Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

25. yantravidhiradhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अथेदानीं पञ्चविंशाध्यायारम्भो यन्त्रविधानप्रदर्शनार्थः| यतो बस्तिनस्याञ्ह्जनक्षारादीनि यन्त्राश्रयण्येवेत्याह-

Adhikarana yantravidhiradhyAyaH (2) · Śloka 2

अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः| इति स स्मादुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|

🔊 Audio coming soon

स०-यन्त्रस्य विधिर्यन्त्रविधिः शेषं पूर्ववत्| अर्शोभगन्दरादिषु निरुजेऽङ्ह्गे यम्यते-नियम्यते शस्त्रक्षाराग्निकर्मेति यन्त्रम्|

Adhikarana yantralakShaNam (1-3) · Śloka 3

एतदेव स्पष्टयन्नाह नानाविधानां शल्यानां नानादेशप्रबाधिनाम्| आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने||१|| अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने| शेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि||२|| घटिकालाबुशृङ्गं च जाम्बवौष्ठादिकानि च| |३|

🔊 Audio coming soon

स०-अनेकप्रकाराणि यानि शल्यानि-शस्त्रवेणुपाषाणादिरूपाणि, विविधेषु शरीरप्रदेशेषु निविशन्ते, तेषामाहरणे आकृष्टुं, योऽभ्युपायस्तद्यन्त्रम्| 'उच्यते' इति शेषः| तथा, अर्शोभगन्दरनाडीव्रणादीनां शस्त्रादियोजने सति शेषस्य-निरुजस्याङ्गस्य, परिरक्षायां-रक्षानिमित्तम्, स्वस्थस्याङ्गस्य शस्त्राद्याबाधानिवृत्त्यर्थमित्यर्थः| तथा, बस्तिनस्यादिकर्मणि य उपायस्तच्च यन्त्रम्| तथा घटिकादि च यन्त्रं पवनाकर्षणाय रक्ताद्याकर्षणाय च| जाम्बवौष्ठसन्दंशादीनि च यन्त्राणि|

Adhikarana yantravisheShANAM buddhyA kalpyatvam (3-4) · Śloka 4

यन्त्राणां किं रूपं किं |च] कार्यं स्यात्? इत्याह- | अनेकरूपकार्याणि यन्त्राणि विविधान्यतः||३|| विकल्प्य कल्पयेद्बुद्ध्या यथास्थूलं तु वक्ष्यते| |४|

🔊 Audio coming soon

स०-रूपाणि च कार्याणि च रूपकार्याणि| अनेकानि विचित्राणि, रूपकार्याणि तेषां तानि यन्त्राणि नानाप्रकाराणि| तत्र रूपं-कङ्कमुखस्वस्तिकाद्याकारत्वम्| कार्यं-अस्थ्यादिलग्नशल्यहरणादिकम्| यतश्चैवं यन्त्राणां नानाविधत्वम्, अतस्तानि बुद्ध्या विकल्प्य कार्यानुरोधात् कल्पयेत्| ननु, यन्त्राणां दिङ्मात्रेऽप्यनभिज्ञः कथमिव कल्पनां कर्तुं पारयेत् ? इत्याह- सं-यानि यानि स्थूलानि यथास्थूलम्| "यथा सादृश्ये" इत्यव्ययीभावः| यथास्थूलयन्त्रकरणेन व्युत्पन्नमतिः शेषाणामपि यन्त्राणामुत्पादने विकल्पं कर्तुं समर्थो भवेदिति भावः|

Adhikarana svastikayantrANi svastikAnAM kAryam (4-7) · Śloka 7

अथ यन्त्राण्याह | तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम्||४|| मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि च| अष्टादशाङ्गुलायामान्यायसानि च भूरिशः||५|| मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैः| विद्यात्स्वस्तिकयन्त्राणि मूलेऽङ्कुशनतानि च||६|| तैर्दृढैरस्थिसंलग्नशल्याहरणमिष्यते| |७|

