Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

17. svēdavidhiradhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

शोधनप्रसङ्गेन स्नेहोपयोगः| स्निग्धे च देहे दोषाणां मार्दवीकरणाय स्वेदस्य प्रसङ्गः|

Adhikarana svedavidhiradhyAyaH (2) · Śloka 2

अतस्तत्परिज्ञानार्थोऽयमध्याय आरभ्यते - - - - अथातः स्वेदविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे||२||

🔊 Audio coming soon

स०-अथात इति| स्वेदनं-स्वेदः, तस्य विधिः-विधानं, यत्र तं व्याख्यास्यामः| शेषं पूर्ववत्|

Adhikarana svedasya cAturvidhyam (1) · Śloka 1

स्वेदस्य चातुर्विध्यमाह - - - - स्वेदस्तापोपनाहोष्मद्रवभेदाच्चतुर्विधः| |१|

🔊 Audio coming soon

स०-स्वेदश्चतुर्विधः,- तापादिभेदात्|

Adhikarana tApasya lakShaNam (1) · Śloka 1

तत्र तापादीनेव लक्षयितुमाचष्टे - - - - | तापोऽग्नितप्तवसनफालहस्ततलादिभिः||१||

🔊 Audio coming soon

स०-तापः-तापस्वेदः, अग्नितप्तेन वसनेन, तथा फालेन-अयोमयेनाग्नितप्तेन, तथा [ अग्नितप्तेन ] हस्ततलेनापि| आदिग्रहणाद्दारुवालुकाघटिकाकांस्यभाजनादयो गृह्यन्ते|

Adhikarana upanAhasya lakShaNam (2-4) · Śloka 4

उपनाहो वचाकिण्वशताह्वादेवदारुभिः| धान्यैः समस्तैर्गन्धैश्च रास्नैरण्डजटामिषैः||२|| उद्रिक्तलवणैः स्नेहचुक्रतक्रपयःप्लुतैः| केवले पवने, श्लेष्मसंसृष्टे सुरसादिभिः||३|| पित्तेन पद्मकाद्यैस्तु साल्वणाख्यैः पुनःपुनः| |४|

🔊 Audio coming soon

स०-उपनाहो-बन्धनम्| किण्वं-सुराप्रकृतिः| शताह्वा-शतपुष्पा| धान्यैरिति सामान्योक्तावपि तिलातसीमाषादीनियोग्यत्वाद्यान्युष्णवीर्याणि स्निग्धानि वा तानि प्रायेण प्रयोज्यानीति| समस्तग्रहणं गन्धैरेव युज्यते| अत एव सङ्ग्रहेऽवदत् (सू. अ. २६) - "सर्वगन्ध" इति| गन्धैः-गन्धद्रव्यैः कुष्ठागुरुतगरसुरसादिभिः| तथा, रास्नादिभिः| किम्भूतैः पूर्वोक्तैः ? उद्रिक्तलवणैः-लवणाढ्यैः| तथा, स्नेहश्च चुक्रं च तक्रं च पयश्च, तैः प्लुतैः-आलोडितैः| चुक्रं-अम्लम्| तक्रस्य चुक्रत्वादेव ग्रहणे सिद्धे तक्रग्रहणमतिशयार्थम्, अतिशयेन साल्वणाख्ये स्वेदे तक्रं प्रयोज्यमिति| केवले पवने वचादिभिरुपानाहस्वेदः कार्यः| श्लेष्मसंसृष्टे पवने सुरसादिभिः-सुरसयुगादिना गणेन (हृ. सू. अ. १५|३०)| पित्तेन संसृष्टे पवने पद्मकाद्यैः-"पद्मकपुण्ड्रौ" (हृ. सू. अ. १५|१२) इत्यादिभिः| पित्तेन संसृष्टे पवन इत्यत्र किञ्चिदेव पित्तेन संसृष्टे पवने पद्मकादिभिरुपनाहः कार्य इत्यवबोध्यम्, नाधिकेन पित्तेन युक्ते पवने, नापि तुल्येन पित्तेन युक्ते पवन इति| एवं ह्युक्तम् (हृ. सू. अ. १३|१४)- "ग्रैष्मः प्रायो मरुत्पित्ते" विधिः कार्यः| ग्रैष्मश्च विधिः प्रायेण सर्वः शीतः| तत्र स्वेदो दूरोत्सारित एव| तस्मात् किञ्चित्पित्तेन संसृष्टे पवने पद्मकाद्यैरुपनाहः कार्य इति वेद्यम्| एते च त्रय उपनाहाः केवले वायौ तथा कफयुक्ते पित्तयुक्ते च क्रमेण योज्याः| एते च साल्वणाभिधानाः स्वेदा इत्याह-साल्वणाख्यैरिति| पुनःपुनरिति असकृत्तैः स्वेदयोजना कार्येत्यर्थः| निरपायो हि यथाऽयं साल्वणापरसंज्ञ उपनाहाख्यः स्वेदो न तथाऽपरे स्वेदा इति| उपनह्यते-बध्यते चर्मपटादिना, इत्यन्वर्थं नामास्योपनाह इति| साल्वण इत्यस्य तन्त्रान्तरप्रसिद्धं नाम| तथा च धन्वन्तरिः (सु. चि. अ. ४|१४) - "काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः| सानूपौदकमांसस्तु सर्वस्नेहसमन्वितः|| सुखोष्णः स्पष्टलवणः साल्वणः परिकीर्तितः|" इति| 'उद्रिक्तलवणैः स्नेहचुक्रतक्रपयःप्लुतैः|' इति त्रिष्वपि स्वेदेषु योज्यम्|

