Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अस्मादनन्तरं चतुर्विंशाध्यायारम्भः| आश्चोतनाञ्जनाभ्यां हि प्रायो नयनस्य दौर्बल्यम्| अतस्तर्पणादेरुपयोगो युक्त इत्याह
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अस्मादनन्तरं चतुर्विंशाध्यायारम्भः| आश्चोतनाञ्जनाभ्यां हि प्रायो नयनस्य दौर्बल्यम्| अतस्तर्पणादेरुपयोगो युक्त इत्याह
Adhikarana tarpaNapuTapAkavidhiradhyAyaH (2) · Śloka 2
अथातस्तर्पणपुटपाकविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसुत्रे|२|
🔊 Audio coming soon
स०-तर्पणं च पुटपाकश्च तर्पणपुटपाकौ, तयोर्विधिः, तम्| शेषं पूर्ववत्|
Adhikarana tarpaNasya viShayo deshaH kAlashca (1-4) · Śloka 4
नयने ताम्यति स्तब्धे शुष्के रूक्षेऽभिघातिते| वातपित्तातुरे जिह्मे शीर्णपक्ष्माविलेक्षणे||१|| कृच्छ्रोन्मीलशिराहर्षशिरोत्पाततमोर्जुनैः| स्यन्दमन्थान्यतोवातवातपर्यायशुक्रकैः||२|| आतुरे शान्तरागाश्रुशूलसंरम्भदूषिके| निवाते तर्पणं योज्यं शुद्धयोर्मूर्द्धकाययोः||३|| काले साधारणे प्रातः सायं वोत्तानशायिनः| |४|
🔊 Audio coming soon
स०-चक्षुषि म्लायति सति, तथा स्तब्धादिगुणे तर्पणं कार्यम्| तथा, शीर्णे पक्ष्मणी यस्य तदेवम्| आविलं-अस्पष्टं, ईक्षणं-दर्शनं, यस्य तदेवम्| शीर्णपक्ष्म च तदाविलेक्षणं च, तत्तस्मिन्| तथा कृच्छ्रोन्मीलादयः-अक्षिरोगेषु वक्ष्यन्ते| कृच्छ्रोन्मीलश्च शिराहर्षश्च शिरोत्पातश्च तमश्चार्जुनश्च, तैरातुरे| तथा स्यन्दश्च मन्थश्चान्यतोवातश्च वातपर्यायश्च शुक्रकं च, तैरातुरे| { तथा, नस्यानर्हे| यतो वक्ष्यति (श्लो-२१)-"तर्पणं पुटपाकं च नस्यानर्हे न योजयेत्|" इति| तथा, शान्ताः शमं गताः, रागाश्रुशूलसंरम्भदूषिका यस्मिन्नयने तस्मिन्| कीदृशि स्थाने ? निवाते,-विगतानिले| उपलक्षणं चेदम्| विगतातपरजोधूमादिक इत्यपि द्रष्टव्यम्| कीदृशयोर्मस्तकदेहयोः ? शुद्धयोः,-यथायोगं वमनविरेचननस्यैः कृतशुद्ध्योरित्यर्थः| कीदृशि काले ? साधारणे,-वसन्तादिके| कदा ? सायं प्रातर्वा, दोषदूश्याद्यपेक्षया| कीदृशस्यातुरस्य ? उत्तानशायिन इति शयनस्थस्योत्तानस्येत्यर्थः|
Adhikarana tarpaNavidhiH (4-6) · Śloka 6
| यवमाषमयीं पालीं नेत्रकोशाद्बहिः समाम्||४|| द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमावपेत्| सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम्||५|| नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम्| आपक्ष्माग्रात्|६|
🔊 Audio coming soon
