Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते| यतो "दोषभेषजवशादुपयोज्याः" इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते| यतो "दोषभेषजवशादुपयोज्याः" इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते-
Adhikarana doShAdivij~jAnIyAdhyAyaH (2) · Śloka 2
रसभेदीयादनन्तरं दोषादिविज्ञानीय आरभ्यते| यतो "दोषभेषजवशादुपयोज्याः" इत्युक्तम्, अत ईदृक्स्वरूपास्ते दोषा इति ज्ञापनार्थमध्यायोऽयमुच्यते - - - - अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे||२||
🔊 Audio coming soon
स०-दोषा आदयो येषां ते-दोषादयः, तेषां विज्ञानं-प्राकृतेन वैकृतेन च स्वरूपेणा ९ वगमः, तस्मै हितो यः, तमध्यायं व्याख्यास्यामः| आदिशब्देन धातवो मलाश्च सङ्ग्रह्यन्ते| तत्स्वरू १० पावगमेन च त एव दोषाः सम्यग्ज्ञाता भवन्ति| धातूनां मलानां च दोषाधारभूतत्वात्|
Adhikarana dehasya mUlaM doShAdayaH (1) · Śloka 1
दोषधातुमला मूलं सदा देहस्य--| |१|
🔊 Audio coming soon
स०-दोषाः-वातादयः, धातवो-रसादयः, मलाः-मूत्रादयः, ते देहस्य मूलमिव मूलम्| यथा,-वृक्षस्य स्कन्धशाखादियुक्तस्य मूलं प्रधानम्, तदारब्धत्वात्| तथा,-देहस्य दोषधातुमलाः|
Adhikarana vAyoH sAmyalakShaNam, pittasya sAmyalakShaNam, shcleShmaNaH sAmyalakShaNam (1-3) · Śloka 3
तं चलः| उत्साहोच्छ्वासनिश्वासचेष्टावेगप्रवर्तनैः||१|| सम्यग्गत्या च धातूनामक्षाणां पाटवेन च| अनुगृह्णात्यविकृतः, पित्तं पक्त्यूष्मदर्शनैः||२|| क्षुत्तृड्रुचिप्रभामेधाधीशौर्यतनुमार्दवैः| श्लेष्मा स्थिरत्वस्निग्धत्वसन्धिबन्धक्षमादिभिः||३||
🔊 Audio coming soon
स०-तं च-देहं, चलो-वायुः, उत्साहादिभिरनुगृह्णाति-उपकुरुते| उत्साहः-सर्वचेष्टासूद्योगः, उच्छ्वासः-ऊर्ध्वं श्वसनं श्वासमुक्तिः, निश्वासः-श्वासस्य शरीरान्तः प्रवेशनम्, चेष्टनं-चेष्टा वाक्कायमनोव्यापारः, वेगानां प्रवर्तनं-वातविण्मूत्रादीनां बहिर्निरसनम्, एतैश्च मारुतो देहमनुगृह्णाति| पित्तं पक्त्यादिभिरनुगृह्णाति| पक्तिः-पाकः| ऊष्मा-औष्ण्यम्| दर्शनं-दृष्टिः| मेधा-बुद्धिविशेषः| धीः-प्रज्ञा| शौर्यं-पौरुषम्| तनुमार्दवं-शरीरमृदुत्वम्| श्लेष्मा स्थिरत्वादिभिरनुगृह्णाति| क्षमा-क्षान्तिः|
Adhikarana dhAtUnAM shreShThakarmANi (4) · Śloka 4
इदानीं धातूनां कर्माण्याह - - - - प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे| गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम्||४||
🔊 Audio coming soon
स०-प्रीणनादीनि कर्माणि रसादीनां क्रमात्-क्रमेण श्रेष्ठानि स्मृतानि, मुनिभिरिति शेषः| सङ्ग्रहोक्तानि मध्यमान्यपराणि कर्माण्येषां सन्त्येव| यथा,-रसस्य तुष्टिरक्तपुष्ट्यादिकं कर्म, रक्तस्य च वर्णप्रसादो मांसपोषणम्, मांसस्य बलं मेदःपुष्टी च मेदसः स्वेददार्ढ्यास्थिपुष्टयश्च, अस्थ्नो मज्जपोषणम्, मज्ज्ञो बलमस्थिपूरणं शुक्रपुष्टिश्च, शुक्रस्य हर्षो बलं च, एतैर्धातवो देहमनुगृह्णन्तीत्यर्थः| प्रीणनं-आप्यायनम्| रसो हि सम्यगभ्यवहरतः स्रोतांसि प्रविश्येन्द्रियप्रसादमभिनिर्वर्तयन् मनसः प्रीतिमादधाति| जीवनं-ओजोवृद्धिकरम्, रक्तकर्म| लेपः-उपदेहो, मांसस्य कर्म| तदुपलिप्तान्यस्थीनि चेष्टां क्षमन्ते| स्नेहो-नेत्रादिषु स्निग्धता, मेदसः कर्म| धारणं-ऊर्ध्वधारणम्, अस्थिकर्म| पूरणं-स्नेहेनास्थ्नाम्, मज्ज्ञः कर्म| शुक्रस्य गर्भोत्पत्तिः, श्रेष्ठं कर्मेति योज्यम्|
Adhikarana malAnAM karmANi (5) · Śloka 5
इदानीं मलानां कर्माण्याह - - - - अवष्टम्भः पुरीषस्य, मूत्रस्य क्लेदवाहनम्| स्वेदस्य क्लेदविधृतिः|५|
🔊 Audio coming soon