Adhikarana bandhanavidhiH (4-5) · Śloka 5

बन्धात्मकश्चायं स्वेद इति बन्धात्मकस्वेदोपायभूतान् चर्मपट्टादीनाह - - - - | स्निग्धोष्णवीर्यैर्मृदुभिश्चर्मपट्टैरपूतिभिः||४|| अलाभे वातजित्पत्रकौशेयाविकशाटकैः| बद्धं रात्रौ दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवाकृतम्||५||

🔊 Audio coming soon

स०-चर्मपट्टैर्बद्धं-उपनद्धमङ्गं, रात्रौ दिवा मुञ्चेत्| किम्भूतैः ? स्निग्धोष्णवीर्यैः, तथाऽपूतिभिः-अदुर्गन्धैः सुपरिकर्मितत्वात्| अलाभे-चर्मपट्टानामभावे, वातजित्पत्रैः-एरण्डजादिभिः, तथा कौशेयादिभिः| कौशेयं-राङ्कवादिवस्त्रविशेषम्| आविकं-कम्बलम्| [ शाटकं-वस्त्रखण्डम्| ] तैर्बद्धं रात्रौ दिवा मुञ्चेत्| दिवा तु बद्धं रात्रौ मोक्तव्यम्|

Adhikarana UShmasvedasya lakShaNam (6-7) · Śloka 7

ऊष्मा तूत्कारिकालोष्टकपालोपलपांसुभिः| पत्रभङ्गेन धान्येन करीषसिकतातुषैः||६|| अनेकोपायसन्तप्तैः प्रयोज्यो देशकालतः| |७|

