Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

28. śalyāharaṇavidhiradhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

शिराव्यधविधेरनन्तरं शल्याहरणविधिरारभ्यते| यतः सिराव्यधविध्यध्याये शल्यरूपस्य रक्तस्य सकलकायव्यापिनः सिराव्यधोपायेन निर्हरणमुक्तम्| इदानीं प्रादेशिकस्य लोहादेः शल्यस्य प्रतिदेशस्थितस्य लक्षणं निर्हरणोपायादिश्चास्मिन्नध्याये शल्याहरणविधौ निर्दिश्यत इत्याह-

Adhikarana shalyAharaNavidhiradhyAyaH shalyagatiBedAH (2-1) · Śloka 1

अथातः शल्याहरणविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| वक्रर्जुतिर्यगूर्ध्वाधः शल्यानां पञ्चधा गतिः| |१|

🔊 Audio coming soon

स०-वक्रादिभेदभिन्ना शल्यानां पञ्चप्रकारा गतिः-गमनम्| कदाचिच्छल्यानि वक्रं कृत्वा, तिर्यग्वा ऊर्ध्वं वा, अधो वा, गच्छन्तिः कदाचिदृजु कृत्वा| एवमुभयथा तिर्यगूर्ध्वाधोभेदगमनाच्छल्यानां पञ्चधा गतिः|

Adhikarana antaHshalyasya lakShaNam (1-2) · Śloka 2

| ध्यामं शोफरुजावन्तं स्रवन्तं शोणितं मुहुः||१|| अभ्युद्गतं बुद्बुधवत्पिटिकोपचितं व्रणम्| मृदुमांसं च जानीयादन्तःशल्यं समासतः||२||

🔊 Audio coming soon

स०-एवंविधं व्रणमन्तःशल्यं जानीयात्| समासतःसङ्क्षेपेण| ध्यामं-श्यामवर्णम्| तथा, शोफरुजावन्तम्| तथा, मुहुः शोणितं स्रवन्तम्| तथा, अभ्युद्गतं-आभिमुख्येनोच्छ्रितमुन्नतम्| तथा, बुद्बुदेन तुल्यं वर्तते बुद्बुदवत्| तथा, पिटकैरुपचितं-व्याप्तम्| तथा, मृदुमांसं-कोमलमांसम्|

Adhikarana tvaggatashalyasya lakShaNam (3) · Śloka 3

विशेषात्त्वग्गते शल्ये विवर्णः कठिनायतः| शोफो भवति|३|

🔊 Audio coming soon

स०-विशेषेण पुनस्त्वग्गते शल्ये शोफो विवर्णस्तथा कठिनो दीर्घश्च स्यात्|

Adhikarana mAMsagatasya lakShaNam (3-4) · Śloka 4

| मांसस्थे चोषः शोफो विवर्द्धते||३|| पीडनाक्षमता पाकः शल्यमार्गो न रोहति| |४|

🔊 Audio coming soon

स०-मांसगते शल्ये चोषः स्यात्| 'सर्वाङ्गीणस्तीव्रोऽरतिमान् दाहश्चोष उच्यते' इत्याहुः| तथा शोफो विवर्द्धते| तथा, पीडनस्याक्षमत्वं पाकश्च, शल्यमार्गश्च रोहं न याति|

Adhikarana peshIgatasya lakShaNam (4) · Śloka 4

| पेश्यन्तरगते मांसप्राप्तवच्छ्वयथुं विना||४||

🔊 Audio coming soon

स०-पेशीमध्यगते मांसगतेन तुल्यं लक्षणम्, शोथं वर्जयित्वा| मांसावयवविशेषो दीर्घतन्त्वाकृतिः पेशीत्युच्यते|

Adhikarana snAyugatasya lakShaNam (5) · Śloka 5

आक्षेपः स्नायुजालस्य संरम्भस्तम्भवेदनाः| स्नायुगे दुर्हरं चैतत्|५|

🔊 Audio coming soon

स०-स्नायुगे शल्ये स्त्रायुजालस्याक्षेपाद्याः स्युः| आक्षेपः-आकर्षणम्| संरम्भः-क्षोभः| स्तम्भः-स्तब्धता| वेदनाशूलम्| एतच्च-स्त्रायुगं शल्यं, दुःखेन हर्तुं शक्यते|

Adhikarana sirAgatasya lakShaNam (5) · Śloka 5

| सिराध्मानं सिराश्रिते||५||

🔊 Audio coming soon

स०-सिराश्रिते शल्ये सिराणामानाहः स्यात्|

Adhikarana strotogatasya lakShaNam (6) · Śloka 6

स्वकर्मगुणहानिः स्यात्स्रोतसां स्रोतसि स्थिते| |६|

🔊 Audio coming soon

स०-स्रोतोगते शल्ये स्रोतसां स्वकर्मगुणयोर्हानिः स्यात्| यथा,-कण्ठस्रोतःस्थिते शल्ये पानाभ्यवहरणस्य निरोधो जायते गुणोऽपि यस्तस्याप्रदुष्टत्वादिलक्षणः सोऽप्यस्य हीयत इति| एवमन्येषां स्वकर्मगुणहानिर्व्याख्येया|

Adhikarana dhamanIgatasya lakShaNam (6-7) · Śloka 7

| धमनीस्थेऽनिलो रक्तं फेनयुक्तमुदीरयेत्||६|| निर्याति शब्दवान् स्याच्च हृल्लासः साङ्गवेदनः| |७|