स०-अवष्टम्भो-देहधारणशक्तिः, श्रेष्ठं कर्म पुरीषस्य स्मृतम्| मूत्रस्य क्लेदवाहनं श्रेष्ठं कर्म, मूत्रं क्लेदं निर्वाहयति| स्वेदस्य क्लेदविधारणं श्रेष्ठं कर्म, क्लेदाभावे हि शोषः स्यात्, मध्यमत्वक्ऽऽस्नेहकचरोमधारणमपि|
Adhikarana vRuddhavAyoH karmANi (5-6) · Śloka 6
| वृद्धस्तु कुरुतेऽनिलः||५|| कार्श्यकार्ष्ण्योष्णकामत्वकम्पानाहशकृद्ग्रहान्| बलनिद्रेन्द्रियभ्रंशप्रलापभ्रमदीनताः||६||
🔊 Audio coming soon
स०-वृद्धः पुनर्वायुः कार्श्यादीन् करोति| बलादीनां भ्रंशेन सम्बन्धः| बलस्य प्राणोपघातो भ्रंशः| निद्रायास्तु नाशो भ्रंशः|
Adhikarana vRuddhapittasya karmANi (7) · Śloka 7
पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्दाहाल्पनिद्रताः| पित्तम्|७|
🔊 Audio coming soon
स०-पीतस्य विडादिभिस्त्वगन्तैः सम्बन्धः, ततः क्षुदादिभिर्द्वन्द्वः, ततस्तलप्रत्ययः| पित्तं वृद्धं पीतविण्मूत्रादीन् करोति|
Adhikarana vRuddhashleshmaNaH karmANi (7-8) · Śloka 8
| श्लेष्माऽग्निसदनप्रसेकालस्यगौरवम्||७|| श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः| |८|
🔊 Audio coming soon
स०-श्लेष्मा वृद्धोऽग्निसादादीन् करोति| श्वैत्यं- गात्रशुक्लता| शैत्यं-अङ्गानां शिशिरत्वम्|
Adhikarana vRuddharasasya karmANi (8) · Śloka 8
| रसोऽपि श्लेष्मवत्|८|
🔊 Audio coming soon
स०-रसश्च श्लेष्मवत्, रसोऽपि वृद्धोऽग्निसादादीन् विदधातीत्यर्थः|
Adhikarana vRuddharaktasya karmANi (8-9) · Śloka 9
| रक्तं विसर्पप्लीहविद्रधीन्||८|| कुष्ठवातास्रपित्तास्रगुल्मोपकुशकामलाः| व्यङ्गाग्निनाशसम्मोहरक्तत्वङ्नेत्रमूत्रताः||९||
🔊 Audio coming soon
स०-रक्तं वृद्धं विसर्पादीन् करोति| उपकुशो नाम दन्तरोगजातिः, उत्तरतन्त्रे (अ. २१|२१) वक्ष्यमाणलक्षणा|
Adhikarana vRuddhamAMsasya karmANi (10) · Śloka 10
मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः| कण्ठादिष्वधिमांसं च|१०|
🔊 Audio coming soon
स०-मांसं वृद्धं गण्डादीन् रोगान् करोति| गण्डशब्देन गण्डमाला गलगण्डश्च गृहीतौ, आद्यन्तलोपात्| इतरश्च गण्डो गण्डमांसाढ्यात्| गण्डश्चार्बुदं च ग्रन्थिश्च गण्डार्बुदग्रन्थयः| गण्डौ च ऊरू चोदरं च तेषां वृद्धिता| ततो द्वन्द्वः| ताः करोति| वृद्धिता-वृद्धित्वम्| कण्ठादिष्वधिकं मांसं च कुरुते| आदिशब्देन तालुजिह्वादिपरिग्रहः|
Adhikarana vRuddhamedasaH karmANi (10-11) · Śloka 11
तद्वन्मेदस्तथा श्रमम्||१०|| अल्पेऽपि चेष्टिते श्वासं स्फिक्स्तनोदरलम्बनम्| |११|
🔊 Audio coming soon
स०- मेदोऽपि वृद्धं गण्डादीन् कुरुते| तथाल्पेऽपि चेष्टिते श्रमं कुरुते, श्वासं च| तथा, स्फिजोः स्तनयोरुदरस्य च लम्बनं कुरुते|
Adhikarana vRuddhAsthnaH karmANi (11) · Śloka 11
| अस्थ्यध्यस्थ्यधिदन्तांश्च|११|
🔊 Audio coming soon
स०-अस्थि वृद्धमध्यस्थ्यधिहन्तांश्च कुरुते|
Adhikarana vRuddhamajj~jaH karmANi (11-12) · Śloka 12
मज्जा नेत्राङ्गगौरवम्||११|| पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च| |१२|
🔊 Audio coming soon
स०-मज्जा वृद्धो नेत्रयोरङ्गानां च गौरवं कुर्यात्| कुरुत इति प्रकृते कुर्यादित्युक्तं स्पष्टार्थम्| पर्वसु-अङ्गुल्यादिसन्धिषु, अरूंषि-पिटिकाविशेषान्, कुर्यात्| कीदृशानि ? स्थूलमूलानि,-स्थूलानि मूलानि येषां तानि| तथा, कृच्छ्राणि-कृच्छ्रसाध्यानि|
Adhikarana vRuddhashukrasya karmANi (12) · Śloka 12
| अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि||१२||
🔊 Audio coming soon
स०-शुक्रं वृद्धमतिस्त्रीकामतां कुर्यात्, शुक्राश्मरीं च| अपिशब्दाद्बलस्नेहाद्यपि|