🔊 Audio coming soon

स०-ऊष्मा-बाष्पः, तदाख्यः स्वेद उत्कारिकादिभिः प्रयोज्यः| तत्र यवमाषैरण्डबीजातसीकुसुम्भबीजादिभिः पिष्टस्विन्नैर्लप्यसिकाकृतिर्यः स्वेदनोपायः सा उत्कारिका| लोष्टं-मृत्पिण्डः| कपालं-कर्परम्| उपलः-पाषाणः| पांसुः-धूलिः| तथा, पत्रभङ्गेन-छदसमूहेन| तथा, धान्येन| करीषो-गवादिशकृच्चूर्णः| सिकता-वालुका| तुषो-धान्यत्वक्| एतैरुत्कारिकादिभिस्तुषान्तैः स्वेदो विधातव्यः| किम्भूतैः ? अनेकोपायसन्तप्तैः,-अनेके च त उपायाश्च, तैः सन्तप्ताः-उष्णीकृता य उत्कारिकादयः, तैः| कथं प्रयोज्यः ? इत्याह-देशकालतः| ल्यब्लोपे पञ्चमी चेयम्| तेन देशकालावपेक्ष्य| उपलक्षणं चेदम्| तेन दोषदूष्यादीनप्यपेक्ष्य स्वेदोऽयं प्रयोज्यः| लोष्टकपालपाषाणानग्नितप्तान् सन्दंशेन गृहीत्वा स्वेद्यदोषाद्यपेक्षयाऽम्भस्यम्ले धान्याम्ले शुक्तादौ वा निमज्जयेत्| तदुद्भूतबाष्पैः स्वेदः शयनस्थस्य कार्यः| अथवा गवादिशकृताऽऽर्द्रेण पिण्डीकृतेनोष्णेन स्वेदः स च पिण्डस्वेदसंज्ञः| स एव सङ्करस्वेद उच्यते| अथवैरण्डादिद्रव्ययुक्तानि यवादीनि धान्यानि साम्लकादीनि गृहीत्वा पिहितमुखायामुखायां सम्यगुपस्वेद्य निवाते गृहे शयनस्थे किलिञ्जे प्रस्तीर्याविककौशेयवातहरपत्रान्यतमोत्तरप्रच्छदे रौरवाजिनप्रावारादिस्ववच्छन्नं स्वेदयेत्| अथवा पूर्ववत्स्वेद्यद्रव्याणि कुम्भ्यामुत्क्वाथ्य तन्निकटोपविष्टो घनवस्त्रप्रावृत ऊष्माणं गृह्णीयात्| एष संस्तरस्वेदः| एवमनेकोपायसन्तप्तत्वं दोषदूष्याद्यपेक्षया निरूप्य स्वेदो योज्यः|

Adhikarana dravasvedaH (7-10) · Śloka 10

अथ द्रवस्वेदमाह - - - - | शिग्रुवारणकैरण्डकरञ्जसुरसार्जकात्||७|| शिरीषवासावंशार्कमालतीदीर्घवृन्ततः| पत्रभङ्गैर्वचाद्यैश्च मांसैश्चानूपवारिजैः||८|| दशमूलेन च पृथक् सहितैर्वा यथामलम्| स्नेहवद्भिः सुराशुक्तावारिक्षीरादिसाधितैः||९|| कुम्भीर्गलन्तीर्नाडीर्वा पूरयित्वा रुजार्दितम्| वाससाऽऽच्छादितं गात्रं स्निग्धं सिञ्चेद्यथासुखम्||१०||

🔊 Audio coming soon

स०-शिग्र्वादिजैः पत्रसमूहैः, तथा वचाद्यैः-वचादिगणोक्तैः, तथा मांसैरानूपजैर्जलजैश्च, दशमूलेन च पृथक्-व्यस्तैर्द्वित्रादिभिः, सहितैर्वा-समस्तैर्वा, यथामलं स्नेहवद्भिः-दोषहरघृताद्यन्यतमस्नेहयुक्तैर्यथादोषं सुराशुक्तवारिक्षीरादिसाधितैः, कुम्भीः-स्थालीः, पूरयित्वा, अथवा गलन्तीर्नाडीर्वा-अनवरतं धारया जलादिस्रवन्तीर्वारिधानिकासंज्ञाः वंशादिमयीः पूरयित्वा, रुजार्दितं-पीडार्तं, गात्रं-अङ्गं, वाससाऽऽच्छादितं तथा स्निग्धं सत् यथासुखं-सुखस्पर्शं कदाचिदत्युष्णं कदाचिदीषदुष्णं सिञ्चेत्|

Adhikarana avagAhasvedaH (11) · Śloka 11

इति दोषपीडावशात् परिषेकस्वेदमाख्यायावगाहस्वेदं द्रवभेदमाह - - - - तैरेव वा द्रवैः पूर्णं कुण्डं सर्वाङ्गगेऽनिले| अवगाह्यातुरस्तिष्ठेदर्शःकृच्छ्रादिरुक्षु च||११||

