Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
त्रयोविंशाध्यायारम्भो जत्रूर्ध्वरोगप्रस्तावाल्लोचनरोगप्रतिषेधार्थमाह
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
त्रयोविंशाध्यायारम्भो जत्रूर्ध्वरोगप्रस्तावाल्लोचनरोगप्रतिषेधार्थमाह
Adhikarana AshcotanA~jjanavidhiradhyAyaH (2-3) · Śloka 3
अथात आश्चोतनाञ्जनविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| )||३||
🔊 Audio coming soon
स०-आश्चोतनं चाञ्जनं च, तयोर्विधिर्यस्मिन्नध्याये स एवम्| शेषं पूर्ववत्|
Adhikarana Ashcotanasya viShayaH (1) · Śloka 1
सर्वेषामक्षिरोगाणामादावाश्चोतनं हितम्| रुक्तोदकण्डूघर्षाश्रुदाहरागनिवर्हणम्||१||
🔊 Audio coming soon
स०-सकलानामपि नयनामयानां प्रथममाश्चोतनं-परिषेको, हितम्| यतस्तदाश्चोतनमुपयुक्तं रुजादिघ्नं स्यात्| सङ्ग्रहे चोक्तम् (सू.अ.३२)-"अव्यक्तेष्वेव रुजादिषु तुल्यगुणं पक्ष्मपरिहारेणाश्चोतनेनैवाक्षिकोशालेपनम्| तच्च बिडालकसंज्ञम्|" इति|
Adhikarana Ashcotanasya doShabhedenoShNatvAdi AshcotanavidhiH (2) · Śloka 2
उष्णं बाते, कफे कोष्णं, तच्छीतं रक्तपित्तयोः| |२|
🔊 Audio coming soon
स०-तत्-आश्चोतनं, मरुत्युष्णं, कफे किञ्चिदुष्णं, रक्ते पित्ते च शीतं, हितम्|
Adhikarana AshcotanavidhiH (2-4) · Śloka 4
सम्प्रत्याश्चोतनस्य विधिमाह | निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम्||२|| शुक्तौ प्रलम्बयाऽन्येन पिचुवर्त्या कनीनिके| दश द्वादश वा बिन्दून् द्व्यङ्गुलादवसेचयेत्||३|| ततः प्रमृज्य मृदुना चैलेन, कफवातयोः| अन्येन कोष्णपानीयप्लुतेन स्वेदयेन्मृदु||४||
🔊 Audio coming soon
स०-निवातस्थानस्थितस्यातुरस्य वैद्यो वामेन पाणिनोन्मील्य लोचनमपाङ्गदेशे भाजनं निधय, अन्येन-दक्षिणकरेण, पिचुवर्त्या शुक्त्यां प्रलम्बया दश द्वादश वा बिन्दून् द्व्यङ्गुलात्-नातिनिकटान्नातिदूरात्, कनीनिकेऽवसेचयेत्| तत इति अनन्तरं, कोमलेन वस्त्रखण्डेन प्रमृज्य-शोधयित्वा, अन्येन-शोधनात्, चैलेन कोष्णजलप्लुतेनाक्षि मृदु स्वेदयेत्-नातिशयेन| कयोर्दोषयोः? वातकफयोः,-न तु पित्तरक्तयोरित्यर्थः|
Adhikarana atyuShNatIkShNAsyAshcotanasya doShaH atishItasyAtimAtrasya ca doShaH atyalpasya doShaH aparisrutasya doShaH (5-6) · Śloka 6
अत्युष्णतीक्ष्णं रूग्रागदृङ्नाशायाक्षिसेचनम्| अतिशीतं तु कुरुते निस्तोदस्तम्भवेदनाः||५|| काषायवर्त्मतां घर्षं कृच्छ्रादुन्मेषणं बहु| विकारवृद्धिमत्यल्पं संरम्भमपरिस्रुतम्||६||
🔊 Audio coming soon
