Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. mātrāśitīyādhyāyō'ṣṭamaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

स० -अन्नरक्षाध्यायादनन्तरं मात्राशितीयाध्यायारम्भो युक्तः| यतो विषादिभ्यो रक्षितमन्नपानं हीनमात्रातिमात्राभ्यवहृतं जीवितोपघाताय सम्पद्यते| मात्राभ्यवहृतं प्राणिनां प्राणाय|-

Adhikarana mAtrAshitIyAdhyAyo~aShTamaH (2) · Śloka 2

अथातो मात्राशितीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२||

🔊 Audio coming soon

स०-अथेत्यानन्तर्ये| यथा,-"अथाऽतो धर्मजिज्ञासा|" इत्यत्र मीमांसायां वेदाध्ययनादनन्तरं धर्मो जिज्ञासितव्य इत्यर्थः| अत इति प्रस्तुताभिसम्बन्धे| अशनं-अशितम्| भावे निष्ठा| मात्रयाऽशितं-मात्राशितम्, तस्मै हितो मात्राशितीयः| शेषं पूर्ववद्व्याख्येयम्|

Adhikarana mAtrAshanam (1) · Śloka 1

मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका| मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि||१||

🔊 Audio coming soon

स०-सर्वकालं-स्वस्थ आतुरो वा, मात्राशी स्यात्-परिमिताशी भवेत्| कुतो हेतोः ? हि-यस्मात्, मात्राऽग्नेः प्रवर्तिका स्वव्यापारे| अग्निप्रवृत्तिश्च देहस्थितिहेतुः| तथा चोक्तम्-"अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्|" इति| तस्मान्मात्रायाः प्राधान्यम्| अस्माच्च कारणान्मात्रायाः प्राधान्यं यतो मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघूनि च| तत्र गुरूणि-पिष्टक्षीरद्राक्षाक्षोडेक्षुमाषानूपमांसादीनि| लघूनि-दिव्योदकरक्तशालिषष्टिकमुद्गलावकपिञ्जलैणशशशम्बरादीनि|

Adhikarana gurUNAM laghUnAM ca mAtrApramANam (2) · Śloka 2

तत्र गुरूणां का मात्रा ? का(च) लघूनाम् ? इत्याह गुरूणामर्धसौहित्यं लघूनां नातितृप्तता| मात्राप्रमाणं निर्दिष्टं सुखं यावद्विजीर्यति||२||

🔊 Audio coming soon

स०-गुरूणां द्रव्याणामर्धसौहित्यं-अर्धतृप्तिः| लघूनां नातितृप्तता-नातितृप्तिः, किं तर्हि ? सौहित्यमात्रम्| एतन्मात्राप्रमाणं निर्दिष्टम्| मात्रा-ह्रस्वा मध्या बृहती च, तस्याः प्रमाणं-मात्राप्रमाणम्| तत्र मात्रा-परिमाणं मानम्, तस्यास्तु प्रमाणं-उन्मानम्| एवं चात्र मात्राशब्दस्यापौनरुक्त्यम्| हि यस्मात्, यावत् परिमाणमभ्यवहृतं सुखं-अविकृतिं कृत्वा, जीर्यति-परिणमति|

Adhikarana hInamAtraBojane doShAH (3) · Śloka 3

भोजनं हीनमात्रं तु न बलोपचयौजसे| सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते||३||

🔊 Audio coming soon

स०-हीनमात्रं पुनरशनं न बलाय, नोपचयाय, न चौजसे| सर्वेषां वातरोगाणां हेतुतां-कारणतां याति|

Adhikarana atimAtre doShAH (4) · Śloka 4

अतिमात्रं त्वशनं त्रीनपि दोषान् प्रकोपयेत्| |४|

🔊 Audio coming soon

स०-अतिमात्रं त्वशनं त्रीनपि दोषान् शीघ्रमेव प्रकोपयति|

Adhikarana visUcikAlasakayoH samprAptiH (4-6) · Śloka 6

प्रकुपिताश्च त्रयो दोषा अलसकाख्यं विसूचिकाख्यं वा व्याधिं यथा कुर्वन्ति, तथा दर्शयति | पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः||४|| आमेनान्नेन दिष्टेन तदेवाविश्य कुर्वते| विष्टम्भयन्तोऽलसकं च्यावयन्तो विसूचिकाम्||५|| अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः| |६|

🔊 Audio coming soon

स०-तेनापक्वेनान्नेन-आहारेण, दुष्टेन वताद्या हि-यस्मात्, पीड्यमानाः-विबध्यमानाः रुद्धमार्गत्वात्, अत एव युगपत्-एककालं सर्व एव, कोपितास्तदेव-दुष्टमन्नमाविश्य-आश्रित्यालसकं कुर्वते| किं कुर्वतः ? विष्टम्भयतः,-तदेव दुष्टमन्नं स्रोतःसु रुन्धानाः| तथा, अधरोत्तरमार्गाभ्यां सहसैव-अनुचिते देशे काले (च), च्यावयन्तः-ऊर्ध्वमधश्च निष्काशयन्तः| अजितात्मनः-असंयतचेतसः पुंसौ विसूचिकां कुर्वते|

Adhikarana alasakanirvicanam (6-7) · Śloka 7

| प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते||६|| आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः| |७|

🔊 Audio coming soon

स०-ऊर्ध्वं-मुखेनाहारो न प्रयाति, न चाधस्तात्-गुदेन प्रयाति, न चाहारः पच्यते, आमशये-"नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः|" तस्मिन्, अलसीभूत इवालसीभूतः| यथा,-अकर्मशीलः पुरुषोऽलस इत्युच्यते, तथाऽयमाहारोऽलसीभूतस्तिष्ठति| तेन हेतुना स रोगोऽलसकः स्मृतः|

Adhikarana visUcikAnirvacanam (7-8) · Śloka 8

विसूचिकाया निर्वचनमाह | विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः||७|| सूचीभिरिव गात्राणि विध्यतीति विसूचिका| |८|

🔊 Audio coming soon

स०-वाय्वादीनां त्रयाणामत्यन्तप्रकोपात् नानाप्रकारैर्वेदनोद्भेदैः-पीडोत्पादैः, यस्माद्गात्राणि सूचिभिरिव विध्यति, तस्माद्विसूचिकेत्युच्यते| विविधानां विकाराणां सूचिका-विसूचिकेत्युच्यते|

