Adhikarana adhyAyopakramaH · Śloka
स०- पूर्वमन्नपानादिद्रव्यैकदेशः प्रायोपयोगवान्निर्दिष्टः, तस्य चाहारविधेर्मात्रा चोपदिष्टा| सम्प्रति द्रव्यरसवीर्यविपाकादयो वाच्याः| अन्नपानं हि रसवीर्यविपाकादीन् परीक्ष्योपयोक्तव्यम्, नान्यथा| तस्मान्मात्राशितीयाध्यायादनन्तरं द्रव्यादिविज्ञानीय आरभ्यते-
Adhikarana dravyAdivij~jAnIyAdhyAyonavamaH (2) · Śloka 2
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
स०-द्रव्यमादिर्येषां ते द्रव्यादयः| आदिशब्देन रसवीर्यादिपरिग्रहः| द्रव्यादीनां विज्ञानं-अवगमः, तस्मै हितः| शेषं पूर्ववत्|
Adhikarana rasAdInAM dravyameva shreShTham (1) · Śloka 1
तत्र द्रव्यस्य रसादिभ्यः प्राङ्निर्देशः, प्राधान्यात्|
प्राधान्यं च स्वयमेव ग्रन्थकृत् प्रतिपादयन्नाह द्रव्यमेव रसादीनां श्रेष्ठं, ते हि तदाश्रयाः|
|१|
स०-रसादीनामिति निर्धारणे षष्ठी| रसवीर्यादीनां मध्ये द्रव्यमेव प्रधानम्| कुतः ? ते-रसादयो, हि-यस्मात्, तदाश्रयाः-तदेव द्रव्यमाश्रयो येषां त एवम्| अत एव केवला रसादयो नोपलभ्यन्ते| तस्मात् द्रव्यं प्रधानम्|
Adhikarana dravyasya pa~jcaBUtAtmakatvam (1) · Śloka 1
|
पञ्चभूतात्मकं तत्तु|१|
स०-तुरवधारणे| यत्तदोश्च नित्याभिसम्बन्धात् यदित्येतदनुक्तमप्यर्थाल्लभ्यते| तेनायमर्थः,-यत् रसादीनामाश्रयभूतं कार्यं द्रव्यं-हरीतक्यादि स्थावरं, छागादि वा जङ्गमं, तत् पञ्चभूतात्मकम्, न तु यत्कारणं द्रव्यमाकाशादि| तस्य हि पञ्चभूतात्मकत्वे सत्याकाशादीनां पृथक्त्वेनात्मलाभो न स्यात्| ततश्चेदमाकाशं नाम महाभूतम्, इदं पृथ्वी नाम महाभूतमिति गदितुं न पार्येत, सर्वस्य पञ्चमहाभूतात्मकत्वात्| न च यत्कारणं तत्कदाचित् कार्यं स्यात्| तस्मात् कार्यद्रव्यस्यैव पञ्चमहाभूतात्मकत्वम्, न कारणद्रव्यस्याऽऽकाशादेः| मुनिस्तु (च. सू. अ. १|४७)- "खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः|" इति नवधा द्रव्यमुक्त्वा तल्लक्षणं व्यधीत| यथा (चरके सू. अ. १|५०)- "यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्| तद्द्रव्यम्" इति| अस्यार्थः,-यत्र कर्म-परिस्पन्दलक्षणं संयोगवियोगकारणम्, समवेतश्च गुणः-यत्र शब्दादयो गुर्वादयो वा| बुद्धिर्वा परादयो वा समवेताः, यच्च कारणं समवायि तद्द्रव्यमुच्यते| समवायीति| यत्कारणमपृथग्भवति तत्समवायिकारणम्| यथा,-तन्तवः पटस्य| एतानि कर्मगुणाश्रयित्वसमवायिकारणत्वानि यद्यपि सर्वाणि सर्वस्मिन् द्रव्ये न विद्यन्ते, तथाऽपि यद्यत्र सम्भवति तत्र तेन तस्य द्रव्यस्य द्रव्यत्वं कल्प्यम्| तद्यथा,-मनसः कर्मगुणाश्रयित्वेन, वाय्वादीनां तु कर्मगुणाश्रियत्वेन समवायिकारण्त्वेन च| ननु, आकाशादीनि कारणद्रव्याणीति कथमुक्तम् ? यावताऽऽकाशस्य द्रव्यत्वमेव नास्तीति केचित्| तान्ब्रूमहे| जलधेरिव प्रत्यक्षेणैवास्य नीलरूपतोपलब्धेरस्तित्वं सिद्धम्| तथा, कवयोऽपि नीलत्वमेवास्य वर्णयन्ति| यथा कर्णाटस्य-"विपुलपुलिना हृद्या नद्यो वहन्त्यतिनिर्मलाः कमलसुभगो वायुर्घ्राणं विलम्बति मांसलः| नवजलधरच्छायावासादिवाचिरनिर्गतो वहति शशभृन्नीलस्निग्धे नभस्यवदातताम्||" इति| तथा च बाणस्य-"धौताशनि नभसि" इति| तदेतद्दूषयन्ति| तथा हि,- दूरात् भ्रान्तिमात्रेणैव नीलरूपत्वमस्योपलभ्यते| यथा-गिरेर्विविधवर्णस्यापि दूरान्नीलत्वप्रतीतिः| यत्कवीनां वर्णनं तत्सादृश्यलेशेन निष्प्रमाणमेव सम्भाव्यते| तथा च तेजसः शुक्लत्वं वर्णयन्ति| न च शुक्लत्वमेतस्योपपद्यते, निराकारत्वात्| तस्मान्नीलरूपत्वमाकाशस्यानुपपन्नम्| अपि च, यद्याकाशस्य नीलरूपता स्यात्, तदा नीलरूपं भवन्नभः| न च स्यात्स्निग्धनीलरूपत्वं नभसः| ननु, दर्शनवैचित्र्यादस्य रूपवत्त्वमुपपन्नम्| यथा,-पुरुषः शरादेरृजुतां दिदृक्षुरेकं चक्षुर्निमील्यापरं चोन्मील्य तामुपलभते, न तु नयनयुगलेन| तद्वत्सन्निकृष्टे गगनरूपस्यानादानम्, विप्रकृष्टे तु ग्रहणं स्यादिति| न चैतद्युक्तम्| यतो रूपवत्त्वेऽभ्युपगम्यमाने स्पर्शवत्त्वमस्य प्रसज्येत, रूपस्य स्पर्शेन नित्यसम्बन्धात्| स्पर्शवत्त्वे च सत्याकाशत्वमेव न स्यात्| अतो न रूपवद्व्योम| अन्ये त्वेवं मन्यन्ते| पवनवदाकाशस्यावस्थाऽस्तु| यथा किल पवनः स्पर्शवान्, न च तस्मिन् रूपं सम्भवति| तथैवाकाशो रूपवान्, न च स्पर्शवानिति| तदिदमनवगतपदार्थस्वरूपाणां विलपनम्| ततो यत्र रूपं तत्रावश्यं स्पर्शः, न तु यत्र स्पर्शस्तत्रावश्यं रूपम्| तस्मान्न नभो रूपवन्न च सत् (स्पर्शवत्)| अत्रोच्यते| परमार्थदर्शिभिर्यदुपादायोत्पत्तिः कथ्यते, तदस्ति| यथा,-पृथिव्यादि| उक्तं च-"अक्षरात् खं ततो वायुस्तस्मात्तेजस्ततो जलम्| उदकात् पृथिवी जाता भूतानामेष सम्भवः||" इति| तस्मादाकाशं द्रव्यमस्ति| अपि च, आकाशमुपदाय यतिवृद्धिप्रसवादिविशेषोपलब्धेराकाशस्यास्तित्वम्| यथा,-रूपोपलब्धिविशेषसम्भवानुमितं