स०-अत्यर्थमुष्णमतितीक्ष्णं वाऽऽश्चोतनं रुजे-रोगाय, रागाय-लोहितिम्रे, दृग्विनाशाय च स्यात्| अतिशीतं त्वक्षिसेचनं निस्तोदादीन् विधत्ते| निस्तोदः-सूच्यव व्यधः| स्तम्भः अक्ष्णः स्तम्भनमिव| वेदना-शूलम्| कषायवर्त्मत्वं कुरुते| घर्षो-वर्त्मनोः परस्परं संश्लेषः| बहु-अतिमात्रं, आश्चोतनं कृच्छ्रेणोन्मेषणं विधत्ते| अत्यल्पमक्षिसेचनं विकारवृद्धिं कुरुते| अपरिस्रुतमक्षिसेचनं संरम्भं-वेत्रक्षोभं, विधत्ते|
Adhikarana Ashcotanasya phalam (7) · Śloka 7
कया युक्त्या नेत्रे प्रयुक्तमौषधं दोषानपयति ? इत्याह गत्वा सन्धिशितोघ्राणमुखस्रोतांसि भेषजम्| ऊर्ध्वगान्नयने न्यस्तमपवर्तयते मलान्||७||
🔊 Audio coming soon
स०-सन्ध्यादीनां द्वन्द्वः| ततः स्रोतःशब्देन षष्ठीसमासः| सन्धिशब्देनेहाक्षिकोशसम्बन्धिनः सन्धयो गृह्यन्ते| तेन-अक्षिकोशसन्धिस्रोतांसि शिरास्रोतांसि मुखस्रोतांसि गत्वा नयने क्षिप्तभौषधमूर्ध्वगान् मलानपवर्तयते|
Adhikarana a~jjanasya viShayaH (8-9) · Śloka 9
अथाञ्जनं शुद्धतनोर्नेत्रमात्राश्रये मले| पक्वलिङ्गेऽल्पशोफातिकण्डूपैच्छिल्यलक्षिते||८|| मन्दघर्षाश्रुरागेऽक्षिण प्रयोज्यं घनदूषिके| आर्ति पित्तकफासृग्भिर्मारुतेन विशेषतः||९||
🔊 Audio coming soon
स०-अथ-आश्चोतनादनन्तरं, अञ्जनं प्रयोक्तव्यम्| कीदृशस्यातुरस्य? शुद्धा तनुर्यस्य सः, तस्य| मले नेत्रमात्राश्रये-न त्वधिकशरीरव्यापिनि| तथा, पक्वलिङ्गे| पक्वलिङ्गता कथं वेद्या? इति विशेषणद्वारेणाह-अल्पशोफेनातिकण्ड्वा पैच्छिल्येन च लक्षिते-अवगते, 'पक्वलिङ्गे सति| कीदृशेऽक्षिण? मन्दाः-अल्पाः, घर्षाश्रुरागा यस्य तस्मिन्| तथा, घना दूषिका-नेत्रमलो, यस्मिन्नयने तस्मिन्| एतदपि पक्वलिङ्गमेव| पित्तेन कफेन रक्तेन चातुरे, मारुतेन चातुरे विशेषेणाञ्जनं प्रयोज्यम्|
Adhikarana a~jjanasya bhedAH (10) · Śloka 10
लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा| अञ्ह्जनम्|१०|
🔊 Audio coming soon
स०-अञ्जनं च लेखनादिभेदेन त्रिधा| लिख्यते-शस्त्रेणेव, शुक्रार्मादीनीति लेखनम्| रोप्यते-संरोह्यते, अभिष्यन्दादीनीति रोपणम्| प्रसाद्यते-निर्मलीक्रियते, अनेनेति प्रसादनम्| दृष्टेः प्रसादनं दृष्टिप्रसादनम्| सङ्ग्रहे यत् स्नेहनमञ्जनं कथितं तदिह रोपणदृष्टिप्रसादनयोरेवान्तर्भूतत्वात् पृथङ्नोक्तम्|
Adhikarana lekhanasya dravyaNi (10) · Śloka 10
| लेखनं तत्र कषायाम्लपटूषणैः||१०||
🔊 Audio coming soon
स०-तत्र-तेषु त्रिष्वञ्जनेषु मध्यात्, लेखनमञ्जनं कषायादिभिर्द्रव्यैः शुक्रार्मादिषु प्रयोज्यम्|
Adhikarana ropaNasya dravyANi (11) · Śloka 11
रोपणं तिक्तकैर्द्रव्यैः| |११|
🔊 Audio coming soon
