासहिध्मादीनां वेगविस्मरणार्थम्| वृद्धादीनां यथायथं सन्तर्पणार्थं वेगविस्मरणार्थं च| अजीर्णिनां दिवास्वप्नोचितानां च धातुवैषम्यपरिहारार्थं दिवास्वप्नोऽनुमतस्तन्त्रकृता| तथा चोक्तम्-"उचितो हि दिवास्वप्नो येषां नित्यं शरीरिणाम्| वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा||" इति| ननु, अजीर्णिनां दिवास्वप्नो न युक्तः, दिवास्वप्नस्य कफवृद्धिकरत्वात्| कफवृद्ध्या चाग्निमान्द्यम्| अग्निमान्द्यादजीर्णान्नस्यापाक इत्यनुक्तस्तेषां दिवास्वप्नः| अत्रोच्यते| दिवास्वप्नेनाजीर्णिनां धातुसाम्यं भवति| धातुसाम्ये च सतिस्वस्थानस्थितैर्दोषैरनुपहतो वह्निः पचनक्षमो भवति| कफस्तु वृद्धोऽपि नैतेषामग्निमान्द्यं विधत्ते| अपि त्वङ्गानां पुष्टिमादधाति| अत एवानन्तरमेवोवाच शास्त्रकारः-"धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति|" इति|

Adhikarana divAsvapnasyAsamyagyogatvam,rAtrisvapnasyApavAdaH (60) · Śloka 60

बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि| विषार्तः कण्ठरोगी च नैव जातु निशास्वपि||६०||

🔊 Audio coming soon

स०-तथा, बहुमेदःश्लेष्माणः स्निग्धाहारादिशीलिनश्च ग्रीष्मेऽप्यहनि न स्वप्युः| विषार्तः कण्ठरोगी च रात्रिष्वपि कदाचिदपि न स्वप्यात्|

Adhikarana akAlashayanAnmohAdayaH (61) · Śloka 61

अकालशयनान्मोहज्वरस्तैमित्यपीनसाः| शिरोरुक्शोफहृल्लासस्रोतोरोधाग्निमन्दताः||६१||

🔊 Audio coming soon

स०-अकाले शयनं-स्वप्नः,-अकालशयनम्, तस्मादकालशयनात् मोहादयः स्युः| स्तैमित्यं-गात्राणां निरुत्साहत्वम्|

Adhikarana tatra cikitsA (62-63) · Śloka 63

अत्र च का चिकित्सा? इत्याह तत्रोपवासवमनस्वेदनावनमौषधम्| योजयेदतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम्||६२|| नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः| एभिरेव च निद्राया नाशः श्लेष्मातिसङ्क्षयात्||६३||

🔊 Audio coming soon

स०-तत्र-तेष्वकालस्वप्नजेषु रोगेषु, उपवासाद्यौषधं योजयेत्| निद्रायाश्च बाहुल्येन रात्रिः कालः| तथा चोक्तम् (सङ्ग्रहे सू.अ.९)-"लोकादिसर्गप्रभवा तमोमूला तमोमयी| बाहुल्यात्तमसो रात्रौ निद्रा प्रायेण जायते||" इति| अतिनिद्रायां सत्यां तीक्ष्णानि वमनाञ्जननस्यानि योजयेत्, लङ्घनादि च| एभिरेव च-तीक्ष्णवमनादिभिर्निद्राया नाशो भवति| श्लेष्माख्यस्य धातोरतिशयेनापचयात्|

Adhikarana nidrAnAshajanyavikArAH (64) · Śloka 64

सम्प्रति निद्रानाशजान् विकारानाचष्टे निद्रानाशादङ्गमर्दशिरोगौरवजृम्भिकाः| जाड्यग्लानिभ्रमापक्तितन्द्रा रोगाश्च वातजाः||६४||

🔊 Audio coming soon

स०-निद्रानाशादङ्गमर्दादयो वातोत्थाश्च रोगाः स्युः|

Adhikarana yathAkAlaM rAtrau nidrA rAtrAvanidritasya divAsvanpaH (65) · Śloka 65

यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः| असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्||६५||

🔊 Audio coming soon

स०-यतश्च सम्यक् सेविताया निद्राया असम्यक् सेवितायाश्चाऽनन्तरोक्ता गुणदोषाः| अतः-अस्माद्धेतोः, कालानतिक्रमेण सात्म्यतो-यामद्वयं त्रयं वा, निशि निद्रां भजेत्| असात्म्याज्जागरादर्द्धेन प्रातः स्वप्यात्| अभुक्तवान्-अभुक्ते सति| असात्म्यग्रहणेनैतत् द्योतयति,-न सर्वस्य रात्रावसुप्तस्य जागरणकालादर्धेन दिवास्वप्न इष्यते, किं तर्हि ? यो यावन्तं कालमुचितं स्वपिति तस्मात्कालाद्यावन्तं कालं निशि जागृयात्तावतोऽर्धेनासौ प्रातः स्वप्यात्| केचिद्धि स्वल्पनिद्राः स्वभावतो भवन्ति|