Adhikarana visUcikAlakShaNam (8-9) · Śloka 9

| तत्र शूलभ्रमानाहकम्पस्तम्भादयोऽनिलात्||८|| पित्ताज्ज्वरातिसारान्तर्दाहतृट्प्रलयादयः| कफाच्छर्द्यङ्गगुरुतावाक्सङ्गष्ठीवनादयः||९||

🔊 Audio coming soon

स०-वातादधिकात् शूलादयो भवन्ति| आदिशब्देनाङ्गोद्वेष्टनमुखशोषादिपरिग्रहः| पित्ताद्दृद्धात् ज्वराद्याः स्युः| प्रलयो-मूर्च्छाप्रायः| आदिशब्देन मदादिपरिग्रहः| कफादधिकात् छर्द्यादयो भवन्ति| आदिशब्देन क्षवथ्वादीनां ग्रहणम्|

Adhikarana alasakalakShaNam (10-12) · Śloka 12

विशेषाद्दुर्बलस्याल्पवह्नेर्वेगविधारिणः| पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा||१०|| अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम्| शूलादीन् कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्||११|| सोऽलसः| |१२|

🔊 Audio coming soon

स०-दुर्बलत्वादियुक्तस्य यन्मारुतेन विशेषादन्नं पीडितम्, अन्तरा-आमाशयमध्य एव, श्लेष्मणा रुद्धं-अलसीभूतम्, तथा दोषैः क्षोभितं-आकुलितम्, अत एवातिपीडाकारित्वाच्छल्यरूपतयैव स्थितम्, तीव्रान्-दुःसहान्, शूलादीन् छर्द्यादिवर्जितान् कुरुते| छर्द्यतीसाराभ्यां हि विसूचिकोक्ता| सोऽलससंज्ञो रोगः| दुर्बलो ह्यनुपचितधातुः, स न कदाचिदाहारं सोढुं शक्तः| अल्पाग्निश्चाहारं न सम्यक् जरयति| यतो वेगधारणशीलस्य प्रतिहतो वायुर्विमार्गगः पित्तकफावपि विमार्गगौ कुरुते, इत्येतद्विशेषेण निर्देशः|

Adhikarana daNDakAlasakalakShaNam (12-13) · Śloka 13

दण्डकालसकं लिलक्षयिषुराह- अत्यर्थदुष्टास्तु दोषा दुष्टामबद्धखाः| यान्तस्तिर्यक्तनुं सर्वां दण्डवत्स्तम्भयन्ति चेत्||१२|| दण्डकालसकं नाम तं त्यजेदाशुकारिणम्| |१३|

🔊 Audio coming soon

स०-चेद्यद्यर्थे| अतिशयेन दुष्टा दोषाः, तथा दुष्टामेन बद्धानि-पूर्णानि, खानि-स्रोतांसि, यैस्ते दुष्टामबद्धखाः, तथा तिर्यग्गच्छन्तः, तनुं सर्वां-शरीरं सकलं, दण्डवद्यदि स्तम्भयन्ति-प्रसारणाकुञ्चनरहितं कुर्वन्ति, तदा दण्डकालसको नाम रोगो भवति| तं-दण्डकालसकं, त्यजेत्-नोपक्रमेत्| यत आशुकारिणम्,-आशु-शीघ्रं स्वकर्म मारणं करोतीत्याशुकारी, क्षिप्रं हन्तीत्यर्थः|

Adhikarana AmaviShalakShaNam (13-14) · Śloka 14

सम्प्रत्यामविषं निर्दिशति | विरुद्धाध्यशनाजीर्णशीलिनो विषलक्षणम्||१३|| आमदोषं महाग़ोरं वर्जयेद्विषसंज्ञकम्| विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः||१४||

🔊 Audio coming soon

स०-विरुद्धं-प्रागुक्तम्, "विरुद्धमम्लं" (हृ.सू.अ. ७|३१) इत्यादिना| "विद्यादध्यशनं" (हृ.सू.अ. ८|३४) इत्यादिना-अध्यशनम्| अजीर्णं च-त्रिविधं वक्ष्यति| एतानि शीलितुं शीलं यस्य तस्य पुंसो य, आमदोषो विषलक्षणः-लालादिलक्षणयुक्तो, महाग़ोरो-अतिकष्टो विषाख़्यो यो भवति, तं न चिकित्सेत्| कुतः ? विषरूपत्वादाशुकारित्वाद्विरुद्धोपक्रमत्वाच्च| विषसदृशस्वरूपत्वाद्विषे शीतोपक्रमो युक्तः, आमे चोष्णोपक्रमो युक्तः, इति विरुद्धोपक्रमत्वम्|

Adhikarana alasakacikitsA (15-16) · Śloka 16

अथाममलसीभूतं साध्यं त्वरितमुल्लिख़ेत्| पीत्वा सोग्रापटुफलं वार्युष्णं योजयेत्ततः||१५|| स्वेदनं फलवर्तिं च मलवातानुलोमनीम्| नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्||१६||

🔊 Audio coming soon

स०-अथेत्यानन्तर्ये| पूर्वोक्तं साध्यासाध्यमवगम्यानन्तरमामं साध्यमदुष्टं सन्तं त्वरितं-द्राक्, आतुर उल्लिख़ेत्-उद्वमेदित्यर्थः| किंविधमामम् ? अलसीभूतम्,-अलसलक्षणतां गतम्| कथमुल्लिख़ेत् ? इत्याह-पीत्वेत्यादि| जलमुष्णं पीत्वा वचालवणमदनफलयुक्तं, वमेदित्यर्थः| ततोऽनन्तरं स्वेदनं योजयेत्| तथा-"विपाच्य मूत्राम्लमधूनि दन्तीपिण्डीतकृष्णाबिडधूमकुष्ठैः| वर्तिं कराङ्गुष्ठनिभां ग़ृताक्तां गुदे रुजानाहहरीं विदध्यात्||" इत्यादि फलवर्तीं च मलवातानुलोमनीं योजयेत्| तत्रामदोषे दोषवशादङ्गानि च नाम्यमानानि-सङ्कोच्यमानानि सन्ति, अत्यर्थं स्विन्नानि वस्त्रादिना वेष्टयेत्|

Adhikarana visUcikAcikitsA (17) · Śloka 17

विसूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते| तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्||१७||