स०-रोपणमञ्जनं तिक्तकैर्द्रव्यैः स्यात्| तिक्तग्रहणमुपलक्षणार्थम्| तेन-कषायद्रव्यैः संस्नेहैः रोपणमञ्जनं वेद्यम्|
Adhikarana dRuShTiprasAdanasya dravyAni (11-12) · Śloka 12
स्वादुशीतैः प्रसादनम्| तीक्ष्णाञ्जनाभिसन्तप्ते नयने तत्प्रसादनम्||११|| प्रयुज्यमानं लभते प्रत्यञ्जनसमाह्वयम्| |१२|
🔊 Audio coming soon
स०-स्वादुशीतैर्द्रव्यैः प्रसादनमञ्जनं भवति| प्रसादनमेव स्वादुशीतद्रव्यैश्रूर्णं तीक्ष्णाञ्जनाभिसन्तप्ते चक्षुषि प्रयुज्यमानं प्रत्यञ्जनसंज्ञां लभते|
Adhikarana shalAkAvarNanam (12-13) · Śloka 13
| दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना||१२|| प्रशस्ता, लेखने ताम्री, रोपणे काललोहजा| अङ्गुली च, सुवर्णोत्था रूप्यजा च प्रसादने||१३||
🔊 Audio coming soon
स०-दशाङ्गुला राजमाषस्थूला शलाका प्रशस्ता| मध्ये तनुः| तथा, मुकुलाकारे आनने-मुखे द्वेऽपि, यस्याः सा मुकुलानना| लेखनाञ्जने ताम्री शलाका प्रशस्ता| रोपणे च काललोहोत्था(लोहजा)-कृष्णशस्त्रोद्भवा| अङ्गुली च-हस्तावयवविशेषो, रोपण एव शस्तः| एवं प्रसादनेऽञ्जने सुवर्णोत्था कनकोद्भवा, रजतोद्भवा च शलाका प्रशस्ता|
Adhikarana a~jjanakalpanabhedaH, kalpanAtrayasya viShayatrayam (14) · Śloka 14
अञ्जनकल्पना त्रिप्रकारा स्यात्| कथम् ? इत्याह पिण्डो रसक्रिया चूर्णस्त्रिधैवाञ्जनकल्पना| गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत्||१४||
🔊 Audio coming soon
स०-पिण्डादिभेदेन त्रिप्रकाराऽञ्जनकल्पना स्यात्| पिण्डादयो बहुदोषादिषु क्रमेण प्रयोज्याः| गुरौ दोषे पिण्डः प्रयोज्यो, मध्ये दोषे रसक्रिया, लघौ दोषे चूर्ण इत्यर्थः|
Adhikarana piNDarasakriyayormAtrA (15) · Śloka 15
हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया| तीक्ष्णस्य, द्विगुणं तस्य मृदुनः|१५|
🔊 Audio coming soon
स०-तीक्ष्णद्रव्यकृतस्य पिण्डस्य हरेणुमात्रं प्रमाणं कथयन्ति| मृदुद्रव्यकृतस्य पिण्डस्य तत् द्विगुणं प्रमाणं-द्विहरेणुमात्रं, वदन्ति| रसक्रियाया विडङ्गप्रमाणमाहुः| [मृदुद्रव्यकृताया रसक्रियाया द्विवेल्लमात्रम्|]
Adhikarana cUrNasya mAtrA (15-16) · Śloka 16
| चूर्णितस्य च||१५|| द्वे शलाके तु तीक्ष्ण्स्य, तिस्रस्तदितरस्य च| |१६|
🔊 Audio coming soon
स०-चूर्णे तीक्ष्णे द्विगुणां शलाकं, मृदौ त्रिगुणां शलाकामभिदधुः| तन्त्रान्तरे चोक्तम्-"लेखनमञ्जनं ताम्ररजतकांस्याद्यन्यतमेषु धार्यम्| रोपणं सुवर्णवटशङ्खान्यतमेषु| प्रसादनं स्फटिकप्लक्षचन्दनान्यतमेषु धार्यम्| एवं ह्यञ्जनमव्यापन्नगुणं भवति| वर्तेर्घर्षणार्थं शिला निम्रमध्याऽनुद्गारिणी पञ्चाङ्गुलायता त्र्यङ्गुलविस्तारा|" इति|