Adhikarana mandanidrasya kShIrAdisevanam (66-68) · Śloka 68

शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि| अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम्||६६|| कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता| मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः||६७|| ब्रह्मचर्यरतेर्ग्राम्यसुखनिःस्पृहचेतसः| निद्रा सन्तोषतृप्तस्य स्वं काले नातिवर्तते||६८||

🔊 Audio coming soon

स०-यो मन्दनिद्रः स क्षीरादीन् शीलयेत्| कान्ताबाहुलताश्लेषादयो निद्रासुखहेतवः| कान्ताबाहुलताश्लेषग्रहणमाश्लेषमात्रमेव निद्रासुखहेतुः, न तु ग्राम्यधर्मसेवेति दर्शनार्थम्| अत एवानन्तरमाह-"ब्रह्मचर्यरतेर्निद्रा स्वं कालं नातिवर्तते|" इति| ब्रह्मचर्यरतस्याप्यनुरागतो मैथुनाभिलाषो निद्रां नाशयेदित्याह-ग्राम्यसुखे निःस्पृहं चेतो यस्य स तस्य| तथा, सन्तोषतृप्तस्य|

Adhikarana maithune niShiddhAni (69-72) · Śloka 72

यदा तु ग्राम्यधर्मेण विना न रतिः, अपत्यार्थिता वा, तदा तदधिकारार्थमुच्यते ग्राम्यधर्मे त्यजेन्नारीमनुत्तानां रजस्वलाम्| अप्रियामप्रियाचारां दुष्टसङ्कीर्णमेहनाम्||६९|| अतिस्थूलकृशां सूतां गर्भिणीमन्ययोषितम्| वर्णिनीमन्ययोनिं च गुरुदेवनृपालयम्||७०|| चैत्यश्मशानाऽऽयतनचत्वराम्बुचतुष्पथम्| पर्वाण्यनङ्ह्गं दिवसं शिरोहृदयताडनम्||७१|| अत्याशितोऽधृतिः क्षुद्वान् दुःस्थिताङ्गः पिपासितः| बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम्||७२||

🔊 Audio coming soon

स०-ग्राम्यधर्मे-स्त्रीपुंसंयोगविषये, अनुत्तानं स्त्रियं त्यजेत्, उत्तानां- भजेदित्यर्थः| तथा, रजस्वलत्वादियुतां त्यजेत्| दुष्टं व्याधिमलादिभिः, सङ्कीर्णं-सङ्कटं च, मेहनं-योनिर्यस्यास्ताम्| तथा, वर्णिनीं-ब्रह्मचारिणीम्| अन्ययोनिं-अजामहिष्यादिं च त्यजेत्| गुर्वित्यादि| ग्राम्यधर्मे निर्वर्तने सति गुरुदेवनृपालयांस्त्यजेत्| तथा, चैत्यादींस्त्यजेत्| तेषु स्त्रियं न सङ्गच्छेदित्यर्थः| चैत्यादीनां पर्याया दिनचर्यायामुक्ताः| आयतनं-दुष्टानां निग्रहस्थानम्| पर्वाणि-रविसङ्क्रान्त्यादीनि त्यजेत्, तेषु कामं न सेवेतेत्यर्थः| तथा, अनङ्गं,-अङ्गं-जघनम्, नाङ्गं-अनङ्गमङ्गसदृशं जघनकार्यनिर्वर्तनयोग्यं मुखादिकमुच्यते| दाक्षिणात्या हि मुखेन तत् कुर्वन्ति, तन्निषिध्यते| दिवसं च त्यजेत्, दिने रतं न कुर्वन्ति, तन्निषिध्यते| दिवसं च त्यजेत्, दिने रतं न कुर्वीतेत्यर्थः| मूर्धवक्षोऽभिघातं च त्यजेत्| तथा, अत्याशितादयः सुरतं त्यजेयुः| अत्याशितःअतिसुहितः| अधृतिः-दुर्मनाः| अन्यवेगार्तः-पुरीषादिवेगातुरः| ननु, क्षुद्वेगार्त उच्यते| ततोऽन्यवेगार्त इत्यनेनैवास्यार्थस्य लब्धत्वात् किं क्षुद्वानित्यनेन? सत्यमेतत्| अतिशयार्थं त्वेतत्| यथा क्षुद्वेगार्तः स्त्रियं गच्छन्नतिशयेन पीडया बाध्यते, न तथाऽन्यवेगार्त इति|