Adhikarana vRuddhashakRutaH karmANi (13) · Śloka 13
कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्| |१३|
🔊 Audio coming soon
स०-शकृत्-पुरीषं, वृद्धं कुक्षावाध्मानादीन् कुर्यात्| कुर्यादिति सम्भावनायां लिङ्| आध्मानं-आनाहः| आटोपः-अन्त्रकूजनादि| [गौरवं-गुरुत्वम्, वेदनां च कुक्षौ|]
Adhikarana vRuddhamUtrasya karmANi (13) · Śloka 13
| मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम्||१३||
🔊 Audio coming soon
स०-मूत्रं वृद्धं बस्तेर्निस्तोदं-अतिव्यथां कुर्यात्| तथा कृतेऽपि मूत्रेऽकृतसंज्ञतां-अकृताभासत्वमिव कुर्यात्|
Adhikarana vRuddhasvedasya karmANi (14) · Śloka 14
स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः| |१४|
🔊 Audio coming soon
स०-स्वेदो वृद्धोऽतिस्वेदादीन् कुर्यात्|
Adhikarana evaM dUShikAdayo malAH (14) · Śloka 14
एवं च लक्षयेत्| दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः||१४||
🔊 Audio coming soon
स०-एवं-अनेन प्रकारेण, दूषिकादीनपि मलान् लक्षयेत्-अनुमिनुयात्| दूषिका-अक्षिमलः| आदिशब्दात् घ्राणकर्णनासामलादीनां ग्रहणम्| कथं लक्षयेत् ? इत्याह-बाहुल्येत्यादि| मलबाहुल्येन तत्स्थानगौरवेण च| आदिग्रहणात्कण्डूक्लेदादयो गृह्यन्ते|
Adhikarana kShINAnilasya karmANi (15) · Śloka 15
वृद्धानां वातादीनां लिङ्गान्यभिधाय, क्षीणानां वातादीनां लिङ्गान्याह - - - - लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्पं भाषितेहितम्| संज्ञामोहस्तथा श्लेष्मवृद्धयुक्तामयसम्भवः||१५||
🔊 Audio coming soon
स०-अनिले क्षीणे-स्वप्रमाणापचिते, वक्ष्यमाणानि लिङ्गानि| वायोस्तु सर्वक्षये देह एव न स्यात्, कस्य तल्लिङ्गं स्यात्| किं पुनस्तल्लिङ्गम् ? इत्याह-अङ्गस्येत्यादि| अङ्गस्य सादः-क्रियास्वसामर्थ्यम्| ईहितं-चेष्टितम्, कायिकं कर्म| भाषितं चेहितं च भाषितेहितम्,-अल्पवचनाऽल्पचेष्टितत्वं च स्यात्| तथा, संज्ञामोहः-संविदोऽभावः| तथा, श्लेष्मवृद्धौ य उक्ताः-अग्निसादप्रसेकादयः, तेषामामयानां सम्भवो भवति|
Adhikarana kShINapittasya karmANi (16) · Śloka 16
पित्ते मन्दोऽनलः शीतं प्रभाहानिः| |१६|
🔊 Audio coming soon
स०-लिङ्गं क्षीणे इत्यनुवर्तते| पित्ते क्षीणे लिङ्गमेतत्| अग्निर्मन्दः शीतं कान्तिहानिश्च स्यात्|
Adhikarana kShINakaphasya karmANi (16) · Śloka 16
कफे भ्रमः| श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसन्धिता||१६||
🔊 Audio coming soon
स०-कफे क्षीणे भ्रमो भवति| तथा, श्लेष्माशयानां शून्यत्वं भवति| श्लेष्माशयाः-उरःशिरःसन्ध्याद्याः| [तथा, हृद्द्रावादयः स्युः| हृद्द्रवः-हृदि कम्प इत्यर्थः|]
Adhikarana kShINarasasya karmANi (17) · Śloka 17
रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दासहिष्णुता| |१७|
🔊 Audio coming soon
स०-रसे क्षीणे रौक्ष्यादयः स्युः|
Adhikarana kShINaraktasya karmANi (17) · Śloka 17
| रक्तेऽम्लशिशिरप्रीतिशिराशैथिल्यरूक्षताः||१७||
🔊 Audio coming soon
स०-रक्ते क्षीणेऽम्लाद्यभिलाषादयः स्युः|
Adhikarana kShINamAMsasya karmANi (18) · Śloka 18
मांसेऽक्षग्लानिगण्डस्फिक्ऽऽशुष्कतासन्धिवेदनाः| |१८|
🔊 Audio coming soon
स०-मांसे क्षीणेऽक्षग्लानिः, गल्लयोः स्फिजोश्च शुष्कत्वम्, सन्धीनां वेदनाः स्युः, स्फुटन्तीव सन्धय इत्यर्थः|
Adhikarana kShINamedasaH karmANi (18) · Śloka 18
| मेदसि क्षीणे कट्याः प्लीह्नो वृद्धिः कृशाङ्गता||१८||
🔊 Audio coming soon
स०-मेदसि क्षीणे कट्याः स्वापः प्लीहवृधिः कृशाङ्गत्वं च|
