Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
दोषादिविज्ञानीयादनन्तरं दोषभेदीयाध्यायारम्भः| यतो दोषभेदमन्तरेण दोषविज्ञानं सम्यङ्नोक्तं स्यात्|
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
दोषादिविज्ञानीयादनन्तरं दोषभेदीयाध्यायारम्भः| यतो दोषभेदमन्तरेण दोषविज्ञानं सम्यङ्नोक्तं स्यात्|
Adhikarana doShabhedIyAdyAyaH (2) · Śloka 2
पूर्वस्मिन्नध्याये बहुवक्तव्यत्वाद्दोषभेदो नोक्त इत्याह - - - - अथातो दोषभेदीयाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२||
🔊 Audio coming soon
स०-दोषाणां भेदो-दोषभेदः, स्थाननामविभागादिभिः| तस्मै हितो दोषभेदीयः| शेषं पूर्ववत्|
Adhikarana vAtasya sthAnam (1) · Śloka 1
पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम्| स्थानं वातस्य, तत्रापि पक्वाधानं विशेषतः||१||
🔊 Audio coming soon
स०-पक्वाशयादि वातस्य स्थानम्| तत्रापि षड्विधे स्थाने विशेषेण पक्वाधानं स्यात्| अन्नं पक्वमाधीयते-स्थाप्यतेऽस्मिन्निति पक्वाधानं,-पक्वाशयः| अत एव वाते बस्तिरुपक्रमः प्रधान उक्तः, मूलापकर्षणात्| सकलशरीरव्यापित्वेऽप्येषामिदं विशेषेणोक्तम्| तथा च प्रागध्यगीष्ट (हृ. सू. अ. १|७) - "ते व्यापिनोऽपि हृन्नाभ्योः" इति| विचित्रगतित्वाच्चैषां वक्ष्यमाणप्राणादिभेदेन पृथक् स्थानकर्मनिर्देशः|
Adhikarana pittasya sthAnam (2) · Śloka 2
नाभिरामाशयः स्वेदो लसीका रुधिरं रसः| दृक् स्पर्शनं च पित्तस्य, नाभिरत्र विशेषतः||२||
🔊 Audio coming soon
स०-पित्तस्य नाभ्यादीनि स्थानानि| लसीका-जलसदृशी| दृक्-चक्षुः| स्पर्शनं-त्वक्| ननु, स्पर्शनेन्द्रियं वायोः स्थानमुद्दिष्टम्| तदेव कथं पित्तस्यापि स्यात्| ब्रूमः| वातसखित्वादग्नेः| वातसखो ह्यग्निः, पित्तं च वह्निरिति वचनात्| तस्मादुभयोरप्येतद्युक्तं स्थानम्| विशेषत इति| अत्र-एषु स्थानेषु मध्ये, पित्तस्य विशेषेण नाभिः स्थानम्|
Adhikarana kaphasya sthAnam (3) · Śloka 3
उरःकण्ठशिरःक्लोमपर्वाण्यामाशयो रसः| मेदो घ्राणं च जिह्वा च कफस्य, सुत्रामुरः||३||
🔊 Audio coming soon
स०-कफस्योरः प्रभृतीनि जिह्वान्तानि स्थानानि| सुतरां-सुष्ठु स्थानमुरो-वक्षः|
Adhikarana vAyoH pa~jcAtmakatvam (4) · Śloka 4
अथ प्रत्येकमेतेषां दोषाणां विशिष्टस्थानाश्रयेण क्रियाभेदात् पञ्च पञ्च भेदानाह - - - - प्राणादिभेदात्पञ्चात्मा वायुः| |४|
🔊 Audio coming soon
स०-वायुरेक एव चलनस्वभावः सन् प्राणादिभिः-प्राणोदानव्यानसमानापानैः, भेदात्-विशेषात्, पञ्चात्मा-पञ्चस्वभावः| यथैकोऽपि देवदत्तो यां यां क्रियां करोति तदनुरूपामेव संज्ञां लावकपाचकादिकां लभते, तद्वद्वातादयः|
Adhikarana prANasya sthAnakarmANi (4-5) · Śloka 5
प्राणोऽत्र मूर्धगः| उरःकण्ठचरो बुद्धिहृदयेन्द्रियचित्तधृक्||४|| ष्ठीवनक्षवथूद्गारनिःश्वासान्नप्रवेशकृत्| |५|
🔊 Audio coming soon
स०-अत्र-एषु मध्ये, प्राणो वायुर्मूर्धगः-शिरसि स्थितः, उरः कण्ठं च चरति| तथा, बुद्ध्यादीनां धारकः| तथा, ष्ठीवनादिक्रियः| ष्ठीवनं- मुखस्रावोद्गारः| ष्ठीवनमिति "ष्ठीवेर्ल्युटि ष्ठीविसिव्योर्दीर्घश्च" इति पृषोदरादिपाठाद्दीर्घः|
Adhikarana udAnasya sthAnakarmANi (5-6) · Śloka 6
| उरः स्थानमुदानस्य नासानाभिगलांश्चरेत्||५|| वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्णस्मृतिक्रियः| |६|
🔊 Audio coming soon
स०-उदानस्य प्रधानमुरः स्थानम्, नासादींश्च चरति| वाक्प्रवृत्त्यादिक्रियः| प्रयत्नः-कार्येषु पदार्थग्रहणादिषूद्यमः|
Adhikarana vyAnasya sthAnakarmANi (6-7) · Śloka 7
| व्यानो हृदि स्थितः कृत्स्नदेहचारी महाजवः||६|| गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः| प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्||७||
🔊 Audio coming soon
स०-व्यानो हृदये स्थितः प्राधान्येन कृत्स्ने-सर्वस्मिन्, शरीरे चरति| तथा, महाजवः-शीघ्रगतिः, प्राणाद्यपेक्षया| तथा, गत्यादिकाः क्रियाः प्रायः सर्वदेहिनां तस्मिन्-व्याने, प्रतिबद्धाः-तदायत्ताः| गतिः-चङ्क्रमणम्| अपक्षेपणं-अङ्गस्याधोअनयनम्| उत्क्षेपः- अङ्गस्योर्ध्वनयनम्| निमेषः-अक्ष्णोर्निमीलनम्| उन्मेषः-तयोर्विकासः| आदिग्रहणेन जृम्भणान्नास्वादनविशोधनादिपरिग्रहः|
Adhikarana samAnasya sthAnakarmANi (8) · Śloka 8
समानोऽग्निसमीपस्थः कोष्ठो चरति सर्वतः| अन्नं गृह्णाति पचति विवेचयति मुञ्चति||८||
🔊 Audio coming soon
स०-समानो वायुरग्निसमीपस्थः| सामान्योक्तावपि प्राधान्यात्पाचकोऽग्निर्गृह्यते| अत एवाह-कोष्ठे चरति सर्वत इत्यादि| सर्वस्मिन् कोष्ठे चरति| स चान्नं गृह्णाति-अपक्वमामाशये धारयतीत्यर्थः| पचति-अग्निसन्धुक्षणाद्भक्तकार इव| विवेचयति-संहतमन्नं पाकाय विभजते| मुञ्चति-शकृन्मूत्रादिरूपमधः|
Adhikarana apAnasya sthAnakarmANi (9) · Śloka 9
अपानोऽपानगः श्रोणिबस्तिमेढ्रोरुगोचरः| शुक्रार्तवशकृन्मूत्रगर्भनिष्क्रमणक्रियः||९||
🔊 Audio coming soon
स०-अपानो वायुरपानं प्राधान्येनाश्रितः, श्रोण्यादिचरः, शुक्रादिनिष्क्रमणक्रियः| इति वातभेदाः पञ्च|
Adhikarana pittaM pa~jcAtmakam (10) · Śloka 10
पञ्च पित्तभेदानाह - - - - पित्तं पञ्चात्मकम्| |१०|
🔊 Audio coming soon
स०-पाचकरञ्जकसाधकालोचकभ्राजकभेदाः पञ्च पित्तस्य|
Adhikarana pAcakasya sthAnakarmANi (10-12) · Śloka 12
तत्र पक्वामाशयमध्यगम्| पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्||१०|| त्यक्तद्रवत्वं पाकादिकर्मणाऽनलशब्दितम्| पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा||११|| तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्| करोति बलदानेन पाचकं नाम तत्स्मृतम्||१२||
🔊 Audio coming soon
स०-तत्र-तेषु पञ्चसु मध्ये, पक्वामाशययोर्मध्यस्थं यत्पित्तं तथा पञ्चभूतात्मकत्वेऽपि सति यत्तैजसगुणोदयात्-आग्नेयगुणोत्कर्षात्, क्षपितसोमगुणत्वेन त्यक्तद्रवत्वं-सञ्जातकाठिन्यम्, तथा सहकारिकारणैः पाचनक्रियां प्रति सव्यापारैर्वाय्वादिभिरनुग्रहादुपकारात् यतः पाकदाहादिक्रिययाऽनलशब्दितं-अग्निशब्दवाच्यं यत्पित्तं तत्पाचकमुच्यते| तच्चान्नं पचति| सारकिट्टौ पृथग् विभजते-विभागीकरोति| किट्टशब्दस्य लोकाश्रयत्वाल्लिङ्गस्येति पुंस्त्वम्| तत्रस्थमेव-पक्वामाशयमध्यगमेव, शेषाणां-रञ्जकादीनां धातुस्थानां च, अनुग्रहं-उपकारं करोति| बलदानेन-सामर्थ्याधानेन, स्वस्थानस्थमेव तेषूपकुरुत इत्यर्थः|
Adhikarana ra~jjakasya sthAnakarmANi (13) · Śloka 13
आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्| |१३|
🔊 Audio coming soon
स०-यत्त्वामाशयस्थं पित्तं तद्रसाख्यधातो रञ्जनात्रागनिष्पादनात्, रञ्जकमुच्यते|
Adhikarana sAdhakasya sthAnakarmANi (13-14) · Śloka 14
| बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्||१३|| साधकं हृद्गतं पित्तं| |१४|
🔊 Audio coming soon
स०-यत्तु हृद्गतं-हृदयस्थं पित्तं तद्बुद्ध्यादिभिः करण्भूतैरभिप्रेतस्यार्थस्य बाह्यग्रहणस्मरणादिरूपेण साधनात् साधकमुच्यते| वर्तमानकाले या मनोर्थसंशयस्य निश्चयं कर्तुं तदर्थाध्यवसायोपारूढा सा-बुद्धिः| बुद्धिविशेषो-मेधा|
Adhikarana Alocakasya sthAnakarmANi (14) · Śloka 14
रूपालोचनतः स्मृतम्| दृक्स्थमालोचकं|१४|
🔊 Audio coming soon
स०-दृष्टिस्थं पित्तं रूपालोचनात् (नतः)-अन्तस्तारकयोः स्थितं तदायत्तरूपग्रहणशक्तित्वात्, आलोचकमुच्यते|
Adhikarana bhrAjakasya sthAnakarmANi (14) · Śloka 14
| त्वक्स्थं भ्राजकं भ्राजनात्त्वचः||१४||
🔊 Audio coming soon
स०-त्वचो भ्राजनात्-दीपनात्, भ्राजकं नाम पित्तम्| एतच्च पित्तमभ्यङ्गलेपपरिषेकादीन् पाचयति|
Adhikarana shleShmA pa~jcavidhaH (15) · Śloka 15
श्लेष्मा तु पञ्चधा| |१५|
🔊 Audio coming soon
स०-श्लेष्मा तु पञ्चधा,-पञ्चप्रकारः|
Adhikarana avalambakasya sthAnakarmANi (15-16) · Śloka 16