🔊 Audio coming soon

स०-धमनीस्थे शल्ये वायुर्लोहितं सफेनं प्रेरयेत्| तथा सशब्दो मरुन्निर्याति, हृल्लासश्चाङ्गपीडायुक्तः स्यात्|

Adhikarana asthisandhigatasya lakShaNam (7) · Śloka 7

| सङ्घर्षो बलवानस्थिसन्धिप्राप्तेऽस्थिपूर्णता||७||

🔊 Audio coming soon

स०-अस्थिसन्धिप्राप्ते शल्ये बलवान् सङ्घर्षः-क्षोभः, स्यात्| तथा, अस्थिपूर्णता च जायते|

Adhikarana asthigatasya lakShaNam (8) · Śloka 8

नैकरूपा रुजोऽस्थिस्थे शोफः| |८|

🔊 Audio coming soon

स०-अस्थिस्थे शल्ये, अनेकाकाराः (नैकरूपाः)-नानाविधाः, रुजो- भग्नरूग्णमृदितपीडितावनुन्नप्रायाः स्युः, शोफश्च|

Adhikarana sandhigatasya lakShaNam (8) · Śloka 8

तद्वच्च सन्धिगे| चैष्टानिवृत्तिश्च भवेत्|८|

🔊 Audio coming soon

स०-सन्धिगते शल्ये तद्वदेव-अस्थिस्थशल्येन तुल्यं लक्षणम्| तथा, सन्धिस्थशल्याक्रान्तावयवस्य चेष्टानिवृत्तिः-व्यापारोपरमश्च भवति| पूर्वमस्थिसन्धिगतस्य शल्यस्य लक्षणमुक्तम्| अधुना शरीरसन्धिगतशल्यस्य लक्षणम्| अन्यो हि शरीरसन्धिः| तथा च राजयक्ष्मनिदाने वक्ष्यति (हृ. नि. अ. ५|५)-"शरीरसन्धीनाविश्य" इति|

Adhikarana koShThagatasya lakShaNam (8-9) · Śloka 9

| आटोपः कोष्ठसंश्रिते||८|| आनाहोऽन्नशकृन्मूत्रदर्शनं च व्रणानने| |९|

🔊 Audio coming soon

स०--कोष्ठसंश्रिते-उदराश्रिते शल्ये, आटोपः-क्षोभः तथाऽऽनाहो-जठराध्मानम्, तथा व्रणमुखेऽन्नशकृन्मूत्रदर्शनं च स्यात्|

Adhikarana marmagatasya lakShaNam (9) · Śloka 9

| विद्यान्मर्मगतं शल्यं मर्मविद्धोपलक्षणैः||९||

🔊 Audio coming soon

स०-मर्मस्थं शल्यं मर्मविद्धोपलक्षणैर्विद्यात्-जानीयात्| मर्मविद्धस्य च लक्षणं सङ्ग्रहे कथितम्| यथा (शा. अ. ७) "देहप्रसुप्तिर्गुरुता सम्मोहः शीतकामिता| स्वेदो मूर्च्छा वमिः श्वासो मर्मविद्धस्य लक्षणम्||" इति|

Adhikarana tvaggatAdInAM strAvato lakShaNam (10) · Śloka 10

यथास्वं च परिस्रावैस्त्वगादिषु विभावयेत्| |१०|

🔊 Audio coming soon

स०-न केवलं सामान्यलक्षणेन-ध्यामादिना, तथा त्वगादिस्थशल्यविशेषलक्षणेन, त्वगादिस्थं शल्यं लक्षयेत्| यावत् यथास्वं परिस्रावैस्तथाऽनुरूपैर्विभावयेत्|

Adhikarana antaHshalyo~apiruDho vraNaH (10) · Śloka 10

| रुह्यते शुद्धदेहानामनुलोमस्थितं तु तत्||१०||

🔊 Audio coming soon

स०-तत्-प्राङ्निर्दिष्टं शल्यं, रुह्यते-रोहं याति| किम्भूतानां पुंसाम् ? वमनविरेचनादिभिः शुद्धदेहानाम्| रुह्यत इति कर्मकर्तरीति केचित्, तच्च न युक्तम्| यतः कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति| न कर्तृस्थभावकानां न च कर्तृस्थक्रियाणामित्युक्तम्| रुहिश्च कर्तृस्थक्रियः| तस्मात् रोहतीति रुट्| रुडिवाचरतीति क्यङन्तोऽयम्| रूढाभासो ह्ययम्, न तु सम्यग्रूढः| तथा च वक्ष्यति-"दोषकोप" इत्यादि| तस्मादस्य रूढाभासत्वादेषैव व्युत्पत्तिर्युक्ता|

Adhikarana rUDhamapi shalyaM bAdhate (11) · Śloka 11

दोषकोपाभिघातादिक्षोभाद्भूयोऽपि बाधते| |११|

🔊 Audio coming soon

स०-यतस्तच्छल्यमसम्यग्रूढत्वात् भूयोऽपि बाधते| प्राक्कृतबाधमपि पुनरपि पीडां जनयति| कुतो हेतोः ? इत्याह-दोषकोपश्चाभिघातश्च, तावादी येषां धावनलङ्घनादीनां ते एवं, तैः क्षोभः-संरम्भः, तस्मात्| दोषकोपक्षोभात् अभिघातादिक्षोभात् बाधते|

Adhikarana tva~gnaShTashalyasyopAyaH (11-12) · Śloka 12

| त्वङ्नष्टे यत्र तत्र स्युरभ्यङ्गस्वेदमर्दनैः||११|| रागरुग्दाहसंरम्भा यत्र चाज्यं विलीयते| आशु शुष्यति लेपो वा तत्स्थानं शल्यवद्वदेत्||१२||