Adhikarana a~jjanasya kAladvayam (16-17) · Śloka 17
| निशि स्वप्ने न मध्याह्ने म्लाने नोष्णगभस्तिभिः||१६|| अक्षिरोगाय दोषाः स्युर्वर्धितोत्पीडितद्गुताः| प्रातः सायं च तच्छान्त्यै व्याभ्रेर्केऽतोऽञ्जयेत्सदा||१७||
🔊 Audio coming soon
स०-निशि-रात्रौ, अञ्जनं न प्रयोज्यम्| तथा स्वप्ने-स्वप्नकाले, अञ्जनं न प्रयोज्यम्| तथा, मध्यंदिनेऽञ्जनं न प्रयोज्यम्| न च म्लाने लोचनेऽञ्जनं प्रयोज्यम्| केन (काभिः) म्लाने ? उष्णाभिर्दीधितिभिः| यस्मादेषु कालेष्वञ्जनेन प्रयुक्तेन दोषा वृद्धिं नीताः, तथाऽन्यस्थानगत्त्वादुत्पीडिताः, तथा द्रुताः- कालस्योष्णत्वाद्विलयं गताः, अक्षिरोगाय स्युः| तस्मादेषु कालेष्वञ्जनं न प्रयोज्यम्| प्रातरित्यादि| यतः पूर्वोक्तेषु कालेषु पूर्वोक्ता दोषाः| तस्मात् पूर्वाह्णेऽपराह्णे च तच्छान्त्यै-तस्याक्षिरोगस्योपशमाय, वितगाभ्रे रवौ सदैव नेत्रेऽञ्जयेत्|
Adhikarana tIkShNA~jjanasya divAniShedhaH niShedhe yuktiH (18) · Śloka 18
वदन्त्यन्ये तु न दिवा प्रयोज्यं तीक्ष्णमञ्जनम्| विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति||१८||
🔊 Audio coming soon
स०-अन्ये त्वाचार्या एवं वदन्ति| यत् तीक्ष्णमञ्जनं दिवा न प्रयोज्यम्| कुतः ? यस्माच्चक्षुरादित्यं प्राप्य सीदति| किम्भूतं ? विरेकदुर्बलम्, तीक्ष्णाञ्जनेन विरेचितत्वात्| तस्माद्दिवसे तीक्ष्णमञ्जनं न प्रयोज्यम्|
Adhikarana tIkShNasya rAtriprayoge yuktiH (19) · Śloka 19
अत एवाह स्वप्नेन रत्रौ कालस्य सौ म्यत्वेन च तर्पिता| शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः||१९||
🔊 Audio coming soon
स०-यस्मात्स्वप्नेन रात्रौ तर्पिता, तथा कालस्य-रात्र्याख्यस्य, सौ म्यत्वेन तर्पिता दृष्टिः पुनह् स्थैर्यं प्राप्नोति, तीक्ष्णाञ्जनक्षोभिताऽपि| कीदृग्दृष्टिः ? आग्नेयी,- अग्न्युत्कटभूतसम्भवा, तथा शीतसात्म्या| तस्माद्रात्रावञ्जनं प्रयोज्यम्| आग्नेयीति "सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः" इति ढक्| शीतं सात्म्यं यस्याः, पैत्तिकज्वरस्येव|
Adhikarana rogavisheShe divA~api tIkShNaM yojyam (20) · Śloka 20
तदेतदन्यमतमव्यापकमिति दूषयन्नाह अत्युद्रिक्ते बलासे तु लेखनीयेऽथवा गदे| काममह्य्नपि नात्युष्णे तीक्ष्णमक्ष्णि प्रयोजयेत्||२०||
🔊 Audio coming soon
स०-अत्युत्कृष्टे कफे, अथवा लेखनार्हे-शुक्रार्मादौ, रोगे दिनेऽपि नात्युष्णे तीक्ष्णमञ्जनं प्रयोजयेत्| कामं-अनुमतमेतत्| कालस्यात्यौष्ण्यादञ्जनस्य तैक्ष्ण्याच्चातियोगेन दृष्ट्युपघातः स्यात्|
Adhikarana netrasya kathaM tejasopadhAtaH (21) · Śloka 21