🔊 Audio coming soon

स०-विसूच्यां-पूर्वोक्तलक्षणायाम्, अतिवृद्धायां सत्यां पार्ष्ण्योः-खुरिकयोः, अयःशलाकादिना दाहः प्रशस्यते| तदहः-विसूचिकारम्भदिवस एव, एनं-विसूचिकावन्तं, उपवास्य-लङ्घयित्वा, विरक्तवत्-पेयादिक्रमेणोपाचरेत्| सुश्रुते (?) चोक्तम् (सङ्ग्रहे सू.अ.११)-"सुच्छर्दितविरिक्तस्य गात्रायामेऽतिदारुणे| भल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः|| घृततैलं पचेत् साम्लैस्तच्च खल्लीघ्नमुत्तमम्|| त्वक्पत्ररास्नागुरुशिग्रुकुष्ठैरम्लप्रतिष्ठैः सवचाशताह्वैः| उद्वर्तनं खल्लिविसूचिकाघ्नं तैलं विपक्वं च तदर्थकारि|| शिरीषनक्ताह्वफणिज्जबीजत्रायन्त्यपामार्गफलानि वर्तिः| बस्तस्य मूत्रेण विसूचिकाघ्नी प्रलेपनस्याञ्जनधूमयोगैः||" इति|

Adhikarana AmadoShiNaH shamanauShadhaniShedhaH (18-19) · Śloka 19

अजीर्णिनो भेषजं निषेधति तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्| आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम्||१८|| निहन्यादपि चैतेषां विभ्रमः सहसाऽऽतुरम्| |१९|

🔊 Audio coming soon

स०-अजीर्णी-अजीर्णवान्, तीव्रशूलोऽपि सन् शूलहरमौषधं न पिबेत्| वमनकरमुष्णोदकं च प्रागुपदिष्टमेव पिबेदित्यर्थः| शूलघ्नमित्युपलक्षणार्थम्| छर्द्यतीसारघ्नमपि विसूचिकायां न पिबेत्| यत आमेन सन्नो-मन्दीभूतोऽग्निर्दोषौषधाशनं पक्तुं न समर्थः| एतेषां च-दोषौशधाशनानां, त्रयाणां सम्बन्धी यो विभ्रमो-व्यापत्तिः, सहसा-कालमनपेक्ष्यैव, आतुरं हन्यात्| न केवलमिदं गुणाय सम्पद्यते, प्रत्युत दोषं करोतीति सूचनार्थमपि चेति कृतम्|

Adhikarana AmadoShiNo~avasthAvisheShe auShadham (19-20) · Śloka 20

कदा औषधं युञ्जीत ? इत्याह- | जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे||१९|| दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च| |२०|

🔊 Audio coming soon

स०-जीर्णमशनं यस्य तस्मिन्नौषधं युञ्ज्याद्वैद्यः| कीदृशि ? स्तब्धं-अचलं, गुरूदरं-कोष्ठो, यस्य तस्मिन्| किमर्थमौषधं युञ्ज्यात् ? इत्याह-दोषेत्यादि| गतार्थम्|

Adhikarana AmadoShasAmAnyacikitsA (20-21) · Śloka 21

कीदृशमौषधं योज्यमित्याह | शान्तिरामविकाराणां भवति त्वपतर्पणात्||२०|| त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्| |२१|

🔊 Audio coming soon

स०-तुरवधारणे| यस्मादतर्पणादेवामजानां विकाराणां-आलस्यजाड्याग्निमान्द्यादीनाम्, शान्तिः-उपशमो, भवति| तस्मादतर्पणं योजयेत्| वक्ष्यति हि (हृ.सू.अ. १४|१०)-"मेहामदोषातिस्निग्ध" इत्यारभ्य यावत् "लङ्घयेन्नित्यम्" इति| तस्मादतर्पणं समीक्ष्य-देशकालाग्न्यादीन् पर्यालोच्य, त्रिप्रकारं त्रिप्रकारे दोषे वैद्यः प्रयोजयेत्|

Adhikarana alpamadhyapraBUtadoShacikitsA (21-22) · Śloka 22

सम्प्रत्येतदेव यथायोग्यमाह- | तत्राल्पे लङ्घनं पथ्यं, मध्ये लङ्ह्घनपाचनम्||२१|| प्रभूते शोधनं, तद्धि मूलादुन्मूलयेन्मलान्| |२२|

🔊 Audio coming soon

स०-तत्र-तेषु त्रिषु मध्ये, अल्पे दोषे, लङ्घनं-उपवासाख्यं, पथ्यम्| तेन ह्यनलानिलवृध्द्याऽल्पो दोषः शीघ्रं संशोष्य जीयते| मध्ये दोषे लङ्घनं पाचनं च पथ्यम्| अग्निः पचति, तस्य पचतो ये विबन्धहेतवः, तान्निषिध्य पाटवं पक्तुरादधतः पचेति प्रयुङ्क्त इव तत् पाचयतीति पाचनमुच्यते| हेतुमण्णिजन्तात्पचेर्बाहुलकात्कर्तरि ल्युट्| यदुपयुक्तमन्नपानौषधमपक्वानां सामानां धातूनां पाचने समर्थं तत् पाचनमित्यर्थः| प्रभूते शोधनं पथ्यम्| शोधनं तु कायाद्बहिर्दोषानीरयति| वक्ष्यति हि (हृ.सू.अ. १४|५)-"यदीरयेद्बहिर्दोषान् पञ्चधा शोधनं तु तत्|" इत्यादि| कुतः प्रभूत आमदोषे शोधनं हितम् ? इत्याह-तद्धीत्यादि| हि-यस्मात्, तत्-शोधनम्, मूलान्मलान्नाशयेत्| सङ्ग्रहेऽप्युक्तम् (सू.अ. ११)-बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम्| न ह्यस्राविते पल्वलोदकौघे शाल्यादिपुष्टिर्भवति|" इति|

Adhikarana evamanyavyAdhicikitsA,hetuvyAdhiviparyayacikitsA (22-23) · Śloka 23

| एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात्||२२|| चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्| त्यक्त्वा यथायथं वैद्यो युञ्ज्याद्व्याधिविपर्ययम्||२३||