🔊 Audio coming soon

स०-तत्र-तेषु त्वङ्नष्टादिषु शल्येषु मध्ये, त्वङ्नष्टं यत्र प्रदेशे स्यात् तत्र-तस्थाने, अभ्यङ्गादिभिर्लौहित्यशूलदाहक्षोभाः स्युः| यत्र वा स्थाने घृतं स्त्यानं योजितं विलीयते तत्स्थानं शल्यवत्-सशल्यं वदेत्| यद्वा लेपः-चन्दनादिना दत्तो, यत्राश्वेव शुष्यति, तत्स्थानं-त्वग्देशं, शल्यवज्जानीयात्|

Adhikarana mAMsanaShTasyopAyaH (13) · Śloka 13

मांसप्रणष्टं संशुद्ध्या कर्शनाच्छ्लतता गतम्| क्षोभाद्रागादिभिः शल्यं लक्षयेत्|१३|

🔊 Audio coming soon

स०-मांसप्रणष्टं-मांसेनादृश्यतां प्राप्तं, संशुद्ध्या-वमनविरेचनादिकया, यत्कर्शनं-कृशत्वं कृतं, तस्मात् श्लथतां शिथिलत्वं प्राप्तं, क्षोभात्- अनेकप्रकाराद्वेदनारूपात्, तथा रागादिभिर्लक्षयेत्|

Adhikarana peshyAdiShu naShTasyopAyaH (13-14) · Śloka 14

| तद्वदेव च||१३|| पेश्यस्थिसन्धिकोष्ठेषु नष्टम्| |१४|

🔊 Audio coming soon

स०-तद्वदिति तेन-मांसप्रणष्टेन, तुल्यं वर्तते| यथा,-शुद्ध्या कर्शनात् श्लथतां गतं क्षोभाद्रागादिभिर्लक्षयेदिति|

Adhikarana asthinaShTasyopAyaH (14) · Śloka 14

अस्थिषु लक्षयेत्| अस्थ्नामभ्यञ्जनस्वेदबन्धपीडनमर्दनैः||१४||

🔊 Audio coming soon

स०-अस्थिषु नष्टं शल्यमस्थ्नामभ्यञ्जनादिभिर्लक्षयेत्|

Adhikarana snAvAdiShu naShTasyopAyaH (15-16) · Śloka 16

प्रसारणाकुञ्चनतः सन्धिनष्टं तथाऽस्थिवत्| नष्टे स्नायुशिरास्रोतोधमनीष्वसमे पथि||१५|| अश्वयुक्तं रथं ख़ण्डचक्रमारोप्य रोगिणम्| शीघ्रं नयेत्ततस्तस्य संरम्भाच्छल्यमादिशेत्||१६||

🔊 Audio coming soon

स०-सन्धिनष्टं शल्यमस्थिनष्टशल्यवल्लक्षयेत् सं-स्नायुशिरास्रोतोधमनीषु नष्टे शल्ये, असमे पथि-विषमे मार्गे, रथमारोप्य रोगिणं-शल्यवन्तं, शीघ्रं नयेत्-आश्वेव देशान्तरं प्रापयेत्| किम्भूतं रथम् ? खण्डं चक्रम् यस्य स खण्डचक्रः, तम्| ततस्तस्य-रथस्य, संरम्भात्-क्षोभात्, शल्यमादिशेत्-लक्षयेत्|

Adhikarana marmanaShTasyopAyAnuktau hetuH (17) · Śloka 17

मर्मनष्टं पृथङ्नोक्तं तेषां मांसादिसंश्रयात्| |१७|

🔊 Audio coming soon

स०-मर्मनष्टं शल्यं पृथक् नाभिहितम्| कुतः ? तेषां-मर्मणां, मांसादिरेव प्राङ्निर्दिष्टो यतः संश्रयो, न तु पृथङ्मर्माणि विद्यन्ते| { तथा च सङ्ग्रहे(सू. अ. ३७)-"मर्मप्रणष्टेऽप्यनन्यभावान्मांसादिभ्यो मर्मणामुक्तं परीक्षणं भवति|" इति|

Adhikarana naShTasya sAmAnyalakShaNam (17) · Śloka 17

| सामान्येन सशल्यं तु क्षोभिण्य क्रियया सरुक्||१७||

🔊 Audio coming soon

स०-सामान्येन-सामान्यलक्ष्णेन, क्शेभिण्या क्रियया-संरम्भोत्पादकेन कर्मणा श्वसनप्राणायामादिकेन, यत् सरुक् स्थानं तत् सशल्यं जानीयात्|

Adhikarana adRushyashalyasyAkRutirvraNAkRutyA j~jeyA (18) · Śloka 18

वृत्तं पृथु चतुष्कोणं त्रिपुटं च समासतः| अदृश्यशल्यसंस्थानं व्रणाकृत्या विभावयेत्||१८||

🔊 Audio coming soon

स०-वृत्तं-वर्तुलम्| पृथु-पार्श्वापरपार्श्वाभ्यां यत्परिच्छिद्यते| चतुष्कोणं-चतुरस्रम्| त्रिपुटं-त्र्यस्रम्| समासतः-सङ्क्षेपेण|| अदृश्यस्य-अनुपलब्धस्य, शल्यस्य संस्थानं-आकृतिं, व्रणाकृत्या-व्रणसंस्थानेन, विभावयेत्-विद्यात्|

