Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
शोधनादिगणसङ्ग्रहाध्यायादनन्तरं स्नेहाध्यायारम्भः| यतः शोधनं स्नेहस्वेदावन्तरेण न सम्भवति| वक्ष्यति हि (हृ. सू. अ. १८|५९) - "स्नेहस्वेदावनभ्यस्य इत्यादि|
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
शोधनादिगणसङ्ग्रहाध्यायादनन्तरं स्नेहाध्यायारम्भः| यतः शोधनं स्नेहस्वेदावन्तरेण न सम्भवति| वक्ष्यति हि (हृ. सू. अ. १८|५९) - "स्नेहस्वेदावनभ्यस्य इत्यादि|
Adhikarana snehavidhiradhyAyaH (2) · Śloka 2
तस्मात्स्नेहस्वेदाध्याययोरारम्भो युक्त इत्याह - - - - अथातः स्नेहविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे||२||
🔊 Audio coming soon
स०-स्नेहस्य-सर्पिरादेर्विधिः स्नेहविधिः, तं व्याख्यास्यामः| शेषं पूर्ववद्योज्यम्|
Adhikarana snehanavirUkShaNayoH svarUpam (1) · Śloka 1
गुरुशीतसरस्निग्धमन्दसूक्ष्ममृदुद्रवम्| औषधं स्नेहनं प्रायो, विपरीतं विरूक्षणम्||१||
🔊 Audio coming soon
स०-गुर्वादिगुणयुक्तं यद्द्रव्यं तत् स्नेहनं भवति| विपरीतमतो यल्लघूष्णस्थिररूक्षतीक्ष्णस्थूलकठिनसान्द्रगुणोपेतं तद्विरूक्षणम्| प्रायोग्रहणं विरूक्षणे स्नेहने च योज्यम्| तथा च,- लघ्ह्वपि सार्षपं तैलं छागं च दुग्धं तथा विष्किरप्रतुदमृगाख्यं वर्गत्रयं स्नेहनं भवति| तथा, उष्णमपि मत्स्यमहिषमांसं स्नेहनं भवति| एवं रूक्षणेऽपि वेद्यम्| तथा च,- यवो गुरुशीतसरादिगुणयुक्तोऽपि विरूक्षणः, तथा राजमाषोऽपि| स्नेहने प्रकृतेऽपि विरूक्षणोपन्यासोऽन्वयव्यतिरेकेण सुतरां स्नेहस्य सम्यक्प्रतिपादनार्थः|
Adhikarana sneheShu sarpirAdInAM pravaratvam, sneheShvuttamaM sarpiH (2-3) · Śloka 3
सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम्| तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||२|| माधुर्यादविदाहित्त्वाज्जन्माद्येव च शीलनात्| |३|
🔊 Audio coming soon
स०-स्नेहेषु-क्षीरानूपामिषादिषु मध्ये, सर्पिरादयश्चत्वारः स्नेहाः प्रकर्षेण वराः| तत्रापि च-तेष्वपि चतुर्षु मध्ये, सर्पिरुत्तमम्, संस्कारस्यानुवर्तनात्| ननु, यदि संस्कारमनुवर्तते सर्पिस्तदानीं मरिचचित्रकादिद्रव्याभिसंस्कृतस्य घृतस्य शैत्यादिगुणविपर्यासः प्राप्तः| न चेदं दृष्टम्| यदस्य शैत्यादयो गुणा विनश्यन्त्यौष्ण्यादयश्चोत्पद्यन्ते इति| अत्रोच्यते| अनुशब्दोऽत्र सहार्थे, अनेकार्थत्वान्निपातानाम्| तेनायमर्थः,-सर्पिषो गुणाः संस्कारगुणैः सह वर्तन्ते, न तु तैलादीनाम्| तैलवसामज्जानो हि संस्कारवशात् स्वगुणांस्त्यजन्ति| अत्र चोदाहरणं यथा,-चन्दनाद्यं तैलमिति| अतो द्रव्यगुणान्तरैरनभिभूतगुणत्वात्सर्पिष इतरेषां च तैलादीनां द्रव्यैरभिभूतगुणत्वादुत्तमत्वम्| अत एव च वातपित्तज्वरादिषु विकारेषु घृतसाध्येषु भेषजं तैलं नेष्टम्, अनिष्टसम्पादनात्| तैलसाध्येषु तु विकारेषु तदुपशान्त्यर्थ तथाविधद्रव्यसंस्कृतं घृतमपीष्टम्| तद्धि न तथाऽनिष्टहेतुः| तस्मात् सर्वस्नेहेभ्यः सर्पिरेवोत्तमम्, संस्कारस्यानुवर्तनादिति न्यायात् न्याय्यमेव| माधुर्यादिहेतोश्च|
Adhikarana sarpirAdInAM snehaprayoge doShavisheSheNa tAratamyam (3) · Śloka 3
| पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्||३||
🔊 Audio coming soon
स०-यो यः पूर्वो-यथापूर्वम्, यो य उत्तरो-यथोत्तरम्| "यथासादृश्ये" इत्यव्ययीभावः| उत्तरमपेक्ष्य पूर्वः पूर्वं चापेक्ष्योत्तरः| तेन चतुर्णां स्नेहानां यथानिर्दिष्टानां सर्पिरादीनां त्रय एव स्नेहा वसामज्जसर्पिःसंज्ञका यथापूर्वत्वेन सम्बध्यन्ते, न तु तैलाख्यः स्नेहः, तस्य पूर्वत्वाभावात्| न ह्यन्योऽस्मात् कश्चिदुत्तरोऽस्ति, यदपेक्ष्यैषः पूर्वत्वमात्मन आसादयेत्| तस्मान्नास्ति पूर्वत्वसम्बन्धस्तैलस्य| [तथा, चतुर्णां स्नेहानां त्रय एव स्नेहा मज्जवसातैलाख्या यथोत्तरत्वेनाभिसम्बध्यन्ते, न सर्पिःसंज्ञकः स्नेहः, उत्तरत्वाभावात्| न ह्यन्यः कश्चिदस्य पूर्वो विद्यते, यदपेक्षयैवोत्तरत्वमात्मन आसादयतीत्युक्तम्| ] तदेवं यथापूर्वं पित्तघ्नत्वं वसामज्जसर्पिषां सामान्येनोक्तम्| विशेषेण च-, वसा पित्तघ्नी, मज्जा पित्तघ्नतरः, सर्पिः पित्तघ्नतममित्यर्थः| इतरघ्ना इत्यादि| इतरौ-वातकफौ पित्तापेक्षया, तौ घ्ह्नन्ति-पराकुर्वन्तीतीतरघ्ह्नाः| यथोत्तरं त्रयः स्नेहा मज्जवसातैलाख्या वातश्लेष्मघ्नाः| तेन मज्जा वातश्लेष्मघ्नो वसा वातश्लेष्मघ्नतरा तैलं वातश्लेष्मघ्नतममित्यवगन्तव्यम्| अन्ये त्वेवं व्याचक्षते-श्लेष्मणि स्नेहनिषेधादितरघ्ना इति सामान्योक्तावपि वातघ्ना इति गम्यते| अथवा द्रव्यान्तरसंस्कृतसर्पिराद्यपेक्षया कफस्यापीतरशब्देन ग्रहणमिति|
