Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अनन्तरातीतेऽध्याये शृङ्गादीन् लोहितावसेचनोपायानुक्त्वा 'प्रच्छानेनैकदेशस्थं' इत्यादिवाक्येन तेषां विषयो दर्शितः| सिराव्यधस्य तु बहुवक्तव्यत्वात् पृथगध्यायौ युक्त इत्याह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अनन्तरातीतेऽध्याये शृङ्गादीन् लोहितावसेचनोपायानुक्त्वा 'प्रच्छानेनैकदेशस्थं' इत्यादिवाक्येन तेषां विषयो दर्शितः| सिराव्यधस्य तु बहुवक्तव्यत्वात् पृथगध्यायौ युक्त इत्याह-
Adhikarana sirAvyadhavidhiradhyAyaH (2) · Śloka 2
अथातः सिराव्यधविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|
🔊 Audio coming soon
स०-सरत्याभी रक्तमिति सिराः, तासां व्यधः, तस्य विधिः, तमध्यायं व्याख्यास्यामः| शेषं पूर्ववत्|
Adhikarana shuddharaktasya lakShaNam shuddharaktasyArogyahetutvam (1-2) · Śloka 2
मधुरं लवणं किञ्चिदशीतोष्णमसंहतम्| पद्मेन्द्रगोपहेमाविशशलोहितलोहितम्||१|| लोहितं प्रभवः शुद्धं, तनोस्तेनैव च स्थितिः| |२|
🔊 Audio coming soon
स०-लोहितं मधुरगुणं(रसं) , तथा, ईषल्लवणं, किञ्चिच्छब्द ईषदर्थे, तथाऽशीतोष्णं-नञीषदर्थे, ईषच्छीतमीषदुष्णं, तथाऽसंहतं-द्रवं, शुद्धं स्यात्| सम्प्रति वर्णतः शुद्धलोहितलक्षणमाह-पद्मेत्यादि| इन्द्रगोपः-मृगनक्षत्रोत्पन्नः कीटकविशेषः| हेम-कनकम्| अविः-मेषः| अविशशयोर्लोहितशब्देन रक्तवाचिना सम्बन्धः| पद्मादीनां द्वन्द्वः| पद्मेन्द्रगोपहेमाविशशलोहितमिव लोहितं-रक्तवर्णं, यद्रक्तं तच्छुद्धं स्यात्| तच्च तनोः-शरीरस्य, प्रभवः-उत्पत्तिहेतुः| तेनैवरक्तेन, तनोः स्थितिः-प्रबन्धाविच्छेदलक्षणा| अनेकदृष्टान्तोपादानं च शुद्धरक्तस्यानेकवर्णदर्शनात्|
Adhikarana raktasya duShTikAraNam (2) · Śloka 2
| तत्पित्तश्लेष्मलैः प्रायो दूष्यते|२|
🔊 Audio coming soon
स०-तच्च-रक्तं, बाहुल्येन पित्तश्लेष्मलैर्दूष्यते| पित्तलैः-क्षारोष्णतीक्ष्णादिभिः| श्लेष्मलैः-माषतिलादिभिः| तथा पुराकृताद्दैवादपि, शरत्कालस्वभावात् कदाचिद्वातलैरपि दूष्यत इति प्रायोग्रहणम्|
Adhikarana duShTaraktasya kAryam duShTaraktakAryasya sAmAnyalakShaNam (2-5) · Śloka 5
| कुरुते ततः||२|| विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान्| मुखनेत्रशिरोरोगमदतृड्लवणास्यताः||३|| कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरणभ्रमान्| शीतोष्णस्निग्धरूक्षाद्यैरूपक्रान्ताश्च ये गदाः||४|| सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः| |५|
🔊 Audio coming soon
स०-ततो-दूषणात्कारणात्, विसर्पादीन् भ्रमान्तान् कुरुते| तथा, शीतोष्णादिभिः सम्यक्चिकित्सिताः साध्या अपि रोगा ये न सिध्यन्ति, ते च रक्तप्रकोपजाः| न केवलं विसर्पादयः, इति चार्थः| आदिशब्देन स्तम्भस्वेदनादिपरिग्रहः|
Adhikarana duShTaraktakAryasya pratIkAraH (5) · Śloka 5
| तेषु स्रावयितुं रक्तमुद्रिक्तं व्यधयेत्सिराम्||५||
🔊 Audio coming soon
स०-तथा, तेषु-विसर्पादिषु रोगेषु, उल्बणं रक्तं स्रावयितं सिरां व्यधयेत्| अदन्तत्वादत्र वृद्धेरभावः|
Adhikarana unaShoDashAbdAdInAM sirAvyAdhaniShedhaH (6-9) · Śloka 9
न तूनषोडशातीतसप्तत्यब्दस्रुतासृजाम्| अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम्||६|| गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम्| अतीसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम्||७|| स्नेहपीते प्रयुक्तेषु तथा पञ्चसु कर्मसु| नायन्त्रितां सिरां विध्येन्न तिर्यङ्गाप्यनुत्थिताम्||८|| नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात्| |९|