तदेव पञ्चप्रकारत्वमाह - - - - उरःस्थः स त्रिकस्य स्ववीर्यतः| हृदयस्यान्नवीर्याच्च तत्स्थ एवाम्बुकर्मणा||१५|| कफधाम्नां च शेषाणां यत्करोत्यबलम्बनम्| अतोऽवलम्बकः श्लेष्मा|१६|
🔊 Audio coming soon
स०-सः-श्लेष्मा, उरसि तिष्ठतीत्युरःस्थः, त्रिकस्य-पृष्ठाधा(ध)राख्यस्य, स्ववीर्यतः-स्वप्रभावात्, यत्-यस्मात्, अवलम्बनं करोति-स्वकर्मणि तस्य सामर्थ्यमुत्पादयति| हृदयस्यान्नवीर्यात्-अन्नवीर्येणाभ्यवहृतादन्नाद्रसरूपतापरिणतात् तद्वीर्येण-तद्बलेनावलम्बनं करोति| चशब्दात् स्ववीर्येणापि हृदयस्यावलम्बनं करोति| किन्त्वन्नवीर्यादतिशयेन यथाऽवलम्बनं हृदयस्य करोति न तथा स्ववीर्यतः| यतोऽन्नरसः पूर्वं हृदि स्थितिं कृत्वा ततो व्यानविक्षिप्तः सर्वं शरीरं याति, तस्माद्विशेषेण हृदयस्यान्नवीर्यादवलम्बनं युक्तम्| आगमोऽपि-"हृदयं मनसः स्थानमोजसाश्चिन्तितस्य च| मांसपेशीचयो रक्तपद्माकारमधोमुखम्|| योगिनो यत्र पश्यन्ति सम्यग् ज्योतिः समाहिताः| रसो यः स्वच्छतां यातः स तत्रैवावतिष्ठते|| ततो व्यानेन विक्षिप्तः कृत्स्नं देहः प्रपद्यते|" इति| तथा, तत्स्थ एव-उरःस्थ एव, एष श्लेष्मा शेषाणां कफस्थानानामम्बुकर्मणा-क्लेदसंश्लेषादिलक्षणेन जलव्यापारेण, अवलम्बनं करोति| अतः-अस्माद्यथोक्ताद्धेतोः, अवलम्बकः श्लेष्मेत्युच्यते|
Adhikarana kledakasya sthAnakarmANi (16-17) · Śloka 17
यस्त्वामाशयसंस्थितः||१६|| क्लेदकः सोऽन्नसङ्घातक्लेदनात्| |१७|
🔊 Audio coming soon
स०-यः पुनः श्लेष्मा आमाशये स्थितः, स क्लेदक इत्युच्यते| कुतः ? अन्नसङ्घातक्लेदनात्कारणात्|
Adhikarana bodhakasya sthAnakarmANi (17) · Śloka 17
रसबोधनात्| बोधको रसनास्थायी|१७|
🔊 Audio coming soon
स०-रसनास्थायी-जिह्वास्थो, बोधक इत्युच्यते, रसबोधनात् कारणात्|
Adhikarana tarpakasya sthAnakarmANi (17-18) · Śloka 18
| शिरःसंस्थोऽक्षतर्पणात्||१७|| तर्पकः| |१८|
🔊 Audio coming soon
स०-शिरःस्थस्तर्पक इत्युच्यते, अक्षतर्पणाद्वेतोः|
Adhikarana shleShakasya sthAnakarmANi (18) · Śloka 18
सन्धिसंश्लेषाच्छ्लेषकः सन्धिषु स्थितः| |१८|
🔊 Audio coming soon
स०-सन्धिषु स्थितः श्लेष्मा श्लेषक इत्युच्यते, सन्धिसंश्लेषात् कारणात्|
Adhikarana doShasthAnakarmaupasaMhAraH (18-19) · Śloka 19
एवं दोषाणां स्थानान्युक्त्वोपसंहरन्नाह - - - - | इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम्||१८|| व्यापिनामपि जानीयात्कर्माणि च पृथक्पृथक्| |१९|
🔊 Audio coming soon
स०-प्रायेण-बाहुल्येन, दोषाणामविकृतात्मनां-अप्रच्युतस्वभावानाम्, इति-उक्तप्रकाराणि, स्थानानि व्यापिनामपि-सकलशरीरचराणामपि, जानीयात्| वैद्य इति शेषः| तथा, कर्माणि पृथक्पृथक्-प्रत्येकं कृत्वा, जानीयात्|
Adhikarana vAyucayakopayornidAnam (19-20) · Śloka 20
विकृतिरेषां वृद्धिः क्षयश्च| वृद्धिरपि द्विविधा,-चयप्रकोपभेदेन| दोषादिविज्ञानीये सामान्येन वृद्धिक्षयलक्षणमुक्तम्| सम्प्रति चयप्रकोपरूपं वृद्धिनिदानं सङ्क्षेपेण सूचयन्नाह - - - - - | उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति सञ्चयम्||१९|| शीतेन कोपमुष्णेन शमं स्निग्धादयो गुणाः| |२०|
🔊 Audio coming soon
स०-उष्णेन गुणेन विरुद्धेनोपहिता रूक्षादयः-प्रथमाध्यायोक्ताः (श्लो. ११) षड्वातगुणाः, वायोश्चयं कुर्वन्ति, न कोपमुष्णस्य विरुद्धत्वात्| त एव च रूक्षादयः शीतगुणोपहितास्तत्सदृशत्वाद्वायोः कोपं कुर्वन्ति| उष्णेन युक्ताः स्निग्धादयो गुणा वायोः शमं कुर्वन्ति, विपरीतत्वात्|
Adhikarana pittacayakopayornidAnam (20-21) · Śloka 21
| शीतेन युक्तास्तीक्ष्णाद्याश्चयं पित्तस्य कुर्वते||२०|| उष्णेन कोपं, मन्दाद्याः शमं शीतोपसंहिताः| |२१|
🔊 Audio coming soon
स०-एवं पित्तस्य शीतेन गुणेन युक्तास्तीक्ष्णादयो गुणाश्चयं कुर्वन्ति| त एव तीक्ष्णादयो गुणा उष्णेन सहिताः कोपं कुर्वन्ति| मन्दादयो गुणाः शीतगुणयुक्ताः शमं कुर्वन्ति, विपरीतत्वात्|
Adhikarana shleShmacayakopayornidAnam (21-22) · Śloka 22
| शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश्चयम्||२१|| उष्णेन कोपं, तेनैव गुणा रूक्षादयः शमम्| |२२|
🔊 Audio coming soon
स०-शीतगुणोपहिताः स्निग्धादयः कफस्य चयं कुर्वते| उष्णेन युक्तास्त एव स्निग्धादयः कफस्य कोपं कुर्वते| तेनैव-उष्णेन, युक्ता रूक्षादयः कफस्य च शमं कुर्वन्ति| कफस्य हि शीतगुणेन सदृशेनापि स्निग्धादिगुणयुक्तेन स्त्यानत्वाच्चयः स्यात्| विपरीतेनोष्णेन विलयनात् कोपः| स एवोष्णो यदा रूक्षादियुक्तो भवति तदा विपरीतत्वात् शमो भवति|
Adhikarana cayalakShaNam (22-23) · Śloka 23
इदानीं चयादीनां लक्षणान्याह - - - - | चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु||२२|| विपरीतगुणेच्छा च| |२३|
🔊 Audio coming soon
स०-स्वधाम्नीये स्थाने दोषस्य या वृद्धिः स चय उच्यते| चितस्य दोषस्य लिङ्गमाह-प्रद्वेष इत्यादि| यदा हि वातश्चितो भवति तदा रूक्षादिषु तद्गुणसामान्येषु प्रद्वेषः स्यात्| तद्विपरीतगुणेषु स्निग्धादिष्वभिलाषः स्यात्| एवं कफपित्तयोश्चितयोर्व्याख्येयम्| ननु, "प्रद्वेषो वृद्धिहेतुषु" इत्येकमेव लक्षणं दोषचयसत्तानुमापकं कर्तुं न्याय्यम्| यदि वा "विपरीतगुणेच्छा च" इत्येतत्| किं द्वयोरूपादानेन ? अत्रोच्यते| कदाचिदचितोऽपि दोषो वाताख्यः स्वप्रमाणस्थः क्षीणो वा यस्य स वातवृद्धिहेतून् रूक्षादीन्न द्वेष्टि, अपि तु तानिच्छति, सात्म्यवशात्| यथा,-गर्भिणी स्त्री दोहदवशात्| तदेवं व्यभिचारदर्शनात्| प्रदोषो वृद्धिहेतुषु" "विपरीतगुणेच्छा च" इति द्वयमपि कर्तव्यम्| तेन यदा तुल्यकालं पुरुषस्य वातसमानगुणेषु तद्वृद्धिहेतुषु प्रद्वेषो जायते, वातगुणप्रतिपक्षेषु तत्क्षपणहेतुषु चाभिलाषः, तदा सम्यक् निश्चीयते वातस्योपचितिः, इति द्वयमप्येतदुक्तम्|
Adhikarana kopalakShaNam (23-24) · Śloka 24
कोपस्तून्मार्गगामिता| लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः||२३|| स्वस्थानस्थस्य समता विकारासम्भवः शमः| |२४|
🔊 Audio coming soon
स०-उन्मार्गगामिता-स्वस्थानं त्यक्त्वा दोषस्य यत् पुनर्मार्गान्तरगमनम्, स कोप इत्युच्यते| कोपस्य तु लिङ्गमाह-लिङ्गानां स्वेषां यथायथं दर्शनं-उद्भवः| वातादीनां कुपितानां यानि लिङ्गानि दोषादिविज्ञानीयेऽभिहितानि वातव्याधिनिदाने च वक्ष्यन्ते, तेषां लक्षणानामुपलब्धिः, [ वैद्येनातुरेण च| यत्तत् कोपस्य लिङ्गम्| तथा, अस्वास्थ्यं-उत्पित्सुरोगेच्छया सामान्येन देहमनोभिभूतत्वम्| तथा, रोगस्य-ज्वरादेः, सम्भवो-जन्म| ननु, "लिङ्गानां दर्शनं स्वेषाम्" "अस्वास्थ्यम्" "रोगसम्भवः" इति किं त्रितयमुद्दिष्टम् ? एकेनैव दोषकोपावगमादेकमेवोपदेष्टुं युक्तम्| नैवम्| व्यभिचारदर्शनात्| तथा हि वक्ष्यति पाण्डुरोगचिकित्सिते (श्लो. ४६)- "रूक्षशीतगुरुस्वादुव्यायामबलनिग्रहैः| कफसम्मूर्च्छितो वायुर्यदा पित्तं बहिः क्षिपेत्||" इत्यारभ्य यावत् "पित्ते शाखासमाश्रिते|" इति| तदेवमेषः कामलाख्यो रोगः पित्तलिङ्गदर्शनादपि न पित्तस्य कोपमनुपयाति| अत एव पित्तप्रकोपकरं भृशाम्लतीक्ष्णकटुकादि चिकित्सितमत्र निर्दिष्टम्| अस्वास्थ्यमित्येतदपि न दोषकोपस्य निश्चितं लिङ्गम्| तथा हि-मानसेनापि भयशोकादिनाऽस्वास्थ्यं दृश्यते| तथा, आगन्तवोऽपि रोगा दोषकोपमन्तरेणैवोत्पद्यमाना दृश्यन्ते| तस्माद्रोगसम्भवादपि दोषकोपोऽयमनिश्चितः| तदेवं लक्षणत्रितयेनैवानेन दोषकोपो निश्चेतुं शक्यत इति त्रितयमप्येतद्वक्तव्यम्| स्वस्थानस्थस्येत्यादि| स्वस्थानं-यथोद्दिष्टं पक्वाशयादि| स्वस्थानावस्थितस्यैव वातादिदोषस्य या समता-स्वप्रमाणत्वम्, विकारस्य-रोगस्य, असम्भवः-अनुत्पत्तिः, स शम उच्यते|
Adhikarana vAtAdeshcayaprakopaprashamakAlaH (24-25) · Śloka 25
|इदानीं वातादीनां चयप्रकोपप्रशमा यस्मिन् काले जायन्ते तं दर्शयन्नाह -] | चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु||२४|| वर्षादिषु तु पित्तस्य, श्लेष्मणः शिशिरादिषु| |२५|