स०-यवैर्मिश्रा माषा यवमाषाः, तैः कृता या सा यवमाषमयी, ताम्| तादृशीं पालीं नेत्रकोशाद्बाह्यत उभयपार्श्वयोः समां-अनिम्नोन्नतां कृत्वा, यथायोगं दोषदूष्याद्यनुरोधात् पक्वं घृतं निमीलिते-अनुन्मिषिते लोचने क्षिपेत्| अथ पाल्या उच्छ्रायमाह-द्व्यङ्गुलोच्चां,-द्व्यङ्गुलोच्छ्रायवतीम्| तथा दृढां निबिढां, यथा स्नेहो न स्रवेत्| कीदृशं सर्पिः ? तप्तेन जलेन प्रकर्षेण विलायितं-द्रवीकृतम्| नक्तान्ध्येत्यादि| रात्र्यन्ध्यादिषु वसां यथास्वौषधसिद्धां तथैव विलायितामावपेत्| कथम् ? आपक्ष्माग्रात्,-पक्ष्माग्राणि यावन्निमग्नानि तावत्सर्षिरादिमावपेदिति|
Adhikarana tarpaNadhAraNAvadhiH (6-8) · Śloka 8
| अथोन्मेषं शनकैस्तस्य कुर्वतः||६|| मात्रा विगणयेत्तत्र वर्त्मसन्धिसितासते| दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च||७|| शतानि सप्त चाष्टौ च, दश मन्थे, दशानिले| पित्ते षट्, स्वस्थवृत्ते च बलासे पञ्च धारयेत्||८||
🔊 Audio coming soon
स०-अथ-घृताद्यावपनादनन्तरं, शनैःशनैरुन्मीलनं विदधतस्तस्य-आतुरस्य, मात्राः-पूर्वोक्ताः, विगणयेत्| तत्र-तस्मिन् वर्त्मादिके व्याधौ सर्पिषि क्षिप्ते, शतसङ्ख्यादीर्मात्रा विगणयेत् क्रमेण| तत्र वर्त्मरोगे मात्राशतम्, सन्धिरोगे त्रीणि शतनि, सितरोगे पञ्च शतानि, असितरोगे सप्त शतानि, दृष्टिरोगेऽष्टौ शतानि, धारयेदिति क्रमार्थः| यथासङ्ख्येन मन्थाख्ये रोगे दश शतानि, वातरोगे दशैव शतानि, पित्तरोगे षट् शतानि, स्वस्थवृत्ते च षट् शतानि, कफे पञ्च शतानि,धारयेत्|
Adhikarana tarpaNAnantaraM kRutyam (9) · Śloka 9
कृत्वाऽपाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत्| पिबेच्च धूमं, नेक्षेत व्योम रूपं च भास्वरम्||९||
🔊 Audio coming soon
स०-{ ततः-} यथोक्तमात्राधारणादनन्तरं, अपाङ्गदेशे पाल्या द्वारं कृत्वा स्नेहं भाजने निक्षिपेत्| ततः सक्तुपिण्ड्याऽक्षिकोशं प्रमृज्य स्नेहेरितकफोपशान्तये धूमं च पिबेत्, न केवलं तर्पणं कुर्यात्| प्रक्षालितनेत्रं चैनं मात्रयाऽऽमयादिवशेन भोजयेत्| तथा, नभो न पश्येद्भास्वरं रूपं च| उपलक्षणं चेदम्| आतपाद्यपि भास्वरं न पश्येत्|
Adhikarana vAtAdibhedena tarpaNAvRuttiH AvRutyavadhiH (10) · Śloka 10
इत्थं प्रतिदिनं वायौ, पित्ते त्वेकान्तरं, कफे| स्वस्थे च ह्यन्तरं दद्यादातृप्तेरिति योजयेत्||१०||
🔊 Audio coming soon
स०-इत्थं-अनेन क्रमेण, पवने प्रत्यहं तर्पणं दद्यात्| पित्ते पुनरेकान्तरं तर्पणं दद्यात्| कफे स्वस्थे च द्विदिनान्तरं योजयेत्| इति-एवं, यावन्नयनस्य तृप्तिः स्यात्तावत्तर्पणं योज्यम्|
Adhikarana tRutpAtRutpAtitRutpalakShaNam (11) · Śloka 11
तृप्तस्य किं लक्षणं ? इत्याह प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम्| तृप्ते, विपर्ययोऽतृप्तेऽतितृप्ते श्लेष्मजा रूजः||११||
🔊 Audio coming soon
स०-प्रकाशक्षमत्वादिकं सम्यक्तृप्तस्य लक्षणम्| प्रकाशक्षमता-प्रभाभास्वरादिरूपसहत्वम्| अतृप्ते-अजातायां तृप्तौ, पिपर्ययः-प्रकाशाक्षमतादिकः| अतितृप्ते सति कफोद्भवाः कण्डूपैच्छिल्यादिका रुजः स्युः|
Adhikarana puTapAkasya viShayaH (12-13) · Śloka 13