🔊 Audio coming soon
स०-ऊनषोडशवर्षादीनां तु सिरां न व्यधयेत्| स्नेहपीते-पीतस्नेह इत्यर्थः, आहिताग्न्यादित्वात् परनिपातः| तथा, पञ्चसु-वमनादिषु, कर्मसु विहितेषु सत्सु, सिरां न व्यधयेत्| तथा, अयन्त्रितां-अबद्धां, सिरां न व्यधयेत्| तथा, न तिर्यक्, न चानुत्थितां, नातिशीते, नात्युष्णे, नातिवाते, न च मेघोदये, सिरां व्यधयेत्| आत्ययिकात्-रोहिणीविषादिकात्, अन्यत्र न व्यधयेत्| आत्ययिके तु रोगे शीतोष्णवृष्टीनां यथायथं प्रतीकारं विधाय सिरां मोक्षयेदेव|
Adhikarana shiroroge netraroge ca vedhyAH sirAH (9-10) · Śloka 10
| शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्सिराम्||९|| आपाङ्ग्यामुपनास्यां वा| |१०|
🔊 Audio coming soon
स०-शिरोनयनविकारेषु ललाट्यां सिरां मोक्षयेत्| ललाटे भवा-ललाट्या, शरीरावयवाद्यत्, एवमग्रेऽपि| अपाङ्गे भवां अपाङ्ग्यां, नासिकासमीपे भवां-उपनास्यां, वा|
Adhikarana karNarogeShu sirAH (10) · Śloka 10
कर्णरोगेषु कर्णजाम्| |१०|
🔊 Audio coming soon
स०-कर्णामयेषु कर्णजां-कर्णसमीपभवां, सिरां विध्येत्|
Adhikarana nAsAroge sirAH (10) · Śloka 10
| नासारोगेषु नासाग्रे स्थिताम्|१०|
🔊 Audio coming soon
स०-नासामयेषु नासाग्रे स्थितां विध्येत्|
Adhikarana pInase sirAH (10-11) · Śloka 11
| नासाललाटयोः||१०|| पीनसे| |११|
🔊 Audio coming soon
स०-पीनसे-प्रतिश्याये, नासाललाटमध्यस्थां सिरां विध्येत्|
Adhikarana mukharogeShu sirAH (11) · Śloka 11
मुखरोगेषु जिह्वौष्ठहनुतालुगाः| |११|
🔊 Audio coming soon
स०-मुखरोगेषु जिह्वादिगाः सिरा विध्येत्|
Adhikarana jatrUrdhvagranthiShu sirAH (11) · Śloka 11
| जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरःश्रिताः||११||
🔊 Audio coming soon
स०-जत्रूर्ध्वं-वक्षोंसयोः सन्ध्यूर्ध्वं, ये ग्रन्थयस्तेषु ग्रीवाद्याश्रिताः सिरा विध्येत्|
Adhikarana unmAde sirAH (12) · Śloka 12
उरोपाङ्गललाटस्था उन्मादे| |१२|
🔊 Audio coming soon
स०-उन्मादे उरःस्था अपाङ्गस्था ललाटाश्रिताश्च विध्येत्|
Adhikarana apasmAre sirAH shirorogAdiShu sAmAnyataH sirAH (12) · Śloka 12
ऽपस्मृतौ पुनः| हनुसन्धौ समस्ते वा शिरां भ्रूमध्यगामिनीम्||१२||
🔊 Audio coming soon
स०-अपस्मारे तु हनुसन्धौ स्थितां सिरां विध्येत्| समस्ते-सर्वस्मिन्, वा हनौ सिरां विध्येत्| भ्रूमध्यगामिनीं- भ्रूमध्यस्थां, सिरां वाऽपरस्मृतौ विध्येदिति वाशब्दोऽत्रानुवर्त्य योज्यः|
Adhikarana vidradhipArshcashUlayoH sirAH (13) · Śloka 13
विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे| |१३|
🔊 Audio coming soon
स०-विद्रधौ पार्श्वशूले च पार्श्वस्थाः कक्षास्थाः स्तनान्तरस्थाश्च सिरा विध्येत्|
Adhikarana tRutIyakajvare sirAH (13) · Śloka 13
| तृतीयकेंऽसयोर्मध्ये|१३|
🔊 Audio coming soon
स०-तृतीयके ज्वरेंऽसयोर्मध्ये-स्कन्धसन्धौ स्थितां सिरां, विध्येत्|
Adhikarana caturthakajvare sirAH (13) · Śloka 13
| स्कन्धस्याधश्चतुर्थके||१३||
🔊 Audio coming soon
स०-चतुर्थके ज्वरे स्कन्धस्याधोगतां-अन्यतरपार्श्वाश्रयां, सिरां विध्येत्|
Adhikarana sashUlaprAvAhikAyAM sirAH (14) · Śloka 14
प्रवाहिकायां शूलिन्यां श्रोणितो द्व्यङ्गुले स्थितां| |१४|
🔊 Audio coming soon
स०-प्रवाहिकायां शूलयुक्तायां श्रोणितः-कठ्याः, द्व्यङ्गुले स्थितां सिरां विध्येत्|