चक्षुः| अपि च, आकाशाभावे ह्येकघनत्वं जगतः स्यात्| तथा, शब्दाख्यस्य गुणस्यान्यथाऽनुपपत्त्याऽस्त्याकाशमिति| ननु, वायोर्द्रव्यत्वं नास्ति, तत्स्वरूपग्राहकप्रमाणाभावात्| स्पर्शोपलब्धेर्वायोरस्तित्वमुच्यत इति चेत् तदपि न, यतोऽधुनैवोक्तं खाद्वायुरिति| गगनस्य च स्पर्शाभावात् वायोरप्यस्पर्शवत्त्वम्, कारणगुणपूर्वकत्वात्कार्यस्य| नैतदस्ति| कार्यस्योभयात्मकत्वदर्शनात्| कारणगुणपूर्वकं कार्यं दृष्टमकारणगुणपूर्वकं च दृष्टम्| तत्र कारणगुणपूर्वकं तावद्यथा,-तन्तुश्वेतत्वपूर्वकं पटे श्वेतत्वं दृष्टम्| अकारणगुणपूर्वकं च दृष्टम्, यथा-हरिद्राक्षारसंयोगाद्रक्तता| तस्मादस्पर्शादाकाशादुत्पन्नो वायुः स्यादेव स्पर्शवान्| ननु, एवमप्यग्निजलपृथिवीष्वपि स्पर्शविशेषसम्भवात् अग्न्यादिसमवाय एव वायुर्व्यवह्रियते न तु तद्व्यतिरिक्तो वायुरस्ति| अत्रोच्यते| सत्यमनलादीनामपि स्पर्शोऽस्ति, किन्तु विलक्षण एवासौ| तथा हि,- तेजसः स्पर्शो रूपैकार्थसमवायी| अपां स्पर्शो रूपरसाभ्यां समवेतः| पृथिव्याः स्पर्शो रूपरसगन्धसमवेतः| यस्तु वायोः स्पर्शः, स पत्रचलनशाखाभञ्जनादिकर्मसमवायी| स नैषामग्न्यादीनां दृष्टानां नाप्यदृष्टानामात्मगिक्कालादीनाम्| गुणाश्च सर्वे द्रव्याश्रया दृष्टाः, रूपादय इव पटादिषु| तस्माद्वायोर्विशिष्टस्पर्शवत्त्वादस्तित्वमनुमीयते| तथा, पवनस्य तत्कर्मोपदेशादस्तित्वम्| यस्य तत्त्वदर्शिभिः कर्मोपदिश्यते, तदस्ति| यथा,- कफादिवद्वातस्य च कर्मोपदिष्टम् (हृ.सू.अ. १२|४९)- "स्रंसव्यासव्यधस्वाप" इत्यादि| तस्मादस्ति वायुर्द्रव्यमिति| अग्निर्द्रव्यं नास्ति, इन्धनव्यतिरेकेणानुपलब्धेः| अत्रोच्यते| तत्त्वदर्शिभिरग्नेर्द्रव्योत्पत्तिहेतुत्वेनोपदेशादस्तित्वम्| तथा चेहैव वक्ष्यति (श्लो. ८)- "आग्नेयं दाहभावर्णप्रकाशपचनात्मकम्|" इति| ननु, युक्तश्चतुर्णां पृथिव्यापस्तेजोवायूनां भूतानां सावयवत्वात् द्रव्येषूत्कर्षापकर्षसन्निवेशः, क्वचिद्द्रव्ये कस्यचिद्भूतस्य प्रमाणतः प्रभावतश्चावयवानामुक्तर्षापकर्षसद्भावात्| आकाशस्य तु निरवयवत्वात्सूक्ष्मत्वादेकत्वाच्चोत्कर्षापकर्षसन्निवेशो न युक्तः| युक्तमाह भवान्| किन्तु सावयवानामेव द्रव्याणां येऽवयवाः क्वचित्पाषाणादौ संहतास्तथाऽवतिष्ठन्ते| यथा तत्र द्रव्ये काठिन्यस्य प्रकर्षो भवति| तत्र चाकाशमपकृष्यते| अनिबिडावयवे तु सन्निवेशे आकाशः प्रकृष्यते| तदेवमनया युक्त्याऽऽकाशस्यापि न्यूनाधिकभाव उपपन्नः| अथ केन महाभूतेन कथं कृत्वाऽऽरब्धं तद्द्रव्यमित्याह-
Adhikarana dravyotpattiprakAraH (1-2) · Śloka 2
|
क्ष्मामधिष्ठाय जायते||१||
अम्बुयोन्यग्निपवननभसां समवायतः|
तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा||२||
स०-पृथ्वीमाधारीकृत्वोत्पद्यते| एवं पृथिव्याख्येन भूतेनाऽऽधारत्वेनोपकृत्य तेन तदारब्धं द्रव्यमित्युच्यते| स०-तथा, अम्बु-सलिलं, योनिः-कारणं, यस्य तदम्बुयोनि द्रव्यम्| एवं जलं नाम महाभूतं रसवत्त्वाद्योनितयोपकृत्य तेन तदारब्धमित्युच्यते| [मुनिनाऽप्युक्तम् (च. सू. अ. १|६३)- "रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा| निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः||" इति| अमीषां द्रव्यादीनामाश्रयकर्मणोर्भेदश्चिन्त्यः|] तथा, अग्निपवननभसां समवायात्-अपृथग्भावात्, तस्य-द्रव्यस्य, निवृत्तिः-निष्पत्तिः| तथा, तस्य द्रव्यस्य यो विशेषः-इदमन्यदिदमन्यद्द्रव्यमित्येवंरूपो नानास्वभावः, सोऽप्यग्निपवननभसां समवायात्| एवमग्नि पवननभोभिः समवायिकारणत्वैनोपकृत्य तैरेतद्द्रव्यमारब्धमित्युच्यते| एवं च सर्वं कार्यद्रव्यं पञ्चमहाभूतात्मकम्, पञ्चभिर्महाभूतैरारब्धत्वात्| ननु, यदि पञ्चमहाभूतात्मकं द्रव्यं तत्कथमुच्यते पार्थिवमिदं द्रव्यमिदमाप्यमित्याह- स०-यत्र द्रव्ये यद्भूतं भूयिष्ठमधिकृतम्, तेन तस्य व्यपदेशः-संज्ञा भवति| यथा,-पृथिव्याऽधिकयोत्पादितं द्रव्यं पार्थिवम्| एवमाप्यं तैजसं च वेद्यम्| तदेवं सर्वं द्रव्यं पञ्चभूतात्मकं स्थितम्|
Adhikarana sarvadravyANAM sarvadharmatvam (3) · Śloka 3
तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्|
|३|