🔊 Audio coming soon
स०-वातस्य ग्रीष्मादिषु त्रिषु यथासङ्ख्यं चयप्रकोपप्रशमा जायन्ते| ग्रीष्मे वायोश्चयः, वर्षासु प्रकोपः, शरदि प्रशम इति| एवमग्रेऽपि योज्यम्| वर्षादिष्वित्यादि| अत्रापि त्रिष्विति वर्तते| वर्शाशरद्धेमन्तेषु त्रिषु पित्तस्य चयप्रकोपप्रशमा भवन्ति| तथा, शिशिरादिषु त्रिषु-शिशिरवसन्तग्रीष्मेषु, श्लेष्मणश्चयप्रकोपप्रशमा भवन्ति|
Adhikarana kAlaniyame yuktiH (25-28) · Śloka 28
ननु मरुतो ग्रीष्मे चयो न युक्तः, यतस्तस्मिन्काले लघुरूक्षा ओषधयो भवन्ति| तथा, वर्षासु पित्तचयो न युक्तः, जलानामोषधीनां चाम्लपाकत्वात्| तथा, श्लेष्मणः शिशिरे चयो न युक्तः, तदा ह्याप ओषधयश्च स्निग्धा भवन्ति कालश्च शीतः| इति कोप एवोपपन्नः| इत्यस्मिन् पर्यनुयोग इदमाह - - - - | चीयते लघुरूक्षाभिरोषधीभिः समीरणः||२५|| तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति| अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्||२६|| पित्तं याति चयं कोपं न तु कालस्य शैत्यतः| चीयते स्निग्धशीताभिरुदकौषधिभिः कफः||२७|| तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति| |२८|
🔊 Audio coming soon
स०-ग्रीष्मकाले वातो लघुरूक्षाभिरोषधीभिर्देहे चादानकालस्वाभाव्यात्तद्विधे-लघुरूक्षे, तद्विधो-लघुरूक्षः, समीरण इति समानगुणत्वात् पवनस्य कोपः प्राप्तः, स निषिध्यते "कालस्यौष्ण्यात्" इत्यनेन एवं पित्तस्य वर्षासु कोपः, "न तु कालस्य शैत्यः" इत्यनेन निषिध्यते |
Adhikarana kAlAdAhArAdInAM balavatvam (28-29) · Śloka 29
| इति कालस्वभावोऽयमाहारादिवशात्पुनः||२८|| चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु| |२९|
🔊 Audio coming soon
स०-इति-पूर्वोक्तः, अयं-वाय्वादिचयादिः, कालस्य स्वभावः| आहारादिवशात्-अन्नपानसामर्थ्यात्, पुनर्दोषाः सद्योऽपि-तत्क्षणादेव कालमनपेक्ष्यैव, चयादीन्-चयप्रकोपप्रशमान् यान्ति| तस्मादेव चाहारादिवशात् यथास्वं चयादिकालेऽपि वा दोषा न तु चयादीन् यान्ति| तस्मात् कालादाहारादीनां प्राधान्यमित्यर्थः|आहारादीत्यत्रादिशब्देन रसायनवाजीकरणवमनविरेचनादयो गृह्यन्ते|
Adhikarana prakopaprashamayoH kShipraciraniShpAdyatvam (29-30) · Śloka 30
एवं दोषाणां चयादीन् प्रदर्श्य, व्याप्तिनिवृत्तिवैचित्र्यं कोपजं दर्शयितुमाह - - - - | व्याप्नोति सहसा देहमापादतलमस्तकम्||२९|| निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्| |३०|
🔊 Audio coming soon
स०-मलः कुपितः सहसा-शीघ्ह्रमेव, आपादतलमस्तकं व्याप्नोति,-पादतलादारभ्य यावन्मस्तकमित्यर्थः| आङ्मर्यादाभिविध्योर्बिभक्त्यर्थेऽव्ययीभावः| निवर्तते पुनरल्पाल्पं-स्तोकं स्तोकमिति| जलौघवत्-यथा गिरिनद्यादीनां जलपूरः समविषमं सहसैव व्याप्नोति, निवर्तते तु स्तोकं स्तोकमिति|
Adhikarana vikArasya sAmAnyena hetvAdikam (30-31) · Śloka 31
ननु, प्रतिरोगं निदानलक्षणचिकित्सितमानन्त्याद्वक्तुमशक्यम्| तच्चाविदन्न कश्चिदत्र तथा यत्नं कुर्यादित्याशङ्क्याह - - - - | नानारूपैरसङ्ख्येयैर्विकारैः कुपिता मलाः||३०|| तापयन्ति तनुं तस्मात्तद्धेत्वाकृतिसाधनम्| शक्यं नैकैकशो वक्तुमतः सामान्यमुच्यते||३१||
🔊 Audio coming soon
स०-यत्तदोर्नित्यसम्बन्धात् यस्मादिति लभ्यते| यस्मान्नानारूपैः-अनेकप्रकारैः, असङ्ख्येयैः-गणनां समतीतैः, विकारैः-ज्वरादिभिः, मला-वातपित्तश्लेष्माणः, कुपितास्तनुं-देहं, तापयन्ति-दुःखयन्ति| तस्मात्तद्धेत्वाकृतिसाधनं शक्यं नैकैकशो वक्तुं-अयमस्य विकारस्य हेतुरियमाकृतिरिदं लक्षणमिदमस्य साधनं-चिकित्सितमिति| अतः सामान्यमुच्यते|
Adhikarana doShANAM rogahetutve yuktiH (32-34) · Śloka 34
अत्रैव हेत्वन्तरमाह - - - - दोषा एव हि सर्वेषां रोगाणामेककारणम्| यथा पक्षी परिपतन् सर्वतः सर्वमप्यहः||३२|| छायामत्येति नात्मीयां यथा वा कृत्स्नमप्यदः| विकारजातं विविधं त्रीन् गुणान्नातिवर्तते||३३|| तथा स्वधातुवैषम्यनिमित्तमपि सर्वदा| विकारजातं त्रीन्दोषाण्|३४|
🔊 Audio coming soon
स०-सर्वेषां रोगाणां यस्माद्दोषा एवैककारणम्| एकं-प्रधानं च तत्कारणं-निमित्तमेककारणम्| यदि वा सर्वेषां रोगाणां दोषा एकं-तुल्यं कारणम्, समानं कारणमित्यर्थः| एवशब्दोऽवधारणार्थः| दोषा एव कारणम्, नापरं किञ्चिद्वस्तुजातम्| अत्र दृष्टान्तमाह-यथेत्यादि| पक्षी-प्राचिकादिः, यथा सर्वतः-समन्तात्, परिपतन्-भ्रमन्, सर्वमप्यहः-सकलमपि दिवसम्, आत्मीयां छायां नात्येति-नातिक्रामति, तया विना क्षणमप्यसौ नोपलभ्यत इत्यर्थः| तथा अन्यदपि निदर्शनमाह-यथा वेत्यादि| यथा वा कृत्स्नं-निरवशेषम्, एतद्विकारजातं-स्थावरजङ्गमादिभेदभिन्नं जरायुजाण्डजादिभेदभिन्नं वा, विविधं-नानाप्रकारं, त्रीन् गुणान्-सत्त्वरजस्तमःसंज्ञान्, नातिवर्तते-नात्येति, त्रिभिरेतैर्विरहितं न जातुचिद्भवतीत्यर्थः| तथा स्वधात्वित्यादि| धातवो-दोषधातुमलाः शरीरधारणसामान्यात्, तेषां वैषम्यं-स्वलक्षणतोऽन्यथात्वम्, स्वधातुवैषम्यं निमित्तं यस्य तद्विकारजातं त्रीन् दोषानातिक्रामति, त्रिदोषरहितं न सम्भवतीत्यर्थः| धातुवैषम्यं च प्रतिरोगमन्यादृशत्वान्नानाविधम्| यत्तु येन धातुवैषम्येण जन्यते, तत्तस्य स्वं-स्वीयं भवति| येषां तु रोगाणां देवग्रहादि निमित्तं न तेषु तथा दोषानुबन्धः, आगन्तुकत्वात्| आगन्तुकनिजयोर्ह्ययमेव भेदः,-यदागन्तुकेषु प्रथमं रोगोद्भूतिः पश्चाद्दोषानुबन्धः, निजेषु प्राग्दोषानुबन्ध इति| ये तु व्याचक्षते,-स्वे च ते धातवश्च तेषां वैषम्यमिति| तेषां नायमर्थः प्रतिपादितः स्यात्| स्वग्रहणं चातिरिच्यते| यतः शरीरान्तरावस्थायिनो दोषा वातादयः शरीरान्तरे रोगं जनयितुं नालम्| तस्मात्पूर्वमेव व्याख्यानं श्रेयः|
Adhikarana asAtmyaviShayasevA duShkAlo duShkarma ceti doShakopahetuH (34-35) · Śloka 35
| तेषां कोपे तु कारणम्||३४|| अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम्| हीनातिमिथ्यायोगेन भिद्यते तत्पुनस्त्रिधा||३५||
🔊 Audio coming soon
स०-तेषां-वातादीनां, कोपे कारणम्,-असात्म्यैः-अनुचितैः, अर्थैः-शब्दस्पर्शरूपरसगन्धाख्यैः, श्रोत्रत्वक्चक्षूरसनघ्ह्राणाख्यानामिन्द्रियाणां यः संयोगः, तथा कालः-शीतोष्णवर्षालक्षणो दुष्टः, तथा कर्म-चैहिकमन्यजन्मजं च, यद् दुष्कृतं-अशुभम्, एतत्त्रयं तेषां दोषाणां कोपे हेतुः| तुशब्दः समुच्चये| न केवलं रूक्षादयो वातादीनां कोपे कारणम्, यावदसात्म्येन्द्रियार्थसंयोगादिरपि| एतच्च (तत्)- पूर्वोक्तं दोषकोपकारणमसात्म्येन्द्रियार्थसंयोगादिभेदेन त्रिधा भिन्नमपि, पुनः-भूयः, त्रिधा-त्रिप्रकारं, भिद्यते| कथम् ? हीनातिमिथ्यायोगभेदेन|
Adhikarana asAtmyaviShayasevAyA hInamithyAtiyogAH (36-38) · Śloka 38
तानेव हीनातिमिथ्यायोगान् दर्शयन्नाह - - - - हीनोऽर्थेनेन्द्रियस्याल्पः संयोगः स्वेन नैव वा| अतियोगोऽतिसंसर्गः, सूक्ष्मभासुरभैरवम्||३६|| अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च| यदक्ष्णा वीक्ष्यते रूपं मिथ्यायोगः स दारुणः||३७|| एवमत्युच्चपूत्यादीनिन्द्रियार्थान् यथायथम्| विद्यात्|३८|
🔊 Audio coming soon
स०-अर्थेन-शब्दादिना, स्वेनेन्द्रियस्य-श्रोत्रादेः, अल्पो यः संयोगः स हीनः-हीनयोगः| नैव वेति| अथवा सर्वसर्विकया तेनार्थेन न संयोगः, सोऽपि हीनयोगः| तस्यैवेन्द्रियस्य स्वेनार्थेन योऽतिसंसर्गः-अतिसेवालक्षणः, स तस्य स्वेनार्थेनातियोगः| तथा, सूक्ष्मभासुरभैरवमित्यादि यदक्ष्णा वीक्ष्यते-नयनेनालोक्यते, स तस्य चक्षुरिन्द्रियस्य स्वेनार्थेन मिथ्यायोगः| एवमनया दिशा सूक्ष्मभासुरभैरवम्, तथा अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च यदक्ष्णा रूपं वीक्ष्यते, स दारुणो मिथ्यायोगः, तिमिरादिहेतुत्वात्| एवं-अनया चक्षुषो रीत्या, अन्यानपीन्द्रियार्थान् यथास्वमिन्द्रियाणामत्युच्चपूत्यादीन् मिथ्यायोगरूपान् विद्यात्| यदाऽत्युच्चपरुषेष्टविनाशभीषणाद्यनिष्टः शब्दः श्रोत्रेन्द्रियेण गृह्यते, तदा श्रोत्रेन्द्रियस्य स्वेनार्थेन शब्दाख्येन मिथ्यायोगः| यदा पूतिविष्ठाद्यनिष्टो गन्धो घ्राणेन्द्रियेण गृह्यते, तदा घ्राणेन्द्रियस्य स्वेनार्थेन गन्धाख्येन मिथ्यायोगः| यदा स्नानानुलेपनादीनां शीतोष्णादीनां च स्पृश्यानामक्रमसेवनेन स्पर्शः स्पर्शनेन्द्रियेण गृह्यते, तदा स्पर्शनेन्द्रियस्य स्वेनार्थेन स्पर्शाख्येन मिथ्यायोगः| तथा, रसनेन्द्रियेण यो रसोऽपरिपाट्या युज्यते, तथाऽपथ्यद्रव्यनिविष्टोऽपि यो रसो रसनेन्द्रियेण गृह्यते, स तस्य रसनेन्द्रियस्य स्वेन रसाख्येनार्थेन मिथ्यायोगः|