🔊 Audio coming soon

स०-येन पार्श्वेन शल्यमुद्ध्रियते तद्यन्त्राणां मुखं वेद्यम्| कङ्कादीनां पक्षिमृगाणां मुखैस्तुल्यानि यन्त्राणां मुखानि कुर्यात्| आदिशब्देन गृध्रहंसहरिणादिपरिग्रहः| तानि तत्संज्ञकानि| च एवार्थे, तानि यन्त्राणि तन्नामान्येव| यथा,-कङ्कुमुखं सिंहमुखमित्यादि| अष्टादशाङ्गुलेत्यादि, स्वस्तिकाख्यानि यन्त्राणि विद्यात्| कीदृशानि ? अष्टादशाङ्गुलदैर्घ्याणि, भूरिशो-बाहुल्येन, आयसानि-शस्त्रमयानि| दन्तादिमयानामपि क्वचिद्दर्शनात् भूरिश इत्युक्तम्| तथा, कण्ठप्रदेशे कीलकैर्बद्धानि| कीदृशैः कीलकैः ? मसूराकाराः पर्यन्ता येषां तैः| यत्र प्रदेशे यन्त्राणां हस्तग्रहस्तत्र तन्मूलम्| तत्राङ्कुशवन्नतानि-परिणतानि| तैः-कङ्कमुखादिभिः, अस्थिसंलग्नशल्यस्य-काण्डफलादेः, आहरणं-आकर्षणमिष्यते|

Adhikarana kIlabaddhavimuktAgrau saMdaMshau (7-8) · Śloka 8

| कीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ||७|| त्वक्शिरास्नायुपिशितलग्नशल्यापकर्षणौ| |८|

🔊 Audio coming soon

स०-कीलेन-मसूराकारपर्यन्तेन, बद्धं तथा विमुक्तमग्रं- मुखं, ययोस्तौ कीलबद्धविमुक्ताग्रौ सन्दंशौ भवतः| कीदृशौ ? षोडशाङ्गुलप्रमाणौ| क्वोपयोग एतयोः स्यात् ? इत्याह-त्वगित्यादि| त्वगादीनां द्वन्द्वः| त्वक्शिरास्त्रायुपिशितलग्नं च तच्छल्यं च, तस्यापकर्ष्णे-आहरणे, तावुपयुज्येते|

Adhikarana ShaDa~ggulaH saMdaMshaH (8) · Śloka 8

| षडङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम्||८||

🔊 Audio coming soon

स०-षोडशाङ्गुलसन्दंशद्वयादन्यः सन्दंशः (षडङ्गुलप्रमाणः) सूक्ष्मशल्यानां-नासारोमादीनां, हरणे-आकर्षणे, तथा, उपपक्ष्मणां वर्त्मादिभवानां हरणे युज्यते|

Adhikarana mucuNDI (9) · Śloka 9

मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा| गम्भीरव्रणमांसानामर्मणः शेषितस्य च||९||

🔊 Audio coming soon

स०-सा च मुचुण्डीसंज्ञा| किम्भूता मुचुण्डी? सूक्ष्मा दन्ता यस्याः सा सूक्ष्मदन्ता, तथा, ऋजुः-अवक्रा, न च सन्दंशवद्वक्रा द्विबाहुरित्यार्थः| तथा, मूले-हस्तग्रहणस्थाने, रुचकं-अङ्गुलीयकरूपं, भूषणं यस्याः सा रुचकभूषणा| रुचकपीडनेन सा कर्म करोतीत्यर्थः| गम्भीरश्चासौ व्रणश्च गम्भीरव्रणस्तस्मिन् मांसानि-तस्याधिमांसं, एतद्विषय आहरणे| अर्मणश्च शेषितस्य च्छिन्नशेषस्याहरणे मुचुण्डी|

Adhikarana ekatAladvitAlake (10) · Śloka 10

द्वे द्वादशाङ्गुले मत्स्यतालवत् द्व्येकलालके| तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी||१०||

🔊 Audio coming soon

स०-द्वे तालयन्त्रे भवतः| किंप्रमाणे ? द्वादशाङ्गुले| संस्थानमाह-मत्स्यतालवत् मीनगलतालवत्, द्वितालकं-एकं द्वयोः पार्श्वयोर्मत्स्यमुखसदृशम्, अपरमेकतालकं-एकपार्श्वे मत्स्यमुखाकारमेव| ते द्वे तालयन्त्रे भवतः| कर्णेत्यादि| कर्णनाडी शल्यमपहरतः-कर्णनाडीशल्यापहारिणी|