स०-तस्माद्भूतसङ्घातसम्भवात् कारणाद्द्रव्यं नैकरसं-अपि त्वनेकरसम्| एवं द्रव्यवद्रसस्यापि भूतसङ्घातसम्भवत्वम्| अत एव प्रतिद्रव्यं मधुरादिरसस्य नानास्वादोपलम्भः| तथा च, द्राक्षाऽक्षोडक्षीरेक्षुक्षौद्रगोक्षुरादौ द्रव्ये सत्यपि माधुर्येऽपरोऽपर आस्वाद उपलभ्यते| एवमम्लानामपि मातुलुङ्गधान्याम्लादीनां द्रव्याणां नानास्वादोपलम्भः| एवं लवणादीनामपि वेद्यम्| अपि चैषां द्राक्षादीनामनेकरसत्वमास्वादविशेषादनुमीयमानं भूयसा रसेनान्यरसाभिभवं कृत्वा व्यपदिश्यते इदं मधुरमिदमम्लाद्यन्यतमम्, महाभूतवत्| यथा,-सर्वं द्रव्यं पञ्चमहाभूतात्मकं भूयसा महाभूतेनान्यमहाभूताभिभवं कृत्वा यथा तेन व्यपदिश्यते पार्थिवमिदमाप्यमिदमिति| ननु, द्रव्यनिर्णये प्रकृते पाञ्चभौतिकं यदेव द्रव्यं प्रतिज्ञातं तदेव "तस्मात्" इत्यादिना निगमग्रन्थेनातिवाहयितुं युक्तम्, न पुनरप्रस्तुतमनेकरसत्वम्| तस्मादत्रैवं ग्रन्थः कर्तुं न्याय्यः-"तस्मान्नैकभूतजं द्रव्यं भूतसङ्घातसम्भवात्|" इति| अत्रोच्यते| षण्णामपि रसानां योनिरुदकम्| ततश्चैकस्यैव महाभूतस्योदकसंज्ञस्य रसकारणत्वं प्राप्तं नान्येषाम्, नीरसत्वात्| इति कृत्वा न भूतसङ्घातसम्भवत्वं रसस्य| इत्येवंविधामाशङ्कामपनिनीषुर्भूतसङ्घातसम्भवत्वं रसस्य चैकेनैव प्रयत्नेन "तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्|" इति जगाद| मुनिश्चात एव रसस्य भूतसङ्घातसम्भवत्वं स्पष्टं कृत्वोवाच| यथा (च. सू. अ. १|६३)- "रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा| निवृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः||" इति| एवं भूतसङ्घातो रसानां द्रव्याश्रितानामपि सम्भवकारणम्| एतच्च रसभेदीये सविस्तरं कथयिष्यामः|
Adhikarana sarvarogANAM sarvadoShajatvam dharmatAratamyam sarvadharmatvaparihAraH (3-4) · Śloka 4
|
नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः||३||
अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते|
|४|
स०-यतः सर्वं द्रव्यमनेकरसम्| ततः-तस्मात्कारणात्, एकदोषा रोगा ज्वरादयो न भवन्ति, अपि त्वनेकदोषाः, त्रिदोषा इत्यर्थः| अत्रापि "व्यपदेशस्तु भूयसा" इत्यध्याहार्यम्| तेन त्रिदोषात्मकेऽपि ज्वरे वाताधिके वातज्वर एवं पित्तज्वरः श्लेष्मज्वर इत्येवंरूपो व्यपदेश उपपन्नः| ननु, यदि सर्वो ज्वरः सन्निपातजः, तत्किमिति वक्ष्यति ? अयं सन्निपातज्वर इति| ब्रूमहे| समविषमरूपं शक्त्युत्कर्षमाश्रित्य यत्र दोषा वर्तन्ते स सन्निपातज्वर इति तन्त्रकृता पुरस्ताद्विस्तरेण प्रतिपादयिष्यते| अथ को रसोऽनुरसो वेत्याह-तत्रेत्यादि| तत्र-तस्मिन् द्रव्ये, यो व्यक्तः-स्फुट उपलभ्यते, स रसः स्मृतस्तन्त्रकृद्भिः| यश्चाव्यक्तो-अस्फुटप्रतिभासो रसनेन्द्रियेणोपलभ्यते, सोऽनुरसः| हीनार्थोऽत्रानुशब्दः, अल्पो रस इत्यर्थः| न चैतावदेवानुरसलक्षणमित्याह-किञ्चिदित्यादि| मुखक्षिप्तस्य हरीतक्यादेर्द्रव्यस्य रसनेन्द्रियेण किञ्चिदन्ते व्यक्तोऽप्युपलभ्यते यः सोऽप्यनुरस इष्यते, मुनिभिरति वाक्यशेषः| अन्ते इत्यनेनैतद्बोधयति,-अन्ते-अवसाने, न त्वादावापातमात्रे न च मध्ये| तयोर्हि रसस्यैवोपलम्भः| अनुशब्दस्यात्र पश्चादर्थत्वात् पश्चात् स्फुटोऽपि किञ्चिद्य उपलभ्यते सोऽप्यनुरस इत्यर्थः| ननु, मधुरादयो रसा गुर्वादिगुणयुक्ताः कथं वक्तुं पार्यन्ते| यतो मधुरादयो रसा गुणा गुर्वादयश्च गुणाः| न च गुणानां मधुरादीनां गुर्वादिगुणाधारत्वमुपपन्नम्| तथा च वैशेषिका:-"निर्गुणा गुणाः" इति| तस्मिन् पर्यनुयोग इदमाह-
Adhikarana dravye gurvAdayo guNAH rase sAhacaryopacArato guNAH (4-5) · Śloka 5
|
गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये||४||
रसेषु व्यपदिश्यन्ते साहचर्योपचारतः|
|५|
स०-पृथिव्यादौ-पृथिव्यादिमहाभूतारब्धे द्रव्ये, रसाश्रये गुर्वादयो गुणाः परमार्थत आश्रिताः, न तु रसेषु मधुरादिषु| यत्तु रसेषु व्यपदिश्यन्ते तत् साहचर्योपचारतः| सह चरतीति सहचरः, तस्य भावः साहचर्यम्| यस्मिन्नेवगुडादौ द्रव्ये मधुरो रस आश्रितस्तस्मिन्नपि गुरुगुण आश्रितः, इति मधुररसगुरुगुणयोः सहचरभावः| साहचर्येण-तुल्याश्रयत्वेनोपचारः साहचर्योपचारः, तस्मात्साहचर्योपचारतो, गुर्वादयो गुणा रसेषु-मधुरादिषु व्यपदिश्यन्ते| यथा,-गुरुर्मधुरो रसो लघुरम्ल इत्यादि| न पुनः परमार्थतो रसेषु गुर्वादयः सन्ति| अस्ति च साहचर्येण व्यपदेशः| यथा-घृतसहचरेण घृतस्थेनाग्निना दग्धो घृतदग्ध इत्युच्यते|
Adhikarana pArthivadravyalakShaNam (5-6) · Śloka 6
|
तत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम्||५||
पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्|
|६|
स०-तत्र-तेषु पार्थिवादिषु पञ्चसु द्रव्येषु मध्ये, पार्थिवं द्रव्यं गुर्वादिगुणोत्कटम्| उल्बणशब्देनैतत् द्योतयति,-पार्थिवे द्रव्येऽन्येऽपि गुणाः सन्ति, सर्वद्रव्याणां पाञ्चभौतिकत्वात्| गुर्वादयस्तत्रोत्कटाः| एवमाप्यादिषु सर्वं योज्यम्| तथा, गौरवाद्यावहं- गुरुत्वादिकृदित्यर्थः|
Adhikarana ApyadravyalakShaNam (6-7) · Śloka 7
|
द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम्||६||
आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत्|
|७|
स०-आप्यं द्रव्यं द्रवादिगुणोल्बणं स्नेहनादिकृत् |
Adhikarana AgneyadravyalakShaNam (7-8) · Śloka 8
|
रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम्||७||