Adhikarana shukrarogemeDhraroge ca sirAH (14) · Śloka 14
| शुक्रमेढ्रामये मेढ्रे|१४|
🔊 Audio coming soon
स०-शुक्ररोगे मेढ्ररोगे च मेड्रस्थितां सिरां विध्येत्|
Adhikarana galagaNDayoH sirAH (14) · Śloka 14
| ऊरुगां गलगण्डयोः||१४||
🔊 Audio coming soon
स०-गलगण्डयोश्चोभयोरूरुस्थां सिरां विध्येत्|
Adhikarana gRudhrasyAM sirAH (15) · Śloka 15
गृध्रस्यां जानुनोऽधस्तादूर्ध्वं वा चतुरङ्गुले| |१५|
🔊 Audio coming soon
स०-गृध्रस्यां जानुनोऽधस्ताच्चतुरङ्गुल ऊर्ध्वं वा जानुनश्चतुरङ्गुले स्थितां सिरां विध्येत्|
Adhikarana apacyAM sirAH (15) · Śloka 15
| इन्द्रबस्तेरधोऽपच्यां द्व्यङ्गुले|१५|
🔊 Audio coming soon
स०-अपचीसंज्ञे रोगे इन्द्रबस्तेरधो द्व्यङ्गुले सिरां विध्येत्| इन्द्रबस्तिः-जङ्घान्तरे वक्ष्यमाणः (हृ. शा. अ. ४|५)
Adhikarana sakthishUle kroShTukashIrShake ca sirAH (15-16) · Śloka 16
| चतुरङ्गुले||१५|| ऊर्ध्वं गुल्फस्य सक्थ्यर्तौ, तथा क्रोष्टुकशीर्षके| |१६|
🔊 Audio coming soon
स०-सक्थिपीडायां गुल्फस्योर्ध्वं चतुरङ्गुले सिरां विध्येत्| क्रोष्टुकशीर्षाख्ये वातरोगविशेषे गुल्फस्योर्ध्वं चतुरङ्गुले विध्येत्|
Adhikarana pAdadAhAdiShu ShaTsu sirAH (16-17) · Śloka 17
| पाददाहे खुडे हर्षे विपाद्यां वातकण्टके||१६|| चिप्पे च द्व्यङ्गुले विध्येदुपरि क्षिप्रमर्मणः| |१७|
🔊 Audio coming soon
स०-पाददाहादिषु क्षिप्रममर्ण उपरि द्व्यङ्गुले विध्येत्| खुडं-वातरक्तम्|
Adhikarana vishvAcyAM sirAH (17) · Śloka 17
| गृध्रस्यामिव विश्वाच्याम्|१७|
🔊 Audio coming soon
स०-विश्वाच्यां गृध्रसीप्रोक्तां सिरां विध्येत्| "गृध्रस्यां जानुनोऽधस्तात् " इति|
Adhikarana yathoktasirANAmadarshane tadAsannAH sirAH (17-18) · Śloka 18
| यथोक्तानामदर्शने||१७|| मर्महीने यथासन्ने देशेऽन्यां व्यधयेत् सिराम्| |१८|
🔊 Audio coming soon
स०-यथोक्तानां सिराणामदर्शने सति मर्मवर्जिते यथासन्ने स्थाने व्याधिवशादपरां व्यधयेत्|
Adhikarana sirAvyadhavidhiH kaNThordhasirANAM yantraNam (18-22) · Śloka 22
| अथ स्निग्धतनुः सज्जसर्वोपकरणो बली||१८|| कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः| अग्नितापातपस्विन्नो जानूच्चासनसंस्थितः||१९|| मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः| मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत्||२०|| दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत्| पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयन्नरः||२१|| कन्धरायां परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्| एषोऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः||२२||
🔊 Audio coming soon
स०-अथेत्यानन्तर्ये| स्निग्धा तनुर्यस्य स स्निग्धतनुः| तथा, सज्जानि-प्रगुणानि, { सर्वाणि } उपकरणानि-वस्त्रषण्डपटोदकस्नेहगैरिकादीनि, यस्य स सज्जसर्वोपकरणः| तथा, बलीपुष्टः| तथा, कृतं स्वस्त्ययनं-बलिमङ्गलहोमादिकं, यस्य स कृतस्वस्त्ययनः| तथा, स्निग्धरसयुक्तेनान्नेन प्रतिभोजितः| तथा, अग्नितापश्चातपश्च, ताभ्यां स्विन्नः| तथा, जानुतुल्ये उच्चासने, संस्थितः-समुपविष्टः| तथा, मृदुना-सूक्ष्मेण, वस्त्रपट्टेनात्तो-गृहीतो बद्धः केशान्तो यस्य स एवम्| तथा, जानुनोः स्थापितौ कूर्परौ येन स एवम्| तथा, मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्येऽतिशयेन पीडयेत्| तथा, दन्तप्रपीडनादीन्याचरेत्| एनं चातुरं पृष्ठदेशे वसनमावेष्टयन्नरो यन्त्रयेत्| कथम् ? ग्रीवायां वस्त्रं परिक्षिप्य, तथाऽन्तः-मध्ये, वामतर्जनीं न्यस्य| सिराणां यन्त्रण एष विधिः-एतद्विधानम्| किम्भूतानाम् ? अन्तर्मुखवर्ज्यानाम्|