Adhikarana nADIyantraNAM sthUlaM svarupaM kAryaM ca (11-12) · Śloka 12

नाडीयन्त्राणि सुषिराण्येकानेकमुखानि च| स्रोतोगतानां शल्यानामामयानां च दर्शने||११|| क्रियाणां सुकरत्वाय कुर्यादाचूषणाय च| तद्विस्तारपरीणाहदैर्घ्यं स्रोतोनुरोधतः||१२||

🔊 Audio coming soon

स०-नाडीयन्त्राणि बस्तिनेत्रादिवत् सुषिराणि स्युः| एकं चानेकं चैकानेकं मुखं येषाम्| तनि च कानिचिदेकमुखानि एकद्वाराणि, कानिचिदनेकमुखानि-अनेकद्वाराणि| एतत्कर्माचष्टे-स्रोत इत्यादि| तानि च कर्णादिस्रोतोगतानां शल्यानां दर्शननिमित्तं विदधीत| तथा, कण्ठादिस्रोतोगतानां रोगाणां दर्शने-दर्शननिमित्तं, विदधीत| तथा, क्रियाणां-शस्त्रक्षाराग्निप्रक्षालनौषधप्रणिधानादीनां, सुकरत्वार्थम्| तथा, विषिदिग्धाङ्गादीनामाचूषणाय विदधीत| तद्विस्तारेत्यादि| तेषां-नाडीयन्त्राणां, विस्तारश्च परीणाहश्च दैर्घ्यं च, तानि स्रोतोवशात् भवन्ति| यथा,-अनुवासनोत्तरबस्तिनस्यनाडिकादिषु निर्दिष्टम्|

Adhikarana kaNThAntaHshalyAvalokinI nADI (13) · Śloka 13

दशाङ्गुलाऽर्धनाहाऽन्तःकण्ठशल्यावलोकिनी| नाडी|१३|

🔊 Audio coming soon

स०-कण्ठे शल्यं कण्ठशल्यम्| कण्ठाभ्यन्तरशल्यावलोकनार्थं दशाङ्गुला नाडी| अर्धनाहा-पञ्चाङ्गुलपरिणाहा|

Adhikarana catuShkarNavAra~ggasa~ggrahaNI nADI dvikarNa vAra~ggasa~ggrahaNI nADI (13-14) · Śloka 14

| पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे||१३|| वारङ्गस्य, द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः| |१४|

🔊 Audio coming soon

स०-पञ्चमुखानि छिद्राणि यस्याः सा| चतुष्कर्णस्य वारङ्गस्य सङ्ग्रहे-सङ्ग्रहणनिमित्तमिदं यन्त्रम्| चत्वारः कर्णा यस्य वारङ्गस्येति समासः| तत्र शरादिदण्डप्रवेशः शिखाकारः कीलको वारङ्ग उच्यते| द्विकर्णस्य वारङ्गस्य त्रिच्छिद्रा नाडी स्यात्| त्रीणि छिद्राणि यस्याः सा त्रिच्छिद्रा| छिद्रशब्दस्योपलक्षणर्थत्वात् त्रिमुखेत्येतदपि द्रष्टव्यम्| तस्य वारङ्गस्य प्रमाणं तत्प्रमाणं तस्माद्वारङ्गप्रमाणतः-तदनुसारेण नाडीप्रमाणं ज्ञेयम्|

Adhikarana anyA nADyaH (14-15) · Śloka 15

| वारङ्गकर्णसंस्थानानाहदैर्घ्यानुरोधतः||१४|| नाडीरेवंविधाश्चान्या द्रष्टुं शल्यानि कारयेत्| |१५|

🔊 Audio coming soon

स०-तथा, कर्णश्च संस्थानं चानाहश्च दैर्घ्यं च तान्येवम्| वारङ्गस्य कर्णसंस्थानानाहदैर्घ्याणि, तेषामनुरोधस्तस्मात्, एवंप्रकारा अन्या अपि नाडीः शल्यानि शरीरान्तर्गतानि द्रष्टुं कारयेत्|

Adhikarana shalyanirghAtinI nADI (15-16) · Śloka 16

| पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला||१५|| चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता| |१६|