Adhikarana RutuvisheShe samBoganiyamaH (73) · Śloka 73

सम्प्रति ऋतुविशेषेषु निधुवनं नियमयति सेवेत कामतः कामं तृप्तो वाजीकृतां हिमे| त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः||७३||

🔊 Audio coming soon

स०-तृप्तो-वाजीकरणैः सञ्जातसन्तर्पणः सन्, कामतो- यथेच्छया, हिमे-हेमन्तर्तौ शिशिरे च, कामं-यथेच्छं, सेवेत| वाजीकृतामिति सम्पदादित्वात्क्विप्| तृप्त इति क्तोऽधिकरणे च ध्रौव्येत्यादिनाऽधिकरणे क्तः| अधिकरणवाचिनश्चेति षष्ठी| वसन्ते शरदि च त्र्यहात्-त्रयहमतिक्रम्य, मैथुनं निषेवेत| वर्षाग्रीष्मयोः पक्षात् कामं भजेत्|

Adhikarana anyaprakAreNa strIgamane bhramAdayaH (74) · Śloka 74

भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयाः| अपर्वमरणं च स्यादन्यथा गच्छतः स्त्रियम्||७४||

🔊 Audio coming soon

स०-अन्यथा-उक्ताद्विधेरन्येन प्रकारेण, स्त्रियं गच्छतो भ्रमादयः स्युः| अपर्वणि-अकाले मरणं-अपर्वमरणम्|

Adhikarana samyaksamBogAcaraNe Palam (75) · Śloka 75

स्मृतिमेधायुरारोग्यपुष्टीन्द्रिययशोबलैः| अधिका मन्दजरसो भवन्ति स्त्रीषु संयताः||७५||

🔊 Audio coming soon

स०-स्त्रीषु संयताः-स्त्रीः सम्यक् सेवमानाः, स्मृत्यादिभिरधिका अल्पजराश्च भवन्ति|

Adhikarana samBogAvasAne sevyAH (76) · Śloka 76

स्नानानुलेपनहिमानिलखण्डखाद्य शीताम्बुदुग्धरसयूषसुराप्रसन्नाः| सेवेत चानु शयनं विरतौ रतस्य तस्यैवमाशु वपुषः पुनरेति धाम||७६||

🔊 Audio coming soon

स०-रतान्ते यथौचित्येन स्नानादीन् सेवेत| खण्ड्दखाद्यं खण्डकृतं कणिकेत्यादि(?)| रसो-मांसरसः| चानुशयनमिति| अनु-पश्चाच्च, स्वप्नं सेवेत| तस्य-स्नानादिसेविनः शरीरस्य, एवं-अस्मिन्कृते, धाम-तेजो, भूय आगच्छति| त्मौ जौ वसन्ततिलकं गुरुकद्वयं च| सङ्ग्रहे चोक्तम् (सू.अ.९)- "स्नानाङ्गरागव्यजनेन्दुपादयूषासवक्षीररसान् रसालाम्| भक्ष्यान् सिताढ्यान् सलिलं सुशीतं सेवेत निद्रां च रतान्ततान्तः||" इति|

Adhikarana vaidyAdhIne deharakShaNe Palam (7) · Śloka 7

एतञ्च सर्वं पूर्वोक्तं हिताहितं वैद्य एव वेत्ति| तस्माद्वैद्यस्य सर्वथा शरीरं राज्ञा निवेद्यमिति दर्शयन्नाह श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निरनुबन्धं देहरक्षां निवेश्य| भवति विपुलतेजःस्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालश्चिरायुः||७७|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्नरक्षा नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon

स०-भिषजि शरीररक्षणं निरनुबन्धं-निर्विकल्पमाधाय, पृथ्वीशो बहुकालमात्मीय श्रेष्ठफलभोगवान् भवति| तथा, तेजश्च स्वास्थ्यं च कीर्तिश्च प्रभावश्च, त एवम्, विपुलाः विस्तीर्णाः, तेजःस्वास्थ्यकीर्तिप्रभावा यस्य स एवंविधः| कीदृशो भिषजि ? श्रुतं-शास्त्रावबोधः, चरितं-आचारः, ताभ्यां समृद्धे-सम्पूर्णे| तथा, क्रियाचतुरे| तथा, कृपालौ| वसुमुनिविरतिश्चेन्मालिनी नौ मयौ यः| इति श्रीमृगाङ्कदतपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थानेऽन्नरक्षाध्यायः सप्तमः समाप्तः|| ७||