Adhikarana sirotthApanavidhiH (23) · Śloka 23
ततो मध्यमयाऽङ्गुल्या वैद्योऽङ्गुष्ठविमुक्तया| ताडयेत्|२३|
🔊 Audio coming soon
स०-ततो-यन्त्रणादनन्तरं, वैद्योऽङ्गुष्ठविमुक्तया वामपाणिजया मध्यमयाऽङ्गुल्या ताडयेत्|
Adhikarana sirAlakShIkaraNavidhiH sirAmokShaNavidhiH (23-25) · Śloka 25
| उत्थितां ज्ञात्वा स्पर्शाद्वाऽङ्गुष्ठपीडनैः||२३|| कुठार्या लक्षयेन्मध्ये वामहस्तगृहीतया| फलोद्देशे सुनिष्कम्पं सिरां, तद्वच्च मोक्षयेत्||२४|| ताडयन् पीडयंश्चैनां| |२५|
🔊 Audio coming soon
स०-स्पर्शेन तथाऽङ्गुष्ठपीडनैर्वोत्थितां ज्ञात्वा, ऊर्ध्वदण्डसिराया मध्ये न्यस्य फलोद्देशे सुनिष्कम्पं वामहस्तगृहीतया कुठार्या सिरां लक्षयेत्| तद्वच्च मोक्षयेत्| यथैव लक्षयेत्तथैवेत्यर्थः| व्रीहिमुखेन पुनस्ताडयन्-व्यथयन्, तथाऽङ्गुष्ठादिना पीडयन्, एनां-कुठारिकाविषयजां सिरां, विध्येत्| ननु, कुठारिकाविषये कथं व्रीहिवक्त्रस्य प्रयोगः ? यतः 'अपवादविषयं परिहृत्योत्सर्गः प्रवर्तते' इति न्यायात् व्रीहिवक्त्रस्यैव सामान्येन प्रयोगोऽनुज्ञातः| तथा चाह (हृ. सू. अ. २६|११)- "व्रीहिवक्त्रं प्रयोज्यं च तत्सिरोदरयोर्व्यधे|" इति| कुठार्याः पुनर्विशेषोऽभिहितः (हृ. सू. अ. २६|१२)-"तयोर्ध्वदण्डयाविध्येदुपर्यस्थ्नां स्थितां शिराम्|" इति| तस्मादयुक्तमेतत्| अत्रोच्यते ज्ञापकम्| कुठारिकाविषये व्रीहिवक्त्रस्य प्रयोगो न्याय्य एव| यदयमाचार्यो वक्ष्यति (श्लो.३३)-"मांसले निक्षिपेद्देशे व्रीहास्यं व्रीहिमात्रकम्|" इति| अनेन हि वचनेन ग्रन्थकार इदं प्रत्यपादयत्,- बहुमांसे शरीरावयवे व्रीहिमुखं व्रीहिमात्रं निक्षेप्यम्, अन्यत्र त्वाशयानुरोधेन व्रीहिवक्त्रस्य प्रयोगः कार्य इति| अनेनैवाभिप्रायेण शास्त्रकृता "प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्चापि संशये मात्रच् वक्तव्यः इत्यनेन मात्रच् कृतः| अन्यथा तु स्पष्टं कृत्वा "व्रीहिप्रमाणं व्रीह्यास्यं मांसले निक्षिपेद्व्यधे|" इति पाठं कुर्यात्| तस्माद्युक्तो व्रीहिमुखस्य कुठारिकाविषये प्रयोग इति|
Adhikarana upanAsikAyA vyadhanam (25) · Śloka 25
विध्येद्व्रीहिमुखेन तु| अङ्गुष्ठेनोन्नमय्याग्रे नासिकामुपनासिकाम्||२५||
🔊 Audio coming soon
स०-अग्रे-अग्रदेशे, नासिकामङ्गुष्ठेनोन्नमय्य, उपनासिकां- नासिकासन्नदेशस्थां सिरां, विध्येत्|
Adhikarana jihvAdhaH sirAvyadham (26) · Śloka 26
अभ्युन्नतविदष्टाग्रजिह्वस्याधस्तदाश्रयाम्| |२६|
🔊 Audio coming soon
स०-आभिमुख्येनोन्नता-उपरि तालुदेशे नीता, तथा विशेषेण दन्तैर्दष्टा-विदष्टा, अग्रे जिह्वा-अग्रजिह्वा, येनासावभ्युन्नतविदष्टाग्रजिह्वः, तस्याधः-प्रकृतत्वाज्जिह्वाया एवाधस्तात्, तदाश्रयां-जिह्वाधःस्थां सिरां विध्येत्| तदित्यनेन जिह्वाधः परामृश्यते| जिह्वाध आश्रयो यस्याः सिऱ्रायाः, ताम्|
Adhikarana grIvAsirANAM yantraNam (26) · Śloka 26
| यन्त्रयेत्स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे||२६||
🔊 Audio coming soon
स०-ग्रीवाश्रितानां सिराणां व्यधो-ग्रीवाश्रितसिराव्यधः, तस्मिन् स्तनयोरूर्ध्वं यन्त्रयेत्-वाससा वेष्टयेत्|
Adhikarana bhujasirANaM yantraNam (27) · Śloka 27
पषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे| कुक्षेरारभ्य मृदिते विध्येद्बद्धोर्ध्वपट्टके||२७||