🔊 Audio coming soon

स०-तैरेव-पूर्वोक्तैः, स्वेदद्रवैः पूर्णं कुण्डं भृशमवगाह्य-प्रविश्य, आतुरो-रोगी तिष्ठेत्| कीदृशे दोषे ? इत्याह-सर्वाङ्गगेऽनिले,-सर्वशरीरव्यापिनि वायौ| तथा, अर्शःप्रभृतिरोगकष्टपीडासु| आदिग्रहणेन हस्तपादपीडासु च| कुण्डग्रहणमुपलक्षणार्थम्| तेन कूपकुटीस्वेदौ च वेद्यौ| सङ्ग्रहे चोक्तम् (सू. अ. २६)- "शयनस्याधोविस्तारद्विगुणखाते कूपे वातहरदारुकरीषान्यतरपूर्णदग्धे विगतधूमे स्वास्तीर्णशयनस्थं स्वेदयेदिति कूपस्वेदः| कुटीं नात्युच्चविस्तारां वृत्तामच्छिद्रामुपनाहद्रव्यकल्कघनप्रदिग्धकुड्यां सर्वतो विधूमप्रदीप्तखदिराङ्गारपूर्णहसन्तिकासमूहपरिवृतां विधाय तन्मध्यस्थितशय्यास्थं स्वेदयेदिति कुटीस्वेदः| पद्मोत्पलादिभिः सक्तुपिण्ड्या वाऽऽच्छाद्य चक्षुषी| शीतैर्मुक्तावलीपद्ममुकुलोत्पलभाजनैः|| मुहुः करैश्च सजलैः स्विद्यतो हृदयं स्पृशेत्|" इति|

Adhikarana svedavidhiH (12) · Śloka 12

निवातेऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत्| |१२|

🔊 Audio coming soon

स०-अपगतवाते देशे स्वेदमाचरेत्| किम्भूतः ? अन्तः स्नेहपानेन बहिश्चाभ्यङ्गादिना स्निग्धः| तथा, जीर्णान्नश्च,-येन (यस्य) ह्यस्तनमन्नं जीर्णम्, आमजीर्णाद्याक्रान्तं नरं वर्जयित्वा तेन स्वेदार्हेण नरेण स्वेद आचरणीयः|

Adhikarana vyAdhyAdyapekShayA svedaprakAraH (12) · Śloka 12

कीदृशं स्वेदमाचरेत् ? इत्याह - - - - | व्याधिव्याधितदेशर्तुवशान्मध्यवरावरम्||१२||

🔊 Audio coming soon

स०-व्याध्यपेक्षया व्याधितापेक्षया देशापेक्षया ऋत्वपेक्षया च यथाविधमेव मध्यममुत्कृष्टं हीनं वा स्वेदमाचरेत्|

Adhikarana kaphe svedavisheShaH, kaphAnile visheShaH (13) · Śloka 13

कफार्तो रूक्षणं रूक्षो, रूक्षः स्निग्धं कफानिले| |१३|

🔊 Audio coming soon

स०-कफार्तः-कफग्रस्तो, रूक्षः सन्-अन्तर्बहिरस्निग्धो, रूक्षणं-न च स्निग्धं, स्वेदमाचरेत्| अपरं श्लेष्मवाते रूक्षस्निग्धं-केनचिदंशेन रूक्षं केनचिदंशेन स्निग्धं, पर्यायेण वा रूक्षस्निग्धं, एवंविधं स्वेदमाचरेत्|

Adhikarana sthAnabhedena visheShaH (13-14) · Śloka 14

| आमाशयगते वायौ कफे पक्वाशयाश्रिते||१३|| रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः| |१४|