Adhikarana sarpirAdInAM gurutve tAratamyam (4) · Śloka 4
घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च| |४|
🔊 Audio coming soon
स०-घृताद्गुरुणः सकाशात्तैलं गुरु-गुरुतरमित्यर्थः| वसा तु तैलाद्गुरुतमा| ततोऽप्यतिशयेन मज्जा गुरुतमः|
Adhikarana yamakastrivRuto mahAn iti saMj~jAtrayam (4) · Śloka 4
इदानीं यमकः स्नेहस्त्रिवृतः स्नेहो महास्नेह इति च तत्र तत्रोच्यन्ते, न च ते ज्ञायन्त इत्याह - - - - | द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान्||४||
🔊 Audio coming soon
स०-द्वाभ्यां स्नेहाभ्यां-सर्पिर्वसाभ्यां सर्पिस्तैलाभ्यां सर्पिर्मज्जभ्यामित्यादि, द्वाभ्यां द्वाभ्यां यमको नाम्ना स्नेहः| एवं त्रिभिः स्नेहैस्त्रिवृतः, चतुर्भिर्महास्नेहः, 'उच्यते' इति शेषः|
Adhikarana snehyAH (5-6) · Śloka 6
सम्प्रति स्नेह्यान्निरूपयति - - - - स्वेदसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः| वृद्धबालाबलकृशा रूक्षाः क्षीणास्ररेतसः||५|| वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः| स्नेह्याः|६|
🔊 Audio coming soon
स०-स्वेद्यादयः स्नेह्याः-स्नेहार्हाः| न ह्यस्नेहितः स्वेद्य इत्यर्थः| एवं योऽपि शोध्यः सोऽपि पूर्वं स्नेह्यः| स्वेद्याः-स्वेदार्हाः| अर्हार्थे कृत्यप्रत्ययोऽत्र ण्यः| एवं संशोध्याः-शोधनार्हाः, मद्यासक्ताः स्त्र्यासक्ता व्यायामसक्ताश्च, तथा चिन्तकाः, तथा वृद्धा बाला अबलाः-अल्पबलाः कृशा रूक्षाः क्षीणरुधिराः क्षीणशुक्राश्च, वातार्ताः-वातपीडिताः, स्यन्दादिषु प्रत्येकस्मिन् योज्यः, स्यन्दिनः-अक्षिरोगयुक्ताः, तिमिरिणश्च, दारुणप्रतिबोधिनः-कृच्छ्रोन्मीलिनः, एते स्नेहार्हाः|
Adhikarana snehanAyogyAH (6-8) · Śloka 8
| न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः||६|| ऊरुस्तम्भातिसाराऽऽमगलरोगगरोदरैः| मूर्च्छाच्छर्द्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः||७|| अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने| |८|
🔊 Audio coming soon
स०-अतिमन्दाग्न्यादयो न स्नेह्याः| अतिशब्दो यावद्दुर्बलेषु प्रत्येकं योज्यः| तेनातिदुर्बला न स्नेह्या इत्यर्थः| अत एवाल्पबलाः स्नेह्याः, न त्वतिदुर्बलाः, इति न पूर्वापरविरोधः| अतितीक्ष्णाग्नेः स्नेहनादत्यग्निवृद्धिः| अतिस्थूलस्य चाग्निमेदसोर्वृद्धिः| अतिदुर्बलस्य च जरणाशक्तेः स्नेहस्य व्यापत्| ऊरुस्तम्भादिभिर्यावन्मद्यैश्च पीडिता न स्नेह्याः| अपप्रसूता-स्रुतगर्भा, न स्नेह्येति लिङ्गवचनविपरिणामः| प्रयुक्ते च नस्यादिकर्मणि सर्व एव न स्नेह्याः|
Adhikarana ghRutasya viShayaH (8) · Śloka 8
साम्प्रतं चतुर्णां स्नेहानां मध्ये यो येभ्यो हितः, तं दर्शयन्नाह - - - - | तत्र धीस्मृतिमेधादिकाङ्क्षिणां शस्यते घृतम्||८||
🔊 Audio coming soon
स०-तत्र-तेषु स्नेहेषु मध्ये, धीस्मृत्याद्यभिलाषिणां घृतं शस्यते, यावदग्निकाङ्क्षिणाम्| अन्ये तु "मेधादिकाङ्क्षिणां" इति पठन्ति| आदिशब्देन स्वरायुर्वर्णादिपरिग्रहः|
Adhikarana tailasya viShayaH (9) · Śloka 9
ग्रन्थिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु| तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु||९||
🔊 Audio coming soon
स०-तैलं ग्रन्थ्यादिरोगिषु शस्यते| लाघवदार्ढ्यार्थिषु क्रूरकोष्ठेषु प्राणिषु च शस्यते|
Adhikarana vasAmajjorviShayaH (10-11) · Śloka 11
वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु| रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च||१०|| शेषौ| |११|
🔊 Audio coming soon
स०-वातादीनां क्षीणधातुना प्रत्येकं सम्बन्धः| वातक्षीणधातुषु एवमातपक्षीणधातुष्वित्यादि, शेषौ-घृततैलाभ्यामुक्ताभ्यामन्यौ वसामज्जानौ, शस्येते| तथा रूक्षादिष्वपि, एवं क्लेशसहेषु| अत्यग्निषु-महाग्निषु बलवदग्निष्विति द्रष्टव्यम्, अन्यथाऽत्यग्निषु स्नेहनिषेधात् पूर्वापरविरोधः स्यात्| अथवा, अत्यग्निष्वपि वसामज्जानावनुजज्ञे, अपवादवाक्यत्वादस्येति व्याख्येयम्| वातेनावृताः पन्थानः-छिद्राख्याः, येषां तेषु च शस्येते शेषौ|
Adhikarana vasAyAH viShayAntaram (11) · Śloka 11
वसायास्त्वन्यदपि विशेषान्तरमाह - - - - वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च| तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि||११||
🔊 Audio coming soon