Adhikarana kAlasya traividhyam (38-39) · Śloka 39
कालस्तु शीतोष्णवर्षाभेदात्त्रिधा मतः||३८|| स हीनो हीनशीतादिरतियोगोऽतिलक्षणः| मिथ्यायोगस्तु निर्दिष्टो विपरीतस्वलक्षणः| ||३९||
🔊 Audio coming soon
स०-कालः पुनः शीतोष्णवर्षाभेदेन त्रिधा-त्रिप्रकारो मतो मुनीनाम्| तत्र हेमन्तशिशिरलक्षणः-शीतः| उष्णो-वसन्तग्रीष्मलक्षणः| प्रावृट्शरल्लक्षणो-वर्षाख्यः| स च कालो हीनशीतादिर्हिनयोगलक्षणः| अतियोगोऽतिमात्रयोगलक्षणः| विपरीतं स्वं-शीतोष्णवर्षाख्यं, लक्षणं यस्य कालस्य, स विपरीतस्वलक्षणो मिथ्यायोगः| गुणगुणिनोरभेदोपचारात् काल एवमुच्यते| तत्र यथा,-हेमन्ते शीतस्याल्पत्वं हीनो योगः, तस्मिन्नेव हेमन्तेऽतिशैत्यमतियोगः, तस्मिन्नेव हेमन्त औष्ण्यं मिथ्यायोगः| उपलक्षणं चेदम्| एवं शरद्वसन्तयोरपि यन्मन्दवर्षोष्णत्वं स्वलक्षणं तद्यदा हीनतरं स्यात्, सोऽपि हीनयोगः| एवमतियोगा (गमिथ्या) योगयोरपि योज्यम्|
Adhikarana karmaNo~api traividhyam (40-43) · Śloka 43
कायवाक्चित्तभेदेन कर्मापि विभजेत्त्रिधा| कायादिकर्मणो हीना प्रवृत्तिर्हीनसंज्ञकः||४०|| अतियोगोऽतिवृत्तिस्तु, वेगोदीरणधारणम्| विषमाङ्गक्रियारम्भपतनस्खलनादिकम्||४१|| भाषणं सामिभुक्तस्य रागद्वेषभयादि च| कर्म प्राणातिपातादि दशधा यच्च निन्दितम्||४२|| मिथ्यायोगः समस्तोऽसाविह वाऽमुत्र वा कृतम्| |४३|
🔊 Audio coming soon
स०-यथा कालस्त्रिधा निरूपितः, तथा कर्मापि कायवाक्चित्तभेदेन त्रिप्रकारं विभजेत्| तत्र कायकर्मणस्तथा वाक्कर्मणस्तथा चित्तकर्मणो हीना या प्रवृत्तिः स हीनसंज्ञको योगः| अतिप्रवृत्तिस्त्वतियोगः| कायादिकर्मणो मिथ्यायोगमधिकृत्याह-वेगोदीरणेत्यादि| "वेगोदीरणधारणम्" इत्यारभ्य यावत् "पतनस्खलनादिकम्" यदेतत् कायिकं कर्म, तस्य कर्मण एवंरूपस्य या प्रवृत्तिः स कायकर्मणो मिथ्यायोगः| विषमाङ्गैः क्रिया-कर्म, विषम आरम्भः-उभयलोकविरुद्धः, तथा, विषमपतनम्, विषमस्खलनम्, आदिशब्देन विषमगमनादीनां ग्रहणम्| सामिभुक्तस्य-अर्धभुक्तस्य, यद्भाषणं-जल्पनम्, एवंरूपा या प्रवृत्तिः स वाक्कर्मणो मिथ्यायोगः| रागद्वेषभयादि यदेतन्मानसं कर्म, तस्य कर्मण एवंरूपा या प्रवृत्तिः स चित्तकर्मणो मिथ्यायोगः| तथा, दिनचर्याध्यायोक्तं यत्प्राणातिपातादि दशधा-दशप्रकारं, कर्म निन्दितं-अशुभं निर्दिष्टं "हिंसास्तेय" इत्यादिना ग्रन्थेन, तच्च यथायथं कायवाक्चित्तानां कर्मणां मिथ्यायोगः| समस्तोऽसाविह वाऽमुत्र वा कृतं-अस्मिन् लोके कृतमन्यत्र वा लोके कृतं-आचरितं सर्वमेवं मिथ्यायोगः|
Adhikarana doShahetorupasaMhAraH, doShaheto rogahetutvam (43-44) · Śloka 44
| निदानमेतद्दोषाणां, कुपितास्तेन नैकधा||४३|| कुर्वन्ति विविधान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु| |४४|
🔊 Audio coming soon
स०-निदानमेतद्दोषाणां 'कोपे' इति वाक्यशेषः| कुपितास्तेन-निदानेन, नैकधा| किं तर्हि ? अनेकप्रकारेण, व्याधीन् विविधान्-नानाप्रकारान् कुर्वन्ति| कुपिता दोषा इति वचन (विभक्ति) विपरिणामेन सम्बन्धः| क्व व्याधीन् कुर्वन्ति ? इत्याह-शाखेत्यादि| शाखाश्च कोष्ठश्चास्थीनि च सन्धयश्च तेषु|
Adhikarana shAkhAH, bAhyo rogamArgaH (44-45) · Śloka 45
शाखेति किमुच्यते| इत्याह - - - - | शाखा रक्तादयस्त्वक् च बाह्यरोगायनं हि तत्||४४|| तदाश्रया मषव्यङ्गगण्डालज्यर्बुदादयः| बहिर्भागाश्च दुर्नामगुल्मशोफादयो गदाः||४५||
🔊 Audio coming soon
स०-शाखा रक्तादयः षड्धातवस्त्वक् च| तद्बाह्यरोगायनं,-बाह्यानां रोगाणामयनं-स्थानम्| हिशब्दो यस्मादर्थे| यस्माद्बाह्यानां रोगाणामयनम्, अतस्तदाश्रया मषव्यङ्गादयो रोगा बहिर्भागा उच्यते| आदिशब्देन विसर्पविद्रध्यादीनां परिग्रहः| दुर्नामेत्यादि| बहिर्भागाश्चेत्यत्र च शब्दो भिन्नक्रमः, शोफादय इत्यस्मादनन्तरं द्रष्टव्यः| दुर्नामगुल्मशोफादयश्च बहिर्भागा इत्यर्थः|
Adhikarana koShThaH, Antaro rogamArgaH (46-47) · Śloka 47
अन्तःकोष्ठो महास्रोत आमपक्वाशयाश्रयः| तत्स्थानाः च्छर्द्यतीसारकासश्वासोदरज्वराः||४६|| अन्तर्भागं च शोफार्शोगुल्मवीसर्पविद्रधि| |४७|
🔊 Audio coming soon
स०-कोष्ठः कथ्यते अन्तः, तथा महास्रोतः, तथा आमपक्वाशयाश्रयः| तत्स्थानाः-अन्तर्भागाश्रयाः च्छर्द्यादयो रोगाः| न केवलमेते एव छर्द्यादयोऽन्तर्भागाश्रया यावच्छोफार्शोगुल्मवीसर्पविद्रध्यादीनां अन्तर्भागत्वं च| शोफादीनां विद्रध्यन्तानां समाहारद्वन्द्वनिर्देशेनैव सम्बन्धः|
Adhikarana asthisandhayaH, madhyamo rogamArgaH (47-49) · Śloka 49
इदानीं मध्यमं रोगमार्गं वक्ति - - - - | शिरोहृदयबस्त्यादिमर्माण्यस्थ्नां च सन्धयः||४७|| तन्निबद्धाः शिरास्नायुकण्डराद्याश्च मध्यमः| रोगमार्गः स्थितास्तत्र यक्ष्मपक्षवधार्दिताः||४८|| मूर्धादिरोगाः सन्ध्यस्थित्रिकशूलग्रहादयः| |४९|
🔊 Audio coming soon
स०-शिरोहृदयादीनि मध्यमो रोगमार्गः| अस्थ्नां च सन्धय इत्येवं निर्देशेनेदं बोधयति,-नात्र द्वयं विवक्षितमस्थीनि च सन्धयश्चेति, किं तर्हि ? अस्थ्नां सम्बन्धिनः सन्धय इति| सन्धयो ह्यन्येऽपि सन्ति| तथा च वक्ष्यति (हृ. शा. अ. ४|३८) - "मांसास्थिस्नायुधमनीसिरासन्धिसमागमः|" इति| तन्निबद्धाः,-तेषु-अस्थिसन्धिषु, निबद्धाः, संलग्ना इत्यर्थः| शिराः स्नायवः कण्डराश्च आदयो (आद्या) येषां धमनीकूर्चादीनां ते| च शब्दात् पूर्वोक्ताश्च| तत्र-मध्यमे रोगमार्गे, यक्ष्मादयो गदास्त्रिकशूलग्रहाद्यन्ताः| मूर्धादीत्यत्रादिशब्देन हृदयबस्त्यादिपरिग्रहः| सन्ध्यस्थित्रिके शूलानि, सन्ध्यस्थित्रिके ग्रहा इति योज्यम्| आदिशब्देन पक्षग्रहादयो वातविकारा गृह्यन्ते| यक्ष्मणोऽत्र मर्मास्थिसन्ध्यधिष्ठानत्वात्पूर्वं निर्देशः| वक्ष्यति हि (हृ. नि. अ. ५|५) - "तैरुदीर्णोऽनिलः पित्तं कफं चोदीर्य सर्वतः| शरीरसन्धीनाविश्य तान् शिराश्च प्रपीडयन्||" इत्यादि|
Adhikarana vAyoH karmANi (49-51) · Śloka 51
इदानीं वायोः कर्माण्याह - - - - | स्रंसव्यासव्यधस्वापसादरुक्तोदभेदनम्||४९|| सङ्गाङ्गभङ्गसङ्कोचवर्तहर्षणतर्षणम्| कम्पपारुष्यसौषिर्यशोषस्पन्दनवेष्टनम्||५०|| स्तम्भः कषायरसता वर्णः श्यावोऽरुणोऽपि वा| कर्माणि वायोः|५१|
🔊 Audio coming soon
स०-स्रंसो-हन्वादिसन्धेर्भ्रंशः| व्यसनं-व्यासो, विक्षेपणमङ्गप्रत्यङ्गादेर्यथाऽऽक्षेपकादिषु| व्यधः-ताडनमिव मुद्गरादिना| स्वापः-सुप्तिः कर्मण्यचैतन्यम्| सदनं-सादः, अङ्गानां क्रियास्वसामर्थ्यम्| रुक्-सततं शूलम्| तोदो-विच्छिन्नं शूलम्| भेदनं-भेदो, विदारणमिवाङ्गस्य| सङ्गो-मूत्रपुरीषादेः स्वाशयेभ्योऽनिःसारो वाक्सङ्गादयश्च| अङ्गानाम्-जङ्घोरुप्रभृतीनां, भङ्ग इव भङ्गः-चूर्णनमिव,-अङ्गभङ्गः| सङ्कोचनं-सङ्कोचः, शिरादीनाम्| वर्तनं-वर्तः, पुरीषादीनां पिण्डीकरणम्| हर्षणं-रोम्णामूर्ध्वीभावः| तर्षणं-तर्षः, तृट्| कम्पः-अतिवेपनम्| स्पन्दनं हि-किञ्चिच्चलनम्| पारुष्यं-परुषत्वम्| सौषिर्यं-अस्थ्नाम्| शोषः-शोषणम्| वेष्टनं-ग्रथनमिवाङ्गस्य| स्तम्भो-बाहूरुजङ्घादीनां सङ्कुञ्चनाद्यभावः| कषायरसता-कषायरसास्वादत्वम्| वर्णः श्यावोऽरुणोऽपि वा-श्यावारुणौ वर्णावित्यर्थः| एतानि वायोः कर्माणि|
Adhikarana pittasya karmANi (51-52) · Śloka 52
अथ पित्तस्याह - - - - | पित्तस्य दाहरागोष्मपाकिताः||५१|| स्वेदः क्लेदः स्रुतिः कोथः सदनं मूर्च्छनं मदः| कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः||५२||