Adhikarana shalyAharaNopAyaBedau (19) · Śloka 19

तेषामाहरणोपायौ प्रतिलोमानुलोमकौ| |१९|

🔊 Audio coming soon

स०-तेषां-अदृश्यानां शल्यानाम्| आकर्षणोपायौ दौ प्रतिलोमानुलोमकौ| प्रतिलोमः-शरीरान्तःप्रवेशविपर्ययः| अनुलोमः-शरीरान्तःप्रवेशानुगतः| प्रतिलोमानुलोमयोर्निर्हरणविषयमाह-

Adhikarana tayorviShayaH (19) · Śloka 19

| अर्वाचीनपराचीने निर्हरेत्ताद्विपर्ययात्||१९||

🔊 Audio coming soon

स०-तयोः-प्रतिलोमानुलोमयोर्विपर्ययः, तस्माद्विपर्ययात्, अनुलोमं पराचीनमानयेदित्यर्थः|

Adhikarana tiryaggataM tUbhayorviShayaH (20) · Śloka 20

सुख़ाहार्यं यतश्छित्त्वा ततस्तिर्यग्गतं हरेत्| |२०|

🔊 Audio coming soon

स०-तिर्यग्गतं शल्यं यतो-यस्माद्देहदेशात्, छित्वा-विलुप्य, सुखाहार्यं सम्पद्यते-सुखेनाहर्तुं शक्यते, ततः-तस्माद्देहदेशात्, छित्त्वोद्धरेत्| छित्त्वेत्यत्र यद्यपि कर्म किञ्चिन्न निर्दिष्टं, तथाऽपि त्वङ्मांसादीनां योग्यत्वात्तेषामेव कर्मत्वं बोध्यम्| मांसादीनि छित्त्वोद्धरेदित्यर्थः|

Adhikarana urogatAdiShu shalyeShu nirghAtananiShedhaH (20-21) · Śloka 21

| शल्यं न निर्घात्यमुरःकक्षावङ्क्षणपार्श्वगम्||२०|| प्रतिलोममनुत्तुण्डं छेद्यं पृथुमुखं च यत्| |२१|

🔊 Audio coming soon

स०-शल्यमुरोगतमुरःस्थं कक्षास्थं वङ्क्षणस्थं पार्श्वस्थं च न निर्घात्यं-न निर्घातनीयम्| तथा प्रतिलोमं-नानुलोमगतं, तथाऽनुत्तुण्डं वारिबुद्बुदवन्नोन्नतं, तथा छेद्यं शल्यं, तथा पृथुमुखं-विस्तीर्णाननं, च न निर्घात्यम्|

Adhikarana anAharaNIyaM shalyam (21) · Śloka 21

| नैवाहरेद्विशल्यघ्नं नष्टं वा निरुपद्रवम्||२१||

🔊 Audio coming soon

स०-विशल्यं हन्तीति विशल्यघ्नम्| तावज्जीवति यावत्सशल्यः| शल्यापाये तु म्रियते तन्नाहरेदेव| विशल्यस्य तस्य प्राणहरणत्वात्| एतत्स्वरूपं मर्मविभागे स्पष्टं कृत्वा वक्ष्यते| नष्टं वेति वाशब्दश्चार्थे| नष्टं-अदृश्यतां प्राप्तं च, यन्निरुपद्रवं-तन्निमित्तरोगरहितं, नाहरेत्, प्रत्यवायभयात्|

Adhikarana hastAhAryaM shalyam (22) · Śloka 22

अथाहरेत्करप्राप्यं करेणैव| |२२|

🔊 Audio coming soon

स०-करप्राप्यं-हस्तग्राह्यं शल्यं, करणैवाहरेत्-नापरेण कङ्कमुखादिना|

Adhikarana siMhamukhAdisvastikayantrAhAryaM shalyam (22) · Śloka 22

इतरत्पुनः| दृश्यं सिंहाहिमकरवर्मिकर्कटकाननैः||२२||

🔊 Audio coming soon

स०-इतरत्-अकरप्राप्यं तु शल्यं, दृश्यं सिंहमुखादिभिर्यन्त्रैराहरेत्|

Adhikarana ka~gkamukhAdisvastikayantrAhAryaM shalyam (23) · Śloka 23

अदृश्यं व्रणसंस्थानाद्ग्रहीतुं शक्यते यतः| कङ्कभृङाह्वकुररशरारीवायसाननैः||२३||

🔊 Audio coming soon

स०-अदृश्यं पुनः शल्यं व्रणसंस्थानादाकलय्य कङ्कमुखदिभिर्ग्रहीतुं शक्यते यतस्ततस्तैर्हरेत्| यत्तदोर्नित्याभिसम्बन्धात्तदोपलम्भः|

Adhikarana sandaMSAhAryam Salyam (24) · Śloka 24

सन्दंशाभ्यां त्वगादिस्थम्| |२४|

🔊 Audio coming soon

स०-त्वगादिस्थं शल्यं सन्दंशाभ्यां निर्हरेत्| आदिग्रहणान्मांसादीनां ग्रहणम्|

Adhikarana tAlayantrAhAryaM Salyam (24) · Śloka 24

तालाभ्यां सुषिरं हरेत्| |२४|

🔊 Audio coming soon

स०-सुषिरं यच्छल्यं त्वगादिस्थं तत्तालयन्त्राभ्यां हरेत्,-न संदशाभ्याम्|

Adhikarana nADIyantrAhAryaM Salyam (24) · Śloka 24

| सुषिरस्थं तु नलकैः|२४|

🔊 Audio coming soon

स०-सुषिरस्थं पुनः शल्यं नलकैः-नाडीयन्त्रैः, आकर्षेत्|

Adhikarana sheShayantrAhAryaM shalyam (24) · Śloka 24

| शेषं शेषैर्यथायथम्||२४||

🔊 Audio coming soon

स०-शेषं शल्यं शेषैर्यन्त्रैर्यथायोगमाहरेत्|

Adhikarana yantreNAhartumashakyasyashalyasyopAyaH (25) · Śloka 25

शस्त्रेण वा विशस्यादौ ततो निर्लोहितं व्रणम्| कृत्वा घृतेन संस्वेद्य बद्धाऽऽचारिकमादिशेत्||२५||