स०-तुर्विशेषे| चः समुच्चये| रुजाशब्दः प्रत्येकं सम्बध्यते| सन्धिरुजास्वस्थिरुजास्वित्यादि| तथा दग्धरुज्याहतरुजि च, तथा भ्रष्टयोनिरुजीत्येवं सम्बन्धः कार्यः|
Adhikarana kAlavisheShe snehavisheShopayogaH (12-13) · Śloka 13
| इदानीं कस्मिन्काले कस्य स्नेहस्योपयोगः शस्त इति दर्शयन्नाह - ] - - - - तैलं प्रावृषि, वर्षान्ते सर्पिरन्यौ तु माधवे| ननु, वर्षासु तैलं वर्षान्ते सर्पिर्वसामज्जानौ माधव इति योऽयं नियमः, स किञ्चिदपेक्ष्य वर्तते आहोस्विदनपेक्ष्य ? इत्यस्मिन् पर्यनुयोग इदमाह - - - - ऋतौ साधारणे स्नेहः शस्तोऽह्नि विमले रवौ||१२|| तैलं त्वरायां शीतेऽपि| |१३|
🔊 Audio coming soon
स०-तैलं प्रावृषि शस्यत इति सम्बन्धः| एवमुत्तरत्रापि योजनीयम्| स्वस्थस्य स्नेहनार्थं सर्वस्यैव स्नेहस्य प्रसङ्गे नियमोऽयं क्रियते-, तैलं प्रावृष्येव, वर्षान्ते एव सर्पिः, अन्यौ वसामज्जानौ, माधव एवेति| स०-साधारणे ऋतौ-श्रावणादौ, संशोधनात् पूर्वं स्नेहनार्थं स्नेहः-सर्पिरादिश्चतुष्प्रकारोऽपि शस्तः| तथा, अह्नि-वासरे, न निशि| तथा, विमले रवौ-जलदनीहारादिनाऽनाच्छादिते खरांशौ| स्नेह इति सामान्यशब्दप्रयोगात् सर्वः स्नेहः सर्पिरादिश्चतुष्प्रकारो गृह्यते| स०-त्वरायां सत्यां-व्याधिक्रियां प्रति प्राप्ते काले स्नेहयोग्यतायां सत्याम्, शीते-हेमन्तशिशिराख्ये काले, तैलं संशोधनात्पूर्वं स्नेहनार्थं शस्तम्, नान्यः स्नेहः| अपिशब्दान्न केवलं वर्षासु, अवर्षासु च शस्तमित्यर्थः|
Adhikarana gharme~api ca nishi ghRutopayogaH (13) · Śloka 13
सर्वस्य स्नेहस्यान्ह्युपयोगाद्रात्रावप्रयोगः प्राप्त इत्याह - - - - घर्मेऽपि च घृतं निशि| |१३|
🔊 Audio coming soon
स०-न केवलं शरदि घृतं प्रयुञ्जीत यावद्घर्मेऽपि घृतं निश्युपयुञ्जीत|
Adhikarana pittAdiShu divAsnehanasyApavAdaH (13) · Śloka 13
| निश्येव पित्ते पवने संसर्गे पित्तवत्यपि||१३||
🔊 Audio coming soon
स०-न च घर्म एव निश्युपयुञ्जीत, यावत्पित्ते कुपिते तज्जे वा विकारे, तथा पवने कुपिते तज्जे वा विकारे स्नेहसाध्ये, घर्मे घृतं निश्युपयुञ्जीत, न दिवा न च तैलं वसामज्जानौ वा| तथा, पित्तवति-पित्ताधिके संसर्गे वातपित्ताख्ये श्लेष्मपित्ताख्ये कुपिते तज्जे वा विकारे स्नेहसाध्ये, घर्मे घृतमेव निश्युपयुञ्जीत| पित्ते पवन इत्येतत् दोषविकारोभयोपलक्षणार्थं वेद्यम्| पित्तवतीति भूम्नि मतुप्|
Adhikarana divArAtriniyamasya tyAge doShaH (14) · Śloka 14
निश्यन्यथा वातकफाद्रोगाः स्युः पित्ततो दिवा| |१४|
🔊 Audio coming soon
स०-अन्यथा-उक्तप्रकारादपरेण प्रकारेण| यथा,- शीतकाले निशि घृतोपयोगात् वातकफाद्धेतो रोगा भवेयुः| तथा, दिवा घर्मे काले तैलोपयोगात् पित्ततः-पित्तात्, रोगाः स्युः| वसामज्जोस्त्वनिश्चितस्वरुपत्वात् न तूष्णकाले नापि शीतकाले त्वरायां सत्यामुपयोगस्तन्त्रकारेण दर्शितः| तथा चोक्तम्-"यथासत्वं तु शैत्योष्णे वसामज्ज्ञोस्तु निर्दिशेत्|" इति|
Adhikarana snehopayogaprakAraH (14-15) · Śloka 15
कथं स्नेह उपयोज्य इत्याह - - - - | युक्त्याऽवचारयेत्स्नेहं भक्ष्याद्यन्नेन बस्तिभिः||१४|| नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणैः| |१५|
🔊 Audio coming soon
स०-युक्तिः-योग उपायलक्षणः| युक्त्या-मात्राकालक्रियाभूमिदेहदोषस्वभावया, स्नेहं-सर्पिरादिकम्, अवचारयेत्-उपयुञ्जीत| केन सह ? इत्याह-भक्ष्याद्यन्नेन| आदिशब्देन भोज्यलेह्यपेयस्य त्रिविधस्याप्यन्नस्य ग्रहणम्| तथा, बस्तिभिर्नस्येनाभ्यञ्जनेन गण्डूषेण च स्नेहमवचारयेत्| मूर्द्धादीनां तर्पणशब्देन प्रत्येकं सम्बन्धः| तेन, मूर्द्धतर्पणेन-शिरोबस्त्याख्येन| तथा, कर्णतर्पणेन-कर्णपूरणाख्येन| तथा, अक्षितर्पणेन-तर्पणपुटपाकविध्युक्तेन| भक्ष्यं-शशाङ्ककिरणादि, तेन भक्ष्येण सह| आदिग्रहणादोदनादयो मुन्युक्ता गृह्यन्ते| तथा च मुनिः (च. सू. अ. १३|२३) - "ओदनश्च विलेपी च रसो मांसं पयो दधि| यवागूः सूपशाके च यूषः काम्बलिकः खलः|| सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च| भक्ष्यमभ्यञ्जनं बस्तिस्तथैवोत्तरबस्तयः||" इति| बस्तिभिरिति बहुवचननिर्देशो बस्तित्रयग्रहणार्थः| तेन निरूहोऽन्वासनं बस्तिरुत्तर इति|
Adhikarana snehasya catuH ShaShThirvicAraNAH (15-16) · Śloka 16
| रसभेदैककत्वाभ्यां चतुःषष्टिर्विचारणाः||१५|| स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः| |१६|
🔊 Audio coming soon