स्नेहपीता तनुरिव क्लान्ता दृष्टिर्हि सीदति| तर्पणानन्तरं तस्मादृग्बलाधानकारिणम्||१२|| पुटपाकं प्रयुञ्जीत पूर्वोक्तेष्वेव यक्ष्मसु| |१३|
🔊 Audio coming soon
स०-स्नेहपीता दृष्टिः क्लान्ता तनुरिव यतोऽवसीदति, तस्मात्कारणात् तर्पणादनन्तरं पुटपाकं प्रयुञ्जीत| कीदृशम् ? दृशोर्बलं दृग्बलं, तस्याधानं-प्रबन्धेन वृत्तिः, तत्करोतीति दृग्बलाधानकारिणम्| हेतौ द्वितीया, दृग्बलाधानकारित्वात् प्रयुञ्जीतेत्यर्थः| पूर्वोक्तेष्वेव-तर्पणोक्तेष्वामयेषु|
Adhikarana puTapAkasya traividhyaM saviShayam (13-14) · Śloka 14
| स वाते स्नेहनः श्लेष्मसहिते लेखनो हितः||१३|| दृग्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः| |१४|
🔊 Audio coming soon
स०-स च-पुटपाको, वाते स्नेहनो हितः| कफसहिते मारुते लेखनो हितः| दृष्टिदौर्बल्यादिषु प्रसादनो हितः|
Adhikarana snehanasya dravyANi (14-15) · Śloka 15
इदानीमेषां पुटपाकानां कल्पनामाह | भूशयप्रसहानूपमेदोमज्जवसामिषैः||१४|| स्नेहनं पयसा पिष्टैर्जीवनीयैश्च कल्पयेत्| |१५|
🔊 Audio coming soon
स०-भूशयाः- बिलेशया भेकगोधाद्याः, प्रसहाः-गोखरादयः, आनूपाः-महामृगवारिचरवारिशयाः, तेषां मेदोमज्जवसामिषाणि, तैः| तथा, जीवनीयैः-जीवन्तीकाकोल्यादिभिश्च, क्षीरपिष्टैः स्नेहनं पुटपाकं कल्पयेद्वैद्यः|
Adhikarana lekhanasya dravyANi (15-16) · Śloka 16
| मृगपक्षियकृन्मांसमुक्तायस्ताम्रसैन्धवैः||१५|| स्रोतोजशङ्खफेनालैर्लेखनं मस्तुकल्कितैः| |१६|
🔊 Audio coming soon
स०-मृगाः-हरिणाद्याः, पक्षिणो-लावाद्याः, तेषां यकृन्मांसानि, तैः| तथा, मुक्तादिभिर्मस्तुकल्कितैर्लेखनं पुटपाकं कल्पयेद्वैद्यः| प्रसहानां मृगपक्षिणां स्नेहने पुटपाक उपयुक्तत्वात् जाङ्गला एव मृगपक्षिणोऽत्र ग्राह्याः|
Adhikarana prasAdanasya dravyANi (16-17) · Śloka 17
| मृगपक्षियकृन्मज्जवसान्त्रहृदयामिषैः||१६|| मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम्| |१७|
🔊 Audio coming soon
स०-मृगपक्ष्यादीनां यकृन्मज्जवसाहृदयामिषाणि, तैः| तथा, मधुरैः-मधुरवर्गोक्तैः, घृतान्वितैः स्तन्यक्षीरपिष्टैः प्रसादनं पुटपाकं कल्पयेद्वैद्यः| अत्र स्तन्यं स्त्रिया एव|
Adhikarana puTapAkasya sAdhanam puTapAkavidhiH (17-19) · Śloka 19
अधुना पुटपाकस्य कल्पनामाह बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः||१७|| उरुबूकवटाम्भोजपत्रैः स्नेहादिषु क्रमात्| वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः||१८|| पचेत्प्रदीप्तैरग्न्याभं पक्वं निष्पीड्य तद्रसम्| नेत्रे तर्पणवद्युञ्ज्यात्|१९|
🔊 Audio coming soon