🔊 Audio coming soon
स०-दाहादीनि पित्तस्य कर्माणि| सर्वाङ्गीणस्तापो-दाहः| रागो-लौहित्यम्| ऊष्मा-औष्ण्यम्| पाकिता-पाककर्तृत्वम्, अजीर्णेषु व्रणेष्वन्ने च| स्वेदनं-स्वेदः| क्लेदः-शोणितादिविकारः| स्रुतिः-स्रावः| कोथः-क्लेदस्यातिशयः, अविच्छिन्नत्वम्| सदनं-सादः| मूर्च्छनं-भ्रमः| मदो-वक्ष्यमाणो रोगविशेषः| रसौ-आस्वादौ, कटुकाम्लौ| वर्णः पाण्डुरारुणाभ्यामन्यः-शुक्ललोहितवर्णनिषेधेन तच्छेषनानावर्णसम्भवः सूच्यते|
Adhikarana shleShmaNaH karmANi (25) · Śloka 54
श्लेष्मकर्माण्याह - - - - श्लेष्मणः स्नेहकाठिन्यकण्डूशीतत्वगौरवम्| बन्धोपलेपस्तैमित्यशोफापक्त्यतिनिद्रताः||५३|| वर्णः श्वेतो रसौ स्वादुलवणौ चिरकारिता| |५४|
🔊 Audio coming soon
स०-कफस्य स्नेहादीनि कर्माणि| स्नेहः-स्नैग्ध्यम्| काठिन्यं-अमृदुत्वम्| कण्डूः-खर्जूः| शीतत्वं-शीतसद्भावः| गौरवं-गुरुत्वम्| बन्धः-स्रोतसाम्| अस्थ्यादीनामुपलेपः| स्तैमित्यं-गात्राणामपटुत्वम्| काये वर्णः शुक्लः| रसौ च मधुरपटू| चिरकारिता-कार्यादौ विश्रब्धत्वम्| ननु, वायोरमूर्तत्वाद्वर्णरसत्वोपलब्धिरनुपपन्ना| अमूर्तस्य हि वर्णरसौ दूरोत्सारितौ| नैतदस्ति| न हि सर्वाणि कार्याणि कारणसदृशान्येव भवन्ति| तथा चेन्द्रियेभ्यो जडेभ्यो बुद्धेरजडाया उत्पत्तिर्दृष्टा| तस्मात् कारणसदृशानि कार्याणीति प्रायिकमेतत्, अचिन्त्यत्वाच्च द्रव्यप्रभावस्य| वायोः सकाशात् कषायरसता श्यावारुणवर्णोत्पत्तिश्चान्वयव्यतिरेकसिद्धा कथमिव निवार्यताम्| इत्येवं दोषाणां कर्माण्युपदिष्टानि| तद्विकाराश्च सङ्ग्रह उक्ताः| तथा च तद्ग्रन्थः (?) (सू. अ. २०) -"अशीतिर्वातजा रोगाश्चत्वारिंशच्च पित्तजाः| विंशतिः श्लेष्मजाश्चैव स्थूला नानात्मजा मताः|| १|| नखभेदः पादशूलं सुप्तिर्भ्रंशो विपादिका| खुडो गुल्फग्रहो जानुविश्लेषो जानुकुञ्चनम्|| २|| पिण्डिकोद्वेष्टनं सादश्चोर्वोः स्तम्भश्च गृध्रसी| पाङ्गुल्यं भ्रंशशूलं च गुदे स्तम्भस्तु मेहने|| ३|| मुष्काक्षेपः श्रोणिभेदो वङ्क्षणानाह एव च| उदावर्तोऽथ विड्मेदः पार्श्वपृष्ठत्रिकग्रहाः|| ४|| खञ्जवामनकुब्जत्वं हृद्द्रवोदरवेष्टकौ| हृन्मोहो वक्षनिस्तोदः शोषोद्वातौ तथोरसः|| ५|| बाहुशोषो हनुग्रीवामन्यास्तम्भौष्ठभेदनम्| दन्तभेदोऽथ शैथिल्यं कण्ठोध्वंसोऽथ वाग्ग्रहः|| ६|| कषायास्यत्वमूकत्वे मुखशोषो रसाज्ञता| घ्राणानाहोऽज्ञता गन्धेऽशब्दोच्चैःश्रवणं तथा|| ७|| बाधिर्यं कर्णशूलं च वर्त्मस्तम्भनकुञ्चनम्| तिमिरं चाक्षिशूलं च भ्रूव्युदासोऽथ नेत्रयोः|| ८|| ललाटशङ्खभेदौ च केशभ्रूस्फुटनं तथा| शिरोरुजाऽर्दितं जृम्भा प्रलापो वेपथुर्भ्रमः|| ९|| एकाङ्गव्याधिरायामः पक्षाघातोऽपतन्त्रकः| दण्डकः स्वप्ननाशश्च ग्लानिः परुषरूक्षता|| १०|| विषादोऽथानवस्थानमरुणश्यामवर्णता| इत्यशीतिः समाख्याता रोगा वातसमुद्भवाः|| ११|| अन्तर्दाहो विदाहश्च प्लोषौषौ दवथुर्दवः| अत्यूष्मा चांसदाहश्च स्वेदोऽत्यम्लकधूमकौ|| १२|| रक्तक्लेदोऽङ्गगन्धश्च गात्रावयवशातनम्| त्वड्मांसदरणं मांसक्लेदश्चर्मदलं तथा|| १३|| रक्तविस्फोटकः कोठः पित्तासृग्रक्तमण्डले| नीलिका कामला कक्ष्या गात्रे हरितपीतता|| १४|| पूतितिक्तास्यता तृष्णा लोहगन्धास्यता तथा| जीवादानमतृप्तिश्च प्रवेशस्तमसस्तथा|| १५|| गलास्यगुदमेढ्राक्षिपाको हारिद्रताऽपि च| नखाक्षिमूत्रशकृतां, चत्वारिंशत्तु पित्तजाः|| १६|| स्तैमित्यं गौरवं तृप्तिरालस्यमतिनिद्रता| तन्द्राऽऽस्यस्रावमाधुर्ये प्रलोपो हृदयस्य च|| १७|| सादः कण्ठप्रलेपश्च श्लेष्मोद्गिरणमेव च| मलाधिक्यमतिस्थौल्यं धमनी प्रतिसञ्चयम्|| १८|| उदर्दो गलगण्डश्च शैत्यं श्वेतावभासता| विण्मूत्रनखनेत्राणां शुक्लता च कफामयाः|| १९|| यथास्थूलं विकाराणां चत्वारिंशमिदं शतम्| हृदादौ शूलवद्दाहो योऽन्तर्दाहः स कीर्तितः|| २०|| पाणिपादांसमूलेषु सन्तापो विविधस्तु यः| स विदाह इति प्रोक्तो, दाहः प्रादेशिकस्तु यः|| २१|| अग्न्यर्चिषेव निःस्वेदः स प्लोषः परिकीर्तितः| ओषः सर्वाङ्गिकस्तीव्रो दाहः स्वेदारतिप्रदः|| २२|| दवथुश्चक्षुरादिभ्यस्तीव्र ऊष्मा प्रवर्तते| मुखौष्ठतालुषु दवश्चाम्लोद्गिरणमम्लकः|| २३|| धूमायनं शिरोघ्ह्राणकण्ठतालुषु धूमकः| प्रमीलकस्तु स्तैमित्यं गुरुताऽङ्गस्य गौरवम्|| २४|| आहारानभिलाषस्तु तृप्तिः स्याद्विषयाग्रहः| निद्रार्तस्येव तन्द्रा स्याच्छेषाः प्रथितनामकाः|| २५||
Adhikarana lakShaNaj~jAne sAvadhAnatA (54-55) · Śloka 55
दोषाणां कर्माण्युपदिश्य निर्देशप्रयोजनमाह - - - - | इत्यशेषमयव्यापि यदुक्तं दोषलक्षणम्||५४|| दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत्| व्याध्यवस्थाविभागज्ञः पश्यन्नार्तान् प्रतिक्षणम्||५५||
🔊 Audio coming soon
स०-इति-प्रकारे| दोषाणां लक्षणं दोषलक्षणं,-यथायथं लिङ्गम्| इति-पूर्वोक्तेन प्रकारेण, यद्दोषलक्षणमुक्तम्, तद्दर्शनाद्यैः सम्यगुपलक्षयेत्-जानीयात्| वैद्य इति शेषः| दर्शनाद्यैरित्यादि(द्य)शब्देन स्पर्शनप्रश्नौ गृह्येते| किम्भूतं दोषलक्षणं तत् ? अशेषामयव्यापि,-अशेषाश्च त आमयाश्चाशेषामयास्तान्,-सर्वामयान्, साधु व्याप्नोतीति| किम्भूतो वैद्यः ? अवहितो,-दत्तावधानः| तथा, व्याध्यवस्थाविभागज्ञः,-व्याधेरवस्थाः-कालकृता दशाः, तासां विभागः-पृथक्त्वम्, यथा,-इयमस्य व्याधेरवस्थेयमन्यावस्थेति| अवस्थाभेदाच्चोपक्रमभेदः| तथा हि,-एकस्यैव ज्वरस्य नवस्यान्य उपक्रमो जीर्णस्यान्यः| तदेवं विभागं यो जानाति स व्याध्यवस्थाविभागज्ञः| तथा, आर्तान्-व्याधितान्, प्रतिक्षणं-मुहूर्ते मुहूर्ते, पश्यन्-आलोकयन्|
Adhikarana lakShaNadarshanAbhyAsaH karmasiddhidaH (56) · Śloka 56
किमिति पुनः पुनर्व्याधितदर्शनं क्रियते ? इत्याह - - - - अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी| रत्नादिसदसज्ज्ञानं न शास्त्रादेव जायते||५६||
🔊 Audio coming soon
स०-अभ्यासात्-मुहुर्मुहुश्चिकित्सितकर्मणि प्रवर्तनात्, दृष्टिः-दर्शनं चिकित्साविज्ञानं जायते, न केवलं-केवलच्चिकित्साशास्त्रावगमात्| किम्भूता दृष्टिः ? कर्मणि सिद्धिस्तां प्रकाशयितुं शीलं यस्याः सा कर्मसिद्धिप्रकाशिनी| अत्र दृष्टान्तमाह-रत्नादीत्यादि| आदिशब्देन सुवर्णरूप्यादीनां ग्रहणम्| तेषां यत्सदसज्ज्ञानं-इदं शोभनमिदं न शोभनमित्यवगमः तन्न शास्त्रादेव जायते| किं तर्हि ? अभ्यासाच्च| एवकारोऽवधारणार्थः| न शास्त्रावबोधान्न च केवलादभ्यासादित्येवकारेण बोधयति| किल यथा रत्नपरीक्षा तच्छास्त्रावबोधदर्शनाभ्यासाभ्यां सम्यग्जायते, तथैव चिकित्सा शास्त्रावबोधान्नित्यमातुरदर्शनाच्चावगम्यत इत्यर्थः|
Adhikarana vyAdhestraividhyam (57) · Śloka 57
दृष्टापचारजः कश्चित्कश्चित्पूर्वापराधजः| तत्सङ्कराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः||५७||
🔊 Audio coming soon
स०-दृष्टश्चासावपचारश्च, तस्माज्जातो दृष्टापचारजः| अपचारो-व्याधिहेतुः| ऐहिकलौकिकाद्व्याधिकारणाज्जातो दृष्टापचारजः| कश्चिदात्मकृतात्पूर्वापराधात्-अशुभकर्माख्याज्जातः पूर्वापराधजः| अपरः कश्चित्तत्सङ्कराद्भवति| तयोः सङ्करस्तत्सङ्करो-मिश्रत्वं, तस्मात्| न केवलात्पूर्वापराधान्न च केवलाद्दृष्टापराधात्, अपि तु द्वयोः संसर्गाज्जात इत्यर्थः| एवं-अनेन प्रकारेण, व्याधिस्त्रिधा-त्रिप्रकारः, स्मृतः|
Adhikarana trayANAM lakShaNam (58) · Śloka 58
अथ त्रिप्रकारव्याधिलक्षणार्थमाह - - - - यथानिदानं दोषोत्थः कर्मजो हेतुभिर्विना| महारम्भोऽल्पके हेतावातङ्को दोषकर्मजः||५८||
🔊 Audio coming soon
स०-यथानिदानं दोषोत्थ इति| यद्यस्य दोषस्य वातादेर्लघुरूक्षादि निदानं, तेन कुपिताद्दोषात् य उत्थितो व्याधिः स दोषोत्थो ज्ञेयः| यो दृष्टापचारज उक्त इत्यर्थः| हेतुभिः-वातादिनिदानैर्लघुरूक्षादिभिर्विना यो भवति स कर्मजः| यस्त्वल्पे निदाने सेविते महारम्भः स्यात्, स दोषकर्मजो रोगो ज्ञेयः| महानारम्भो यस्य सः, पूर्वरूपरूपैर्बलवद्भिर्युक्त इत्यर्थः|