🔊 Audio coming soon
स०-पाषाणगर्भौ हस्तौ यस्य, तस्य नरस्य भुजे जानुस्थे-जानुपृष्ठस्थिते, प्रसृते-प्रसारिते| 'भुजे' इत्येकवचनमतन्त्रम्, द्वावपि हि भुजौ गृह्येते| कुक्षेरारभ्य यावद्ग्रीवं तावन्मृदिते- मलिते| कस्मिन् ? ग्रीवाश्रितसिराव्यर्धार्हेऽङ्गे| तथा बद्ध ऊर्ध्वं पट्टको यस्मिंस्तस्मिन् विध्येत्| प्रकृतत्वात् सिराम्|
Adhikarana hastasirANAM yantraNam (28-29) · Śloka 29
विध्येद्धस्तशिरां बाहावनाकुञ्चितकूर्परे| बद्ध्वा सुखोपविष्टस्य मुष्टिमङ्गुष्ठगार्भिणम्||२८|| ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले| |२९|
🔊 Audio coming soon
स०-हस्तसिरां विध्येत्| कथम् ? बाहावनाकुञ्चितकूर्परे,-अनाकुञ्चितः-प्रसारितः, कूर्परो यस्य बाहोस्तस्मिन्| तथा, सुखोपविष्टस्य-सुखासीनस्य| तथा, मुष्टिं बद्ध्वा| किम्भूतम् ? अङ्गुष्ठेन गर्भिणं-अङ्गुष्ठगर्भिणम्| गूढाङ्गुष्ठं मुष्टिं बद्ध्वेत्यर्थः| तथा, वेध्यस्थानादुपरि चतुरङ्गुलपरिमाणे स्थाने पट्टिकां बद्ध्वा विध्येत्|
Adhikarana pArshvasirANAM yantraNam (29) · Śloka 29
| विध्येदालम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम्||२९||
🔊 Audio coming soon
स०-बाहुभ्यामालम्बमानस्य-अवलम्ब्यं वस्तु भुजाभ्यामासजतः पार्श्वयोः सिरां विध्येत्|
Adhikarana meDhrasirANAM yantraNam (30) · Śloka 30
प्रहृष्टे मेहने| |३०|
🔊 Audio coming soon
स०-प्रहृष्टे-स्तब्धे, मेढ्रे तदाश्रितां सिरां विध्येत्|
Adhikarana ja~gghAsirANAM yantraNam (30) · Śloka 30
जङ्घासिरां जानुन्यकुञ्चिते| |३०|
🔊 Audio coming soon
स०-जानुन्यकुञ्चिते स्पष्टे स्थिते सति, जङ्घायां सिरां विध्येत्|
Adhikarana pAdasirANAM yantraNam (30-32) · Śloka 32
| पादे तु सुस्थितेऽधस्ताज्जानुसन्धेर्निपीडिते||३०|| गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि| द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः||३१|| बद्ध्वा विध्येत्सिराम्| |३२|
🔊 Audio coming soon
स०-सुखं कृत्वा भूम्यादिदेशे स्थिते पादे सति पादसिरां विध्येत्| तथा जानुसन्धेरधस्तादागुल्फं-गुल्फं यावत्, कराभ्यां गाढं कृत्वा पीडिते सति, तस्य चरणस्योपरि-उपरिष्टात् द्वितीये चरण ईषत्सङ्कुचिते, तथा आरूढे-तत्कलिते सति, ततो हस्तवत्-वेध्यस्थानादुपरि चतुरङ्गुले पट्टिकां, बद्ध्वा सिरां विध्येत्|
Adhikarana anuktasirANAM yantraNam (32) · Śloka 32
इत्थमनुक्तेष्वपि कल्पयेत्| तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित्||३२||
🔊 Audio coming soon
स०-इत्थं-अनेन प्रकारेण यन्त्रलक्षणोद्देशेन, अनुक्तमपि यन्त्रं तत्तद्देशमाहात्म्यात् क्रियासौकर्यार्थं तेषु तेषु शरीरावयवेषु स्वबुद्ध्या तत्तद्यन्त्रं यथायोगं कल्पयेत्, उपायज्ञो वैद्यः|
Adhikarana vrIhimukhasya nikhananam kuThArikAyA nikhananam (33) · Śloka 33
मांसले निक्षिपेद्देशे व्रीह्यास्यं व्रीहिमात्रकम्| यवार्धमस्थ्नामुपरि सिरां विध्यन् कुठारिकाम्||३३||
🔊 Audio coming soon
स०-मांसले शरीरावयवे व्रीहिमुखं शस्त्रं व्रीहिप्रमाणं निक्षिपेत्| अस्थ्नामुपरि कुठारिकां यवार्धमात्रां निक्षिपेत्| किं कुर्वन् ? सिरां विध्यन्|
Adhikarana samyagviddhAlakShaNam (34) · Śloka 34
सम्यग्विद्धा स्रवेद्धारां यन्त्रे मुक्ते तु न स्रवेत्| |३४|
🔊 Audio coming soon
स०-सम्यग्विद्धे सति(द्वा सती) धारां स्रवेत्| यन्त्रे च मुक्ते सति न स्रवेत्|
Adhikarana durviddhAlakShaNam atividdhAlakShaNam (34-35) · Śloka 35