स०-मांसं च भेषजकल्कश्च तयोः पृथक् पलमात्रं पिण्डमेरण्डादिपत्रैर्वेष्टयित्वा कृष्णमृत्तिकया लिप्तं वृद्धवैद्यव्यवहारात् द्व्यङ्ह्गुलोत्सेधं मृत्तिकालेपं कृत्वा क्रमेण धवादीन्धनैः प्रदीप्तैः पचेत्| तत्र स्नेहने पुटपाक एरण्डपत्रैर्वेष्टनं धवकाष्ठैः प्रदीपनम्, लेखने वटपत्रैर्वेष्टनं धन्वनेन्धनेन प्रदीपनम्, प्रसादने जलजपत्रैर्वेष्टनं गोमयेन्धनेन प्रदीपनम्, इति क्रमार्थः| अग्न्याभं-अग्निवर्णं सत्, पक्वं ज्ञात्वा, अपनीतपत्रं विधाय, वाससा निष्पीड्य, तद्रसं नयने तर्पणमिव युञ्ज्यात्|
Adhikarana puTapAkadhAraNavidhiH (19-20) · Śloka 20
| शतं द्वे त्रीणि धारयेत्||१९|| लेखनस्नेहनान्त्येषु| |२०|
🔊 Audio coming soon
स०-लेखनादिषु शतादीनि धारयेत्| तत्र लेखने शतं मात्राणां धारयेत्| स्नेहने द्वे शते| अन्त्ये-प्रसादने, त्रीणि शतानि धारयेत्|
Adhikarana puTapAkAnAmuShNashItabhedaH (20) · Śloka 20
कोष्णौ पूर्वौ, हिमोऽपरः| |२०|
🔊 Audio coming soon
स०-पूर्वो-स्नेहनलेखनौ, कोष्णौ योज्यौ| हिमोऽपरः-प्रसादनाख्यः|
Adhikarana lekhanasnehAnayorante kRutyam (20) · Śloka 20
| धूमपोऽन्ते तयोरेव|२०|
🔊 Audio coming soon
स०-तयोः-आद्ययोः पुटपाकयोः, अन्ते धूमपः स्यात्| स्नेहेरितकफोपशान्त्यै, न तु प्रसादनान्ते, इत्येवशब्दार्थः|
Adhikarana puTapAkasya samyagyogAdi lakShaNam (20) · Śloka 20
| योगास्तत्र च तृप्तिवत्||२०||
🔊 Audio coming soon
स०-तत्र च-तेषु पुटपाकेषु, योगास्तर्पण इव स्युः| तृप्तिवदिति सप्तम्यन्ताद्वतिः| योगा इति बहुवचननिर्देशात् सम्यग्योगायोगातियोगा गृह्यन्ते|
Adhikarana tarpaNapuTapAkaniShedhaH (21) · Śloka 21
तर्पणं पुटपाकं च नस्यानर्हे न योजयेत्| |२१|
🔊 Audio coming soon
स०-तर्पणपुटपाकौ नस्यायोग्ये न योजयेत्| नस्यानर्हाः-"योज्येन्न तु नावनम्|" इत्याद्युक्ताः|
Adhikarana tarpaNapuTapAkayorAcAraH (21-21.5) · Śloka 21
यावन्त्यहानि युञ्जीत द्विस्ततो हितभाग्भवेत्||२१|| मालतीमल्लिकापुष्पैर्बद्धाक्षो निवसेन्निशाम्||२१.५||
🔊 Audio coming soon
स०-यावन्त्यहानि-यावन्मात्राणि दिनानि, तर्पणपुटपाकौ कुर्वीत ततो द्विगुणानि दिनानि हितसेवी स्यात्| कृततर्पण पुटपाको मालत्यादिपुष्पैर्बद्धाक्षः सन् विभावरीं वसेत्| मालती-सुमनाः| मल्लिका-गन्धवार्षिका|
Adhikarana netrarakShaNe yatnaH kAryaH (24) · Śloka 24
सर्वात्मना नेत्रबलाय यत्नं कुर्वीत नस्याञ्जनतर्पणाद्यैः| दृष्टिश्च नष्टा विविधं जगच्च तमोमयं जायत एकरूपम्||२२.५|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने तर्पणपुटपाकविधिर्नाम चतुर्विंशोऽध्यायः||२४||
🔊 Audio coming soon
स०-सर्वेण प्रकारेण नेत्रबलाय-चक्षुःसामर्थ्याय, नस्यादिभिर्यत्नं कुर्यात्| दृष्टिश्चेति च हेतौ| यतो दृष्टिर्यदि न स्यात्ततो जगद्विविधमपि तमोमयं-अन्धकाररूपं, एकरूपं-एकलक्षणं, सम्पद्यत इति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने तर्पणपुटपाकविधिर्नाम चतुर्विंशोऽध्यायः समाप्तः|| २४||