आग्नेयं दाहभावर्णप्रकाशपचनात्मकम्|
|८|
स०-आग्नेयं द्रव्यं रूक्षादिगुणोत्कटं दाहादिकरम्|
Adhikarana vAyavyadravyalakShaNam (8-9) · Śloka 9
|
वायव्यं रूक्षविशदलग़ुस्पर्शगुणोल्बणम्||८||
रौक्ष्यलाग़ववैशद्यविचारग्लानिकारकम्|
|९|
स०-वायव्यं द्रव्यं रूक्षादिगुणोल्बणं रौक्ष्यलाग़वादिकरम्|
Adhikarana nABasadravyalakShaNam (9-10) · Śloka 10
|
नाभसं सूक्ष्मविशदलघुशब्दगुणोल्बणम्||९||
सौषिर्यलाघवकरम्|
|१०|
स०-नाभसं द्रव्यं सूक्ष्मादिगुणोल्बणं सौषिर्यादिकरम्|
Adhikarana sarvadravyamauShadham (10) · Śloka 10
जगत्येवमनौषधम्|
न किञ्चिद्विद्यते द्रव्यं वशान्नानार्थयोगयोः||१०||
स०-एवं-अनेन पञ्चमहाभूतारब्धेन गुर्वादिगुणयोगेन द्रव्याणां, जगति-भुवनेऽस्मिन्, अनौषधभूतं न किञ्चिद् द्रव्यमस्ति,-अपि तु सर्वमेव द्रव्यं यत्सिकतापांस्वादिकं तदौषधं,-चिकित्सितम्| वशान्नानार्थयोगयोः,-अर्थश्च योगश्च-अर्थयोगौ, अर्थः-प्रयोजनम्, योगो-युक्तिः, यथा,-अनया युक्त्यौषधमिदं योजितमस्य रोगस्य विजयाय स्यादनया चास्य रोगस्येति, नानाविधौ यावर्थयोगौ तयोर्वशात्-सामर्थ्यात्, सर्वमपि द्रव्यमौषधम्, रोगप्रतीकारहेतुत्वात्| अथ किं द्रव्यं किम्भूतोत्कटं भवति ? इत्याह-
Adhikarana agnipavanotkaTaM dravyamUrdhvagam bhUmitoyaguNAdhikamadhogAmi (11-12) · Śloka 12
द्रव्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्|
अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम्||११||
इति द्रव्यम् रसान् भेदैरुत्तरत्रोपदेक्ष्यते|
|१२|
स०-ऊर्ध्वं गच्छतीति-ऊर्ध्वगमम्| खप्रकरणे "गमेरप्युपसङ्ख्यानम्" इति खः| प्रायो-बाहुल्येन, ऊर्ध्वगमं द्रव्यमग्निपवनाधिकं भवति| यथा,-मदनफलादि| बाहुल्य (प्रायो) ग्रहणात् अग्निसमीरणोत्कटस्याप्यधोगामित्वं दृष्टम्| यथा,-हरीतक्यादेः, अचिन्त्यप्रभावत्वात्| यथा,-सर्पस्य विषमयत्वेऽपि तत्फणामणेर्विषघ्नत्वम्| भूयिष्ठं-प्रायेण, भूमितोयोल्बणं द्रव्यमधोगामि भवति| यथा,-त्रिवृतादि| यत्तु व्यामिश्रात्मकं तुल्यकालमूर्ध्वाधोदोषहरणं तदिह ग्रन्थगौरवभयान्नोक्तमपि व्यामिश्रभूतोत्कटं द्रव्यं व्यामिश्रात्मकमिति सामर्थ्यलब्ध एवायमर्थः| स०-इति-परिसमाप्तौ, द्रव्यं प्रति यद्वक्तव्यं तन्निष्पन्नमित्यर्थः| एवं द्रव्ये निर्दिष्टे रसा निर्देष्टुं युक्ता इत्याह- स०-बहुवक्तव्यत्वादुत्तरत्र-अनन्तरेऽध्याये, रसान् भेदैः-त्रिषष्टिसङ्ख्यावच्छिन्नैः, उपदेक्ष्यते तन्त्रकृत्| अथ वीर्यस्य विपकादिभ्यः प्राधान्यात्तच्चर्चां प्रस्तौति-
Adhikarana vIryasya carcAprastAvaH (12-13) · Śloka 13
|
वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु||१२||
लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा|
|१३|
स०-द्रव्यमुक्तम्| वीर्यं पुनर्गुर्वादीनष्टौ गुणान् द्रव्याश्रितानिति समाचक्षते| तत्-तस्मात्, एवं-अनेन प्रकारेण, वीर्यमष्टधा-अष्टप्रकारं, गुर्वादिवादिनां मतम्|
Adhikarana carakamate sarvaM vIryavadeva (13-14) · Śloka 14
चरकाचार्यः पुनरेवं वक्ति |
चरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया||१३||
नावीर्यं कुरुते किञ्चित्सर्वा वीर्यकृता हि सा|
|१४|
स०-येन-स्वभावेन, या क्रिया क्रियते-यत्कर्म निष्पाद्यते, तद्वीर्यम्| तदेवं यावत् किञ्चिद्गुणजातं द्रव्ये स्थितं तत्सर्वं वीर्यमेव| सर्वं करोतीत्यत एवाह-नावीर्यमित्यादि| यन्न वीर्यं तन्न किञ्चित्करोति-न काञ्चिदप्यर्थक्रियां निष्पादयति, प्रतिनियतशक्तिपरिष्वक्तत्वात् सर्वभावानाम्| अत एवाह-सर्वेत्यादि| हिशब्दो यस्मादर्थे| यस्मात्सर्वा क्रिया वीर्यकृता-वीर्येण जनिता| ततो यन्न वीर्यं तन्न किञ्चित्कुरुते|
Adhikarana gurvAdiShvevAShTasu vIryAkhyA (14-15) · Śloka 15
|
गुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते||१४||
समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु|
व्यवहाराय मुख्यत्वाद्बह्वग्रग्रहणादपि||१५||
स०-यतो वीर्यस्यैव करणसामर्थ्यं तेन कारणेन गुर्वादिष्वेवाष्टासु वीर्याख्या अन्वर्थेति-अनुगतार्थेति, भण्यते| एवकारोऽवधारणार्थः| गुर्वादिष्वेव वीर्यसंज्ञा न तु रसविपाकप्रभावेषु [मन्दसान्द्रादिषु वा]| किम्भूतेषु गुर्वादिषु ? समग्रेत्यादि| समग्राश्च ते गुणाश्च, तेषु साराः-चिरकालावस्थितयो गुर्वादय एव| तथा च, जाठराग्निसंयोगेनापि न मधुरादिरसवत् स्वभावमेते जहति| सर्तेः सुस्थिर इति घञि सारशब्दः| तथा, अन्येभ्यो मन्दसान्द्रादिभ्यो गुणेभ्यो रसादिभ्यो वा गुर्वादयः शक्त्युत्कर्षविवर्तिनः| शक्तेः-सामर्थ्यस्य, उत्कर्षः-आधिक्यम्, विशेषेण वर्तो-विवर्तः,-विशेषेण भवनम्, शक्त्युत्कर्षस्य विवर्तः, स विद्यते येषां त एवम्| किञ्च, गुर्वादीनां गुणानां