स०-रसभेदश्चैककत्वं च, ताभ्यां रसभेदैककत्वाभ्यां स्नेहस्यावचार्यमाणस्य चतुःषष्टिर्विचारणा भवन्ति| रसभेदेन-"षट् पञ्चकाः षट् च पृथक्" (हृ. सू. अ. १०|४३) इत्यादिग्रन्थनिर्दिष्टेन त्रिषष्टिसङ्ख्यावच्छिन्नेन सहोपयुक्तस्य स्नेहस्य, तथैककत्वेन-असहायेन केवलेन स्नेहेन सताऽस्य स्नेहस्य चतुःषष्टिर्विचारणाः-स्नेहप्रयोगकल्पनाः| या एता भक्ष्याद्यन्नेन, तथा रसभेदेन मूर्धकरणाक्षितर्पणेन च| या एताः क्रमात्-यथाक्रमं निर्दिष्टाः, ताः कल्पनाः स्नेहस्यान्याभिभूतत्वात् अन्येन भक्ष्यादिना बहुना, तथा रसभेदेन सहोपयुक्तस्याभिभूतत्वात्, तथाऽल्पत्वात्-अल्पोपयोगित्वात्, मूर्द्धाक्षितर्पणादौ हि पान इव प्रभूतस्यावचारयितुमशक्यत्वाच्च विचारणाः स्मृताः| आयुर्वेदकर्तृभिरिति शेषः|
Adhikarana acchapeyaH snehaH (16) · Śloka 16
| यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा||१६||
🔊 Audio coming soon
स०-स्नेहस्याच्छस्य विचारणासंज्ञात्वे न यथानिर्दिष्टो हेतुः| तस्य यथोक्तस्य हेतोरभावात्-अविद्यमानत्वात्, योऽच्छपेयस्नेहः-केवल एव, न संयुक्तः, नासौ विचारणा, केवलोपयोगित्वाद्बहूपयोगित्वाच्चेत्यर्थः| ननु, इह केवलः स्नेहो न विचारणेत्युच्यते| प्राक्केवलस्यैव स्नेहस्य बस्त्याद्युपयोगे विचारणेत्यभ्यधायि| तदेतत्पूर्वापरव्याहतमिव मन्यामहे| नैतदस्ति| अच्छपेय इत्यस्य ह्ययमर्थः,-अच्छः केवलो यः स्नेहः पीयते सा विचारणा न भवति| मूर्द्धादितर्पणादिना तु केवलस्य स्नेहस्य य उपयोगः सा विचारणेति|
Adhikarana tasya shreShThatvam (17) · Śloka 17
स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्| |१७|
🔊 Audio coming soon
स०-सः-अच्छपेयाख्यः, कल्पः-प्रयोगः, स्नेहस्य श्रेष्ठः-प्रशस्यतमः| कुतः ? इत्याह-स्नेहकर्माशुसाधनात्,-स्नेहकर्मणां-तर्पणमार्दवादीनां शीघ्रं सम्पादनात्|
Adhikarana acchapeyasya mAtrAtrayam, acchapeyasya caturthI mAtrA (17-18) · Śloka 18
अधुना स्नेहस्य त्रिविधमात्रालक्षणमधिकृत्याह - - - - | द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्||१७|| ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम्| कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम्||१८||
🔊 Audio coming soon
स०-द्वाभ्यां यामाभ्यां-प्रहाराभ्यां, या स्नेहस्य मात्रा प्रयुक्ता जाठरानलवशाज्जरां याति सा तस्य ह्रस्वा मात्रा, चतुर्भिर्यामैर्या जीर्यति सा तस्य मध्यमा मात्रा, अष्टाभिर्यामैर्या जीर्यति सोत्तमा मात्रा, क्रमात्-यथाक्रमं, ता ह्रस्वमध्यमोत्तमा मात्राः| ताभ्यश्च-तिसृभ्यो मात्राभ्यो, ह्रसीयसीं-अतिशयेन ह्रस्वां मात्रां कल्पयेत्| वैद्य इति शेषः| ह्रस्वमध्योत्तमा इति निर्देशे "ङ्यापोः" इत्यादिना ह्रस्वः| ह्रस्वा मात्रा यामद्वयजरणलक्षणा उक्ता, ततोऽप्यर्वाक्कालेन या जरां याति सा ह्रसीयसीति| दोषादीन्-दोषभेषजदेशकालबलशरीराहारसत्त्वसात्म्यप्रकृतीः वीक्ष्य-आकलय्य, प्राक्-पूर्वमेव, अज्ञातकोष्ठे पुरुष उत्तममात्राविषये पूर्वं ह्रसीयसीं कल्पयेत्| ततो ह्रस्वां ततो मध्यमां तत उत्तमां च प्रकलप्येत्| एवं मध्यममात्राविषये ह्रसीयसीं, ह्रस्वमात्राविषयेऽपि ह्रसीयसीं प्राक्कल्पयेत्| अन्यथा प्रत्यवायभयं स्यात्| एवकारोऽवधारणे| तुशब्दो यथोत्तरमिति क्रमनिर्देशार्थः| सङ्ग्रहेऽप्युक्तम् (सू. अ. २५) - "अज्ञातकोष्ठे हि बहुः कुर्याज्जीवितसंशयम्|" इति| इयं ह्रस्वा इयं ह्रस्वा इयमनयोरतिशयेन ह्रस्वा इति ह्रसीयसीं| ह्रसीयसीत्यत्र ईयसुनि "स्थूलदूर" इत्यादिना वलोपः| अन्यैस्तु पलद्वयपलचतुष्टयपलषट्कसङ्ख्यावच्छिन्ना मात्रा उक्ताः| न चैतद्युज्यते| यतो जठरानलशक्तिमनपेक्ष्य स्नेहमात्राः प्रयुज्यमाना अनर्थायैव| अतोऽस्माभिः पलद्वयादिसङ्ख्यावच्छिन्ना नोक्ताः| मुनेरपि नैतन्मतम्| तद्ग्रन्थो हि (च. सू. अ. १३|२९) - "अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते| प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति||" इति|
Adhikarana shodhanasyAcchapeyasya kAlo mAtrA ca (19) · Śloka 19
अधुना शोधनशमनबृंहणभेदात्त्रिविधस्य स्नेहस्य कालमात्रालक्षणमधिकृत्याह - - - - ह्यस्तने जीर्ण एवान्ने स्नेहोऽच्छः शुद्धये बहुः| |१९|
🔊 Audio coming soon
स०-ह्यस्तनेऽन्ने-आहारे, जीर्ण एव-जीर्णमात्र एव न त्वन्नाभिलाषे सति, शुद्धये-शोधनार्थं, बहुः-उत्तमया मात्रया, स्नेहोऽच्छः-केवलः, पेयत्वेन शस्यते| सञ्जातबुभुक्षेण तु पीतो जाठरानलस्य दीप्तत्वाच्छोधनकार्यमकुर्वाणस्तद्योग्यतां चानुत्पादयन्नाश्वेव जरामुपैति| वमनमपि बुभुक्षितस्य न सम्पद्यते, कफापचितेः पूर्वोक्ताच्च हेतोः| तस्माद्युक्तमुक्तं 'ह्यस्तने जीर्ण एवान्ने' इति|