🔊 Audio coming soon

स०-यथा सन्तर्पणोत्थ आमदोषो निदानविपर्ययाच्चिकित्स्यते, एवमन्यानपि ज्वरादीन् विकारान् स्वनिदानविपर्ययाच्चिकित्सेत्| सन्तर्पणोत्थोऽपतर्पणेन, शीतोत्थ उष्णेन, इत्यादि| यदि त्वेवमुपक्रम्यमाणो व्याधिरनुबध्येत-तेनोपशमं न गच्छेत्, ततो हेतुविपर्ययं त्यक्त्वा व्याधिविपर्ययं युञ्ज्यात्| किम्भूतम् ? यथायथं,-यद्यस्य ज्वरादिव्याधेर्भैषज्यं वक्ष्यमाणं तत्प्रयुञ्जीतेत्यर्थः| यथा, (सङ्ग्रहे सू.अ. १२)-"मुस्तापर्पटकं ज्वरे, रजनी यवान्नं प्रमेहे" इति|

Adhikarana tadarthakArI cikitsA,pakvadoShANAM cikitsA (24) · Śloka 24

न च हेतुव्याधिविपर्यययोरेव चिकित्सायामुपयोग इति दर्शयन्नाह तदर्थकारि वा, पक्वे दोषे त्विद्धे च पावके| हितमभ्यञ्जनस्नेहपानबस्त्यादि युक्तितः||२४||

🔊 Audio coming soon

स०-तत्-निदानव्याधिविपर्ययसाध्यं, अर्थं-रोगोपशमलक्षणं, कर्तुं शीलं यस्य तत्-तदर्थकारि| तद्वा युञ्ज्यात्| यथा (सङ्ग्रहे सू.अ. १२)-"मदात्यये मद्यपानम्, अतिसारे विरेचनम्" इति| वाशब्दः समुच्चयार्थः| इति त्रिविधमौषधं निर्दिश्याऽऽमचिकित्सामेवानुसरन्नाह-पक्व इति| पक्वे दोषे-निरामे, दीप्ते पावके च| निरामत्वे दीप्ताग्नित्वे च समुचितमेव हितमभ्यङ्गादिकम्| युक्तितो-मात्रया, यथाऽग्निसादादि न भवतीति|

Adhikarana AmAjIrNalakShaNam (25) · Śloka 25

अजीर्णं लक्षयितुमाह अजीर्णं च कफादामं तत्र शोफोऽक्षिगण्डयोः| सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम्||२५||

🔊 Audio coming soon

स०-अग्निप्रतिपक्षत्वेन कफस्याजीर्णकरणप्राधान्यादग्रे निर्देशः| कफात्सकाशादजीर्णमामसंज्ञकं भवति| तत्र-आमाख्येऽजीर्णे, अक्षिकूपयोर्गण्ड्योश्च शोफो भवति| सद्योभुक्तवदप्राप्तविदाहावस्थ उद्गारः| प्रसेकः-प्रसक्तं निष्ठीवनम्| उत्क्लेशो-दोषाणां स्थानाच्चलनम्| गौरवं-गात्राणम्|

Adhikarana viShTabdhAjIrNalakShaNam (26) · Śloka 26

विष्टब्धमनिलाच्छूलविबन्धाध्मानसादकृत्| |२६|

🔊 Audio coming soon

स०-अनिलाद्विष्टब्धं नामाजीर्णं भवति| तच्च शूलादिकृत्|

Adhikarana vidagdhAjIrNalakShaNam (26) · Śloka 26

| पित्ताद्विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत्||२६||

🔊 Audio coming soon

स०-पित्ताद्विदग्धं नामाजीर्णमुत्पद्यते| तच्च तृडादियुक्तम्|

Adhikarana AmAjIrNAdInAM cikitsA (27) · Śloka 27

त्रिविधस्यैवास्य चिकित्सामाह लङ्घनं कार्यमामे तु, विष्टब्धे स्वेदनं भृशम्| विदग्धे वमनं, यद्वा यथावस्थं हितं भवेत्||२७||

🔊 Audio coming soon

स०-तुरवधारणे| आमाख्येऽजीर्णे लङ्घनमेव कार्यम्, न वमनविरेचनादि| विष्टब्धे स्वेदनं भृशं कार्यम्| भृशशब्देनैतत् द्योतयति,-पूर्वत्रापि स्वेदनं कार्यमत्र त्वत्यर्थमिति| विदग्धे-विदग्धनाम्न्यजीर्णे, वमनं कार्यम्| यद्वा लङ्घनस्वेदनवमनानां यथावस्थं-यथादोषोद्रेकं, हितं भवेत्तदेव कार्यम्| आमाजीर्णेऽपि स्वेदनवमने, विदग्धेऽपि लङ्घनस्वेदने, इति|

Adhikarana vilambikAlakShaNaM cikitsA ca (28) · Śloka 28

गरीयसो भवेल्लीनादामादेव विलम्बिका| कफवातानुबद्धाऽऽमलिङ्गा तत्समसाधना||२८||

🔊 Audio coming soon

स०-गरीयसः-प्रभूतात्, आजीर्णादेव विलम्बिका स्यात्| कीदृशात् ? लीनात्-अत्यर्थं स्रोतःसु श्लिष्टत्वात्| लीनादिति लीङ् श्लेषण इत्यस्य क्तप्रत्यये स्वादय ओदित इत्योदितश्चेति निष्ठानत्वम्| सा च श्लेष्मवायुभ्यामनुबद्धा-युक्ता भवति| आमं नाम यदजीर्णं तत्सदृशलक्षणा| यथा-"शोफोऽक्षिगण्डयोः| अद्यो भुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम्||" इति| तेन-आमेन, समं-तुल्यं, साधनं-चिकित्सा, यस्याः सैवम्| "लङ्घनं कार्यमामे" इति|

Adhikarana rasasheShalakShaNaM cikitsA ca ajIrNino divAsvaprabhojane cikitsA (29-30) · Śloka 30

जीर्णेऽप्याहारे कदाचिदाहारसारो रसोऽजीर्णः स्यात्| तल्लक्षणार्थमाह अश्रद्धा हृद्व्यथा शुद्धेऽप्युद्गारे रसशेषतः| शयीत किञ्चिदेवात्र सर्वश्चानाशितो दिवा||२९|| स्वप्यादजीर्णी, सञ्जातबुभुक्षोऽद्यान्मितं लघु| |३०|