🔊 Audio coming soon

स०-आमाशयं गतः-आमाशयगतः, पक्वाशयमाश्रितः-पक्वाशयाश्रितः, द्वितीया श्रितेति समासः| वायावामाशयगते कफे च पक्वाशयाश्रिते यथासङ्ख्येन रूक्षपूर्वं स्नेहपूर्वं च स्वेदमाचरेत्| आमाशयगते वात आदौ रूक्षः स्वेदः कार्यः पश्चात्स्निग्धः| तथा, पक्वाशयगते कफ आदौ स्निग्धः स्वेदः, पश्चाद्रूक्ष इत्यर्थः| कुत एवं नियमः ? इत्याह-स्थानानुरोधतः,-स्थानवशात्| वायुर्यतः आमाशय आगन्तुः, स्थानं च तत् श्लेष्मणः, तद्वशात्तत्रादौ रूक्ष एव स्वेदो योज्यः, पश्चात् स्निग्ध इति| कफश्च पक्वाशय आगन्तुः, स्थानं च तद्वायोः, अतः पूर्वं स्निग्धः स्वेदो योज्यः, पश्चाद्रूक्ष इति पूर्वोक्त एव न्यायो योज्यः| तथा चोक्तम् (हृ. सू. अ. १३|२०) - "तत्रान्यस्थानसंस्थेषु तदीयाम्" इति| तथा (हृ. सू. अ. १३|२९) - "आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा|" इति| तस्मात्पूर्वं रूक्षेण स्थानिनं कफं प्रतिकृत्य पश्चादागन्तुकस्य वायोः शमनं स्निग्धस्वेदाख्यं प्रयोज्यमिति| ननु, वायोरामाशये कोपोऽनुपपन्नः| यतो मरुत् लघ्वादिगुणयुक्तः| आमाशयस्तु गुरुमृदुपिच्छिलादियुक्तः| अतः शम एवोपपन्न इति केचित्| एतच्चायुक्तम्| बलिनो ह्यन्याश्रयस्थस्यापि कोपो युक्तः| मार्गरोधाच्च वायोरामाशयेऽपि प्रकोपसम्भव इति| तथा च वक्ष्यति (हृ. चि. अ. ६|५७) - "प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये गतः|" इति| तथा चोक्तम् (हृ. सू. अ. १३|१९) - "ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि|" इति|

Adhikarana avayavabhedena visheShaH (14) · Śloka 14

| अल्पं वङ्क्षणयोः, स्वल्पं दृङ्मुष्कहृदये न वा||१४||

🔊 Audio coming soon

स०-वङ्क्ष्णयोरल्पमेवेति योज्यम्| दृशोर्मुष्कयोर्हृदि चात्यल्पमेवेति| अथवा दृगादिषु स्वेदं नाचरेदेव|

Adhikarana samyaksvinnalakShaNamsvinnasya kRutyam (15) · Śloka 15

शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे| स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्||१५||

🔊 Audio coming soon

स०-शीतशूलयोः क्षये सञ्जाते सति, अङ्गानां-पाणिपादादीनां च, मार्दवे-मृदुत्वे जाते सति, स्विन्नो नरः स्यात्| स च स्विन्नः शनैर्मृदितो-मन्दं मर्दिताङ्गः, स्नातः-उष्णोदकेन, [ ततः- ] अनन्तरं, स्नेहोक्त (स्नेह) विधिं-'उष्णोदकोपचारी स्यात्' इत्यादिकं, भजेत्|

Adhikarana atisvinnalakShaNam, atisvinnasyauShadham, viShAdiShvapi stambhanamauShadham (16-17) · Śloka 17

इति स्वेदस्य सम्यग्लक्षणमुक्त्वाऽतियोगलक्षणमाह - - - - पित्तास्रकोपतृण्मूर्च्छास्वराङ्गसदनभ्रमाः| सन्धिपीडा ज्वरः श्यावरक्तमण्डलदर्शनम्||१६|| स्वेदातियोगाच्छर्दिश्च, तत्र स्तम्भनमौषधम्| विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च||१७||

🔊 Audio coming soon

स०-स्वेदस्यातियोगात् रक्तपित्तकोपादयो भवन्ति, छर्दिश्च| मूर्च्छा-मोहः| स्वराङ्गयोः सदनेन सम्बन्धः| भ्रमः-अज्ञानम्| श्यावानि च रक्तानि च श्यावरक्तानि, तान्येवंभूतानि यानि मण्डलानि तेषां दर्शनं-उपलम्भः| तत्र-स्वेदातियोगे, स्तम्भनं-वक्ष्यमाणमौषधं कार्यम्| तथा, विषाद्यातुरेष्वपि स्तम्भनमेवौषधं कार्यम्| तथा, विषाद्यातुरेष्वपि स्तम्भनमेवौषधं न्याय्यमित्यर्थः|