व्यवहाराय-व्यवहारार्थम्, मुख्यत्वात्-अन्येभ्यो गुणेभ्यो गुर्वादयः प्रधानभूता इत्यर्थः| तथा च, (श्लो. ४)-"गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये|" इत्युक्तम्, न मधुरादयो गुणा इति| तस्मात् गुर्वादीनां गुणानां व्यवहारमुख्यत्वं रसादिभ्यः| तथा, बह्वग्रग्रहणात्-बहुग्रहणादग्रग्रहणाच्च, बहवो द्रव्यरसादयो गुर्वादिभिर्गृहीता भवन्ति| तथा चायुर्वेदशास्त्रेषु रसादिभ्यो गुर्वादीनामग्रे ग्रहणं दृष्टम्| यथा,-वातादिदोषगुणनिरूपणायां गुर्वादीनामेव पूर्वं ग्रहणम्, न रसादीनाम्| तथा च, "तत्र रूक्षो लघुः" इत्याचार्योऽपठद्वाय्वादिलक्षणे (हृ. सू. अ. १|११)| एवं गुर्वादीनामेवाग्रग्रहणात् गुर्वादिष्वेव वीर्याख्याऽन्वर्था-अनुगतार्थेति भण्यते|
Adhikarana rasAdInAM viryatvABAvaH (16) · Śloka 16
अतश्च विपरीतत्वात्सम्भवत्यपि नैव सा|
विवक्ष्यते रसाद्येषु, वीर्यं गुर्वादयो ह्यतः||१६||
स०-अतः-अस्माच्च कारणकदम्बकात्, विपरीतत्वात्-वैपरित्येन स्थितत्वात्, न रसादयो वीर्यम्| तथा हि,-रसस्य सारत्वं नास्ति, जाठरानलसंयोगवशेन रसान्तरोत्पत्तेः| गुर्वादीनां तु जाठराग्निसंयोगवशेनापि नान्यथाभावः| तथा च न रसस्य शक्त्युत्कर्षविवर्तित्वम्,-यतो रसस्य गुर्वाद्याहितशक्तेरेव स्वकर्मणि सामर्थ्यम्| व्यवहाराय यथा गुर्वादेर्मुख्यत्वं यथा च बह्वग्रग्रहणं तथा प्राग्दर्शितम्| प्रभावः-सर्वातिशायि द्रव्यस्वभावः, तस्य च क्रियानिर्वर्तनसामान्ये सत्यपि वीर्यसंज्ञा पूर्वोक्ताद्धेतोर्न प्रवर्तते| एवं विपाककर्मणोरपि चिन्त्यम्| तस्मात् रसाद्येषु सम्भवत्यपि-विद्यमानाऽपि, असद्रूपेव सा वीर्यसंज्ञा न विवक्ष्यते-नोररीक्रियते| आदौ भवः-आद्यः| दिगादित्वाद्यत्| रस आद्यो येषां-प्रभावादीनां, त एवं तेषु| वीर्यमित्यादि| हिशब्दो यस्मादर्थे| यत एवं सा-वीर्यसंज्ञा, सम्भवत्यपि रसादिषु वैपरीत्यान्न विवक्ष्यते, अतो गुर्वादय एव वीर्यम्, न रसादयः |
Adhikarana dvidhaiva vIryam (17) · Śloka 17
उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षते|
|१७|
स०-अन्य आचार्या उष्णं शीतमिति द्विप्रकारं वीर्यमाचक्षते| एवकारोऽवधारणार्थः| द्विधैव वीर्यम्, नाष्टधेति|
Adhikarana tatropapattiH (17-18) · Śloka 18
अपि च|
नानात्मकमपि द्रव्यमग्निषोमौ महाबलौ||१७||
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्|
|१८|
स०-अपि चेति निपातसमुदायो युक्तिसमुच्चये| तेऽपि सयुक्तिकमेवाहुरित्यर्थः| तामेव युक्तिं दर्शयन्नाह-नानात्मकमपीत्यादि| नानास्वभावमपि द्रव्यं-स्थावरजङ्गमाद्यं चेतनाचेतनम्, अग्नीषोमौ महाबलौ-उत्कृष्टशक्ती, न जातु कदाचिदतिक्रामति-नोल्लङ्घ्य वर्तते| अवश्यं हि द्रव्यं किञ्चिदाग्नेयं किञ्चित्सौम्यम्, अतः किञ्चिद्द्रव्यमुष्णवीर्यं किञ्चिच्छीतवीर्यम्| तथा च मुनिः (च. सू. अ. २६|८४)- "न मत्स्यान् पयसा सहाभ्यवह्रियात्| उभयं ह्येतन्मधुरं मधुरविपाकं शीतोष्णत्वात् विरुद्धवीर्यम्, विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय|" इति| अत्र दृष्टान्तमाह-व्यक्ताव्यक्तमित्यादि| व्यक्तं चाव्यक्तं च व्यक्ताव्यक्तम्, नानात्मकमपि जगत्-त्रैलोक्यं कर्तृ यथा व्यक्तं चाव्यक्तं च नातिक्रामति, तथा द्रव्यमग्नीषोमावित्यर्थः| व्यक्तं-स्थूलम्, दृश्यमित्यर्थः| साङ्ख्यानां तु महदादि-व्यक्तम्, अव्यक्तं-प्रधानं पुरुषश्च|
Adhikarana uShNavIryalakShaNam shItavIryalakShaNam (18-19) · Śloka 19
|
तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकिताः||१८||
शमं च वातकफयोः करोति, शिशिरं पुनः|
ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः||१९||
स०-तत्र-तयोरुष्णशीतयोर्मध्ये, उष्णं-उष्णवीर्यं, भ्रमादीन् करोति| आशुपाकितां-शीघ्रपाकित्वम्| शिशिरं पुनः-शीतवीर्यं तु, ह्लादनादीन् करोति|
Adhikarana vipAkasya lakShaNam (20) · Śloka 20
वीर्यादनन्तरं विपाकं लक्षयति जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्|
रसानां परिणामान्ते स विपाक इति स्मृतः||२०||
स०-जाठरेण-औदर्येण, अग्निना योगात्-संश्लेषात्, यत् रसानां परिणामान्ते-जरणनिष्ठाकाले, रसान्तरं-रसविशेषः, उदेति-उपद्यते, स विपाक इति स्मृतो-मुनिभिः कथितः|
Adhikarana vipAkatraividhyam (21) · Śloka 21
स्वादुः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः|
तिक्तोषणकषायाणां विपाकः प्रायशः कटुः||२१||