Adhikarana shamanasyAcchapeyasya kAlo mAtrA ca (19) · Śloka 19
| शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते||१९||
🔊 Audio coming soon
स०-शमनो-यो रोगस्य शमनायोपयुज्यते स्नेहः, स क्षुद्वतो-जातबुभुक्षस्य शस्यते, जातायां बुभुक्षायां न जीर्णमात्र एवान्ने शोधन इव| शमनो हि स्नेहो यत्रतत्रस्थं दोषं कुपितं सर्वशरीरव्यापित्वाच्छमनरूपत्वात् [ च ] शमयति| यदि पुनर्जीर्णमात्र एवान्ने स्नेहोऽयमबुभुक्षितस्यैवोपयुज्यते, तदानीं स्रोतसां कफाद्युपलेपानिवर्तनात् तत्सम्पृक्तः स स्नेहो न सर्वशरीरं व्याप्नुते, अव्याप्नुवंश्च दोषं न शमयेत्| तस्मात् क्षुद्वत एवायं शस्यते| स च मध्यममात्रया, अनन्नः-केवल एव भक्ष्यादिनाऽऽहारेण रहितः, अच्छ एव पेय इत्यर्थः| अत्र चोत्तमया मात्रया स्नेहपानदिनानन्तरं पथ्यं कार्यम्| पुनः स्नेहप्रयोगः| पुनरन्यस्मिन्नहनि पथ्यं कार्यम्| मध्यममात्रया स्नेहपाने तु लघुभोजिनो याममात्रेऽन्नाकाङ्क्षा भवति| तदा च स्नेहोपयोगे रात्र्यारम्भे रात्रियामार्द्धे गते वा रसकौदनप्रायं भोजनं भोज्यं मात्रयैव| ग्रन्थकारो हि शमने स्वल्पभोजनमेवानुजज्ञे| वक्ष्यति हि (श्लो. २९) - "उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्|" इति| सुश्रुते चोक्तम् (चि. अ. ३१|३४) - "परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम्| यवागूं पाययेदुष्णां सुक्लिन्नामल्पतण्डुलाम्|| पेयो यूषो रसो वा स्यादकृतः सौरभायुतः| कृतौ वाऽल्पाल्पसर्पिष्कौ विलेपी वा विधीयते||" इति|
Adhikarana bRuMhaNasya kAlo mAtrA ca (20) · Śloka 20
बृंहणो रसमद्याद्यैः सभक्तोऽल्पः| |२०|
🔊 Audio coming soon
स०-बृंहणः स्नेहो रसमद्याद्यैः सह शस्यते| " रस इत्यविशेषोक्तौ ज्ञेयो मांसभवो रसः|" इति तन्त्रान्तरोक्त्या रसशब्देन मांसरसोऽत्र बोद्धव्यः| आद्यशब्देन क्षीरखण्डादेर्द्रवरूपस्य ग्रहणम्| तथा, सह भक्तेन-ओदनादिना वर्तते इति सभक्तश्च शस्यते| एष च स्नेहोऽल्पो-ह्रसीयसीतोऽपि मात्रातोऽल्पः|
Adhikarana bRuMhaNasya viShayaH (20-21) · Śloka 21
हितः स च| बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु||२०|| स्त्रीस्नेहनित्यमन्दाग्निसुखितक्लेशभीरुषु| मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च||२१||
🔊 Audio coming soon
स०-स च-स्नेहो, बालादिषु हितः| बालादीनामितरेतरद्वन्द्वः| पिपासार्ताः-तृट्पीडिताः| स्नेहाद्विषो-ये स्वभावेनैव स्नेहं द्विषन्ति| स्त्रीस्नेहयोर्नित्यशब्देन सम्बन्धः, स्त्रीनित्येषु स्नेहनित्येषु चेत्यर्थः| काले चोष्णे-ग्रीष्मादौ, कृशेषु च नरेषु हितः|
Adhikarana bRuMhaNasyaiva prAgbhaktAdibhedena viShayaH (22) · Śloka 22
स चोपयुक्तः किं करोति ? इत्याह - - - - प्राङ्मध्योत्तरभक्तोऽसावधोमध्योर्ध्व-देहजान्| व्याधीञ्जयेद्बलं कुर्यादङ्गानां च यथाक्रमम्||२२||
🔊 Audio coming soon
स०-प्राक् च मध्यं चोत्तरं च प्राङ्मध्योत्तरम्| प्राङ्मध्योत्तरं भक्तं यस्मिन्स्नेहे स एवम्| तेनायमर्थः,-भक्तस्यादावुपयुक्तोऽसौ स्नेहोऽधोदेहजान् व्याधीन् जयेत्, मध्य उपयुक्तो मध्यदेहजान्, भक्तस्योपर्युपयुक्त ऊर्ध्वदेहजानिति यथाक्रमम्| तथा, अङ्गानां-शरीरावयवानामधोमध्योर्ध्वसंज्ञकानां, बलं कुर्यात्| इदं चोक्तम्-"मारुतेऽभ्यधिके सर्पिः सदा सलवणं हितम्| केवलं त्वधिके पित्ते, कफे सत्र्यूषणं तथा||" इति|
Adhikarana acchapeyasyAnupAnam, tuvarabhallAtakasnehayoruShNodakaniShedhaH (23-24) · Śloka 24
वार्युष्णमच्छेऽनु पिबेत् स्नेहे तत्सुखपक्तये| आस्योपलेपशुद्ध्यै च, तौवरारुष्करे न तु||२३|| जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्| तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिः||२४||
🔊 Audio coming soon
स०-अच्छे-अच्छपेये, स्नेहे-उत्तममध्यमह्रस्वमात्रोपयोजिते, अनु-पश्चात्, उष्णं वारि पिबेत्| किमर्थम् ? तत्सुखपक्तये-तस्य-स्नेहस्य, सुखपक्तिः-सुखेन पाकः, तदर्थम्| तथा, आस्योपलेपशुद्ध्यै च स्नेहलिप्तस्य मुखस्य शुद्धिनिमित्तं च| तौवरारुष्करे न तु-तुवरतैले भल्लातकतैले चाच्छपेयेऽप्युष्णोदकं न पिबेत्, तयोरत्युष्णवीर्यत्वादिति भावः| तुवरस्यायं विकारः स्नेहस्तौवरः| तस्य विकार इत्यण्| एवमारुष्करे च| चिरपीते च स्नेहे जीर्णाजीर्णं प्रति संशये सति भूयोऽप्युष्णं जलं पिबेत्| अनुपानापेक्षं पुनर्ग्रहणम्, न वीप्सार्थम्| तेन-उष्णोदकपानेन, उद्गारस्य विशुद्धिर्भवेत्| ततश्च-जीर्णाजीर्णविशङ्कातः, अधिकमङ्गलाघवं रुचिश्च स्नेहपायिनः स्यात्| सङ्ग्रहेऽन्यदप्युक्तम् (सू. अ. २५)| यथा-"ततो गुरुप्रावरणो निवाते शयने स्थितः| जरणान्तं प्रतीक्षेत तृष्यन्नुष्णाल्पवारिपः|| शिरोरुग्भ्रमनिष्ठीवमूर्च्छासादारुचिक्लमैः| जानीयाद्भेषजं जीर्यज्जीर्णं तच्छान्तिलाघवात्|| अनुलोमानिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः|" इति|