Adhikarana svedanadravyam, stambhana dravyam (18-19) · Śloka 19

स्वेदनं गुरु तीक्ष्णोष्णं प्रायः, स्तम्भनमन्यथा| द्रवस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम्||१८|| स्वेदनं, स्तम्भनं श्लक्ष्णं रूक्षसूक्ष्मसरद्रवम्| प्रायास्तिक्तं कषायं च मधुरं च समासतः||१९||

🔊 Audio coming soon

स०-गुरु यद्द्रव्यं तीक्ष्णमुष्णं च, तद्बाहुल्येन स्वेदनं भवति| प्रायोग्रहणात् भयशोकादिकमगुर्वपि गृह्यते| अन्यथा-अतो वैपरीत्येन, स्तम्भनं भवति| द्रवादिगुणयुक्तं यत् तत् द्रव्यं स्वेदनं भवति| तथा, श्लक्ष्णादियुक्तं तत् समासतः स्तम्भनं भवति| अधुना रसतः स्तम्भनं निर्दिशन्नाह-प्राय इत्यादि| प्रायः सङ्क्षेपेण तिक्तं कषायं मधुरं च स्तम्भनं भवति|

Adhikarana stambhitasya lakShaNam (20) · Śloka 20

स्तम्भितस्य लक्षणमाह - - - - स्तम्भितः स्याद्बले लब्धे यथोक्तामयसङ्क्षयात्| |२०|

🔊 Audio coming soon

स०-बले लब्धे-जाते सति, यथोक्तानां रोगाणां च सङ्क्षयात् स्तम्भितो नरः स्यात्|

Adhikarana atistambhitalakShaNam (20-21) · Śloka 21

अतिस्तम्भितं सम्प्रति लक्षयति - - - - | स्तम्भत्वक्स्नायुसङ्कोचकम्पहृद्वाग्धनुग्रहैः||२०|| पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्| |२१|

🔊 Audio coming soon

स०-त्वक् च स्नायुश्च, तयोः सङ्कोचः| हृदयादीनां ग्रहेण सम्बन्धः| ततः स्तम्भादीनां द्वन्द्वः| स्तम्भादिभिस्तथा श्यावैः पादादिभिरतिस्तम्भितं कथयेत्|

Adhikarana atisthUlAdInAM svedaniShedhaH, Atyayike gade mRudusvedaH (21-24) · Śloka 24

| न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान्||२१|| स्तम्भनीयक्षतक्षीणक्षाममद्यविकारिणः| तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः||२२|| पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्| भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्||२३|| क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान्| गर्भिणीं पुष्पितां सूतां, मृदु चात्ययिके गदे||२४||

🔊 Audio coming soon

स०-अतिस्थूलदीन्न स्वेदयेत्| अतिस्थूलस्य स्वेदेन मेदोविलयनादत्यन्तं शरीरक्षोभः स्यात्| रूक्षादीनां कार्श्यमतिशयेन भवेत्| 'मद्यविकारिणः' इत्यविशेषोक्तावपि पित्ताद्यन्येषां सङ्ग्रहः| पित्तमद्यविकारिणस्तु 'पित्तपीडितान्' इत्यनेनैव सङ्गृहीताः| आढ्यरोगे-वातरक्तम्| भ्रष्टदग्धगुदाः-अतीसारक्षाराग्न्यादिभिः| ग्लान्यादीनामर्दितेन सम्बन्धः| क्षुधादीनां मेहान्तानां द्वन्द्वः, ततो मत्वर्थीय इनिः| क्षुध्वतः स्वेदादत्यन्तं देहग्लानिः| कामलापाण्डुमतोः स्वेदेन पित्तवृद्ध्या रोगवृद्धिः| यस्मादध्येष्यते (हृ. नि. अ. १३|१५) - "पित्तप्रधानाः कुपिताः" इत्यादि| तथा, (हृ. नि. अ. १३|१५) - "यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम्|" इत्यादि| मेहिनस्तु स्वेदवृद्ध्या रोगवृद्धिः| गर्भिण्याः स्वेदेन गर्भव्यापत्| पुष्पिताया रक्तातिप्रवृत्तिः| सूतायाः कार्श्यम्| मृदु चेति| यदैषामतिस्थूलादीनामात्ययिको व्याधिः-विसूचिकादिः स्यात्, तदैते मृदु स्वेदयितव्या एव|