स०-स्वादुः-मधुरो गुडादिः, पटुः-लवणः सैन्धवादिः, मधुरं [ यथा भवति तथा ] कृत्वा पच्यते रस इति सम्बन्धः| मधुरमिति क्रियाविशेषणत्वान्नपुंसकलिङ्गम्| स्वादुःस्वादुविपाको, लवणोऽपि स्वादुविपाक इत्यर्थः| अम्लो रसो-दधिकाञ्चिकादिः, अम्लं पच्यते-अम्लविपाको भवति| तिक्तोषणकषायाणां प्रायशः कटुर्विपाको भवति| प्रायशोग्रहणं पूर्वत्रापि योजनीयम्| तेन व्रीहिस्थो मधुरो रसोऽम्लं पच्यत इत्युपपन्नम्| तथा चोक्तम् (हृ. सू. अ. ६|१०)- "स्वादुरम्लविपाकोऽन्यो व्रीहिः" इति| तथा, हरीतक्या भूयस्त्वेन यः कषायो रसः, स मधुरमेव पच्यते| तथा, कटुको रसः शुण्ठ्यार्द्रकपिप्पल्यादिस्थो मधुरं पच्यते| तथा चोक्तम् (हृ. सू. अ. ६|१५३)- "कषाया मधुरा पाके" इति| तथा (हृ. सू. अ. ६|१६३)- नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्| रुच्यं लघु स्वादुपाकं " इति, "तद्वदार्दकम्" इति| तथा (हृ. सू. अ. ६|१६१)- "श्लेष्मला स्वादुशीतार्द्रा" इत्यारम्भ यावत् "स्वादुपाका" इति| अत्र केचिदाहुः,-तिक्तकषाययोरेव कटुविपाकतया पित्तकर्तृत्वमापद्यत इति| तदेतदसत्| शीतवीर्यत्वेनैतयोः पित्तहर्तृत्वात्| वीर्यं हि रसविपाकौ विजयते| वक्ष्यति हि (श्लो. २५)- "रसं विपाकस्तौ वीर्यम्" इति|
Adhikarana trayANAM pAkAnAM lakShaNam (22-23) · Śloka 23
रसैरसौ तुल्यफलस्तत्र द्रव्यं शुभाशुभम्|
किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्||२२||
गुणान्तरेण वीर्येण प्रभावेणैव किञ्चिन|
|२३|
स०-रसैः-जिह्वावैषयिकैर्मधुराम्लकटुकैः, विपाककालोपलभ्यो मधुराम्लकटुकलक्षणो यो रसो भवति-असौ, तुल्यफलः,-तुल्यं-सदृशं, फलं यस्य स तुल्यफलः| एतदुक्तं भवति,-अभ्यवहृतस्य मधुररसस्य जाठराग्निसंयोगवशात् यत् रसान्तरं फलतया निष्पन्नं तत् रसैः सदृशफलम्| फलग्रहणेनैतत्प्रतिपादयति,-फलोपममेव वृष्यादिलक्षणं कार्यसदृशम्, न तु कुसुमोपमं देहाह्लादनादिलक्षणं कार्यमिति| एवमम्लादीनामपि व्याख्येयम्| तत्रेत्यादि| तत्र-तेषु रसवीर्यविपाकादिषु मध्ये, द्रव्यं किञ्चिच्छुभाशुभं-सदसत्कर्म, रसेन कुरुते| यथा,-मधु मधुरकषायरसत्वेन पित्तं शमयति| किञ्चिद्विपाकेन| यथा,-तदेव मधु कटुविपाकतया कफं हन्ति| किञ्चिन्न द्रव्यं गुणान्तरेण,-अन्योन्यगुणविकृतत्वात् रसविपाकतो यः स गुणान्तरो गुर्वादिः, तेन| यथा,-अम्लं काञ्जिकं कफं शमयति रौक्ष्यात्| किञ्चिन वीर्येण| यथा (सङ्ग्रहे सू. अ. १७)- "कषायतिक्तं महत्पञ्चमूलं वातं जयति, न तु पित्तमुष्णवीर्यत्वात्|" किञ्चिन द्रव्यं प्रभावेणैव शुभाशुभं कर्म कुरुते| यथा,-अम्लोष्णा सुरा क्षीरं वर्धयति| ननु, यत्र द्रव्याश्रितानां रसादीनां विरोधः, तत्रैषां कार्यनिष्पत्तौ समशक्तित्वं न वा ? इत्याशङ्कानिवृत्त्यर्थमाह-
Adhikarana dravyadInAM pRuthak prayojanatvaM (23-24) · Śloka 24
|
यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते||२३||
अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यते|
विरुद्धगुणसंयोगे भूयसाऽल्पं हि जीयते||२४||
स०-रसादीनां-रसवीर्यविपाकप्रभावानां मध्ये, यत्-रसादिवस्तु,-रसो वा वीर्यं वा विपाको वा प्रभावो वा, बलवत्त्वेन-बलिष्ठतया, द्रव्ये वर्तते-अवतिष्ठते, तत्-वस्तुजातम्, इतरान्-अबलिष्ठान्, अभिभूय-विफलीकृत्य, कारणत्वं प्रपद्यते,-कर्मकरणे कारणतामासादयतीत्यर्थः| अत इदमाह-विरुद्धेत्यादि| हि-यस्मात्, विरुद्धगुणसंयोगे-संहतीभावे सति, यदल्पं वस्तु तत् भूयसा-बलवता, जीयते-अभिभूयते| गुणशब्देन चात्र रसादयो गृह्यन्ते, न पारिभाशिका गुर्वादयोऽप्रकृतत्वात्| विरुद्धगुणसंयोग इत्यत्र विरुद्धगुणसमवेतद्रव्यसंयोग इति बोध्यम्, न विरुद्धगुणसंयोग इति| न हि गुणानां संयोगो वक्तुं युज्यते, किं तर्हि ? द्रव्याणाम्| तथा च मुनिः (च. वि. अ. १|२८)- "संयोगस्तु द्वयोर्बहूनां वा द्रव्याणां संहतीभावः|" इति| विरोधश्च द्विविधः,-स्वरूपतः कार्यतश्च| स्वरूपविरोधो यथा,-गुरुलघ्वोः शीतोष्णयोश्च| कार्यतो यथा,-वायौ जेतव्ये रूक्षोष्णद्रव्यसंयोगोपयोगः| अत्र हि यो गुणानां विरोधः, स कार्येण| तत्र यदल्पं वस्तुजातं तत् भूयसा वस्तुजातेनाभिभूयते| तत्र यथा,-क्षीरं शीतवीर्यमपि मधुररसहेतुकस्नेहगौरवादिभिः सहायबाहुल्याद्वातशमनाख्यं कार्यं करोति, न पुनः स्वकार्यं वातप्रकोपाख्यम्| यत्र तु द्रव्ये रसादीनामुत्कर्षासम्भवः परस्परं साम्यम्, तत्र कस्य कार्यकारणत्वम् ? इत्याह-
Adhikarana rasAdInAM sAmye svABAvikam balam (25) · Śloka 25
रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति|
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्||२५||
स०-रसं-मधुरादिषड्विधम्, विपाकः कर्ता अपोहति-कार्यकरणे कुण्ठयति| यथा,-मधुरो मधुनि रसः कटुना विपाकेनाभिभूयते, अत एव पवनशमनाख्यं कार्यं मधुररसहेतुकं न करोति, अपि तु वातप्रकोपनाख्यं कटुविपाकहेतुकमेव करोति| तौ-रसविपाकौ, वीर्यं कर्तृभूतमपोहति| यथा,-महिषामिषे स्थितौ मधुररसविपाकावुष्णवीर्याख्यं कर्तृ अभिभवति, अत एव तन्मांसं पित्तादिदूषणम्, अन्यथा स्वादुरसविपाकित्वात् पित्तशमकमेव स्यात्| प्रभावस्तु त्रीण्यपि रसादीनि विजयते| यथा,-अम्लरसविपाकोष्णवीर्या सुरा क्षीरं जनयति| बलसाम्ये इति-ईदृशम्, रसादीनां नैसर्गिकं बलं,-स्वाभाविकी शक्तिः| एतदुक्तं भवति,-रसं समबलमपि विपाकोऽपोहति, रसविपाकौ च समबलावपि वीर्यं स्वभावादपोहति, एतानि च समबलान्यपि प्रभावोऽपोहतीति| ननु, द्रव्यरसविपाकवीर्याणि कर्मानुमानेन यथास्वरूपाण्येवावगच्छामः| प्रभावस्य तु न ज्ञायते कीदृशं कर्म ? इत्यत आह-