Adhikarana trividhavyAdheshcikitsA (59) · Śloka 59
अथ त्रिविधस्यापि व्याधेश्चिकित्सामाह - - - - विपक्षशीलनात्पूर्वः कर्मजः कर्मसङ्क्षयात्| गच्छत्युभयजन्मा तु दोषकर्मक्षयात्क्षयम्||५९||
🔊 Audio coming soon
स०-विपक्षशीलनात्पूर्व इति| पूर्वः-पूर्वमुक्तो यः केवलं दोषजो व्याधिः सः, विपक्षशीलनात्-यथोक्तविपक्षादिसेवनात्, क्षयं याति| कर्मजो रोगः कर्मसङ्क्षयात् क्षयं याति| उभयजन्मा-दोषकर्मोत्थो, दोषकर्मणोरुभयोरपि क्षयात् क्षयं याति|
Adhikarana trayANAM pRuthagdvaividhyam (60) · Śloka 60
व्याधीनां त्रैविध्यमुक्त्वा द्वैविध्यमाह - - - - द्विधा स्वपरतन्त्रत्वाद्व्याधयोऽन्त्याः पुनर्द्विधा| |६०|
🔊 Audio coming soon
स०-स्वतन्त्रश्च परतन्त्रश्च स्वतन्त्रपरतन्त्रौ, तयोर्भावः स्वतन्त्रपरतन्त्रत्वम्, तस्माद्धेतोर्द्विधा व्याधयः| एके स्वतन्त्रा अन्ये परतन्त्रा इत्यर्थः| अन्ते भवा अन्त्याः,--परतन्त्राः| ते पुनः-भूयो, द्विधा|
Adhikarana paratantrasya dvaividhyam (60) · Śloka 60
तदेव द्वैविध्यं दर्शयितुमाह - - - - | पूर्वजाः पुर्वरूपाख्या, जाताः पश्चादुपद्रवाः||६०||
🔊 Audio coming soon
स०-पूर्वं जाताः पूर्वजाः| "अन्येष्वपि दृश्यते" इति डः| पूर्वजाः-पूर्वरूपसंज्ञा रोगाः| ये च पश्चाज्जातागदास्ते व्याधीनामुपद्रवाः| इत्यन्त्या द्विधा|
Adhikarana svatantralakShaNam (61) · Śloka 61
अथ स्वतन्त्रान् लक्षयति - - - - यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः| |६१|
🔊 Audio coming soon
स०-जन्म चोपशयश्च जन्मोपशयौ| जन्म- उत्पत्तिः| उपशयः-सुखानुबन्धः| यो यः स्वं स्वं-यथास्वम्| यस्य ज्वरादेर्यावात्मीयौ शास्त्रनिर्दिष्टौ तौ यथास्वशब्देन सूच्येते| यथास्वं जन्मोपशयौ येषां ते यथास्वजन्मोपशया व्याधयः स्वतन्त्रा उच्यन्ते| चिकित्सागुरुलाघवप्रतिपत्त्यर्थं च स्वतन्त्रादिसंज्ञाकरणम्| स्वग्रहणाद्येऽन्यजन्मनि जायन्तेऽन्यस्य च व्याधेर्यत उपशयः-सुखानुबन्धस्तत एतत्परिवारस्यापि, ते तु न स्वतन्त्राः| तथा चोक्तम्-"पूर्वरूपरूपादिक्रमेण ज्वरादावुत्पन्ने तत्परिवारा ये श्वासादय उत्पद्यन्ते तदुपशये चोपशेरते न ते स्वतन्त्राः| ज्वरादय एव तु मूलव्याधिरूपत्वात्स्वतन्त्रा उच्यते|" इति|
Adhikarana paratantralakShaNam (61) · Śloka 61
| विपरीतास्ततोऽन्ये तु|६१|
🔊 Audio coming soon
स०-ततः-स्वतन्त्रेभ्यो रोगेभ्यो, येऽन्ये-परतन्त्राः, पूर्वरूपाख्यास्तथोपद्रवसंज्ञाश्च, ते विपरीताः,-विपरीतस्वरूपाः, न यथास्वजन्मोपशया न च स्पष्टलक्षणाः|
Adhikarana doShANAmapi svatantraparatantratA (61) · Śloka 61
एवं व्याधीनां स्वतन्त्रपरतन्त्रत्वं प्रतिपाद्य, दोषाणां प्रतिपादयन्नाह - - - - | विद्यादेवं मलानपि||६१||
🔊 Audio coming soon
स०-न केवलं रोगान् स्वतन्त्रपरतन्त्रभेदैर्विद्याद्वैद्यः, यावन्मलान्-दोषानपि वातादीन्, एवं-स्वतन्त्रपरतन्त्रभेदैर्जानीयात्|
Adhikarana bhiShajA pratirogaM svatantraparatantratvena te lakShyAH (62) · Śloka 62
तांल्लक्षयेदवहितो विकुर्वाणान् प्रतिज्वरम्| |६२|
🔊 Audio coming soon
स०-तान्-वातपित्तकफान् यथास्वजन्मोपशयलक्षणावच्छिन्नस्वरूपान्, प्रतिज्वरं-प्रतिविकारं, विकुर्वाणान्-विकृतिंकोपं गच्छतो, जानीयात्| वैद्य इति शेषः| कीदृक् ? अवहितो-दत्तचित्तः|
Adhikarana paratantrANAM prashamopAyaH (62-63) · Śloka 63
एवं स्वतन्त्राणां व्याधीनां यथास्वोपशय एव भेषजमुक्तम्| परतन्त्राणां तु व्याधीनां कः प्रशमोपायः ? इत्याह - - - - | तेषां प्रधानप्रशमे प्रशमोऽशाम्यतस्तथा||६२|| पश्चाच्चिकित्सेत्तूर्णं वा बलवन्तमुपद्रवम्| |६३|
🔊 Audio coming soon
तेषां-परतन्त्राणां रोगाणामप्रधानानाम्, प्रधानप्रशमे-स्वतन्त्रव्याधिप्रशमे, प्रशमो भवति,-न तु तेषां पृथगुपक्रमो विधेय इत्यर्थः| अशाम्यतः-तथा शममगच्छतः परतन्त्रान् व्याधीन् दोषान् वा, तथा-तेन प्रकारेण प्रधान चिकित्सालक्षणेन, पश्चात्-प्रधानचिकित्सात उत्तरकालं, चिकित्सेत्| अचिकित्स्यमानो ह्यसाध्यतां यायात्| तूर्णं वेति| उपद्रवश्चेद्बलवान् स्यात्तदा तमेवोपद्रवं तूर्णमेव चिकित्सेत्-, न पश्चात्|
Adhikarana balavadupadravasyAdau cikitsA (63) · Śloka 63
ननु, कुतोऽप्रधानं शीघ्रं चिकित्सेत् ? इत्याह - - - - | व्याधिक्लिष्टशरीरस्य पीडाकरतरो हि सः||६३||
🔊 Audio coming soon
स०-हि-यस्मात्, व्याधिक्लिष्टशरीरस्य पुंसः सोऽतिशयेन पीडाकरः| प्रागुत्पन्नोऽपि रोगः पीडाकरः| उपद्रवस्तु पश्चाज्जायमानो व्याधिक्लिष्टशरीरोत्पन्नत्वात्पीडाकरतरः| तदयमत्रार्थः,-परतन्त्रो व्याधिर्हीनबलः प्रधानोपक्रमेणैवोपशाम्यति| यस्तु परतन्त्रः पश्चादुत्पद्यमानोऽपि स्वतन्त्रव्याध्युपक्रमेण शमं न याति तं पश्चादुपक्रमेत्| यस्तु बलवान् परतन्त्रस्तमादावेव चिकित्सेत्, अतिपीडाकरत्वात्|
Adhikarana shAstre~anuktaM vikAranAma svayamUhanIyam (64) · Śloka 64
ननु, येषां विकाराणां नामग्राहं चिकित्सा |च] नोक्ता| तेषां नामाकुशलो वैद्यः किं चिकित्सेन्न ? इत्याशङ्क्याह - - - - विकारनामाकुशलो न जिह्रीयात् कदाचन| न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||६४||
🔊 Audio coming soon
स०-विकाराः-रोगाः, तेषां नामानि, तेष्वकुशलो वैद्यो न जातुचिज्जिह्रीयात्-रोगसंज्ञानभिज्ञोऽहमिति लज्जां न कुर्यात्, चिकित्सामेव विदध्यादित्यर्थः| कुतो हेतोः ? इत्याह-न हीत्यादि| यस्मात्सर्वविकाराणां नामतः-संज्ञातो, ध्रुवा-निश्चिता, स्थितिः-अवस्थानं, नास्ति|
Adhikarana lakShaNasya durbodhatvam (65-66) · Śloka 66
ननु, कुतोऽशेषरोगाणां नामतो नास्ति स्थितिः ? इत्याशङ्क्याह - - - - स एव कुपितो दोषः समुत्थानविशेषतः| स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून्||६५|| तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च| बुद्ध्वा हेतुविशेषांश्च शीघ्ह्रं कुर्यादुपक्रमम्||६६||
🔊 Audio coming soon
स०-यस्मात्सः-एक एव, दोषो-वाताद्यन्यतमः, समुत्थानविशेषतो-हेतुभेदात्, तथा स्थानान्तराणि-स्वस्थानं हित्वा पराणि स्थानानि, प्राप्य-गत्वा, बहून्-अनन्तान्, विकारान् कुरुते| तथा चोक्तं तन्त्रान्तरे-"यो दोषः शरीरसन्धीनाविशति, तेन जृम्भा ज्वरश्चोपजायते| यस्त्वामाशयमभ्युपैति, तेन रोगा भवन्त्युरसि, अरोचकश्च| यः कण्ठमभिप्रपद्यते कण्ठस्ततो ध्वंसते स्वरश्चावसीदति| यः प्राणवहानि स्रोतांस्यास्यादीनि उपैति, श्वासः प्रतिश्यायश्च तेनोपजायते|" इति| विकारस्य-ज्वरादेः, प्रकृतयः-उपादानकारणानि वातादिदोषाः, ता विकारप्रकृती:-रोगहेतुविशेषान्, बुद्ध्वा,- ज्ञात्वा, तथाऽधिष्ठानान्तराणि स्थानविशेषांश्च, बुद्ध्वा,तथा हेतुविशेषान्-निदानभेदांश्च, बुद्ध्वा-यथा किमयं कुपितः पवनो रूक्षेण हेतुना लघुना शीतेन वेत्यादि ज्ञात्वा, शीघ्ह्रमेवोपक्रमेत्-चिकित्सेत्| न तु विकारानभिज्ञ इति न चिकित्सेत्|
Adhikarana dUShyAdij~jAne~avyabhicAricikitsA (67-68) · Śloka 68
ननु, बुद्ध्वाऽपि विकारप्रकृत्यादिकमुपक्रमं कुर्वन्तः कदाचित्सिद्धिमाप्नुवन्तो दृश्यन्ते भिषजः कदाचिन्नेति| तदत्र संशयस्खलिते कर्मणि कथं नियुज्यते वैद्य इति कथमुक्तम् ? "शीघ्रं कुर्यादुपक्रमम्" इत्याशङ्क्याह - - - - दूष्यं देशं बलं कालमनलं प्रकृतिं वयः| सत्त्वं सात्म्यं तथाऽऽहारमवस्थाश्च पृथग्विधाः||६७|| सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधनिरूपणे| यो वर्तते चिकित्सायां न स स्खलति जातुचित्||६८||
🔊 Audio coming soon
स०-दोषौषधनिरूपणे सति दूष्यादीन् दश समीक्ष्य सम्यग्विलोक्य, यश्चिकित्सायां वर्तते-यत्नं करोति, सः-वैद्यो, न कदाचित् स्खलति-नापराधी स्यात्| दोषो-वातादिः, औषधं-हरीतक्यादि, तयोर्निरूपणं-पर्यालोचनम्, तस्मिन् दोषौषधनिरूपणे| दूष्यादीनां समस्तानामुपादानं सर्वेषामेवावगमे चिकित्साकरणं प्रति यत्नातिशयद्योतनार्थम्, न पुनरेषां द्वौ वा त्रीन् वा चतुरो वा पञ्च वा समीक्ष्य| किं तार्हि ? सर्वानेतान् समीक्ष्य,-सम्यगवबुध्येति| अथ दूष्यादीनेव समीक्ष्य ? नेत्याह- अवस्थाश्च पृथग्विधाः| एषामेव दूष्यादीनामवस्थाः सूक्ष्मसूक्ष्माः-अतिशयेन सूक्ष्माः, ताश्च समीक्ष्य-यथावद्बुद्ध्वेति|