Adhikarana svedasAdhyA rOgAH (25-27) · Śloka 27

श्वासकासप्रतिश्यायहिध्माध्मानविबन्धिषु| स्वरभेदानिलव्याधिश्लेष्मामस्तम्भगौरवे||२५|| अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे| महत्वे मुष्कयोः खल्यामायामे वातकण्टके||२६|| मूत्रकृच्छ्रार्बुदग्रन्थिशुक्रघाताढ्यमारुते| स्वेदं यथायथं कुर्यात्तदौषधविभागतः||२७||

🔊 Audio coming soon

स०-श्वासादीनां विबन्धान्तानां द्वन्द्वः| श्वासादिमत्सु यथास्वं स्वेदं कुर्यात्,- क्वचित्तापं क्वचिदुपनाहं क्वचिदूष्माणं क्वचिद्द्रवमिति| कथम् ? तेष्वौषधानि तदौषधानि, तेषां विभागो-यथास्वमुपयोगः, तेन,- तदौषधविभागेन स्वेदं कुर्यात्| "खल्ली तीव्ररुजान्विता|" इति (हृ. नि. अ. १५|५५) वातव्याधौ वक्ष्यते, आयामवातकण्टकौ च| आढ्यमारुतः-ऊरुस्तम्भः|

Adhikarana anAgneyasvedasya viShayaH (28) · Śloka 28

स्वेदो हितस्त्वनाग्नेयो वाते मेदःकफावृते| |२८|

🔊 Audio coming soon

स०-मेदःकफाभ्यां पवन आवृते सत्यनाग्नेयः स्वेदो हितः| अमाग्नेय इत्यग्नेर्ढक्, ततो नञ्ऽऽसमासः|

Adhikarana anAgneyasvedasya bhedAH (28-30) · Śloka 30

कोऽसावनाग्नेयः ? इत्याह - - - - | निवातं गृहमायासो गुरुप्रावरणं भयम्||२८|| उपनाहाहवक्रोधा भूरिपानं क्षुधाऽऽतपः| २८ १/२||३०||

🔊 Audio coming soon

स०-निवातगृहादयोऽनाग्नेयाः स्वेदाः| आयासो-व्यायामः| गुरुप्रावरणं-रल्लकादि| भयं-खड्गहस्तराजपुरुषदर्शनादिना| उपनाहोऽप्यनाग्नेयः स्वेदः, उपनाहस्य द्वैविध्यात्| तत्र "उपनाहो वचाकिण्व" इत्यादिराग्नेयः, तत्र "तापोऽग्नितप्तवसन" इत्यनुवृत्तेः| अनाग्नेयस्तु-"स्निग्धोष्णवीर्यैर्मृदुभिश्चर्मपट्टैः" इत्यादिकः| आहवः-समरः| भूरिपानं-बहुमद्यपानम्|

Adhikarana svedanasya shodhanA~ggatvam (17) · Śloka 17

स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्थाः| दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर्निर्ह्रियन्ते| २९ १/२| इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने स्वेदविधिर्नाम सप्तदशोऽध्यायः||१७||

🔊 Audio coming soon

स०-ते दोषाः सम्यक्-सुष्ठु, शुद्धिभिः-वमनविरेचनलक्षणाभिः, निर्ह्रियन्ते-निष्कास्यन्ते| के दोषाः ? इत्याह-स्नेहक्लिन्ना ये, तथा कोष्ठगा धातुस्थाश्च, तथा स्रोतोलीनाः, तथा शाखास्वस्थिषु च स्थिताः| किम्भूताः ? स्वेदैर्द्रवीकृत्य कोष्ठं नीताः-उदरं प्रापिताः| शालिनीवृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने स्वेदविध्यध्यायः सप्तदशः समाप्तः|| १७||