🔊 Audio coming soon

स०-मूर्ध्नि-मूर्द्धभागे, पद्मकर्णिकया-जलजकर्णिकया, सदृशी| कियत्प्रमाणा ? द्वादशाङ्गुला| तथा, चतुर्थः-चतुर्भागः, सुषिरो यस्याः सा, त्र्यङ्ह्गुलसुषिरेति यावत्| सा नाडी शल्यनिर्घातिनी मता| मुनीनामिति शेषः| अर्शोयन्त्रं लक्षयितुमाह-

Adhikarana arshauyantraM dvicchidram arshauyantraM ekacchidram (16-18) · Śloka 18

| अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम्||१६|| नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षडङ्गुलम्| द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि||१७|| मध्येऽस्य त्र्यङ्गुलं छिद्रमङ्गुष्ठोदरविस्तृतम्| अर्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकं च तदूर्ध्वतः||१८||

🔊 Audio coming soon

स०-अर्शसां सम्बन्धि यन्त्रकं गोस्तनाकृति चतुरङ्गुलं मानतो दैर्घ्येण स्यात्| यन्त्रकमित्याकर्षकं स्यात्| नाहे-परिणाहे, पञ्चाङ्गुलम्| यत्पञ्चाङ्गुलदीर्घेण सूत्रेण वेष्ट्यते, तत्प्रमाणं स्थौल्यमित्यर्थः| एतत् पुंसामेव पञ्चाङ्गुलं नाहे स्यात्| स्त्रीणां तु परिणाहे षडङ्गुलं यन्त्रकं स्यात्, स्वभावत एव तासां गुदस्य महत्त्वात्| व्याधेर्दर्शने द्विच्छिद्रं-उभयपार्श्वच्छिद्रं यन्त्रम्| कर्मणि-शस्त्रक्षाराद्यवचारणे, एकच्छिद्रं यन्त्रम्| अस्य यन्त्रस्य मध्ये त्र्यङ्गुलं छिद्रम्| अङ्ह्गुष्ठमध्यतुल्यविस्तारं, तथा तदूर्ध्वतोऽर्धाङ्गुलोच्छ्रिता उद्दृत्ता कर्णिका यस्य तदेवम्|

Adhikarana ashauyantraM shamyAkhyam (19) · Śloka 19

शम्याख्यं तादृगच्छिद्रं यन्त्रमर्शःप्रपीडनम्| |१९|

🔊 Audio coming soon

स०-शम्याख्यं-शमीसंज्ञं, तृतीयं यन्त्रकं तादृग्-गोस्तनाकारमित्यादिलक्षणलक्षितयन्त्रसदृशं स्यात्| अत्र विशेषमाह-अच्छिद्रमित्यादि| अच्छिद्रं-छिद्ररहितम्, यन्त्रे छिद्रं न विधेयमित्यर्थः| इदं च यन्त्रमर्शःप्रपीडनं स्यात्|

Adhikarana bhagandarayantraM dvicchidram bhagandarayantraM ekacchidram (19) · Śloka 19

| सर्वथाऽपनयेदोष्ठं छिद्रादूर्ध्वं भगन्दरे||१९||

🔊 Audio coming soon

स०-सर्वथा भगन्दरे-भगन्दरयन्त्रे, ओष्ठमपनयेत्| कुतः प्रभृति ? छिद्रादूर्ध्वम्,-उपरिष्टादर्धाङ्गुलमपकर्षयेदित्यर्थः| कर्णिका तु कार्यैव (?)|

Adhikarana ghrANArshorbudayantram (20) · Śloka 20

घ्राणार्बुदार्शसामेकच्छिद्रा नाड्यङ्गुलद्वया| प्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत्||२०||

🔊 Audio coming soon

स०-घ्राणार्बुदे घ्राणार्शसि चैकच्छिद्रा नाडी दैर्घ्येणाङ्गुलद्वयप्रमाणा| तथा, प्रदेशिनीतुल्यः परीणाहो यस्याः सैवम्| सा च भगन्दरयन्त्रतुल्या स्यात्, अपनीतौष्ठेत्यर्थः|