Adhikarana satvadehabale~avahinatvam (69) · Śloka 69
न च दूष्याद्येव परीक्ष्यम्| किं तार्हि ? व्याधिरपि गुरुलघुत्वेन एवं परीक्ष्य एवेत्याह - - - - गुर्वल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात्| दृश्यतेऽप्यन्यथाकारं तस्मिन्नवहितो भवेत्||६९||
🔊 Audio coming soon
स०-गुरुश्चाल्पश्च गुर्वल्पौ, गुर्वल्पौ च तौ व्याधी च गुर्वल्पव्याधी, तयोः संस्थानं-आकृतिः| अपिशब्दो भिन्नक्रमे| तद्गुर्वल्पव्याधिसंस्थानमन्यथाकारमपि दृश्यते-विपरीतमिति लक्ष्यते| अपिशब्दात्क्वचित् गुर्वल्पव्याधिसंस्थानं यथातत्त्वं दृश्यते क्वचिन्नेति व्याधिलक्षणस्य गमकत्वाभावः प्रसज्येत| ततश्च "रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः|" (हृ. सू. अ. १|२२) इति दूष्येत| तस्मादपिशब्दोऽत्र गुर्वल्पसंस्थानस्य यथातत्त्व दर्शनं क्वचिद्भवत्येवेति सूचनार्थः कृतः| कुतो हेतोः ? इत्याह-सत्त्वेत्यादि| सत्त्वं-धैर्यम्| देहो-महदल्पस्थूलकृशादिः| सत्त्वं च देहश्च सत्त्वदेहौ| बलं चाबलं च बलाबले| तस्मात्सत्त्वदेहबलाबलाद्धेतोर्गुर्वल्पव्याधिसंस्थानेऽवहितो भवेत्| अधिकसत्त्वे तथोत्कृष्टदेहबले च गुरुः-महानपि व्याधिरुत्पन्नोऽल्पसंस्थानो-हीनबल इव लक्ष्यते, सत्त्वदेहबलयोरुत्कृष्टत्वात्| तथा, हीनसत्वे हीनदेहबले चोत्पन्नो लघुरपि महानिव लक्ष्यते, हीनसत्त्वदेहबलत्वात्| तस्माद(त्त)स्मिन्-व्याधिसंस्थानेऽर्थे, दत्तावधानेन भाव्यम्|
Adhikarana anavahitatve doShaH (70) · Śloka 70
गुरुं लघुमिति व्याधिं कल्पयंस्तु भिषग्ब्रुवः| अल्पदोषाकलनया पथ्ये विप्रतिपद्यते||७०||
🔊 Audio coming soon
स०-गुरुं लघुमित्यादि| यश्च भिषग्ब्रुवः-कुत्सितो वैद्यः, स व्याधिसंस्थानमात्रावलोकनात् गुरुं व्याधिं लघुमिति कल्पयन्-निश्चिन्वन्, अल्पदोषाकलनया-हीनमात्रदोषनिश्चयेन, पथ्ये विप्रतिपद्यते-चिकित्सिते मोहं गच्छति, गुरुव्याधावल्पव्याधियोग्यं भेषजं ददाति| एवं लघुव्याधिं गुरुमिति कल्पयन् बहुदोषाकलनया पथ्ये विप्रतिपद्यते, भिषग्ब्रुवत्त्वात्| अन्यत्रापि ब्रुवान्तस्य कुत्सितत्वमेव प्रसिद्धम्| यथाऽऽह मनुः (अ. ८|२०) -"जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः| धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन||" इति| केचित् "भिषग्ध्रुवम्" इति पेठुः| भिषक्-वैद्यो, गुरुं लघुमिति व्याधिं कल्पयन् ध्रुवं-निश्चितं पथ्ये विप्रतिपद्यत इति च व्याचक्षते|
Adhikarana viparyayaj~jAne doShaH (71-72) · Śloka 72
यस्माच्चैवम् - - - - ततोऽऽल्पमल्पवीर्यं वा गुरुव्याधौ प्रयोजितम्| उदीरयेत्तरां रोगान् संशोधनमयोगतः||७१|| शोधनं त्वतियोगेन विपरीतं विपर्यये| क्षिणुयान्न मलानेव केवलं वपुरस्यति||७२||
🔊 Audio coming soon
स०-ततोऽल्पं-अल्पमात्रम्, अल्पवीर्यं वा-अनुत्कृष्टशक्तिकं वा, भेषजं गुरुव्याधौ प्रयोजितं-दत्तं, संशोधनं रोगानुदीरयेत्तरां-अतिशयेनोत्क्लेशयेत्| कुतः ? अयोगतः,,-हीनयोगात्| अयोगो हि हीनयोग उच्यते| यथा,-पुत्रकार्याकरणादपुत्र इत्युच्यते| विपर्यये च-लघुव्याधौ, विपरीतं शोधनं तु प्रयोजितम्, कस्माद्विपरीतम् ? अल्पवीर्यात्संशोधनात्, अतिमात्रमुत्कृष्टवीर्यं च बहुदोषाकलनया, अतियोगेन प्रयोजितं न केवलं मलान् क्षिणुयात्-क्षपयेत्, यावद्वपुरस्यति-शरीरमपि हिंस्यात्| अत्र च संशोधनं यत् दृष्टान्तत्वेनोपन्यस्तं तदयोगातियोगाभ्यां रोगोत्क्लेशं शरीरक्षपणं [च] झटिति निर्वर्तयतीति| खरनादेनाप्युक्तं च-"अल्पमुत्क्लेशयेद्दोषं बहु प्राणान्निहन्ति च| तस्मान्निरूप्य भिषजा देयं युक्तं विरेचनम्||" इति| तथा, ज्वरगुल्मादीनां च तत्प्रतीकारार्थं यद्दीयते भेषजं तत्रापि महारम्भेऽल्पमल्पवीर्यं चौषधं न देयम्, इत्यस्मादेव दृष्टान्तीभूतादर्थादवगन्तव्यम्|
Adhikarana abhiyuktaH san bhaiShajyaM yu~jjIta (73) · Śloka 73
अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा| तथा युञ्जीत भैषज्यमारोग्याय यथा ध्रुवम्||७३||
🔊 Audio coming soon
स०-यस्माच्चैवं रोगाणां दुर्विज्ञेया गतिः, अतः-अस्माद्धेतोः, सततमभियुक्तः-सदाऽऽयुर्वेदपाठावबोधानुष्ठानपरो वैद्यः, सर्वं-दूष्यादिवस्तुजातम्, आलोच्य सर्वथा-सर्वेण प्रकारेणाऽऽयुर्वेदानुसारिण्या स्वबुद्ध्या तद्विद्यसम्भाषासम्भवया च तथा कर्माभ्यासतोऽपि निपुणं निरूप्य, तथा-तेन प्रकारेण दोषदूष्यदेशाद्यनुगुणेन, भैषज्यं युञ्जीत-भेषजं युञ्ज्यात्| यथाऽऽरोग्याय ध्रुवं-येन प्रकारेणाऽऽरोग्यार्थमवश्यं स्यात्|
Adhikarana doShasaMyogabhedAstriShaShTiH (74-78) · Śloka 78
पूर्वमुक्तम् (श्लो. ३२) - "दोषा एव हि सर्वेषां रोगाणामेककारणम्| " अतस्तानेव दोषान् वृद्धिक्षयविभेदेनाह - - - - वक्ष्यन्तेऽतःपरं दोषा वृद्धिक्षयविभेदतः| पृथक् त्रीन् विद्धि संसर्गभेदानधुना वक्ति - - - - संसर्गस्त्रिधा, तत्र तु तान्नव||७४|| कथं नव भेदान् ? इत्याह - - - - त्रीनेव समया वृद्ध्या, षडेकस्यातिशायने| त्रयोदश समस्तेषु कथम् ? इत्याह - - - - षड् द्व्येकातिशयेन तु||७५|| एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्| पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः||७६|| एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्| एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते||७७|| भेदा द्विषष्टिर्निर्दिष्टाः त्रिषष्टः स्वास्थ्यकारणम्| |७८|
🔊 Audio coming soon
स०-वृद्धिश्च क्षयश्च वृद्धिक्षयौ, वृद्धिक्षययोर्विभेदो वृद्धिक्षयविभेदः, विविधो विशिष्टो भेदो-विभेदः, तस्माद्वृद्धिक्षयविभेदतः| अतःपरं-अतोऽनन्तरम्, दोषाः-वातादयो, वक्ष्यन्ते-भणिष्यन्ते| स०-पृथक्-व्यस्तान् स्वप्रमाणाधिकान्, त्रीन् दोषान् रोगहेतून्, विद्धि-अवेहि| वातो वृद्धः| १| पित्तं वृद्धम्| २| श्लेष्मा वृद्धः| ३| एवं त्रयो दोषाः| स०-संसर्गस्त्रिधा-त्रिप्रकारः| तत्र-संसर्गे, नव दोषभेदान् स्वप्रमाणाधिकान्, "विद्धि" इत्येतदनुवृत्तिकृतेन सम्बन्धेन सर्वत्र योज्यम्| स०-समया वृद्ध्या-तुल्यया वृध्द्या, त्रीनेव-अन्यूनाधिकान्, संसर्गदोषभेदान् विद्धि| एको वातपित्ताभ्यामधिकाभ्याम्, द्वितीयो वातकफाभ्यामधिकाभ्याम्, तृतीयः पित्तश्लेष्मभ्यामधिकाभ्याम्, इति| संसर्गस्थयोर्दोषयोरेकस्य दोषस्यातिशायने-अधिकतरया वृद्ध्या, षट् संसर्गदोषभेदान् विद्धि| अतिशयो-अतिशायनम्| अतिशायने "तमबिष्ठनौ" इति निपातनाद्दीर्घः| दोषद्वयवृद्धेश्चिन्त्यमानत्वादपरदोषचिन्तानास्त्यत्र| वातो वृद्धः पित्तं वृद्धतरम्||१|| पित्तं वृद्धं वातो वृद्धतरः||२|| कफो वृद्धः पित्तं वृद्धतरम्||३|| पित्तं वृद्धं कफो वृद्धतरः||४|| कफो वृद्धो, वातो वृद्धतरः||५|| वातो वृद्धः कफो वृद्धतरः||६|| एवं षट् संसर्गदोषभेदान् विद्धि| स०-समस्तेषु-सन्निपतितेषु त्रिष्वपि दोषेषु वृद्धेषु, त्रयोदश दोषभेदान् विद्धि| स०-द्वौ चैकश्च द्व्येके, तेषां द्व्येकेषामतिशयो-अधिकत्वम्, तेन द्व्येकातिशयेन| ततो द्वयातिशयेन त्रयो भेदाः, तथा दोषैकस्यातिशयेन त्रयः, इति षट् भेदाः| यथा,-कफो वृद्धो वातपित्तेऽधिकं वृद्धे| १| पित्तं वृद्धं वातकफावतिवृद्धौ| २| वातो वृद्धः पित्तकफावतिवृद्धौ| ३| पित्तकफौ वृद्धौ वातोऽतिवृद्धः| ४| वातकफौ वृद्धौ पित्तमतिवृद्धम्| ५| वातपित्ते वृद्धे कफोऽतिवृद्धः| ६| इति षड्भेदान् द्व्येकातिशयेन सन्निपाते विद्धि| स०-तुल्यं कृत्वा-समं कृत्वा, वृद्धैर्दोषैरेकं सन्निपातदोषभेदं विद्धि| स०-तरतमयोर्भावस्तारतम्यम्| कस्य तारतम्यम् ? प्रकृतत्वात्सन्निपातस्थदोषाणाम्| तारतम्यस्य विकल्पनं-भेदः, तारतम्यविकल्पनम्, तस्मात्| सन्निपातस्थदोषाणां वृद्धिरूपाणां षड्भेदान् विद्धि| यथा,-वातो वृद्धः पित्तं वृद्धतरं कफो वृद्धतमः| १| वातो वृद्धः कफो वृद्धतरः पित्तं