Adhikarana kShINasyAsthnaH karmANi (19) · Śloka 19
अस्थ्न्यस्थितोदः शदनं दन्तकेशनखादिषु| |१९|
🔊 Audio coming soon
स०-अस्थ्नि क्षीणेऽस्थ्नां तोदो भवति| शदनं-शातः, पात इत्यर्थः| केषाम् ? दन्तादीनाम्|
Adhikarana kShINamajj~jaH karmANi (19) · Śloka 19
| अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम्||१९||
🔊 Audio coming soon
स०-मज्जनि क्षीणेऽस्थ्नां सौषिर्यं भ्रमादिश्च|
Adhikarana kShINashukrasya karmANi (20) · Śloka 20
शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा| तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूमायतीव च||२०||
🔊 Audio coming soon
स०-शुक्रे क्षीणे शुक्रं चिरात् प्रसिच्येत, रक्तं वा| प्रसिच्येतेति कर्मकर्तरि| वृषणयोरतिशयेन तोदो-व्यथा स्यात्| मेढ्रं-शिश्नं, धूमायतीव च| धूमायतीति लोहितादेराकृतिगणत्वात् क्विप्, अकृत्सार्वधातुकेत्यादिना दीर्घः|
Adhikarana kShINapurIShasya karmANi (21) · Śloka 21
पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव| कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम्||२१||
🔊 Audio coming soon
स०-पुरीषे क्षीणे वायुः कुक्षौ भ्रमति| अन्त्राणि वेष्टयन्निव शब्दं जनयन् यात्यूर्ध्वम्| किं कुर्वन् ? हृत्पार्श्वे भृशं पीडयन्|
Adhikarana kShINamUtrasya karmANi (22) · Śloka 22
मूत्रेऽल्पं मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वा| |२२|
🔊 Audio coming soon
स०- मूत्रे क्षीणेऽल्पं मूत्रयेत्, कृच्छ्राद्विवर्णं सरक्तमेव वा|
Adhikarana kShINasvedasya karmANi (22) · Śloka 22
| स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः||२२||
🔊 Audio coming soon
स०-स्वेदे क्षीणे रोम्णां च्युतिः-शातः, रोम्णां च स्तब्धत्वम्| त्वचः-चर्मणः, स्फुटनं-दरणम्|
Adhikarana ghrANAmalAnAM kShayali~ggam (23) · Śloka 23
इदानीं घ्राणादिमलानामपि सामान्येनक्षयलिङ्गमाह - - - - मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्| स्वमलायनसंशोषतोदशून्यत्वलाघवैः||२३||
🔊 Audio coming soon
स०-मलानामतिसूक्ष्माणां-सुस्वल्पानां दूषिकादीनां, दुःखेन बोद्धुं शक्यं-दुर्लक्ष्यम्, क्षयं लक्षयेत्-जानीयात्| कैः ? मलानां स्थानानि-मलायनानि, स्वानि च तानि मलायनानि च-स्वमलायनानि, तेषाम् संशोषतोदशून्यत्वलाघवानि-स्वमलायनसंशोषतोदशून्यत्वलाघवानि, तैः|
Adhikarana doShadhAtumalAnAM samAsato vRuddhikShayanidAnam (24-25) · Śloka 25
एवं व्यासेन दोषधातुमलानां वृद्धिक्षयावभिधाय समासतोऽभिधातुमिदमाह- दोषादीनां यथास्वं च विद्याद्दृद्धिक्षयौ भिषक्| क्षयेण विपरीतानां गुणानां वर्धनेन च||२४|| वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतः| |२५|
🔊 Audio coming soon
स०-दोषधातुमलानां वृद्धिक्षयौ जानीयात्| कथम् ? यथास्वं दोषादीनां गुणेभ्यो विपरीता ये गुणास्तेषां गुणानां क्षयेण वर्धनेन च देहगतेन दोषादीनां यथाक्रमं वृद्धिं क्षयं च विद्यात्| यथा,-वायोर्गुणा रूक्षलघुशीतादयः, तेषां विपरीताः-स्निग्धगुरूष्णादयः, तेषां स्निग्धादीनां देहे यदा क्षयो दृश्यते तदा वायोर्वृद्धिं विद्यात्| यदा तु तेषां स्निग्धादीनां देहे वृद्धिर्दृश्यते तदा वायोः क्षयो ज्ञेयः| एवं स्वबुध्द्या विकल्प्य मलानां धातूनां च वाच्यम्| वृद्धिं मलानामित्यादि| न केवलं मलानां पूर्वोक्तेन प्रकारेण वृद्धिक्षयौ ज्ञेयौ, यावदमुनाऽपि वक्ष्यमाणेन लक्षणेन तेषां वृद्धिक्षयौ ज्ञेयौ, [इति चशब्देन द्योतयति]| एवं स्वबुध्द्या विकल्प्य, मलानां सङ्गात्-बहिरनिःसरणलक्षणाच्च वृद्धिं विद्यात्| तेषामेव मलानामतिविसर्गात्-अतिप्रवर्तनात् क्षयं विद्यात्|