Adhikarana praBAvasya lakShaNam (26) · Śloka 26
रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्|
|२६|
स०-द्वयोर्द्रव्ययो रसादीनां-रसवीर्यविपाकानां साम्ये सति, यदेकं द्रव्यमन्यत्कर्म कुरुते, अन्यत्पुनरन्यद्विशिष्टं कर्म, तत् प्रभावजं-प्रभावाज्जातमिति ज्ञेयम्| अयमस्य द्रव्यस्य प्रभाव इति विशिष्टकर्मकरणान्निश्चीयत इत्यर्थः| ननु, प्रभावः क उच्यते ? इति चेत् ब्रूमः| रसवीर्यविपाकादिगुणातिशायी द्रव्यस्य स्वभावो यः, स प्रभावः| उक्तं च-"रसवीर्यविपाकादिगुणातिशयवानलम्| द्रव्यस्वभावो निर्दिष्टो यः प्रभावः स कीर्तितः||" इति| अत्र निदर्शनार्थमाह-
Adhikarana praBavodAharaNam (26-27) · Śloka 27
|
दन्ती रसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी||२६||
मधुकस्य च मृद्वीका, घृतं क्षीरस्य दीपनम्|
|२७|
स०-चित्रकस्य रसवीर्यविपाकैस्तुल्याऽपि दन्ति रसादिभ्योऽतिशायिद्रव्यस्वभावयोगाद्विरेचनी, न चित्रकः, चित्रकत्वात्| मधुकस्य च मृद्वीका तुल्याऽपि रसादिभ्योऽतिशायिद्रव्यस्वभावयोगात् मृद्वीका विरेचनी, न मधुकम्| घृतं क्षीरस्य रसादिभिस्तुल्यमपि घृतं दीपनम्, न पुनः क्षीरम्| अन्ये प्रभावलक्षणमन्यथाऽऽह-प्रतिवस्तु स्वसंज्ञाप्रवृत्तिनिमित्तलक्षणो यो धर्मस्त्वतलादिप्रत्ययप्रतीतिसमधिगम्यः स प्रभावः| तन्त्रान्तरे चोक्तम्-"वस्तूनां यः स्वसंज्ञायाः प्रवृत्तौ कारणे स्मृतः| त्वतलादिप्रबोध्यश्च प्रभाव इति स स्मृतः||" इति| एवं च दन्तीत्वाद्दन्त्या विरेचनकारित्वं प्रभावः, चित्रकस्य चित्रकत्वादविरेचनकारित्वं प्रभावः, एवं मृद्वीकात्वान्मृद्वीकाया विरेचनकारित्वं प्रभावः, इत्यादि सकलपदार्थेषु बोध्यम्| सामान्यविशेषाभ्यां यतः सकलं व्याप्तम्, अतो ग्रन्थकार इदमाह-
Adhikarana dravyabhedena karmaNo bhedaH (27-28) · Śloka 28
|
इति सामान्यतः कर्म द्रव्यादीनां, पुनश्च तत्||२७||
विचित्रप्रत्ययारब्धद्रव्यभेदेन भिद्यते|
|२८|
स०-इति-प्रकारे, अनेन प्रकारेण द्रव्यरसवीर्यादीनां सामान्येन कर्म व्याख्यातम्, न विशेषेण| यैरेव महाभूतै रसवीर्यादयो द्रव्याश्रिता आरब्धाः, तैरेव तथाभूतैस्तदाश्रयमपि द्रव्यम्| अतः सामान्यतः कर्म द्रव्यादीनामुक्तम्| साम्प्रतं विशिष्टं कर्म प्रतिद्रव्यं वक्तुमिदमाह-पुनश्च तदिति| तत्-सामान्योक्तं कर्म द्रव्यरसादीनां सम्बन्धि, पुनर्भिद्यते-विशिष्यते| केन ? इत्याह-विचित्रेत्यादि| विचित्राश्च ते प्रत्ययाश्च विचित्रप्रत्ययाः,-नानाकारसन्निवेशविशेषयुक्तानि महाभूतानि, प्रतिसत्त्वं प्राक्तनशुभाशुभकर्मप्रेरितो विचित्रो महाभूतपरिणाम इत्यर्थः| विचित्रप्रत्ययारब्धं च तद्द्रव्यं च, तस्य भेदो-विशेषः, तेन विचित्रप्रत्ययारब्धद्रव्यभेदेन, तत्-सामान्योक्तं कर्म द्रव्यादीनां, भिद्यते-नानात्वेन सम्पद्यते| द्रव्याश्रितत्वाद्रसादीनामपि यत्कर्म तदपि द्रव्यभेदेन भिद्यते| ननु, सर्वमपि देशकालादिवशाद्विचित्रप्रत्ययारब्धम्, परस्परवैलक्षण्याद्द्रव्याणाम्| परस्परवैलक्षण्ये चैषां विचित्रप्रत्ययारब्धत्वमेव कारणम्| यद्वशादन्यदिदं द्रव्यमिति रूपरसवीर्यविपाकादिभिन्नमुत्पद्यते, तथा प्रतिभासते च| तत्किन्नु ? "विचित्रप्रत्ययारब्धद्रव्यभेदेन भिद्यते|" इति| अत्राचक्ष्महे| सत्यमेतत्, किन्तु विशिष्टद्रव्यस्य सङ्ग्रहार्थं विचित्रप्रत्ययारब्धमिति विशेषणं शास्त्रकृता कृतम्| यस्य भेदेन द्रव्ये रसवीर्यादीनां यत्सामान्योक्तं कर्म तद्भिद्यते| यस्मिन् द्रव्ये रसादीनामन्यानि महाभूतान्यारम्भकाणि द्रव्यस्य चारम्भकाण्यपराणि, तद्द्रव्यं विचित्रप्रत्ययारब्धम्| तदेवं द्रव्याणां द्वैविध्यम्| यतः कानिचिद्द्रव्याणि यैरेव महाभूतैर्यथाविधै रसादय आरब्धाः, तैरेव तथाविधैर्महाभूतैस्तदाश्रयाण्यपि द्रव्याण्यारब्धानि| तानि रसादिसमानप्रत्ययारब्धान्युच्यन्ते| तानि च यथायथं तत्कर्म रसाद्यनुगुणं सामान्यात् कुर्वते| यथा,-क्षीरेक्षुशर्करादीनि| कानिचित्पुनस्तदाश्रितरसादिसमारम्भकमहाभूतान्यन्यानि तदाश्रयद्रव्यारम्भकाण्यन्यानि च महाभूतानि, तैरारब्धानि तानि विचित्रप्रत्ययारब्धानि द्रव्याणि| एतदुक्तं भवति,-रसादीनामारम्भकाण्यन्यानि द्रव्यस्य चारम्भकाण्यन्यथाभूतानि महाभूतानि, नोभयत्रैकरूपाणीति| तानि च यथायथं रसाद्यनुगुणं कर्म न कुर्वन्ति, भिन्नत्वाद्धेतुभावस्य| तथा हि,-रसादीनामारम्भेऽन्यो हेतुरन्यश्च तदाश्रयद्रव्यारम्भ इति| यथा,-मकुष्ठयवमत्स्यसिंहादीनि| एतानि हि यथारसं न वीर्यविपाककर्म कुर्वन्ति, विचित्रप्रत्ययारब्धत्वात्| इत्थं यानि रसादिसमानप्रत्ययारब्धानि द्रव्याणि बहून्यपि तेषां रसोपदेशेन कर्म निर्देष्टुं शक्यते| अत एव हेतोः षण्णां रसानां यो गुणनिर्देशः, तस्य सार्थकत्वम्| रसोपदेशमन्तरेण हि बहुतराणां द्रव्याणां समानरूपाणां क्षीरेक्ष्वादीनां कर्म वक्तुं सुखेन शक्यते| यानि तु विचित्रप्रत्ययारब्धानि द्रव्याणि तेषां प्रतिद्रव्यं कर्मोपदेशं विना यथायथं कर्म वक्तुं न शक्यते|