अत एवाह अश्मनो जन्म लोहस्य तत एव च तीक्ष्णता| उपघातोऽपि तेनैव तथा नेत्रस्य तेजसः||२१||
🔊 Audio coming soon
स०-अश्मनः-पाषाणात्, शस्त्रस्योत्पत्तिः| तस्मादेव चाश्मनः श्लक्ष्णतादियोगात्तीक्ष्णता| उपघातोऽपि-कुण्ठत्वादिकः, तेनैव-पाषाणेन, न केवलं तैक्ष्ण्यम्| तथा-तेनैवाश्मशस्त्रन्यायेन, नेत्रस्य तेजसः-अग्नेरश्मस्थानीयाज्जन्म| रविसंज्ञात्तेजसः सकाशात्तीक्ष्णता-दर्शनपटुत्वम्| अत्युष्णेन तु तेन तस्योपघातः| तस्मात् यदन्ये वदन्ति सामान्येनैव दिवाऽञ्जनं न प्रयोज्यमिति, तदसदेव|
Adhikarana rAtrAvapi tIkShNA~jjananiShedhaH, tatprayoge doShaH (22) · Śloka 22
अपि च न रात्रावपि शीतेऽति नेत्रे तीक्ष्णाञ्जनं हितम्| दोषमस्रावयेत्स्तब्धं कण्डूजाड्यादिकारि तत्||२२||
🔊 Audio coming soon
स०-रात्रावपि नेत्रे कफाधिक्येनातिशीते-कण्डूपैच्छित्याद्यनुमिते, तीक्ष्णमञ्जनं न प्रयोज्यम्| यतो निशि तीक्ष्णमञ्जनमुपयुक्तं कालस्य सौ म्यत्वात् दोषं-स्रावण्योग्यं, अस्रावयेत्| अञ्जनं स्तब्धं कण्डूजाड्यादिकृत् स्यात्, न तु शमकारि| तस्मात् "शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः|" इत्येतदप्यसत्| तस्मात् पूर्वोक्तमेवानवद्यमिति|
Adhikarana bhItAdInAma~jjananiShedhaH (23-24) · Śloka 24
नाञ्जयेद्भीतवमितविरिक्ताशितवेगिते| क्रुद्धज्वतिततान्ताक्षिशिरोरुक्शोकजागरे||२३|| अदृष्टेऽर्के शिरःस्नाते पीतयोर्धूममद्ययोः| अजीर्णेऽग्न्यर्कसन्तप्ते दिवासुप्ते पिपासिते||२४||
🔊 Audio coming soon
स०-भीतादीनामक्षिणी वैद्यो नाञ्जयेत्| अशितोऽत्र सद्योभुक्तो वेद्यः| सद्योभुक्तस्य नरस्य नयने नाञ्जयेदित्यर्थः| तान्ते-सूक्ष्मभासुरादिदर्शनादभिघाताद्वा ग्लाने, अक्षिणी यस्य सः, तस्मिन्| अदृष्टेऽर्के, जलदच्छन्नत्वात्| तथा, शिरःस्नातादिषु|
Adhikarana atitIkShNAdi navavidama~jjanaM na prayojanam (25) · Śloka 25
साम्प्रतं यादृशमञ्जनं न प्रयोज्यं तादृशं दर्शयति अतितीक्ष्णमृदुस्तोकबह्नच्छघनकर्कशम्| अत्यर्थशीतलं तप्तमञ्जनं नावचारयेत्||२५||
🔊 Audio coming soon
स०-अतिशब्दस्य तीक्ष्णादिभिर्घनान्तैः सम्बन्धः| अत्यर्थशीतलमित्येतस्मादत्यर्थशब्दस्तप्तमित्यत्रानुवृत्तिकृतेन सम्बन्धेन योज्यः| अतितीक्ष्णादिगुणमञ्जनं न प्रयोजयेत्| तन्त्रान्तते चाञ्जनविधिरुक्तः-"सुखोपविष्टस्यातुरस्य सुखोपविष्टो वैद्यो वामाङ्गुष्ठेनोत्तरं वर्त्मोत्क्षिप्य कृष्णभागस्याधः कनीनिकादपाङ्गं यावदञ्जनं नयेत्|" इति|
Adhikarana a~jjanAnantaraM kRutyam uktakRutyasya phalam a~jjitasyonmeShAdiniShedhaH (26-27) · Śloka 27