Adhikarana kShayavRuddhyoH pIDAkaratve tAratamyam (25) · Śloka 25
| मलोचितत्वाद्देहस्य क्षयो वृद्धेस्तु पीडनः||२५||
🔊 Audio coming soon
स०-द्वावपि मलानां वृद्धिक्षयौ पीडाकरौ देहस्य| तत्रापि य एषां क्षयः स वृद्धितोऽप्यतिशयेन पीडाकरः, अनौचित्यात्| देहिनां हि प्रायेण मलक्षयोऽनुचितो-अनभ्यस्तः, वृद्धिस्तूचितैवेति न तथा पीडां करोति|
Adhikarana doShadUShyayorAshrayAshrayibhAvaH, AshrayAshrayibhAvasya phalam, apavAdaH, vRuddhikShayajavikAreShu la~gghana bRuMhaNam (26-29) · Śloka 29
अथ दोषादीनामाश्रयाश्रयिभावं दर्शयति - - - - तत्रास्थनि स्थितो वायुः, पित्तं तु स्वेदरक्तयोः| श्लेष्मा शेषेषु, तेनैषामाश्रयाश्रयिणां मिथः||२६|| यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्| अस्थिमारुतयोर्नैवं, प्रायो वृद्धिर्हि तर्पणात्||२७|| श्लेष्मणाऽनुगता तस्मात् सङ्क्षयस्तद्विपर्यात्| वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान्||२८|| विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः| |२९|
🔊 Audio coming soon
स०-तत्र-तेषु वातादिषु मध्ये, अस्थ्नि वायुः स्थितः-आश्रितः| पित्तं तु स्वेदरक्तयोः स्थितम्| श्लेष्मा शेषेषु-रसमांसमेदोमज्जशुक्रमूत्रपुरीषादिषु स्थितः| यतश्चैवमाश्रयाश्रयिभावोदोषधातूनां, तेन हेतुना, आश्रयाश्रयिणां मिथः-परस्परं, यदेकस्य-आश्रयस्य वर्धनं, तदन्यस्य-आश्रयिणोऽपि वर्धनम्, यदाश्रयस्य क्षपणं तदाश्रयिणोऽपि क्षपणम्| ननु, एवमस्थ्नो वाताश्रयस्य यद्वर्धनं तदस्याश्रयिणो वातस्यापि वर्धनं, यदस्य क्षपणं तदपि वातस्य क्षपणं प्राप्नोतीत्यत आह-अस्थीत्यादि| अस्थिमारुतयोर्नैवं वर्धनक्षपणौषधम्, सम्भवतीत्यध्याहार्यम्| हि-यस्मात्, प्रायो-बाहुल्येन, या वृद्धिः-वर्धनं दोषधातूनाम्, सा तर्पणात्-बृंहणाद्भवति| प्रायोग्रहणं वायुपरिहारार्थम्| सा च श्लेष्मणाऽनुगता-अनुबद्धा| यत एवं या वृद्धिः सा सन्तर्पणात्, तस्माद्धेतोर्य एषां दोषादीनां क्षयः स प्रायो-भूयिष्ठम्, अपतर्पणात्-लङ्घनरूपाद्भवति| स च सङ्क्षयो वायुनाऽनुगतः| एवं यदस्थ्नो वर्धनमौषधम्, तत् स्निग्धमधुरादि बृंहणरूपं वातस्य क्षपणम्| यच्च वातस्य वर्धमौषधम्, तत् रूक्षतिक्ताद्यपतर्पणं लङ्घनरूपमस्थ्नः क्षपणम्| तदर्थमेतदुक्तम्-अस्माच्चेत्यादि| यत एवं वृद्धेः सन्तर्पणरूपत्वं क्षयस्यापतर्पणरूपत्वम्, अतो वृद्धिक्षयसम्भवान् विकारान् दोषधातूनां सम्बन्धिनः क्रमाल्लङ्घनबृंहणैः साधयेत्-उपक्रमेत्| कथम् ? शीघ्रं चिरोत्थिता हि ते दुश्चिकित्स्याः स्युः| वृद्ध्युत्थान् विकारान् लङ्घनैः, क्षयोत्थान् बृंहणैरिति क्रमार्थः|
Adhikarana apavAdaH (29) · Śloka 29
ननु, एवं वातवृद्ध्युत्थान् विकारान् लङ्घनैस्तत्क्षयोत्थान् बृंहणैरिति स्यात्| अत इदमाह - - - - | वायोरन्यत्र, तज्जांस्तु तैरेवोत्क्रमयोजितैः||२९||
🔊 Audio coming soon
स०-वायुं हित्वा वृद्ध्युत्थान् विकारान् लङ्घनैः, क्षयोत्थान् बृंहणैः साधयेत्| तज्जान्-वायुसम्भवान् विकारान्, पुनस्तैरेव-लङ्घनबृंहणैरुत्क्रमयोजितैरुपक्रमेत्| यथानिर्दिष्टक्रमाद्विपरीतः क्रमः-उत्क्रमः| यथा,-वातवृद्ध्युत्थान् विकारान् बृंहणैः तत्क्षयोत्थांश्च लङ्घनैरिति|
Adhikarana raktavRuddhyutthAdInAM raktasrutivirecanAdibhirupakramaH, dhAtorvRuddhikShayakaraNaprakAraH (30-33) · Śloka 33