Adhikarana snehaprayoge bhojananiyamaH (25) · Śloka 25
मात्रामाह - - - - भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि| द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम्||२५||
🔊 Audio coming soon
स०-भोज्यो-भोजयितव्यो नरः| किं तत् ? अन्नम्| किम्भूतम् ? द्रवोष्णम्| अत्र चोभयथा समासः,-द्रवेणमुद्गयूषादिना सहोष्णमन्नं द्रवोष्णम्, तथा केवलं द्रवं च तदुष्णं च द्रवोष्णं विलेप्यादिकं केवलमेव, इति| तथा, अनभिष्यन्दि-न कफकृत्| तथा, नातिस्निग्धं-ईषत्स्निग्धमित्यर्थः| तथा, असङ्करं-असङ्कीर्णम्, अपथ्येनामिश्रितमित्यर्थः| कः पुरुषः किं कुर्वन्नीदृशमन्नं मात्रया भोज्यः ? इत्याह-श्वः स्नेहं पास्यन्-पातुमिच्छन्| तथा, तस्मिन्नेव दिने स्नेहं पिबन्| तथा, पीतवानपि यः स्नेहम्| अपिः समुच्चये| ननु, "मात्राशी सर्वकालं स्यात्" (हृ. सू. अ. ८|१) इति प्रागुक्तमेव| तत्किमिह पुनर्मात्राग्रहणेन ? ब्रूमः| मात्राशब्दस्तत्र प्रमाणार्थः, इह त्वल्पार्थः| तेनायमर्थः,-यावदन्नमस्य सम्यग्यथाकालं परिणमति तावतोऽप्यन्नादनेन स्वल्पं भोज्यमिति|
Adhikarana snehaprayoge vihAraniyamaH (26-28) · Śloka 28
उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः| न वेगरोधी व्यायामक्रोधशोकहिमातपान्||२६|| प्रवातयानयानाध्वभाष्यात्यासन संस्थितीः| नीचात्युच्चोपधानाहः स्वप्नधूमरजांसि च||२७|| यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्| सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः||२८||
🔊 Audio coming soon
स०-तथा, असौ स्नेहस्य पाता उष्णोदकोपचार्यादिगुणयुक्तः स्यात्| उष्णोदकमुपचरितुं सेवितुं-शीलमस्य स एवम्| तथा, ब्रह्मचारी-ललनासङ्गरहितः| क्षपाशय इति "अधिकरणे शेतेः" इत्यच्| क्षपाशय इत्यनेन दिवास्वप्नस्य रात्रिजागरणस्य च निषेधः| स्नेहं पिबति यावन्त्यहानि, तान्यपरं तावत्सङ्ख्यानि स्नेहपानरहितान्यप्यहानि यावत् व्यायामादींस्त्यजेत्| स०-सर्वकर्मसु-वमनविरेचनादिषु, अयं-"उष्णोदकोपचारी स्यात्" इत्यादिकः, क्रमो-विधिरित्यर्थः| यापनादिष्वहःस्वप्नाजीर्णवर्ज्यो नायं विधिरिति प्रदर्शनार्थं प्रायोग्रहणम्| व्याधिक्षीणेषु च प्रायोऽयमेव विधिः| अत्रप्यतीसारादिष्वहःस्वप्नादीनामनुज्ञानात् प्रायोग्रहणम्|
Adhikarana shamanasnehe viriktavadupacAraH (29) · Śloka 29
उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्| |२९|
🔊 Audio coming soon
स०-तुर्व्यतिरेके| शमने स्नेहे तूपयुक्ते उपचारोऽभोजनादिविधिः, विरिक्तवत् कार्यः,-यथा विरिक्तस्य पेयादिकः क्रमस्तथा तस्यापीत्यर्थः|
Adhikarana acchapAnasya pAnAvadhiH, avadhyatikrame doShaH (29-30) · Śloka 30
| त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्||२९|| सम्यक्स्निग्धोऽथवा यावदतः सात्म्यी भवेत्परम्| |३०|
🔊 Audio coming soon
स०-मृदौ कोष्ठे सति पुरुषस्त्रिदिनमच्छं स्नेहं पिबेत्| क्रूरकोष्ठे सप्ताहं पिबेत्| मध्यकोष्ठस्त्वत एव लक्षणादधिगम्यते| यथा,-चत्वार्यहानि पञ्च वा स्नेहं पिबेदिति| यदि च [ मृदुकोष्ठे ] त्रयेण सम्यक्स्निग्धलक्षणं न स्यात् तदा चतुष्पञ्चरात्रमपि स्नेहं पिबेत्| मध्यकोष्ठस्तु षड्रात्रमपि पिबेदित्याह-सम्यक्स्निग्धोऽथवा यावदित्यादि| अथवा नैष नियमः, सम्यक्स्निग्धलक्षणोत्पत्तिरेव नियमः| अतः सप्ताहादप्यूर्ध्वमच्छः स्नेहः पेयो यावत्स्निग्धलक्षणं स्यात्| अतःपरं स्नेहः सात्म्यी भवेत्| सात्म्यीभूते च स्नेहे यो दोषः स सङ्ग्रहे कथितः| यथा (सू. अ. २५) - "सात्म्यीभूतो हि कुरुते न मलानामुदीरणम्| अतियोगेन वा व्याधीन् यथाऽम्ब्वोघोऽतियोजनात्||" इति| यदि तु सप्ताहेनापि स्निग्धलक्षणं नोत्पद्यते तदा दिनमेकं विश्रम्य पुनः स्नेहो योज्य इति सद्वैद्याः|
Adhikarana samyaksnigdhalakShaNam, asnigdhalakShaNam, atisnigdhalakShaNam (30-31) · Śloka 31
| वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्||३०|| स्नेहोद्वेगः क्लमः सम्यक्स्निग्धे, रूक्षे विपर्ययः| अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः||३१||
🔊 Audio coming soon