🔊 Audio coming soon

स०-रसशेषे अश्रद्धा-अन्नानभिलाषः| हृद्व्यथा-हृदयशूलं गौरवं च| शुद्धेऽप्युद्गारे-अन्नसम्बन्धिनि| तेनाजीर्णादर्थान्तरभूत एवायं रसशेषः| अतश्च रसस्य रुधिरादिहेतोरसम्यक्परिपाक इत्यर्थः| तच्चिकित्समाह-शयीतेत्यादि| अत्र-रसशेषे, किञ्चिदेव-स्तोकमात्रमेव स्वप्यात्, नाजीर्ण इव प्रभूतम्| सर्वश्चाजीर्णी, अनाशितो दिवा शयीत, आलाघवात्| यदा चोत्पन्नक्षुत् स्यात्तदा स्तोकं लघु चाद्यात्| आशः कृतो येन सः-आशितः| न आशितो-अनाशितः, अभुक्तवानित्यर्थः| ननु, "अजीर्ण्यभिहतोन्मत्तान्" इत्यनेनैव वाक्येनाजीर्णिनां दिवास्वप्नोऽनुज्ञात एव| तत्किं पुनरुक्तेन ? ब्रूमः| विशेषार्थं वाक्यमिदम्-"अभुक्तो दिवा स्वप्यादजीर्णी" इति| तत्र तु सामान्यम्, अशितानाशितचिन्ता न कृतेति युक्ता पुनरिहोक्तिः|

Adhikarana ajIrNasAmAnyalakShaNAm (30-31) · Śloka 31

साम्प्रतमजीर्णलक्षणं सामान्येन ब्रूते- | विबन्धोऽतिप्रवृत्तिर्वा ग्लानिर्मारुतमूढता||३०|| अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः| |३१|

🔊 Audio coming soon

स०-विबन्धो-मूत्रपुरीषयोरप्रवृत्तिलक्षणः| अतिप्रवृत्तिः-तयोरेव| ग्लानिः-शरीरस्य म्लानता| मारुतमूढता-वातस्य प्रतिलोमता| विष्टम्भः-कुक्षेराध्मानम्| गौरवं-गुरुगात्रत्वम्| भ्रमो-मोहः| एतत्सामान्यमजीर्णलक्षणम्| उक्तं च-"सीदत्यङ्गं भ्रमो मोहः कोष्ठे मुह्यति मारुतः| सर्वेषामप्यजीर्णानामविसंवादि लक्षण्म्||" इति|

Adhikarana ajIrNasyAnyakAraNAni (31-33) · Śloka 33

साम्प्रतमजीर्णस्यान्यान्यपि कारणान्याह- | न चातिमात्रमेवान्नमामदोषाय केवलम्||३१|| द्विष्टविष्टम्भिदग्धामगुरुरूक्षहिमाशुचि| विदाहि शुष्कमत्यम्बुप्लुतं चान्नं न जीर्यति||३२|| उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः| |३३|

🔊 Audio coming soon

स०-अतिमात्रमेव भुक्तमन्नं न केवलमामदोषाय, किं तर्हि ? द्विष्टादि चान्नं न जीर्यति| द्विष्टं-अप्रियम्| विष्टम्भि-कुक्ष्याध्मानकारि| हिमं-अतिशीतम्| अशुचि-उच्छिष्टं केशादिदूषितं च, एतच्चाचिन्त्यप्रभावत्वादामदोषहेतुः| विदाहि-प्रागुक्तम्| शुष्कं-अद्रवप्रायम्| अत्यम्बुप्लुतं-अतिजलेन प्लावितम्| चः समुच्चये| न केवलं द्विष्टाद्यन्नं भुक्तं न जीर्यति, यावत् शोकादिभिश्चोपतप्तेन भुक्तं न जीर्यति| शोकः-इष्टविपत्त्यादिना मनोदौस्थ्यम्| क्रोधो-रोषः| क्षुत्-बुभुक्षा| आदिशब्देन लोभभयादिपरिग्रहः|

Adhikarana samashanalakShaNam adhyashanalakShaNam viShamAshanalakShaNam samashanAdInAM doShaH (33-35) · Śloka 35

सम्प्रत्यपरमप्यन्नमामक्षोभकरमाह- | मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम्||३३|| विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम्| अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम्||३४|| त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा| |३५|

🔊 Audio coming soon

स०-पथ्यं-शाल्यादि| अपथ्यं-यवकादि| तन्मिश्रं-एकीकृत्य, भुक्तं समशनं मतम्, अस्मिन्वैद्यकतन्त्रे| विद्यादित्यादि| भुक्तस्य-अभ्यवहृतस्योपरि यदन्यद्भोजनं तदध्यशनं जानीयात्| ननु, एवं प्रातराशे कृते यः सायमाशः, तस्याध्यशनत्वं प्रसज्येत्| अध्यशनं च विवर्ज्यमेव| यतोऽनन्तरमेव पठिष्यति-"त्रीण्यप्येतानि मृत्युं वा" इत्यादि| वैद्यकतन्त्रेषु च नराणां द्विराहार उपदिष्टः| भगवान् व्यासोऽप्यवोचत्-"सायंप्रातर्मनुष्याणां भोजनं विधिनिर्मितम्|" इति| तस्मादध्यशनस्यैवं तदसमीचीनं लक्षणम्| अत्र सञ्चक्ष्महे| प्राग्भुक्तस्योपरि समनन्तरेमेव वह्नावविभक्ते यदशनं तदेवाध्यशनम्, नान्यत्| अत एव सुश्रुतो ब्रूते (सू.अ. ४६|४९१)-"प्राग्भुक्ते त्वविभक्तेऽग्नौ द्विरन्नं न समाचरेत्|" इति| तस्मात् प्रातराशे कृते सत्यग्नौ विभक्ते यः सायमाशः स न परिहार्यः, अपि तु कार्य एव, गुणावहत्वात्| एतदेव प्रतिपादयितुं सङ्ग्रहेऽध्यगीष्ट (सू.अ. ११)-"प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति| अजीर्णे सायमाशे तु प्रातराशो हि दुष्यति|| दिवा प्रबोध्यतेऽर्केण हृदयं पुण्डरीकवत्| तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः|| व्यायामाच्च विचाराच्च विक्षिप्तत्वाच्च चेतसः| न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः|| अक्लिन्नेष्वन्नमासक्तमन्यत्तेषु न दुष्यति| अविदग्धेष्विव पयःस्वन्यत्सम्मिश्रितं पयः|| रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च| परिक्लेदं यान्ति कोष्ठे संवृते देहधातवः|| क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति| विदग्धेषु पयःस्वन्यत् पयस्तप्तेष्विवार्पितम्|| नैशे तस्मादजीर्णेऽन्ने नान्यद्भुञ्जीत भोजनम्|" इति| अधिशब्दोऽत्रोपरिशब्दार्थः| यथा-'प्रासादमधिरोहति|' इति| अकाले बहु चाल्पं वा भुक्तं त्वशनं विषमाशनसंज्ञं विद्यात्| कः पुनरकालो भोजनस्य ? इति चेत्, ब्रूमः| "प्रसृष्टे विण्मूत्रे" (श्लो. ५५) इत्यादिनाऽऽहारकालं वक्ष्यति| तद्वैपरीत्येनाकालो वेद्यः| त्रीण्यप्येतानि-समशनाध्यशनविषमाशनानि, मृत्युं वा सृजन्ति-जनयन्ति, घोरान् व्याधीन्-गुल्मादीन् वा|