दोषाणां विशेषचिकित्सेह नोक्ता, दोषोपक्रमणीये वक्ष्यमाणत्वात्| रसचिकित्सा च "रसोऽपि श्लेष्मवत्" इत्युक्तेर्नेह पुनर्निर्दिष्टा| अतो रक्तादीनां चिकित्सामाह - - - - विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैः| मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः||३०|| स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्| जातान् क्षीरघृतैस्तिक्तसंयुतर्बस्तिभिस्तथा||३१|| विड्वृद्धिजानतीसारक्रियया, विट्क्षयोद्भवान्| मेषाजमध्यकुल्माषयवमाषद्वयादिभिः||३२|| मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया| व्यायामाभ्यञ्जनस्वेदमद्यैः स्वेदक्षयोद्भवान्||३३||
🔊 Audio coming soon
स०-वृद्धिक्षयोपक्रमे एवं स्थितेऽपि विशेषेण रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैरुपक्रमेत| मांसवृद्धिजान् शस्त्रक्षाराग्निकर्मभिः| मेदोवृद्धिक्षयाभ्यां जातान्-मेदोजानिति मध्यमपदलोपोऽत्र द्रष्टव्यः| मेदोवृद्धिजान् विकारान् स्थौल्योपचारेण द्विविधोपक्रमणीयोक्त्या स्थौल्यचिकित्सया, मेदःक्षयजान् कार्श्योपचारेणोपाचरेत्| अस्थिक्षयजान् क्षीरघृतैस्तिक्तसंयुतैः, बस्तिभिस्तथा-तथारूपैस्तिक्तसंयुतैरित्यर्थः| ननु, यानि वातकृन्ति द्रव्याणि तान्यस्थिक्षयोद्भवविकाराणां वृद्धिकरणानीति तद्द्रव्योपयोगोऽत्र न युक्तः, तिक्तस्य वातकृतत्वात्| अत्रोच्यते| यद्द्रव्यं स्निग्धं शोषणं खरत्वमुत्पादयति तदस्थ्नो वर्धनं युक्तम्, खरस्वभावत्वादस्थ्नाम्| न चैवंविधमेकं द्रव्यमस्ति, यत् स्निग्धं शोषणं च| तस्मात् क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिश्च तिक्तसंयुतैश्चेत्युपदिष्टम्| क्षीरघृतस्य तिक्तयुक्तस्य खरस्वभावत्वात्| विड्वृद्धिजान्-पुरीषवृद्धिजान्, अतीसारचिकित्सया साधयेत्| विट्क्षयोद्भवान् मेषाजमध्यादिभिः साधयेत्| मेष-उरभ्रः, अजः-च्छागः, तयोर्मध्यं-अन्तराधिः| कुल्माषः-अर्धस्विन्नो माषादिर्हिङ्गुघृतादिसंस्कृतः| माषद्वयं-माषो राजमाषश्च| आदिशब्देन काकाण्डोलात्मगुप्तादीनां ग्रहणम्| मूत्रवृद्ध्युत्थान् मेहचिकित्सया, मूत्रक्षयोत्थान् मूत्रकृच्छ्रचिकित्सया, स्वेदक्षयजान् व्याधीन् व्यायामादिभिः साधयेत्|
Adhikarana dhAtujAnAmupakramAntaram (34-35) · Śloka 35
स्वस्थानस्थस्य कायग्नेरंशा धातुषु संश्रिताः| तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः||३४|| पूर्वो धातुः परं कुर्याद्दृद्धः क्षीणश्च तद्विधम्| |३५|
🔊 Audio coming soon
स०-स्वस्थानं कायाग्नेः-पक्वामाशययोर्मध्यम्| यथा च वक्ष्यति (हृ. सू. अ. १२|१०) - "पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम्|" इत्यादि यावत् "पाचकं नाम तत् स्मृतम्|" इति| तत्र पक्वामाशयमध्ये तिष्ठतीति स्वस्थानस्थः, तस्यैवंविधस्य कायाग्नेः-जाठरानलस्य, अंशाः-भागाः, धातुषु-रसादिषु संश्रिताः| तेषां-अग्न्यंशानाम्, सादेन-मान्द्येन, धातूनां वृद्ध्युद्भवः| तथा तेषामंशानामतिदीप्त्या-अतितैक्ष्ण्यात्, धातुक्षयोद्भवः| पूर्वो-रसाख्यो, धातुर्वृद्धो भूत्वा परं-रक्ताख्यं, धातुं वृद्धं कुर्यात्| पूर्वश्च क्षीणो धातुः परं धातुं तद्विधं-क्षीणमेव कुर्यात्|
Adhikarana vRuddhikShayavikArasaMprAptiH, malAyanAni (35-36) · Śloka 36
| दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्||३५|| अधो द्वे, सप्त शिरसि, खानि स्वेदवहानि च| मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः||३६||
🔊 Audio coming soon
स०-दोषा दुष्टा रसैः-मधुरादिभिर्मिथ्यायोगातियोगसेवितैः कुपिताः, धातून् दूषयन्ति| उभये-दोषा धातवश्च, मलान् दूषयन्ति| मला मलायनानि दूषयन्तीति सम्बन्धः| तथा च मुनिः (च. सू. अ. ७|४२) - "मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः|" इति| कानि मलायनानि ? इत्याह-अधो द्वे इत्यादि| अधो द्वे-गुदमेढ्राख्ये, सप्त शिरसि खानि-द्वे अक्षिणी द्वौ कर्णौ द्वौ नासापुटावास्यं चेति, तथा स्वेदवहानि-रोमकूपाख्यानि छिद्राणि सर्वशरीरगतानि, मलायनानि स्युः| अतो-दूषणात्कारणात्, तेषु-मलायनेषु दुष्टेषु, यथास्वं गदाः-रोगाः स्युः| यो यस्य स्वो- यथास्वम्|