🔊 Audio coming soon

स०-शस्त्रेण वा पूर्वं विशस्य-मांसादीन् छित्त्वा, ततः- अनन्तरं, अपनीतरक्तं व्रणं विधाय, सर्पिषा स्वेदयित्वा, वस्त्रपट्टादिना सर्पिमधु बद्ध्वा, आचारिकं-स्नेहविध्युक्तं "उष्णोदकोपचारी स्यात्" इत्यादिकं, आदिशेत्-कथयेत्|

Adhikarana sirAsnAyuvIlagnasyopAyaH (26) · Śloka 26

सिरास्नायुविलग्नं तु चालयित्वा शलाकया| |२६|

🔊 Audio coming soon

स०-सिरास्नायुविलग्नं पुनः शल्यं शलाकया चालयित्वा शिथिलीकृत्य, आहरेत्|

Adhikarana hRudayalagnasyopAyaH (26-27) · Śloka 27

| हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना||२६|| ततः स्थानान्तरं प्राप्तमाहरेत्तद्यथायथम्| यथामार्गं दुराकर्षम्|२७|

🔊 Audio coming soon

स०-हृदये यदाश्रितं शल्यं तच्छीतजलेन त्रासितस्य स्थानान्तरगतं ज्ञात्वा, यथायथं-यथास्वं विशिष्टयन्त्रैः, शल्यं निर्हरेत्|

Adhikarana hRudayopAyamanyatrAdishati (27) · Śloka 27

| अन्यतोऽप्येवमाहरेत्||२७||

🔊 Audio coming soon

स०-अन्यतोऽपि-अन्यदेशस्थमपि शल्यं, दुराकर्षं-दुःखेनाक्रष्टुं शक्यते, तत् स्वमार्गं नयेत् तदेवमेवाहरेत्, यथा हृत्स्थं शल्यम् स्थानान्तरं प्राप्तं निर्हार्यम्| तथा, यथामार्गं-मार्गानतिक्रमेण, अन्यदेशस्थमपि शल्यमाकर्षणीयम्|

Adhikarana asthilagnasyopAyaH (28) · Śloka 28

अस्थिदष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत्| |२८|

🔊 Audio coming soon

स०-अस्थिदष्टे-अस्थ्नि विदष्टे स्पृष्टे सति शल्ये, नरं बलवन्तं पद्भ्यां पीडयित्वा-आक्रम्य, तच्छल्यं विनिर्हरेत्| 'अस्थिनष्टे' इति वा पाठः|

Adhikarana upAyAntaram (28) · Śloka 28

| इत्यशक्ये सुबलिभिः सुगृहीतस्य किङ्करैः||२८||

🔊 Audio coming soon

स०-इत्यशक्ये-अनेनापि प्रकारेणक्रष्टुमशक्ये शल्ये, किङ्करैः-भृत्यैः, महाबलैः सुगृहीतस्य-सुष्ठ्ववष्टब्धस्य नरस्य, शल्यं कङ्कमुखादिना निर्हरेत्|

Adhikarana evamapyashakyasyopAyaH (29-31) · Śloka 31

तथाऽप्यशक्ये वारङ्गं वक्रीकृत्य धनुर्ज्यया| सुबद्धं वक्त्रकटके बध्नीयात्सुसमाहितः||२९|| सुसंयतस्य पञ्चाङ्ग्या वाजिनः कशयाऽथ तम्| ताडयेदिति मूर्धानं वेगेनोन्नमयन् यथा||३०|| उद्धरेच्छल्यम्| |३१|

🔊 Audio coming soon

स०-तथाप्यशक्ये-एवमपि शल्य आहर्तुमशक्ये, वारङ्गं-शस्त्रादिमयस्य शल्यस्य शिखाकारं, वक्रीकृत्य-कुटिलतां प्रापय्य, ततो धनुर्ज्यया-स्नाय्वादिमय्या, सुबद्धं कृत्वा, अनन्तरं, वाजिनः-अश्वस्य, वक्त्रकटके बध्नीयाद्वैद्यः| किम्भूतः ? सुसमाहितः,-तद्गतमनाः| किम्भूतस्य वाजिनः ? सुसंयतस्य,-सुष्ठु-शोभनं कृत्वा, बद्धस्य| कथं सुसंयतस्य ? पञ्चाङ्ग्या, पञ्चानामङ्गानां-चतुर्णां पादानां मुखसहितानां, समाहारः पञ्चाङ्गी,-बन्धविशेषः, तया पञ्चाङ्ग्या, बद्धस्य| अनन्तरं वाजिनं कशया-चर्मयष्ट्या, इति-एवं, ताडयेत्, यथा स वाजी मूर्धानमुन्नमयन्-उत्क्षिपन्, वेगेन-बलेनाऽऽक्रान्त्या, शल्यमुद्धरेत्|