Adhikarana Bojanasya samyagyogaprakAraH (35-38) · Śloka 38

| काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्मनाः||३५|| षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम्| स्नातः क्षुद्वान् विविक्तस्थो धौतपादकराननः||३६|| तर्पयित्वा पितॄन् देवानतिथीन् बालकान् गुरून्| प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान्||३७|| समीक्ष्य सम्यगात्मानमनिन्दन्नब्रुवन् द्रवम्| इष्टमिष्टैः सहाश्र्नीयाच्छुचिभक्तजनाहृतम्||३८||

🔊 Audio coming soon

स०-काले-वक्ष्यमाणे| तन्मनाः-भोजनगतचित्तः| क्षुद्वान्-बुभुक्षितः| विविक्तस्थः-एकान्तस्थितः| तथा, प्रक्षालितचरण्हस्तमुखः| अनिन्दन्-भोजनमगर्हमाणः| अब्रुवन्-अभाषमाणः| इष्टं-मनोरुचितं भोजनम्| तथा, द्रवं-द्रवप्रायम्| इष्टैः-प्रियैः, सहाश्नीयात्| 'क्षुद्वान्' इत्यत्र प्रशंसायां मतुप्, उत्पन्नप्रशस्तबुभुक्षः| तेन किञ्चिदपि यदा दुष्टबुभुक्षा स्यात्तदा नाद्यादित्यर्थः| दुष्टबुभुक्षाया लक्षणम् (सङ्ग्रहे सू.अ. ११)- "दोषोपनद्धं यदि लीनमन्नं पित्तोद्धतस्यावृणुयान्न वह्निम्| जायेत दुष्टा तु तदा बुभुक्षा या मन्दबुद्धीन् विषवन्निहन्ति||" इति| किम्भूतं भोजनम् ? सात्म्यम्| तच्च सात्म्यं द्विधा,-एकं स्वल्पकालाभ्यस्तं सुखावहम्, अन्यच्च जन्मनः प्रभुति सहात्मनाभ्यस्तं सुखावहं च| एतदेवैकं सात्म्यमुच्यते| तथा, शुचि-अनुच्छिष्टं केशाद्यनुपहतं च| हितं-पथ्यम्| स्निग्धं च तदुष्णं च-स्निग्धोष्णम्| तथा, लघु-लघुप्रायम्. न तु लघ्वेव| अत एवेदमुपपन्नम् "षड्रसं मधुरप्रायम्" इति| मधुररसो हि गुरुः| तथा च वक्ष्यति (हृ.सू.अ. १०|३८)- "पटोः कषायस्तस्माच्च मधुरः परमं गुरुः|" इति| तद्यदि लघ्वेव स्यात् (तर्हि) मधुरप्रायमिति न घटते| तस्माल्लघुप्रायमिति व्याख्येयम्| कथमद्यात् ? तदाह-नातिद्रुतविलम्बितम्| किं कृत्वा ? पित्रादींस्तर्पयित्वा| तथा, तिरश्चोऽपि-अश्ववृषादीन्, प्रतिपन्नपरिग्रहान्-कृतस्वीकारान्, प्रत्यवेक्ष्य-तदाहारचिन्तां कृत्वेत्यर्थः| तथा, आत्मानं समीक्ष्य-यथा ममेदं सात्म्यमिदमसात्म्यमिति नित्यमप्रमत्तः सन् पर्यालोच्य| खरनादेनोक्तम्-"अतिद्रुताशी त्वाहारगुणदोषान्न विन्दति| उन्मुह्यत्यल्पमश्नाति च्छर्दयेद्वाऽनवस्थितः|| विलम्बितं तु भुञ्जानो न तृप्तिमधिगच्छति| खादन् बह्वपि शीतत्वाद्याति भोज्यमहृद्यताम्|| जल्पतो हसतश्चापि भुञ्जानस्यान्यचेतसः| त एव दोषा मन्तव्या ये विलम्बितभोजने||" इत्यादि|

Adhikarana tRuNAdijuShTaBojanatyAgaH (39) · Śloka 39

भोजनं तृणकेशादिजुष्टमुष्णीकृतं पुनः| शाकावरान्नभूयिष्ठमत्युष्णलवणं त्यजेत्||३९||

🔊 Audio coming soon

स०-तृणादिजुष्टं भोजनं त्यजेत्| आदिशब्देन मक्षिकादिपरिग्रहः| तथा, भूय उष्णीकृतम्| तथा, शाकबहुलम्| तथा, अवरान्नं-माषादि, तद्भूयिष्ठम्| तथा, अत्युष्णमतिलवणं च त्यजेत्|

Adhikarana kilATAdishIlanam (40-41) · Śloka 41

किलाटदधिकूचीकाक्षारशुक्ताममूलकम्| कृशशुष्कवराहाविगोमत्स्यमहिषामिषम्||४०|| माषनिष्पावशालूकबिसपिष्टविरूढकम्| शुष्कशाकानि यवकान् फाणितं च न शीलयेत्||४१||

🔊 Audio coming soon

स०-तथा, किलाटादीन्न शीलयेत्-नाभ्यसेत्, न कादाचित्कोऽभ्यवहार एषां निषिध्यते| मुनिना तु (च. सू. अ. ५|७)- "नाभ्यसेद्गौरवात्" इति यथा हेतुरुपन्यस्तः, तथेह नोक्तः, अयुक्तत्वात्| तथा हि-एषामनभ्यवहारे यदि गुरुत्वमेव हेतुः स्यात्| ततो गुडयवादीनामपि बहुतराणां द्रव्याणां शीलनमयुक्तं स्यात्| तस्मादेषामशीलनेऽन्यदपि कारणं चिन्त्यम्, न तु गुरुत्वमात्रमेव| यथा-किलाटकूचिकयोर्दोषलत्वं, दध्नस्तु ज्वरादिकर्तृत्वं तथा स्रोतोलेपः, स्रोतोलेपत्वाच्चानेकरोगहेतुत्वम्, क्षारस्य पुंस्त्वहानिकृत्त्वम्, शुक्तस्य दृष्टिहन्तृत्वादि| तस्मादेषामपथ्यत्वाच्छीलननिषेधो बोध्यः|