अथानुन्मीलयन् दृष्टिमन्तः सञ्चारयेच्छ्हनैः| अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम्||२६|| तीक्ष्णं व्याप्नोति सहसा, न चोन्मेषनिमेषणम्| निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत्||२७||
🔊 Audio coming soon
स०-अथ-एवमञ्जनस्वरूपमवेत्य, नेत्रेऽञ्जिते सति दृष्टिगोलकमनुन्मीलयन् मध्ये शनैः शनैः सञ्चारयेत्| किञ्चित् वर्त्मनी चालयेत्| एवं तीक्ष्णाञ्जनं नेत्रं व्याप्नोति-अनुप्रविशति| न च सहसा-विध्यतिक्रमेण, उन्मेषनिमेषणं कुर्यात्| चशब्दोऽवधारणे, नैव समाचरेदित्यर्थः| वर्त्मभ्यां च निष्पीडनं न समाचरेत्| वाशब्दोऽवधारणे, क्षालनं च नैव कुर्यात्|
Adhikarana kShAlanakAlaH (28) · Śloka 28
अपेतौषधसंरम्भं निर्वृतं नयनं यदा| व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा||२८||
🔊 Audio coming soon
स०-अपेतः-अपगतः औषधसंरम्भो-भेषजक्षोभो, यस्मान्नेत्रात्तदेवम्| यतोऽपेतौषधसंरम्भमत एव निर्वृतं-अपेतदुःखानुबन्धि, यदा लोचनं स्यात्, तदा व्याध्यादियोग्यैर्जलैः प्रक्षालयेत्| तत्र व्याधिः-अभिष्यन्दादिः, दोषो-वातादिः, ऋतुः-वसन्तादिः|
Adhikarana kShAlanAntaraM shodhanam (29) · Śloka 29
दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं सवाससा| ऊर्ध्ववर्त्मनि सङ्गृह्य शोध्यं वामेन चेतरत्||२९||
🔊 Audio coming soon
स०-ततो-नयनप्रक्षालनादनन्तरं, दक्षिणाङ्गुष्ठेन सवस्रेण वामं नयनमूर्ध्ववर्त्मनि सम्यगादाय शोधनीयम्| वामेनाङ्गुष्ठेन सवाससा, इतरत्-दक्षिणं, ऊर्ध्ववर्त्मनि सङ्गृह्य शोध्यम्|
Adhikarana kShAlanashodhanAkaraNe doShaH (30) · Śloka 30
किमिति शोध्यम् ? इत्याह वर्त्मप्राप्तोऽञ्जाद्दोषो रोगान् कुर्यादतोऽन्यथा| |३०|
🔊 Audio coming soon
स०-अतोऽन्यथा-अशोध्यमाने, वर्त्मनि प्राप्तं च तदञ्जनं च वर्त्मप्राप्ताञ्जनं, तस्मात् दोषो रोगान् कुर्यात्| तस्मात्तच्छोध्यं नयनम्|
Adhikarana kaNDUjADyayoH pratIkAraH (30) · Śloka 30
| कण्डुजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः||३०||
🔊 Audio coming soon
स०-कण्डूश्च जाड्यं चेति समाहारद्वन्द्वः| तस्मिन् सति तीक्ष्णाञ्जनं योजयेत्| अथवा तीक्ष्णं धूमं योजयेत्|
Adhikarana tIkShNA~jjanAtiyoge pratIkAraH (23) · Śloka 23
तीक्ष्णाञ्जनाभितप्ते तु चूर्णं प्रत्यञ्जनं हिमम्||३०.५|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थान आश्चोतना ञ्जनविधिर्नाम त्रयोविंशोऽध्यायः||२३||
🔊 Audio coming soon
स०-पुनस्तीक्ष्णेनाञ्जनेनाभितप्ते लोचने चूर्णं प्रत्यञ्जनं पूर्वोक्तं, हितमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने आश्चोतनाञ्जनविधिर्नाम त्रयोविंशोऽध्यायः|| २३||