Adhikarana ojasaH prAdhAnyam (37-39) · Śloka 39
दोषधातुमलानां समविषमावस्था गदिता| ओजसस्तु निरूपयन्नाह - - - - ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्| हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम्||३७|| स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्| यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति||३८|| निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः| |३९|
🔊 Audio coming soon
स०-रसादीनां धातूनां शुक्रान्तानां यत्परं-उत्कृष्टं, तेजस्तदोजः स्मृतम्, [न तु शुक्रस्यैव मलः|] तथा,हृदयस्थमपि व्यापि| सकलशरीरव्यापिनस्तस्य षड्बिन्दुकस्य विशेषेण हृदयं स्थानम्| तथा, देहस्य स्थितिर्देहस्थितिस्तस्या निबन्धनं-जीविताधिष्ठानमित्यर्थः| अन्ये त्वाहुः, परशब्देनैतत् द्योतयति,-अन्यदप्योजोऽस्ति न तद्धातूनां शुक्रान्तानां तेजः, श्लेष्माख्यमिति| तथा चोक्तं सङ्ग्रहे (सू. अ. १९) - "तेजो यत्सर्वधातूनामोजस्तत् परमुच्यते| मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकम्||" इत्यादि| यन्नाशे-यस्यौजसोऽभावे, नियतं-निश्चितं, प्राणिनो नाशः-अभावः| यस्मिन्नोजसि तिष्ठति-विद्यमाने, तिष्ठति-प्राणिति, देहीति शेषः| यतो-यस्मात्, भावाः-पदार्थाः, निष्पद्यन्ते-जायन्ते| किम्भूताः ? विविधाः-अनेकप्रकाराः| तथा, देहः संश्रयो येषां ते देहसंश्रयाः| लक्षणमोजसो मुनिनाऽभ्यधायि (च. सू. अ. १७|७४) - "हृदि तिष्ठति यच्छुद्धं स्निग्धमीषत्सपीतकम्| ओजः शरीरे सङ्ख्यातं तन्नाशे ना विनश्यति||" इत्यादि|
Adhikarana ojaHkShayalakShaNaM cikitsA (39-41) · Śloka 41
| ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः||३९|| बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः| दुःच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये||४०|| जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्| |४१|
🔊 Audio coming soon
स०-ओजः कोपादिभिः क्षीयेत| तत्क्षये-तस्यौजसः क्षये, बिभेति दुर्बल इत्यादिलक्षणम्| जीवनीयौषधाद्यास्तत्र भेषजम्| जीवनीयौषधानि-जीवन्त्यादीनि दश जीवनसंज्ञानि (हृ. सू. अ. १५|८) तथाऽन्यानि यानि मधुराणि क्षीरादीनि द्रव्याणि| क्षीरस्य जीवनीयत्वेनैव ग्रहणे सिद्धे पृथक्पाठोऽतिशयार्थः, अतिशयेनात्र क्षीरमौषधमिति| रसो-मांसरसः| आदि (द्य)-ग्रहणेन काकाण्डोलात्मगुप्ताघृतादिपरिग्रहः|
Adhikarana ojovRuddhilakShaNam (41) · Śloka 41
| ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः||४१||
🔊 Audio coming soon
स०-ओजोविवृद्धौ सत्यां देहस्य तुष्टिः-प्रहर्षः, पुष्टिः-वृद्धिः, बलं-सामर्थ्यम्, एषामुदयः-सम्यग्वृद्धिर्भवति|
Adhikarana saMkShepeNa vRuddhikShayabheShajakathanam (42) · Śloka 42
इदानीं सङ्क्षेपेण वृद्धिक्षयभेषजं कथयन्नाह - - - - यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु| तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्||४२||
🔊 Audio coming soon
स०-यदन्नं पुरुषो द्वेष्टि-नाभिनन्दति, यदप्यन्नं प्रार्थयेत, तत्तदन्नं द्विष्टं त्यजन्-परिहरन्, इष्टमन्नं समश्नन्-भक्षयन्, दोषाणां सम्बन्धिनौ वृद्धिक्षयौ तौ तौ-यौ यस्य दोषस्यात्मीयौ वृद्धिक्षयौ, तौ तौ जयेत्| ननु, किमविशेषेणैतत् प्रार्थितमश्नन् दोषक्षयं जयेत् ? नेत्याह-अविरोधि तु| तुरवधारणे| अविरोध्येव| तत्तथाविधमन्नमश्नन् दोषाणां क्षयं जयेत्, न तु विरोध्यन्नमश्नन्|