Adhikarana SAlyAdiSIlanam (42-43) · Śloka 43

शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम्| सुनिषण्णकजीवन्तीबालमूलकवास्तुकम्||४२|| पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः| घृतदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम्||४३||

🔊 Audio coming soon

स०-शाल्यादीन् शीलयेत्|

Adhikarana nityasevyamauShadham (44) · Śloka 44

त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च| स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत्||४४||

🔊 Audio coming soon

स०-मधुसर्पिर्भ्यां सह त्रिफलां च रात्रौ नेत्रबलाय शीलयेत्| न केवलं शाल्यादीनेव शीलयेत्| यच्च द्रव्यं स्वास्थ्यानुवृत्तिं करोत्यृतुचर्याविध्याद्युक्तमन्नपानादिकम्| तथा, रोगोच्छेदकरं यत्-किराततिक्तकादिद्रव्यम्, तच्च शीलयेत्|

Adhikarana bhojyakramaH (45-46) · Śloka 46

बिसेक्षुमोचचोचाम्रमोदकोत्कारिकादिकम्| अद्याद्द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः||४५|| विपरीतमतश्चान्ते मध्येऽम्ललवणोत्कटम्| |४६|

🔊 Audio coming soon

स०-बिसादिद्रव्यं गुर्वादिगुणयक्तं पुरः-पूर्वमद्यात्| मोदको-लड्डुकः| उत्कारिका-लप्यसिका| अतः-अस्माच्च, विपरीतं-लघुरूक्षकटुतीक्ष्णसरप्रायम्, अन्ते भोजनस्य सेवेत| मध्ये चाम्ललवणोत्कटम्| खरनादे चोक्तम्-"कटुं लवणमम्लं वा पूर्वमाहारमाहरेत्| आहारो मधुरोऽग्रे हि गुरुर्विष्टभ्य जीर्यति||" इति| तदेतदुक्तमुभयमपि देशसात्म्यादिवशात् प्रमाणयितव्यम्|

Adhikarana annapAnayorviBAgaH (46-47) · Śloka 47

| अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्||४६|| आश्रयं पवनादीनां चतुर्थमवशेषयेत्| |४७|

🔊 Audio coming soon

स०-कुक्षेः-जठरस्य, अन्नेन द्वौ भागौ प्रपूरयेत्| पानेन-जलादिना, एकमंशं प्रपूरयेत्| चतुर्थमंशं पवनादीनामाश्रयमवशेषयेत्-न त्वन्नेन पानेन वा प्रपूरयेत्| अत्र त्वंशकल्पना परिकल्पनेनैव युज्यते, न त्वङ्गुलमानादिना| सुश्रुते चाभिहितम् (सू. अ. ४६|४७८)- "प्रक्षालयेदद्भिरास्यं भुञ्जानश्च मुहुर्मुहुः| विशुद्धे रसने ह्यस्मिन् रोचतेऽन्नमपूर्ववत्||" इति| [रसना विद्यते यस्य मुखस्य तद्रसनम्, तस्मिन् रसने विशुद्धे रोचतेऽन्नमपूर्ववत्||]

Adhikarana anupAnavibhAgaH,yavagodhUmayoH shItaM jalamityAdi (47-50) · Śloka 50

| अनुपानं हिमं बारि यवगोधूमयोर्हितम्||४७|| दध्नि मद्ये विषे क्षौद्रे, कोष्णं पिष्टमयेषु तु| शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम्||४८|| सुरा कृशानां पुष्ट्यर्थं, स्थूलानां तु मधूदकम्| शोषे मांसरसो, मद्यं मांसे स्वल्पे च पावके||४९|| व्याध्यौषधाध्वभाष्यस्त्रीलङ्घनातपकर्मभिः| क्षीणे वृद्धे च बाले च पयः पथ्यं यथाऽमृतम्||५०||

🔊 Audio coming soon

स०-यवगोधूमयोर्भुक्तयोरनु-पश्चात्, पानं शीतं जलं हितम्| तथा, दध्नि मद्ये विषे क्षौद्रे च हिमं जलमनुपाने हितम्| पिष्टमयेषु कोष्णं जलं हितम्| शाकमुद्गादिविकृतौ च मस्त्वादिकमनुपानं हितम्| कृशानां पुंसां सुरा पुष्ट्यर्थं हिता| स्थूलानां पुनः कर्शनाय मधूदकं हितम्| शोषे-क्षये, मांसरसो हितः, पुष्टिकारित्वात्| मांसे भुक्ते मद्यमनुपानं हितम्| स्वल्पे च पावके मद्यमेवानुपानं हितम्| व्याध्यादिभिः क्षीणे-क्षपिते, पयो-दुग्धं, पथ्यं-हितम्| इह (हितमिति) प्रकृतेऽपि पथ्यग्रहणं पथ्यतरत्वज्ञापनार्थम्| यथाऽमृतमित्यनेनैतत् प्रतिपादयति,-यथाऽमृतं बलवर्णौजःकान्त्यायुरादिजनकं तथेदमपीत्यर्थः|

Adhikarana anuktAnupAnavibhAgaH (51) · Śloka 51

विपरीतं यदन्नस्य गुणैः स्यादविरोधि च| अनुपानं समासेन, सर्वदा तत्प्रशस्यते||५१||

🔊 Audio coming soon

स०-अन्नस्य-भक्तवटकादेः, यद्विपरीतं गुणैस्तदनुपानं सदा प्रशस्यते| यथा,-स्निग्धस्य रूक्षम्, रूक्षस्य स्निग्धम्, शीतस्योष्णम्, उष्णस्य शीतम्, मधुरस्याम्लम्, अम्लस्य मधुरमित्यादि| ननु, एवमुररीक्रियमाणे क्षीरस्य क्षैरेयादेर्वा तक्रचुक्रादीनामम्लानामनुपानत्वं प्राप्तमित्याह-गुणैरित्यादि| विपरीतगुणमपि यदविरोधि तदेवानुपानं सदा हितम्|