Adhikarana upAyAntaram (31) · Śloka 31

एवं वा शाख़ायां कल्पयेत्तरोः| |३१|

🔊 Audio coming soon

स०-अथवा एवं-अनेन प्रकारेण, वारङ्गं वक्रतां नीत्वा धनुर्ज्यया सुबद्धं सम्पाद्य सुसमाहितो भिषक्, वृक्षस्य शाखामानमय्य धनुर्ज्ययैव तस्यां तत् बध्नीयाच्छल्याकर्षणार्थम्| अत्र च या शाखा किङ्करहस्तादिविमुक्तमात्रैवोर्ध्वमुन्नम्यमाना शल्यमुद्धरति तादृशी कल्पनीया|

Adhikarana durbalavAra~ggasyopAyaH (31) · Śloka 31

| बद्धा दुर्बलवारङ्गं कुशाभिः शल्यमाहरेत्||३१||

🔊 Audio coming soon

स०-दुर्बलं-तनु, वारङ्गं यस्य शल्यस्य तच्छल्यं कुशाभिः-वंशादिकम्बिकाभिः, बद्धा शल्यमाकर्षेत्|

Adhikarana shoPagrastavAra~ggasyopAyaH (32) · Śloka 32

श्वयथुग्रस्तवारङ्गं शोफमुत्पीड्य युक्तितः| |३२|

🔊 Audio coming soon

स०-श्वयथुना ग्रस्तं-आच्छादितं, वारङ्गं यस्य शल्यस्य तच्छल्यमाहरेत्| कथम् ? युक्तितः,-यथा युज्यते तथा, शोफमुत्पीड्य-ऊर्ध्वं पीडयित्वा|

Adhikarana uttuNDitasyopAyaH (32) · Śloka 32

| मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत्||३२||

🔊 Audio coming soon

स०-उत्तुण्डितं शल्यं-बुद्बुदवदभिमुखीभूतं, नाड्या निर्घात्य-चालयित्वा, हरेत्| किम्भूतया? मुद्गरेणाहतया| मुद्गरग्रहणमुपलक्षणार्थम्, पाषाणादिभिरप्याहतयोत्तुण्डितं हरेदिति वेद्यम्|

Adhikarana amArgottuNDitasyopAyaH (33) · Śloka 33

तैरेव चानयेन्मार्गममार्गोत्तुण्डितं तु यत्| |३३|

🔊 Audio coming soon

स०-तैरेव च-मुद्गरादिभिराहतैः, अमार्गैरुत्तुण्डितं-अमार्गोत्तुण्डितं, मार्गमानयेत्-मार्गं प्रापयेत्|

Adhikarana karNayoktasyopAyaH (33) · Śloka 33

| मृदित्वा कर्णिनां कर्णं नाड्यास्येन निगृह्य वा||३३||

🔊 Audio coming soon

स०-कर्णः कर्णौ कर्णा वा विद्यन्ते येषां ते कर्णिनः,-भल्लादयः तेषां कर्णं मृदित्वा-भङ्क्त्वा, शल्यं निर्हरेत्| अथवा नाड्यास्येन-नाडीमुखेन, निगृह्य निर्हरेत्| "नाडी पञ्चमुखच्छिद्रा" (हृ. सू. अ. २४|१३) इत्येवमादिग्रन्थनिर्दिष्टैर्नाडीयन्त्रैर्निर्हरेदित्यर्थः|

Adhikarana niShkarNasyopAyaH (34) · Śloka 34

अयस्कान्तेन निष्कर्णं विवृतास्यमृजुस्थितम्| |३४|

🔊 Audio coming soon

स०-अयस्कान्तेन-लोहाकर्षकमणिविशेषेण, निष्कर्णं शल्यं तथा विवृतमुखं ऋजु-स्पष्टं कृत्वाऽवस्थितम् निर्हरेत्|

Adhikarana pakkAshayagatasyopAyaH (34) · Śloka 34

| पक्वाशयगतं शल्यं विरेकेण विनिर्हरेत्||३४||

🔊 Audio coming soon

स०-पक्वाशयस्थितं शल्यं विरेचनेन विशेषेण निर्हरेत्|

Adhikarana duShTavAtAdInAmupAyaH (35) · Śloka 35

दुष्टवातविषस्तन्यरक्ततोयादि चूषणैः| |३५|

🔊 Audio coming soon

स०-दुष्टवातादीनि चूषणैर्निर्हरेत्| चूषणैरिति बहुवचननिर्देशाच्छृङ्गादिभिरिति बोध्यम्|

Adhikarana kaNThagatasyopAyaH (35-36) · Śloka 36

| कण्ठस्रोतोगते शल्ये सूत्रं कण्ठे प्रवेशयेत्||३५|| बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत्| |३६|

🔊 Audio coming soon

स०-कण्ठस्रोतःस्थे शल्ये सूत्रं-कार्पासादिजं, बिसेन कण्ठे प्रवेशयेत्- बिससंलग्नं सूत्रं कृत्वा शल्यनिर्हरणाय प्रवेशयेदित्यर्थः| आत्ते-गृहीते, शल्ये बिससंलग्ने, अनन्तरं शल्यं बिससूत्रं समं-तुल्यकालं, आहरेत्|

Adhikarana jAtuShasyopAyaH (36-37) · Śloka 37

| नाड्याऽग्नितापितां क्षिप्त्वा शलाकामप्स्थिरीकृताम्||३६|| आनयेज्जातुषं कण्ठात्| |३७|