| अल्पकालं वहत्यल्पं, दुर्विद्धा तैलचूर्णनैः||३४|| सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते| |३५|
🔊 Audio coming soon
स०-अल्पं विद्धा सती सिरा स्तोकं कालं वहति| दुर्विद्धा-असम्यग्विद्धा सती, सिरा तैलयुक्तैश्चूर्णनैः स्रवेत्| अतिविद्धा तु सिरा सशब्दं स्रवेत्| दुःखेन-कृच्छ्रेण धार्यते|
Adhikarana raktAvarodhakAraNAni (35-36) · Śloka 36
| भीमूर्च्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः||३५|| क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः| |३६|
🔊 Audio coming soon
स०-भीमूर्छादयो रक्तस्यास्रवणहेतवः| भीः-भयम्| मूर्च्छा-मोहस्तमसीव प्रवेशः| यन्त्रशैथिल्यम्-अगाढं कृत्वा यन्त्रपीडनम्| तथा, कुण्ठं-भग्नं शस्त्रम्| तथा, अतितृप्तिः-अतिसौहित्यम्| क्षामत्वं-निर्बलता| वेगिता-सञ्जातवेगत्वम्| अस्वेदः-स्वेदायोगः| यतश्चैते रुधिरस्यास्रुतिहेतवस्ततो रक्तस्रुतावेते परिहार्याः|
Adhikarana samyaksrAvArthamauShadham (36-37) · Śloka 37
| असम्यगस्त्रे स्रवति वेल्लव्योषनिषानतैः||३६|| सागारधूमलवणतैलैर्दिह्याच्छिरामुखम्| |३७|
🔊 Audio coming soon
स०-असम्यगस्त्रे स्रवति वेल्लादिभिः सिरावदनं दिह्यात् प्रलेपयेत्|
Adhikarana samyaksrAvanirvAhArthamauShadham (37) · Śloka 37
| सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च||३७||
🔊 Audio coming soon
स०-सम्यक्प्रवृत्ते रक्ते सिरामुखं कोष्णाभ्यां तैललवणाभ्यां दिह्यात्|
Adhikarana duShThAsramevAgre sirAH sravanti (38) · Śloka 38
अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका| |३८|
🔊 Audio coming soon
स०-यथा रागपीतिकामिश्रीभूतात् कुसुम्भादग्रे-पूर्वं, पीतिका स्रवति, एवं दुष्टादुष्टरक्तादेकलोलीभूतात् पूर्वं दुष्टमस्रं स्रवति|
Adhikarana svayaM sthitaM raktaM nAharet (38) · Śloka 38
| सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत्||३८||
🔊 Audio coming soon
स०-यथावत्प्रस्रुत्य स्वयं-यत्नेन विना, यत् तिष्ठेत्-न स्रवेत्, शुद्धं तदिति नाहरेत्-न स्रावयेत्, जीवितहेतुत्वात्|
Adhikarana mUrcchAyAM pratIkAraH (39) · Śloka 39
यन्त्रं विमुच्य मूर्च्छायां वीजिते व्यजनैः पुनः| स्रावयेन्मूर्च्छति पुनस्त्वपरेद्युस्त्र्यहेऽपि वा||३९||
🔊 Audio coming soon
स०-मूर्च्छायां सत्यां यन्त्रं विमुच्य व्यजनैर्वीजिते-समाश्वस्तेनरे सति, पुनरस्रं स्रावयेत्| पुनर्मूर्च्छति त्वातुरेऽशुद्धमपि रक्तं तस्मिन्नहनि न स्रावयेत्| कदा तर्हि स्रावयेत् ? इत्याह-अपरेद्युः,-अन्यस्मिन् दिने, त्र्यहेऽपि वा-तृतीये वाऽह्नि, स्रावयेत्|
Adhikarana vAtaduShTaraktasya lakShaNam (40) · Śloka 40
वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम्| |४०|
🔊 Audio coming soon
स०-वातात् श्यावादिलक्षणं रक्तं स्यात्|
Adhikarana pittaduShTarakasya lakShaNam (40) · Śloka 40
| पित्तात् पीतासितं विस्रमस्कन्द्यौष्ण्यात्सचन्द्रिकम्||४०||
🔊 Audio coming soon
स०-पित्तात् पीतादिलक्षणमस्रं स्यात्| अस्कन्दि-अस्त्यानम्, उष्णत्वात्| सचन्द्रिकं च|
Adhikarana kaphaduShTaraktasya lakShaNam (41) · Śloka 41
कफात् स्निग्धमसृक्पाण्डु तन्तुमत्पिच्छिलं घनम्| |४१|
🔊 Audio coming soon
स०-कफात् स्निग्धादिलक्षणमसृक् स्यात्|
Adhikarana dvandvaduShTaraktasya lakShaNam (41) · Śloka 41
| संसृष्टलिङ्गं संसर्गात्|४१|
🔊 Audio coming soon