Adhikarana anupAnasya phalam (52) · Śloka 52

अनुपानस्य किं कर्म ? इत्याह अनुपानं करोत्यूर्जां तृप्तिं व्याप्तिं दृढाङ्गताम्| अन्नसङ्घातशौथिल्यविक्लित्तिजरणानि च||५२||

🔊 Audio coming soon

स०-अनुपानमूर्जादीन् करोति| ऊर्जा-मनःप्रहर्षः| तृप्तिः-प्रीणनं शरीरेन्द्रियस्य, क्षामताविपरीतोऽन्नगुणः| तथा, व्याप्तिःद्रवस्य हि गमनम्, न कठिनस्य| दृढाङ्गता-स्थिरशरीरत्वम्| तथा, अन्नसङ्घातस्य शैथिल्यम्| विक्लित्तिः-विक्लेदनम्| जरणं-परिणामः| एतानि च करोति|

Adhikarana UrdhvajatrugadAdau anupAnaniShedhaH (53) · Śloka 53

एवंगुणमप्यूर्ध्वजत्र्वादिषु न हितमित्याह नोर्ध्वजत्रुगदश्वासकासोरःक्षतपीनसे| गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम्||५३||

🔊 Audio coming soon

स०-ऊर्ध्वं जत्रुणः-ऊर्ध्वजत्रु, तस्मिन् ये गदास्तेषु तत्-अनुपानं, न हितम्| तथा, श्वासादिषु न हितम्| गीत-भाष्ययोः प्रकर्षेण सङ्गः-सातत्येन सम्बन्धः, तस्मिन्| तथा, स्वरभेदे-स्वरसादे न तद्धितम्| ऊर्ध्वजत्रुगदादीनां ह्यनुपानं प्रदूष्यामाशयमुरःकण्ठस्थितमाहारजं स्नेहमासाद्याभिष्यन्दाग्निसादच्छर्द्यादीनामयान् विदध्यात्|

Adhikarana praklinnadehAdInAM pAnaniShedhaH (54) · Śloka 54

सम्प्रति येषां पानमेव न शस्यते, तानाह प्रक्लिन्नदेहमेहाक्षिगलरोगव्रणातुराः| पानं त्यजेयुः|५४|

🔊 Audio coming soon

स०-प्रक्लिन्नो देहो येषां आमविसर्पाद्यार्तानां ते पानं त्यजेयुः| मेहादीनामातुरशब्देन प्रत्येकं सम्बन्धः| मेहरोगाद्यातुराः पानं-द्रवरूपं त्यजेयुः, न केवलमन्नस्योपरि यदनुपानम्| खरनादे चोक्तम्-"मेही प्लीही व्रणी कुष्ठी पाण्डुर्जठरपीनसी| शोषातिसारी मन्दाग्निः पानीयं मन्दमाचरेत्|| नोर्ध्वाङ्गपवनाविष्टे वाग्व्यायामहते न च| क्षतोरसि श्वासकासहिक्कावम्यर्दिते न च|| निरन्ने चोर्ध्वरोगे च न पेयं वारि शीतलम्|" इति|

Adhikarana pAnAnantarabhAShyAdiniShedhaH bhojanAntaramAtapAdiniShedhaH (54-55) · Śloka 55

| सर्वश्च भाष्याध्वशयनं त्यजेत्||५४|| पीत्वा, भुक्त्वाऽऽतपं वह्निं यानं प्लवनवाहनम्| |५५|

🔊 Audio coming soon

स०-चशब्दो लुप्तनिर्दिष्टोऽत्र| सर्वोऽपि पुरुषः-स्वस्थो रोगी च, पीत्वा भुक्त्वा च भाष्यादींस्त्यजेत्| तथा, आतपादीन् पञ्च त्यजेत्| त्यजेदित्यत्राप्यनुवृत्त्या योज्यम्| यानं-रथादि| प्लवनं-तरणम्| वाहनं-अश्वादि|

Adhikarana Bojanasya kAlaH (8) · Śloka 8

"काले सात्म्यम्" (श्लो. ३५) इत्युक्तम्| भोजनस्य तु कः कालः ? इत्याह प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति| तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||५५|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने मात्राशितीयो नाम अष्टमोऽध्यायः||८||

🔊 Audio coming soon

स०-आहारं विधिना-पूर्वोक्तेन " काले सात्म्यं शुचि हितम्" इत्यादिना नियमितं प्रयुञ्जीत,-अश्नीयादित्यर्थः| कदा ? मूत्रपुरीषे प्रकर्षेण सृष्टे सति| न तु किञ्चिदेव त्यक्त इति प्रशब्देन द्योतयति| तथा, हृदये सुष्ठु विमले-रसशेषकृतगौरवादिरहिते| तथा, दोषे-वातादौ, स्वपथगे-स्वमार्गगे, अजीर्णे ह्याहारेऽन्नशेषेण रुद्धगतयो वातादयः स्वस्थानं न लभरेन्, सुजीर्णे तु स्वस्थानस्थाः स्युः| उद्गारे च विशुद्धे-चशब्दोऽनुक्तसमुच्चयार्थः, स्रोतोमुखेषु च विशुद्धेष्वित्यर्थः| क्षुदुपगमने-उपगतायां क्षुधि| वातेऽनुसरति-अनुलोमं गच्छति| तथा, अग्नौ-कायाग्नौ, उद्रिक्ते-पाकक्षमे| तथा, देहे पट्विन्द्रिये सुष्टु लघौ च| कालः स हि मतः| हिशब्द एवार्थे| स एव कालो भोजनस्य दृष्टः, न त्वतोऽप्यूर्ध्वम्| स ह्यतिकालः, तत्र भुक्तमन्नं वातविष्टब्धं कृच्छ्राद्विपच्यते| तथा चोक्तं तन्त्रान्तरे-"अतीतकाले भुञ्जानो वायुनोपहतेऽनले| कृच्छ्राद्विपच्यते भुक्तं द्वितीयं न च काङ्क्षति|| कुक्षावाध्मानमाटोपसादांश्च कुरुतेऽधिकम्|" इति| तस्मात्पूर्वोक्ते काले भोजनमद्यादिति| यमौ न्सौ तः सस्याद्रसरविविरामा धीरललिता| इति श्रीमृगाङ्कदत्तपुत्र श्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने मात्राशितीयाध्यायोऽष्टमः समाप्तः|| ८||