🔊 Audio coming soon

स०-जातुषे शल्ये कण्ठस्रोतःप्रविष्टे तत् जातुषं शल्यं कण्ठादानयेत्| कथम् ? इत्याह-शलाकां कण्ठे क्षिप्त्वा| कथम् ? नाड्या-नाडीयन्त्रेण प्रक्षिप्य कण्ठदाहपरिहारार्थम्| कीदृशीं शलाकाम् ? अद्भिः स्थिरीकृतां, निर्वापणद्वारेण| तां तथाविधाम् शलाकां कृत्वा नाड्यैव जातुषं शल्यं कण्ठादानयेत्-आकर्षयेत्| जातुषमित्यत्र"त्रपुजतुनोःषुक्" इत्यण् षुगागमश्च|

Adhikarana ajAtuShasyopAyaH (37) · Śloka 37

जतुदिग्धामजातुषम्| |३७|

🔊 Audio coming soon

स०-अजातुषं-दारुवेण्वादिमयं शल्यं, कण्ठस्रोतःस्थितं जतुदिग्धां-लाक्षालिप्तां, शलाकामग्नितापितां नाड्या क्षिप्त्वा पूर्ववच्छल्यमाहरेत्| जतुदिग्धामित्युपलक्षणार्थम्, सिक्थादिदिग्धामपि| यथा शलाकया हर्तुं युज्यते तथा कृत्वेति बोध्यम्|

Adhikarana matsyAdikaNTakasyopAyaH (37-38) · Śloka 38

| केशोन्दुकेन पीतेन द्रवैः कण्टकमाक्षिपेत्||३७|| सहसा सूत्रबद्धेन वमतः| |३८|

🔊 Audio coming soon

स०-कण्टकं-मत्स्यादिजं, मांससङ्गेन भुक्तं कण्ठस्रोतसि स्थितं, द्रवैः-पानीयादिभिः सह, पीतेन केशोन्दुकेनाक्षिपेत्| केशानां समूहः-केशोन्दुकम्, तेन| किम्भूतेन केशोन्दुकेन ? सूत्रबद्धेन,-दीर्घसूत्रग्रथितेन| वमतः-वमनमाचरतः, कण्टकमेकदेशसक्तसूत्रं सहसैवाक्षिपेत्| एवं च वमनद्रव्यसंस्कृतैर्द्रवैः केशोन्दुकं पातव्यमित्यवतिष्ठते|

Adhikarana keshondukasyopAyaH (38) · Śloka 38

तेन चेतरत्| |३८|

🔊 Audio coming soon

स०-तेन-कण्ठकेन, इतरत्-केशोन्दुकं, प्रमादपीतमाहरेत्| क्षतकण्ठश्च त्रिफलां मधुघृतसितोपेतामनुकण्ठं लिह्यात्| सुश्रुते चोक्तम् (सू. अ. २७|१९)-"अस्थिशल्यमन्यद्वातिर्यक्कण्ठासक्तमवेक्ष्य केशोन्दुकं दृढैकसूत्रबद्धं द्रवभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत्| वमतश्च शल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत्| मृदुना वा दन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वाऽन्तः|" इति|

Adhikarana UrdhvamAhartumashakyasyopAyaH (38) · Śloka 38

| अशक्यं मुखनासाभ्यामाहर्तुं परतो नुदेत्||३८||

🔊 Audio coming soon

स०-मुखनासागतं शल्यं मुखनासाभ्यामाहर्तुमशक्यं-आक्रष्टुं यन्न शक्यते, तत्परतो नुदेत्| प्रकृतत्वान्मुखात् परतो नासायाश्च परतः| तस्माद्येन केनचिदुपायेन कोष्ठं नयेदिति गम्यते|

Adhikarana grAsashalyasyopAyaH (39) · Śloka 39

अप्पानस्कन्धघाताभ्यां ग्रासशल्यं प्रवेशयेत्| |३९|

🔊 Audio coming soon

स०-ग्रासः शल्यमिव ग्रासशल्यं कण्ठासक्तमन्तःकोष्ठाख्यं नयेत्| कथम् ? अपां पानं-अप्पानं, तेन| तथा स्कन्धघातेन, स्कन्धस्य मुष्ट्यादिना हननं-स्कन्धघातः|

Adhikarana sUkShmAkShivraNashalyAnAmupAyaH (39) · Śloka 39

| सूक्ष्माक्षिव्रणशल्यानि क्षौमवालजलैर्हरेत्||३९||

🔊 Audio coming soon

स०-अक्षणी च व्रणश्च, तत्र शल्यानि-अक्षिव्रणशल्यानि, सूक्ष्माणि च तान्यक्षिव्रणशल्यानि च-सूक्ष्माक्षिव्रणशल्यानि, तानि क्षौ मादिभिर्निर्हरेत्| योग्यतावशात् कदाचित् क्षौ मेन-कौशेयेन, कदाचिद्वालेन, कदाचिज्जलेन च, निर्हरेत्|

Adhikarana udakashalyasyopAyaH (40) · Śloka 40

अपां पूर्णं विधुनुयादवाक्शिरसमायतम्| वामयेच्चामुख़ं भस्मराशौ वा निखनेन्नरम्||४०||

🔊 Audio coming soon

स०-अपां पूर्णं नरं विधुनुयात्| किम्भूतम् ? अवक्शिरसम्, अवाक्-अधः, शिरो-मूर्धा, यस्य तम्| तथा आयतं-दीर्घं कृत्वा, तथा तं नरं वामयेद्वैद्यः| अथवा, आमुखं-मुखं यावत्, भस्मराशौ निखनेत्-न्यसेत्| तथोक्तम्-"उदकपूर्णस्य चक्राद्यारोपणेनोदकनिःसारः कार्यः|" इति|