स०-संसर्गाद्दोषाणां संसृष्टलिङ्गं रक्तं स्यात्|
Adhikarana tridoShaduShTaraktasya lakShaNam (41) · Śloka 41
| त्रिदोषं मलिनाविलम्||४१||
🔊 Audio coming soon
स०-त्रिदोषरक्तं मलिनं-कलुषं, आविलं-घनं च| एतच्च दोषत्रयसंसर्गलक्षणादधिकं लक्षणं मन्तव्यम्| न चैतावदेव त्रिदोषलक्षणं मन्तव्यम्|
Adhikarana srAvapramANam (42) · Śloka 42
अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम्| अतिस्रुतौ हि मृत्युः स्याद्दारुणा वा चलामयाः||४२||
🔊 Audio coming soon
स०-अशुद्धमस्रं बलिनोऽपि-किं पुनरबलिनः, प्रस्थात् परं-अधिकं, न स्रावयेत्| { कस्मात् ? इत्याह- } अतिस्रावे हि रक्तस्य, मृत्युर्भवेत्| अथवा वातरोगाश्च कृच्छ्राः स्युः|
Adhikarana atisrAve bheShajam (43) · Śloka 43
तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम्| |४३|
🔊 Audio coming soon
स०-तत्र-रक्तातिस्रुतौ, अभ्यङ्गादीनि भेषजम्|
Adhikarana srutaraktasyAnantaraM kRutyam (43-44) · Śloka 44
| स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना||४३|| प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम्| |४४|
🔊 Audio coming soon
स०-स्रुते रक्ते सति यन्त्रं शनैर्विमुर्च्य-मन्दं मन्दमपनीय, सिरामुखं शीतोदकेन प्रक्षाल्य, तैलप्लोतेनाक्तं सद्बन्धनीयम्|
Adhikarana asamyakshuddhaupunaH srAvakAlaH (44-45) · Śloka 45
| अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा||४४|| स्नेहोपस्कृतदेहस्य पक्षाद्वा भृशदूषितम्| |४५|
🔊 Audio coming soon
स०-अशुद्धं-वातादिदुष्टरुधिरलक्षणेन दुष्टं ज्ञात्वा, भूयः-पुनः, स्रावयेत्| कदा ? सायं-अपराह्ने, तस्मिन्नेव दिने| अथवा, अपरेऽह्नि-द्वितीये दिने| अथवा स्नेहेनोपस्कृतोभावितो, देहो यस्य तथाविधस्य भृशदूषितं-अतिशयेन दुष्टं रक्तं, पक्षादूर्ध्वं पुनः स्रावयेत्| एवमशुद्धं रक्तं यथायोगं सायमह्न्यपरे पक्षादूर्ध्वं वा प्रस्थपरिमाणमेव स्रावयेन्न ततोऽधिकमिति रक्तस्रुतौ क्रमः| प्रस्थपरिमाणं च तन्त्रान्तरे गदितम् "वमने च विरेके च रक्तातीसारयोरपि| सार्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः||" इति|
Adhikarana ki~jcidduShTaraktasheShe~api na srutiH (45-46) · Śloka 46
| किञ्चिद्धि शेषे दुष्टास्रे नैव रोगोऽतिवर्तते||४५|| सशेषमप्यतो धार्यं न चातिस्रुतिमाचरेत्| |४६|
🔊 Audio coming soon
स०-यस्मात् किञ्चिच्छेषे दुष्टरक्ते नैव रोगो-दुष्टरक्तोद्भवो व्याधिः, अतिवर्तते-क्रियापथमतिक्रम्य मार्गान्तरमसौ नासादयति| अतो दुष्टमपि रक्तं सशेषं धार्यम्| नास्य दुष्टरक्तस्यातिस्रुतिमाचरेत्, प्राणायतनत्वात्| सुश्रुतोऽप्यध्यगीष्ट (?) "सशेषं दुष्टरुधिरमपि कुर्याद्विचक्षणः| न चातिप्रस्रुतं कुर्याच्छेषं संशमनैर्जयेत्||" इति|
Adhikarana duShTaraktasheShasya shRu~ggAdibhirharaNam (46) · Śloka 46
| हरेच्छृङ्गादिभिः शेषम्|४६|
🔊 Audio coming soon
स०-स्रुतशेषं दुष्टरक्तं शृङ्गतुम्बघटिकादिभिर्हरेत्, न तु सिरया|
Adhikarana athavA tasya shItopacArAdibhiH prasAdanam (46-47) · Śloka 47
| प्रसादमथवा नयेत्||४६|| शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः| दुष्टं रक्तमनुद्रिक्तमेवमेव प्रसादयेत्||४७||
🔊 Audio coming soon
स०-अथवा शीतोपचारेण, पित्तास्रक्रियया, शुद्ध्या-वमनविरेचनादिरूपया, विशोषणेन-लङ्घनरूपेण, तद्दुष्टं रक्तं प्रसादयेत्-कलुषतां परित्यज्य तस्य प्रसन्नत्वमुपपादयेत्| न तु केवलं स्रुतशेषं रुधिरं शीतोपचारेण (चारादिना) प्रसादयेत्| यावदनुद्रिक्त-अप्रवृद्धं दुष्टं रुधिरं, एवमेव-अनेनैव शीतोपचारादिना, प्रसादं नयेत्| न तु तन्निर्हरणे सिराव्यधादिना यतनीयम्, अनुद्रिक्तरक्तनिर्हरणस्य सापायत्वात्|