Adhikarana yathArucyupacArasya nAnucitatvam, vAtAdInAM viparItasamAnayo rucikaratvam (43) · Śloka 43
ननु, द्वेष्यान्नत्यागेनेष्टान्नभक्षणेन | च ] कुतो हेतोर्दोषाणां वृद्धिक्षयौ जयेत् ? इत्याह - - - - कुर्वते हि रुचिं दोषा विपरीतसमानयोः| वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न||४३||
🔊 Audio coming soon
स०-हि-यस्मात्, दोषाः-वातादयो, विपरीतसमानयोः रुचिं कुर्वन्ति| किम्भूताः सन्तः ? वृद्धाः क्षीणाश्च, यथाक्रमम्| वृद्धाः-प्रमाणाधिकाः सन्तः, स्वगुणेभ्यो यद्विपरीतगुणमन्नं तेषां क्षपणहेतुः, तद्विषयां रुचिं-प्रीतिमुत्पादयन्ति| भूयिष्ठं-बाहुल्येन| क्षीणाः-स्वप्रमाणापचिताः सन्तो, यत्स्वसमानगुणमाहारजातं तेषां वर्धनहेतुः, तद्विषयां प्रीतिमुत्पादयन्ति| यथा,-वातो वृद्धः स्निग्धाम्लमधुरमन्नमभिलषति|पित्तं वृद्धं शीतमधुररुक्षतिक्तकशायमन्नभिलषति| श्लेष्मा वृद्धो रूक्षोष्णकटुतिक्तकषायमन्नमभिलषति| वातः क्षीणो रूक्षकषायाद्यन्नमभिलषति| पित्तं क्षीणमम्ललवणकटुकमन्नमभिलषति| श्लेष्मा क्षीणः स्निग्धमधुराम्ललवणमन्नमभिलषति| भूयिष्ठमित्यनेन प्रायिकत्वमस्या व्यवस्थाया दर्शयति| तेन दोषगतिवैचित्र्यादन्यथाऽपि क्वचिद्भवति| यथा,-कस्यचिन्नरस्य वातोऽपि क्षीणः स्निग्धमधुराद्यन्नमभिलषति, पित्तमपि वृद्धमम्ललवणाद्यन्नमभिलषति, श्लेष्माऽपि वृद्धो मधुराम्लाद्यन्नमभिलषतीति व्यभिचारात्| अत एवाबुधाः-अपण्डिताः, न लक्षयन्ति-न विदन्ति, यथा-किमय दोषः क्षीण उत वृद्ध इति|
Adhikarana uktayo rucidveShayorupapattiH (44) · Śloka 44
न चानेनैव लक्षणेन वृद्धाः क्षीणाश्च लक्षणीयाः| किं तर्हि ? अन्यदपि लक्षणमस्तीत्याह - - - - यथाबलं यथास्वं च दोषा वृद्धा वितन्वते| रूपाणि, जहति क्षीणाः, समाः स्वं कर्म कुर्वते||४४||
🔊 Audio coming soon
स०-यथाबलं-बलानतिक्रमेण, यथास्वं च-यद्यदात्मीयं यथा, रूपाणि-गुणकर्मलक्षणानि, दोषा वृद्धा वितन्वते-विस्तारयन्ति| क्षीणाश्च बलानतिक्रमेण यथास्वं रूपाणि जहति-त्यजन्ति| यथा,-वायुर्वृद्धो रौक्ष्यशैत्यपारुष्यस्रंसव्यासादीनि विस्तारयति| क्षीणस्तु वायुः पूर्वोक्तानि रौक्ष्यादीनि जहाति, अत एव न व्यञ्जयति| अथ समा दोषाः किं विदधति ? इत्याह-समा इत्यादि| यदा न वृद्धा न च क्षीणाः-समा दोषाः,-स्वप्रमाणस्थाः, तदा स्वं कर्म-उत्साहोच्छ्वासादिकं यथोक्तं कुर्वते| तल्लक्षणत्ते लक्षणीयाः| तदेवं वृद्धक्षीणसमा दोषा वेद्याः|
Adhikarana doShavaiShamyAnutpAdane yatnaH (11) · Śloka 11
क्षीणा दोषाः क्षीणत्वादेवाकिञ्चित्करत्वात् कदाचित्पीडां नोत्पादयन्त्येव, इति विचिन्त्याल्पमतयो वैद्याः क्षीणदोषवर्धनार्थं कदाचिदनादरं कुर्युरित्याह - - - - य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय| यस्मादतस्ते हितचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः||४५|| इति श्रीवैद्यपतिसिंहगुप्तसुनूश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषादिविज्ञानीयो नामैकादशोऽध्यायः||११||
🔊 Audio coming soon
स०-य एव दोषाः समाः सन्तो देहस्य विवृद्ध्यै-वर्धनाय भवन्ति, त एव दोषा विषमाः-स्वप्रमाणादधिका हीना वा सन्तो, वधाय-देहविघाताय स्युः| यस्मादेवं ततस्ते दोषा हितचर्ययैव क्षयात्-हीनत्वाद्रक्षणीयाः| कुत इव ? विवृधेरिव| यथा विवृद्धेः-विशेषेण वर्धनात्ते रक्ष्यन्ते, तथा क्षयादपि रक्षणीया इति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने दोषादिविज्ञानीयाध्याय एकादशः समाप्तः|| ११||