Adhikarana udAharaNArthaM granthakRudvacaH (9) · Śloka 1
एतदुदाहरणार्थं ग्रन्थकृदाह स्वादुर्गुरुश्च गोधूमो वातजिद्वातकृद्यवः||२८||
उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः|
२८१/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रव्यादिविज्ञानीयो नाम नवमोऽध्यायः||१||
स०-स्वादुरसोपेतो गुरुगुणयुक्तक्तश्च गोधूमो मधुररसोपदिष्टं वातजित्त्वं यत् कर्म तत् करोति, समानप्रत्ययारब्धत्वात्| यवस्तु स्वादुरसोपेतो गुरुगुणयुक्तक्तश्च गोधूमो मधुररसोपदिष्टं यद्वातजित्त्वं कर्म तन्न करोति, अपि तु वातकृत्त्वमेव करोति, विचित्रप्रत्ययारब्धत्वात्| मत्स्यः स्वादुरसोपेतो गुरुगुणोपेतश्च न मधुररसोपदिष्टः शीतवीर्यः, किं तर्हि ? उष्णवीर्यः, विचित्रप्रत्ययारब्धत्वात्| क्षीरं च स्वादुरसोपेतं गुरुगुणयुक्तं च मधुररसोपदिष्टं शीतवीर्यम्, समानप्रत्ययारब्धत्वात्| स्वादुरसयुक्तो गुरुगुणयुक्तश्च सिंहो न यथारसं मधुरविपाकः, किं तर्हि ? कटुको विपाके, विचित्रप्रत्ययारब्धत्वात्| शूकरो मधुररसयुक्तो गुरुगुणोपेतश्च यथारसं मधुरविपाक एव, समानप्रत्ययारब्धत्वात्| एवं यानि समानप्रत्ययारब्धानि द्रव्याणि तेषां रसोपदेशेनैव गुणा निर्दिष्टा भवन्ति| तथा च मुनिः (च. सू. अ. २३|४८)- "शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः| तयोरम्लं यदुष्णं च यच्चोक्तं कटुकं तयोः|| तेषां रसोपदेशेन निर्दिष्टो गुणसङ्ग्रहः| वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते|| यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ| एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक्||" इति| बाहुल्येन च रसादिसमानप्रत्ययारब्धान्येव द्रव्याणीति चेतसि कृत्वाऽऽचार्योऽवोचत्| यथा (श्लो.४)- "गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये| रसेषु व्यपदिश्यन्ते साहचर्योपचारतः||" इति| अत एव च बहुतराणि द्रव्याणि रसादिसमानप्रत्ययारब्धानि, अतो रसोपदेशव्याप्त्या तानि निर्देष्टुं शक्यन्ते, नान्यथा| विचित्रप्रत्ययारब्धानि पुनः कतिपयान्येव द्रव्याणि, तानि प्रतिद्रव्यमेवोपदिश्यन्ते| मुनिनाऽप्ययमर्थो युक्त्यवोक्तः| यथा (च. सू. अ. २३|५९)- "मधुरं किञ्चिदुष्णं स्यात्कषायं तिक्तमेव च| यथा महत्पञ्चमूलं यथा चानूपमामिषम्|| लवणं सैन्धवं नोष्णमम्लमामलकं यथा| अर्कगुरुगुडूचीनां तिक्तानां चोष्णमुच्यते|| किञ्चिदम्लरसं ग्राहि किञ्चिदम्ल भिनत्ति च| यथा कपित्थं सङ्ग्राहि भेदि चामलकं यथा|| पिप्पलीनागरं वृष्यं कटु चावृष्यमुच्यते| कषायः स्तम्भनः शीतः सोऽभयाया मतोऽन्यथा| तस्माद्रसोपदेशेन न सर्वं द्रव्यमादिशेत्|" इति| ये च रससंयोगा वक्ष्यमाणास्ते रसादिसमानप्रत्ययारब्धैर्मधुराम्ललवणतिक्तकटुकषायरूपैर्मिथः कल्पनीयाः, न तु विचित्रप्रत्ययारब्धैर्मधुराम्ललवणतिक्तकटुकषायरूपैः| यस्मात्तेषां न यथाशास्त्रनिरूपिता रसवीर्यविपाकादयो विद्यन्ते, विचित्रप्रत्ययारब्धवात्| [अतो रसोपदेशव्याप्त्या तैर्द्रव्यैस्ते रससंयोगाः कल्पयितुं न युज्यन्ते|] अयं रससंयोगभेद एवंगुणोऽयमेवंगुणः, एवंगुणत्वाच्चामुष्मिन्विषये योज्य एतस्मिन्विषये चायमिति निर्देष्टुं न शक्यते, अनिर्ज्ञातस्वरूपत्वात्| न हि विचित्रप्रत्ययारब्धैर्ये रससंयोगाः क्रियन्ते, तेषां स्वरूपं कथमप्यवधारयितुं शक्यते| अपि च, समानप्रत्ययारब्धैर्ये संयोगाः कल्प्यन्ते, तेषां संयोगिनां वीर्यति यो विरोधः शीतोष्णलक्षणः, स न दोषाय| ये तु विचित्रप्रत्ययारब्धैः संयोगाः कल्प्यन्ते, तेषां संयोगिनां यः शीतोष्णलक्षणो विरोधः, स दोषायेति वेद्यम्| अन्यथा रसालापानकादीनामनेकद्रव्यकृतानामनभ्यवहार एव प्राप्नुयात्| तथा, त्रयस्त्रिंशद्वर्गा ये वक्ष्यमाणास्तेषु यदयौगिकं तज्जह्यात् यौगिकं त्वनुक्तमपि युञ्ज्यादिति यद्वक्ष्यते तत्र रसादिसमानप्रत्ययारब्धमेव योज्यम्, न विचित्रप्रत्ययारब्धम्| तस्य रसवीर्यविपाकानां निश्चयस्य कर्तुमशक्यत्वात्| तस्मादित्यादि| यत एवं विचित्रप्रत्ययारब्धं विचित्ररूपम्, तस्माद्रसोपदेशेन न तत्सर्वं द्रव्यमादिशेत्, अपि तु रसादिसमानप्रत्ययारब्धमेव द्रव्यं रसोपदेशेन निर्दिशेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने द्रव्यादिविज्ञानीयाध्यायो नवमः समाप्तः|| ९||