Adhikarana atisrAve stambhanam (48) · Śloka 48
रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम्| |४८|
🔊 Audio coming soon
स०-रक्ते त्वतिष्ठति-स्थितिमलभमाने, त्वरितमेव स्तम्भनीं क्रियां-वक्ष्यमाणां, कुर्यात्, रक्तस्य प्राणायतनत्वात्|
Adhikarana stambhana visheShaH (48-50) · Śloka 50
| रोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्याह्वगैरिकैः||४८|| मृत्कपालाञ्जनक्षौ ममषीक्षीरित्वगङ्कुरैः| विचूर्णयेद्व्रणमुखं पद्मकादिहिमं पिबेत्||४९|| तामेव वा सिरां विध्येद्व्यधात्तस्मादनन्तरम्| सिरामुखं वा त्वरितं दहेत्तप्तशलाकया||५०||
🔊 Audio coming soon
स०-रोध्रादिभिः सिराव्रणमुखं विचूर्णयेत्| पद्मकादिहिमं-शीतकषायं, पिबेत्| तामेव-प्राग्विद्धां, सिरां तस्मात्प्राग्व्यधादनन्तरं, अव्यवहितं विध्येत्| अथवा सिराद्वारं क्षिप्रं कृत्वाऽग्निनोपतप्तया शलाकया दहेत्|
Adhikarana srutaraktasya pathyaniyamakAlAvadhiH (51) · Śloka 51
उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत्| दोषाः प्रदुष्टा रुधिरं प्रपन्ना स्तावद्धिताहारविहारभाक् स्यात्||५१||
🔊 Audio coming soon
स०-यन्त्रनिपीडनेनोन्मार्गगाः-स्वमार्गमुल्लङ्घ्य मार्गान्तरसमाश्रयणेनोत्पथं प्रतिपन्नाः| किंभूता दोषाः? प्रदृष्टाः, तथाविधं रक्तं प्राप्ता |ते पुनर्यावत्स्वाश्रयं न प्रतिपद्यन्ते तावद्धिताहारविहारभाक् स्यात्-हितावाहारविहारौ भजेत्| "भजो ण्विः इति ण्विः| इन्द्रवज्रावृत्तम्|
Adhikarana pathyam ukte pathye yuktiH (52) · Śloka 52
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्| तदा शरीरं ह्यनवस्थितासृ गग्निर्विशेषादिति रक्षितव्यः||५२||
🔊 Audio coming soon
स०-रक्ते स्रावितेऽन्नपानं नात्युष्णशीतं हितम्| अत्युष्णं ह्यन्नपानं रक्तं प्रदूषयेत्| अतिशीतं त्वग्निं सादयेत्| तथा, लघु-स्वभावतो मात्रासंस्कारादिना वा, तथा दीपनीयम्| कुत एवमन्नपानं हितम् ? इत्याह-यस्मात्तस्मिन् काले शरीरमनवस्थितं-चलितवृत्ति, रक्तं यस्य शरीरस्य तदेवंभूतं भवति| तच्चासृक् शरीरस्याधारो, रक्तस्य च पित्तं, पित्तं च वह्निः| तथा च वक्ष्यति (हृ. शा. अ. ३|९०)- "पित्तं वह्निः" इति| तस्माद्विशेषात्-महता यत्नेन, वह्निर्नात्युष्णशीतादिनाऽऽहारविहारेण रक्षितव्यः|
Adhikarana vishuddharaktasya lakShaNam (27) · Śloka 27
प्रसन्नवर्णेन्द्रियमिन्द्रियार्था- निच्छन्तमव्याहतपक्तृवेगम्| सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति||५३|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शिराव्यधविधिर्नाम सप्तविंशोऽध्यायः||२७||
🔊 Audio coming soon
स०-वर्णश्चेन्द्रियाणि च वर्णेन्द्रियाणि, प्रसन्नानि वर्णेन्द्रियाणि यस्य तं प्रसन्नवर्णेन्द्रियम्| तथा, इन्द्रियार्थान् शब्दादीन् स्वभावाभिप्रेतान्, इच्छन्तं-अभिलषन्तम्| तथा, पक्तुर्वेगः-सामर्थ्यम्, अव्याहतः-अनभिभूतः, पक्तृवेगो यस्य तमव्याहतपक्तृवेगम्| तथा, सुखान्वितं-आरोग्ययुक्तं प्रकृतिमापन्नम्| तथा पुष्टिबलाभ्यां युक्तम्| एवंविधं विशुद्धरक्तं पुरुषं वदन्ति, इति शरीरस्य लक्षणमुक्तम्| "मधुरं लवणं" इत्यादिना तु रक्तस्यैव विशुद्धलक्षणमभिहितमिति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने शिराव्यधविधिर्नाम सप्तविंशोऽध्यायः समाप्तः|| २७||