वृद्धतमम्| २| पित्तं वृद्धं कफो वृद्धतरो वातो वृद्धतमः| ३| पित्तं वृद्धं वातो वृद्धतरः कफो वृद्धतमः| ४| कफो वृद्धो वातो वृद्धतरः पित्तं वृद्धतमम्| ५| कफो वृद्धः पित्तं वृद्धतरं वातो वृद्धतमः| ६| एतेषां च लक्षणं मुनिरध्यगीष्ट| तथा च तद्ग्रन्थः (च. चि. अ. ३|८८)- "सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि| प्राक् सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्|| भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्| वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे|| शैत्यं कासोऽरुचिस्तन्द्रा पिपासा दाहरुग्व्यथाः| वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः|| छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना| मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे|| सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः| वातोल्बणे स्याद् ह्यनुगे तृष्णा कण्ठास्यशुष्कता|| रक्तविण्मूत्रता दाहः स्वेदस्तृड्बलसङ्क्षयः| मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्तगरीयसि|| आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः| कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्|| समं दोषैस्त्रिभिर्वृद्धैः सन्निपातस्य लक्षणम्| मुहुर्दाहो मुहुः शीतं कर्णक्ष्वेडनपार्श्वरुक्|| मोहः च्छर्दिर्दिवा निद्रा रात्रौ जागरणं तथा| प्रतिश्या छर्दिरालस्यां तन्द्रारुच्यग्निमार्दवम्|| हीनवाते पित्तमध्ये चिह्नं श्लेष्माधिके मतम्| हारिद्रमूत्रनेत्रत्वग्दाहस्तृष्णा भ्रमोऽरुचिः|| हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्| शिरोरुग्वेपथुः श्वासः प्रलापः च्छर्द्यरोचकौ|| हीनपित्ते मध्यकफे लिङ्गं वाताधिके मतम्| शीतकं गौरवं तन्द्रा प्रलापोऽस्थिशिरोतिरुक्|| हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः| वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिर्भ्रमः|| कफहीने वातमध्ये लिङ्गं पित्ताधिके मतम्| श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|| कफहीने पित्तमध्ये लिङ्गं वाताधिके स्मृतम्|" इति| स०-एवं-पूर्वोक्तेन प्रकारेण, पञ्चविंशतिसङ्ख्यापरिमाणान् वृद्धान् दोषभेदान् वृद्धैर्दोषैर्विद्धि| स०-क्षीणैः-क्षयावस्थैर्दोषैः, तावतः-तत्परिमाणान् पञ्चविंशतिसङ्ख्याकान् दोषभेदान् विद्धि| यथा,-वृद्धैः पृथक् त्रीन् दोषभेदान्, तथा क्षीणैः| "पृथक् त्रीन्" इत्यादिग्रन्थे वृद्धिशब्दस्थाने क्षीणशब्दे निपात्यः| तद्यथा,-वातः क्षीणः| १| पित्तं क्षीणम्| २| कफः क्षीणः| ३| तदेवं संसर्गे नवदोषभेदान् विद्धि| कथम् ? त्रीनेव समक्षीणत्वेन,-क्षीणवातपित्तसंसर्गः| १| क्षीणपित्तकफसंसर्गः| २| क्षीणवातकफसंसर्गः| ३| षडेकस्यातिशायने| अतिशायने-अन्यदोषापेक्षया क्षीणत्वातिरेके,-वातः क्षीणः पित्तं क्षीणतरम्| १| पित्तं क्षीणं वातः क्षीणतरः| २| वातः क्षीणः कफः क्षीणतरः| ३| कफः क्षीणो वातः क्षीणतरः| ४| कफः क्षीणः पित्तं क्षीणतरम्| ५| पित्तं क्षीणं कफः क्षीणतरः| ६| एवं षट् दोषभेदान् विद्धि| त्रयोदश समस्तेषु-सन्निपतितेषु क्षीणेषु दोषेषु दोषभेदांस्त्रयोदश विद्धि| कथम् ? षड् द्व्येकातिशयेन तु| दोषद्वयस्यातिशयेन-अतिक्षीणत्वेन, तथा दोषैकशयेन तु| तथा दोषैकस्यातिक्षीणत्वेन, पर्यायतः षट् क्षीणसन्निपातदोषभेदान् विद्धि| यथा,-वातः क्षीणः पित्तकफावतिक्षीणौ| १| पित्तं क्षीणं वातकफावतिक्षीणौ| २| कफः क्षीणः पित्तवातावतिक्षीणौ| ३| वातपित्ते क्षीणे कफोऽतिक्षीणः| ४| पित्तकफौ क्षीणौ वातोऽतिक्षीणः| ५| वातकफौ क्षीणौ पित्तमतिक्षीणम्| ६| एकं तुल्यक्षीणैर्भेदं विद्धि| १| षट् च तारतम्यविकल्पनात्,-कफः क्षीणः पित्तं क्षीणतरं वातः क्षीणतमः| १| वातः क्षीणः कफः क्षीणतरः पित्तं क्षीणतमम्| २| पित्तं क्षीणं कफः क्षीणतरो वातः क्षीणतमः| ३| कफः क्षीणो वातः क्षीणतरः पित्तं क्षीणतमम्| ४| वातः क्षीणः पित्तं क्षीणतरं कफः क्षीणतमः| ५| पित्तं क्षीणं वातः क्षीणतरः कफः क्षीणतमः| ६| एवं पञ्चविंशतिदोषभेदान् क्षीणैर्दोषैर्विद्धि| स०-ते-सन्निपातस्थदोषास्त्रयः, षोढा भवन्ति| कथम् ? इत्याह-एकैकेत्यादि| वृद्धिश्च समता च क्षयश्च वृद्धिसमताक्षयाः| एकैकस्य-वाताद्यन्यतमस्य, वृद्धिसमताक्षया एकैकवृद्धिसमताक्षयाः, तैरेकैकवृद्धिसमताक्षयैः षट्| यथा,-वातो वृद्धः पित्तं समं कफः क्षीणः| १| पित्तं वृद्धं वातः समः कफः क्षीणः| २| कफो वृद्धः पित्तं समं वातः क्षीणः| ३| कफो वृद्धो वातः समः पित्तं क्षीणम्| ४| वातो वृद्धः कफः समः पित्तं क्षीणम्| ५| पित्तं वृद्धं कफः समो वातः क्षीणः| ६| एवमेकैकवृद्धिसमताक्षयैः षट्| स०-एकस्य क्षय एकक्षयः, द्वन्द्वस्य वृद्धिर्द्वन्द्ववृद्धिः, एकक्षयसहिता द्वन्द्ववृद्धिरेकक्षयद्वन्द्ववृद्धिः, तया| किम्भूतया ? सविपर्ययया,-सह विपर्ययेण-वैपरीत्येन वर्तते या सैवम्, तया| एकक्षयद्वन्द्ववृद्ध्या पुनरेव षट् दोषभेदाः| वातः क्षीणः पित्तकफौ वृद्धौ| १| पित्तं क्षीणं वातकफौ वृद्धौ| २| कफः क्षीणो वातपित्ते वृद्धे| ३| एवमेकक्षयद्वन्द्ववृद्ध्या त्रयो भेदाः| सविपर्ययया च वृद्ध्या त्रयो दोषभेदाः| द्वन्द्वक्षयैकदोषवृद्ध्या-द्वन्द्वक्षयसहितैकदोषवृद्धिः, तया| यथा,-वातपित्तक्षीणे श्लेष्मा वृद्धः| १| वातकफौ क्षीणौ पित्तं वृद्धम्| २| पित्तकफौ क्षीणौ वातो वृद्धः| ३| इति सविपर्ययया वृद्ध्या त्रयो दोषभेदाः| एवं सन्निपातभेदा द्विरूपया वृद्ध्या षडेते ज्ञेयाः| स०-एवं भेदगणनया दोषाणां भेदा द्विषष्टिर्निर्दिष्टाः-उक्ताः| स०-त्रिषष्टीनां पूरणो यो दोषभेदः, स स्वास्थ्यकारणं-आरोग्यहेतुः, धातुसाम्यात्| अत्र हि स्वप्रमाणस्था वातपित्तकफाः| ये च दोषभेदा द्विषष्टिः, ते च रोगकारणमित्यर्थादुक्तं भवति| अत्र च रोगहेतुत्वे दोषवैषम्यं कारणम्| त्रिषष्ट इति " तस्य पूरणे डट्" इति डट्|
Adhikarana doShabhedAnAM rasAdisaMyogAdAnantyam (12) · Śloka 12
अधुना रसादिभेदादानन्त्यं दोषभेदानां दर्शयन्नाह - - - - | संसर्गाद्रसरुधिरादिभिस्तथैषां दोषांस्तु क्षयसमताविवृद्धिभेदैः||७८|| आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्| ७८ -१/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषभेदीयो नाम द्वादशोऽध्यायः||१२||
🔊 Audio coming soon
स०-न केवलं द्विषष्टिभेदभिन्नान् दोषान् जानीयात्| आनन्त्यं च गतान् विद्यात्| कथमानन्त्यम् ? इत्याह-एषां दोषभेदानां, यथास्वं-रसरक्तादिभिर्धातुभिः संयोगात्, तथैषामेव क्षयादिभेदैस्तरतमयोगाच्चानन्त्यं गतान् विद्यात्| तत्र दिङ्मात्रं शिष्यव्युत्पत्तये प्रदर्शयते| तत्र रसे वातपित्तकफानां पृथक् त्रयो भेदा भवन्ति, "पृथक् त्रीन् विद्धि" इत्यनुसारेण| संसर्गस्त्रिधा| "तत्र तु तान्" रसमेवाधिकृत्य नव विद्धि| कथम् ? पूर्ववत् "त्रीनेव समया वृद्ध्या षडेकस्यातिशायेने|" एवं पूर्वोक्तन्यायेन रसमधिकृत्य संसर्गं योजयित्वा सन्निपातो योजनीयः| यथा,-त्रयोदश समस्तेषु| कथम् ? "षड्द्व्येकातिशयेन तु| एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्||" इति समानं पूर्वेण, रसाख्यं स्थानं केवलमधिकम्| "पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः|" रसमधिकृत्य भेदान् विद्धि| इत्येवं रुधिरमांसादिभिर्योज्यम्| एकैकोपक्रमेणेत्येवं द्विषष्टिभेदभिन्नानां दोषाणां रसादिभिः सप्तभिः संयोगात् चत्वारि शतान्येकचत्वारिंशदधिकानि स्युः| शकृदादिसंसर्गात् क्षीणतरक्षीणतमादिभेदैर्वृद्धतरवृद्धतमादिभेदैश्च चिन्त्यमाना दोषा आनन्त्यं यान्तीति| रसभेदे दोषभेदे चावगते वैद्यस्य हेतुलक्षणोपक्रमेषु मोहो न भवति| तथा च मुनिः (च. सू. अ. २६|२५)- "यः स्याद्रसविकल्पज्ञः स्याच्च दोषविकल्पवित्| न स मुह्येद्विकाराणां हेतुलिङ्गोपपत्तिषु||" इति| म्नौज्रौगस्त्रिदशभवाप्रहर्षिणी स्यात्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने दोषभेदीयाध्यायो द्वादशः समाप्तः|| १२||