Adhikarana karNagatodakashalyasyopAyaH (41) · Śloka 41

कर्णेऽम्बुपूर्णे हस्तेन मथित्वा तैलवारिणी| क्षिपेदधोमुख़ं कर्णं हन्याद्वाऽऽचूषयेत वा||४१||

🔊 Audio coming soon

स०-कर्णेऽम्बुना पूर्णे सति तैलवारिणी क्षिपेत्| किं कृत्वा ? हस्तेन मथित्वा-करेण विलोड्य| तथाऽधोमुखं कर्णं हन्यात्| वा-अथवा, चूषयेत् नाड्या वा शृङ्गादिभिः|

Adhikarana karNagatakITashalyasyopAyaH (42) · Śloka 42

कीटे स्रोतोगते कर्णं पूरयेल्लवणाम्बुना| सुक्तेन वा सुख़ोष्णेन मृते क्लेदहरो विधिः||४२||

🔊 Audio coming soon

स०-कीटे-पिपीलिकाशतपद्यादौ, स्रोतःस्थिते (स्रोतोगते)-तोदगौरवमेदादिभिरनुमिते, कर्णं लवणाम्बुना पूरयेत्| अथवा सुक्तेन पूरयेत्| किम्भूतेन? सुखोष्णेन| मृते पुनस्तस्मिन् कीटे क्लेदहरो विधिः कार्यः|

Adhikarana jAtuShAdishalyaM dehoShmaNaiva vilIyate (43) · Śloka 43

जातुषं हेमरूप्यादिधातुजं च चिरस्थितम्| ऊष्मणा प्रायशः शल्यं देहजेन विलीयते||४३||

🔊 Audio coming soon

स०-जातुषादिशल्यं देहजेनोष्मणा चिरस्थितं प्रायशो विलीयते|

Adhikarana mRudAdishalyaM cirAdapi na ciliyate,vilayanABAve hetuH (44-45) · Śloka 45

मृद्वेणुदारुशृङ्गास्थिदन्तवालोपलानि न| विषाणवेण्वयस्तालदारुशल्यं चिरादपि||४४|| प्ऱयो निर्भुज्यते तद्धि पचत्याशु पलासृजी| |४५|

🔊 Audio coming soon

स०-मृद्वेणुदार्वादिशल्यं देहोष्मणा न विलीयते| उपलशब्स्य नपुंसकत्वं चिन्त्यम्| विषाणादिशल्यं प्रायो देहजेनोष्मणा चिरादपि न विलीयते| अपि तु निर्भुज्यते-पृथग्भवति| चिरादपि न पच्यते कुतः ? इत्याह-तद्धीत्यादि| हि-यस्मात्, तत्-विषाणादिशल्यं, शीघ्रमेव पलासृजी पचति| अतो मांसरक्तपाकाद्देहजेन चोष्मणा प्रायो निर्भुज्यते|

Adhikarana vidAhopAyaH (45-47) · Śloka 47

| शल्ये मांसावगाढे चेत्स देशो न विदह्यते||४५|| ततस्तं मर्दनस्वेदशुद्धिकर्षणबृंहणैः| तीक्ष्णोपनाहपानान्नघनशस्त्रपदाङ्कनैः||४६|| पाचयित्वा हरेच्छल्यं पाटनैषणमेदनैः| |४७|

🔊 Audio coming soon

स०-मांसावगाढे-मांसान्तर्निगूढे शल्ये सति, यदि स देशो न विदह्यते-न पच्यते, यत्र तत् तिष्ठति शल्यम्| ततस्तं मर्दनेन स्वेदनेन वा, कदाचित् शुद्ध्या-वमनादिकया, कदाचित्कर्षणेन, कदाचिद्बृंहणेन, कदाचित्तीक्ष्णोपनाहेन, कदाचित्तीक्ष्णान्नपानेन, तीक्ष्णशब्दस्य हि प्रत्येकं सम्बन्धः, कदाचिद्धनशस्त्रपदाङ्कनैः, शस्त्रस्य पदानि-शस्त्रपदानि, घनानि संहितनि, च तानि शस्त्रपदानि च, तेषामङ्कनं-लक्षणं, तैः| मर्दनादिभिरेकेन द्वाभ्यां सर्वैर्वा यथाक्रमं पूर्वं शल्यं पाचयित्वा ततः पाटनैषणभेदनैर्हरेत्|

Adhikarana anuktashalyasa~ggrahArthaMmupAyaH (28) · Śloka 28

| शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम्||४७|| तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाऽऽहरेत्| ४७ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शल्याहर- णविधिर्नामाष्टाविंशोऽध्यायः||२८||

🔊 Audio coming soon

स०-शल्यानि-धातुविषाणवेण्वादिजानि, प्रदेशाः-त्वङ्मांसादयः, यन्त्राणि-स्वस्तिकादीनि, तेषां बहुरूपतामवेक्ष्य- नानाकारतां ज्ञात्वा, तैस्तैरुपायैः-उक्तानुक्तैर्विज्ञानसाधनकारणैः, मतिमान्-भिषक्, शल्यं जानीयात् तथाऽऽकर्षेदिति| सङ्ग्रहे चोक्तम् (सू. अ. ३७)-"व्रणे प्रसन्ने प्रान्तेषु नातिस्पर्शासहिष्णुषु| अल्पे शोफे च तापे च निःशल्यमिति निर्दिशेत्|" इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने शल्याहरण- विधिर्नामाष्टाविंशोऽध्यायः समाप्तः|| २८||