स०-सम्यक्स्निग्धे पुरुषे वातानुलोम्यादि क्लमान्तं लक्षणं भवति| वर्चः-शकृत्, स्निग्धं तथाऽसंहतं-शिथिलम्| रूक्षे-अस्निग्धे, विपर्ययो-वैपरीत्यम्| अतिस्निग्धे तु-स्नेहस्यातियोजनात्, पाण्डुत्वादयो भवन्ति| स्रवशब्दस्य घ्राणादिभिः प्रत्येकं सम्बन्धः|
Adhikarana mithyAsnigdhalakShaNam (32-33) · Śloka 33
अमात्रयाऽहितो काले मिथ्याहारविहारतः| स्नेहः करोति शोफार्शस्तन्द्रास्तम्भविसंज्ञताः||३२|| कण्डूकुष्ठज्वरोत्क्लेशशूलानाहभ्रमादिकान्| |३३|
🔊 Audio coming soon
स०-अमात्रः पीतः स्नेहः-सर्पिरादिः, शोफादीन् करोति| आदिशब्देन बलक्षयजाड्यवाग्ग्रहादयः सङ्ग्रहोक्ता गृह्यन्ते| अहितो-यो यस्य प्रतिषिद्धः स्नेहः| तथा, अकाले-ग्रीष्मादौ पूर्वं प्रतिषिद्धे| तथा, मिथ्याहारतो-"द्रवोष्णं " इत्यादिविपर्ययेण| तथा, मिथ्याविहारतः-"उष्णोदकोपचारी स्यात्" इत्यादिविपर्ययेण|
Adhikarana atisnigdhamithyAsnigdhayoshcikitsitam (33-35) · Śloka 35
| क्षुत्तृष्णोल्लेखनस्वेदरूक्षपानान्नभेषजम्||३३|| तक्रारिष्टखलोद्दालयवश्यामाककोद्रवम्| पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु||३४|| यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्| |३५|
🔊 Audio coming soon
स०-स्नेहव्यापदि-स्नेहविधिविभ्रंशे सति, क्षुत्तृष्णादि साधनं-चिकित्सा| क्षुत्तृष्णानिग्रहौ क्षुत्तृष्णाशब्देनात्रोक्तौ| उल्लेखनं-वमनम्| रूक्षशब्दस्य पानादिभिस्त्रिभिर्योगः| तक्राणि चारिष्टाश्चेत्येवं समासः| खलो-व्यञ्जनविशेषः प्रागुक्तः| उद्दालः-शालिविशेषः| यथास्वं-दोषानुगुण्येन, प्रतिरोगं-यद्यस्मिन् रोगे स्वे स्वेऽध्याय उक्तं तत्, तदपि साधनम्|
Adhikarana virUkShaNasya samyagyogAtiyogalakShaNam (35) · Śloka 35
स्नेहव्यापत्साधनस्य विरूक्षणस्वभावत्वात् प्रसङ्गेन विरूक्षणस्य सम्यक्कृतातिकृतलक्षणमाह - - - - | विरूक्षणे लङ्घनवत्कृतातिकृतलक्षणम्||३५||
🔊 Audio coming soon
स०-विरूक्षणे सम्यगुत्पन्ने तथाऽत्यर्थोत्पन्ने च लङ्घनवत् कृतातिकृतलक्षणं ज्ञेयम्| कृतं चातिकृतं च कृतातिकृते, तयोर्लक्षणं कृतातिकृतलक्षणम्| कृतशब्देन सम्यक्कृतमुच्यते| विरूक्षणायोगलक्षणं तु स्नेहातियोगलक्षणेनैवोक्तम्| तत्र सम्यक्कृतस्य लङ्घनस्य यल्लक्षणं विमलेन्द्रियतादि तदेव सम्यग्विरूक्षणे कृते लक्षणं बोध्यम्| तथा, अतिकृते विरूक्षणेऽतिलङ्घितस्य लक्षणं कार्श्यादिकं वेद्यम्|
Adhikarana snigdhasya svedaH kAryaH, snigdhasya tryahAdvirecanam, snigdhasya dvyahAdvamanam (36-37) · Śloka 37
स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरेत्| स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं, वमनं पुनः||३६|| एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः| |३७|
🔊 Audio coming soon
स०-स्निग्धश्चासौ द्रवोष्णधन्वोत्थरसश्च, तं भुङ्क्ते यः स स्निग्धद्रवोष्णधन्वोत्थरसभुक्| धन्वोत्थरसो-जाङ्गलदेशमांससमुद्भूतो रसः, तं भुञ्जानः स्वेदमाचरेत्| मांसरसस्य स्वभावत एव स्निग्धद्रवत्वात् स्निग्धद्रवग्रहणमधिकयोगायेति वेद्यम्| उष्णं-उभयथा वीर्यतोऽग्निसंयोगाच्च| एवम्भूतः पुरुषः पूर्वं स्निग्धोऽनन्तरं स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरन् दिनत्रयं स्थितः सन् विरेकं कुर्यात्| वमनं पुनरिति| यदा तु स्नेहादनन्तरं वमनमेवोपयुङ्क्ते तदैकाहमनेनैव प्रकारेण स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरन् स्थितोऽन्यच्च दिनं-द्वितीयमहः, कफमुत्क्लेश्य-स्थानात् प्रच्याव्य, स्थितो वमनं कुर्यात्| कैरुत्क्लेश्य ? तत्करैः,-कफकरणहेतुभिर्माषक्षीरमत्स्यगुडादिभिः| तत्करैरिति कृञो हेत्वादिना हेतौ टः|
Adhikarana mAMsalAdInAM rUkShaNapUrvakaM snehanam (37-38) · Śloka 38
| मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः||३७|| स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः| संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते||३८||
🔊 Audio coming soon
स०-मांसलत्वादियुक्ताः पुरुषा ये शोध्यत्वेन स्नेहयितुमभीष्टाः, तान् पूर्वं-प्रथमं, रूक्षयेत्| ततो-रूक्षयित्वाऽनन्तरं, संस्नेह्य शोधयेत्| किमेवं स्यात् ? इत्याह-एवं स्नेहव्यापन्न जायते| मांसलाः-उपचितमांसाः| मेदुराः-मेदस्विनः|
Adhikarana malapreraNam (39) · Śloka 39
अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः| |३९|
🔊 Audio coming soon
स०-न केवलं स्नेहव्यापदेवं न स्यात्| यावत् स्नेहोऽसात्म्यतां गतः सन् मलान्-वातादीन् पुरीषादींश्च, ईरयितुं-प्रेरयितुं, अलं-पर्याप्तः|
Adhikarana bAlavRuddhAdiShu sadyaH snehanam (39-40) · Śloka 40
| बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु||३९|| योगानिमाननुद्वेगान् सद्यःस्नेहान् प्रयोजयेत्| |४०|
🔊 Audio coming soon
स-बालादिषु तथा यः स्नेहविषये परिहारः-शीतोदकादिः, तमसहिष्णुषु-अक्षमेषु, सद्यःस्नेहाख्याननुद्वेगान्-अनुद्वेजकान्, एता(इमा) न्-वक्ष्यमाणान्, योगान् प्रयोजयेत्|
Adhikarana sadyaH snehanA aShTau yogAH (40-42) · Śloka 42
कांस्तान् ? इत्याह - - - - | प्राज्यमांसरसास्तेषु, पेया वा स्नेहभर्जिता||४०|| तिलचूर्णश्च सस्नेहफाणितः, कृशरा तथा| क्षीरपेया घृताढ्योष्णा, दध्नो वा सगुडः सरः||४१|| पेया च पञ्चप्रसृता स्नेहैस्तण्डुलपञ्चमैः| सप्तैते स्नेहनाः सद्यः, स्नेहाश्च लवणोल्बणाः||४२||
🔊 Audio coming soon
स०-तेषु-बालादिषु, प्राज्यमांसरसाः-प्रभूतमांसानि निष्क्वाथ्य तद्रसाः| तथा, स्नेहभर्जिता पेया| तथा, तिलचूर्णः-पललाख्यः, सस्नेहफाणितः-[ स्नेहेन- ] सर्पिरादिना युक्तः, फाणितेन-क्षौद्रगुडविकारविशेषेण च युक्तः| तथा, कृशरा तथेति स्नेहफाणितयुक्तेत्यर्थः| तथा, क्षीरपेया-क्षैरेयी सर्पिष्मत्युष्णा च| [ तथा, ] दधिसरो वा सगुडः| [ तथा, ] पेया च पञ्चप्रसृता, 'द्वे पले-प्रसृतं विदुः' पञ्च प्रसृतानि यस्यां सा पञ्चप्रसृता| केषां पुनस्तानि पञ्च प्रसृतानि ? इति व्याचष्टे-स्नेहैस्तण्डुलपञ्चमैरिति| सर्पिस्तैलं वसा मज्जेति चतुर्णां स्नेहानां चत्वारि प्रसृतानि तण्डुलाश्च प्रसृतमेकमित्यर्थः| एते सप्त पूर्वोक्ताः सद्यः-शीघ्रं स्नेहनाः,- त्रिचतुरैरहोभिर्विनाऽपि स्नेहनाः, निष्परिहाराश्च| न केवलमेत एव सद्यःस्नेहना इत्याह-स्नेहाश्च लवणोल्बणा इति| स्नेहाः-सर्पिरादयोऽपक्वा एव| किं विशिष्टाः ? लवणोल्बणाः-लवणाढ्याः, सद्यःस्नेहना इत्यर्थः|
Adhikarana lavaNasaMyogAt kathaM sadyaH snehanatvam (43) · Śloka 43
कस्माल्लवणसंयोगात् स्नेहा अपक्वा अपि सद्यःस्नेहनाः ? इत्याह - - - - तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च| |४३|
🔊 Audio coming soon
स०-यस्माल्लवणमभिष्यन्दि-स्रोतसां स्रावकं, अरूक्षत्वादिगुणयुक्तं च| सूक्ष्मं-सूक्ष्मस्रोतोगामि| 'व्यवायि-देहमखिलं व्याप्य पाकाय कल्पते'|
Adhikarana kuShThAdiShu snehArthaM guDAdiniShedhaH (43-44) · Śloka 44
| गुडानूपामिषक्षीरतिलमाषसुरादधि||४३|| कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्| |४४|
🔊 Audio coming soon
स०-कुष्ठादिषु स्नेहयोग्यत्वे सति गुडादि स्नेहनार्थं न प्रकल्पयेत्-न योजयेत्|
Adhikarana teShAM snehanaprakAraH (44-45) · Śloka 45
तर्हि ते कथं स्नेह्याः ? इत्याह - - - - | त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्||४४|| स्नेहान् यथास्वमेतेषां योजयेदविकारिणः| |४५|
🔊 Audio coming soon
स०-एतेषां-कुष्ठादीनाम्, त्रिफलादिभिर्विपाचितान्-साधितान्, अविकारिणः-अविकारकान्, स्नेहान् योजयेत्| यथास्वं-यथायोग्यम्| कुष्ठादीनां सम्बन्धी यो विकारस्तद्वताम्, तेन कुष्ठिनां शोफिनां मेहिनामित्यर्थोऽवतिष्ठते|
Adhikarana AmayakShINAnAM snehanaprakAraH (45) · Śloka 45
| क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्||४५||
🔊 Audio coming soon
स०-आमयैः-व्याधिभिः, क्षीणानां पुनः पुंसामग्निदेहसन्धुक्षणक्षमान् स्नेहान् योजयेत्| अग्निश्च देहश्चाग्निदेहौ, सन्धुक्षणाश्च क्षमाश्च सन्धुक्षणक्षमाः, तान्| यथासङ्ख़्येनात्र सम्बन्धः| अग्नेः सन्धुक्षणाः-उद्दीपकाः, देहस्य क्षमाः-पुष्ट्यावहाः| अत्र चायं भावः,-किल व्याधिभिः क्षीणानां वह्निरपि क्षीणो भवति| अतस्तेषां न केवलं ये पुष्ट्यावहाः [ ते उपयोज्याः| कुतः ? ते ] वह्निमान्द्यमावहन्ति| अथवा वह्निसन्धुक्षणा न पुष्ट्यावहाः| न ते स्नेहा उपयोक्तुं युक्ताः| किं तर्हि ? उभयकारिण एव योक्तुं युक्ता इति|
Adhikarana snehashIlanasya phalam (16) · Śloka 16
दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः| दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः||४६|| इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने स्नेहविधिर्नाम षोडशोऽध्यायः||१६||
🔊 Audio coming soon
स०-यः पुमानाभीक्ष्ण्येन स्नेहमुपसेवते, स दीप्तान्तराग्नित्वादिगुणयुक्तो भवतीति प्रदिष्टः| सद्वैद्यैरिति शेषः| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने स्नेहविध्यध्यायः षोडशः समाप्तः|| १६||