Adhikarana a~ggulitrANakam (21) · Śloka 21

अङ्ह्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्| द्विच्छिद्रं गोस्तनाकारं तद्वक्त्रविवृतौ सुखम्||२१||

🔊 Audio coming soon

स०-अङ्गुलित्राणकाख्यं यन्त्रं दन्तमयं काष्ठमयं वा चतुरङ्गुलप्रमाणमर्शसां यन्त्रसदृशं द्विच्छिद्रं गोस्तनाकृति स्यात्| तच्च वक्त्रस्य विवृतौ-प्रसारणे, सुखम्| यतो वक्त्रप्रसारणे अङ्गुलेर्दन्तेभ्यो रक्षणादन्वर्थमङ्गुलित्राणकमिति नाम|

Adhikarana yonivraNekShaNam (22-23) · Śloka 23

योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्| मुद्राबद्धं चतुर्भित्तमम्भोजमुकुलाननम्||२२|| चतुःशलाकमाक्रान्तं मूले तद्विकसेन्मुखे| |२३|

🔊 Audio coming soon

स०-योनिव्रणमीक्षतेऽनेनेति तत् योनिव्रणेक्षणं यन्त्रकम्| मध्ये-मध्यभागे, सुषिरम्| तथा, दैर्ध्येण षोडशाङ्गुलम्| तथा मुद्रिकया-ऊर्मिकयाऽसञ्चारिण्या, बद्धं-युक्तम्| तथा, चत्वारो (रि) भित्ताः(त्तानि)-पत्राणि, यस्य तच्चतुर्भित्तम्| तथा, जलजमुकुलसदृशमुखम्| तथा, चतस्रः शलाका यत्र तत् चतुःशलाकम्| तथा, तत्-यन्त्रं, मूल आक्रान्तं-मूलशलाकाक्रमणात् मुखे विकसेत्-प्रसरेत्|

Adhikarana nADIvraNAbhya~jjanam (23-24) · Śloka 24

| यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले||२३|| बस्तियन्त्राकृती मूले मुखेऽङ्गुष्ठकलायखे| अग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी||२४||

🔊 Audio coming soon

स०-यन्त्रे द्वे षडङ्गुले भवतः| किमर्थम् ? नाडीव्राणाभ्यङ्गक्षालनाय,-अभ्यङ्गश्च क्षालनं चाभ्यङ्गक्षालने तदर्थं, उपयुज्येते| आकरणं-आकृत्, सम्पदादित्वात् क्विप्| पूर्वविहितस्य बस्तियन्त्रस्येव आकृत्-आकारो, ययोस्ते बस्तियन्त्राकृती,-वृत्ते गोपुच्छाकारे| तथा, यथासङ्ख्यं मूले मुखेऽङ्गुष्ठकलायखे-मूलेऽङ्गुष्ठतुल्यच्छिद्रे, मुखे कलायतुल्यच्छिद्रे| अग्रतोऽकर्णिके- कर्णिकारहिते, इति बस्तियन्त्राद्विशेषः| मूले तु कर्णिके द्वेऽपि पुटकयोजनार्थं कार्य एवेत्यग्रग्रहणम्| मूले-मूलदेशे, निबद्धं- योजितं, मृदु चर्म-बस्तिपुटकाकारं, ययोस्ते निबद्धमृदुचर्मणी|

Adhikarana jalodarayantram (25) · Śloka 25

द्विदारा नलिका पिच्छनलिका वोदकोदरे| |२५|

🔊 Audio coming soon

स०-उदकोदरे जलस्रावणार्थं नलिका द्विद्वारा-उभयमुखी, स्यात्| अथवा, पिच्छनलिका-मयूरपिच्छजेत्यर्थः|

Adhikarana dhUmabastyAdiyantrANi (25) · Śloka 25

| धूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम्||२५||

🔊 Audio coming soon

स०-धूमादियन्त्राणि यथास्वं धूमपानाद्यध्यायेषूक्तानि|

Adhikarana shRu~ggayantram (26) · Śloka 26

त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणेऽष्टादशाङ्गुलम्| अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति||२६||

🔊 Audio coming soon

स०-शृङ्गं त्र्यङ्गुलमुखम्| दुष्टवातविषरक्ताम्बुदुष्टस्तन्यादेश्चूषणे-चूषणनिमित्तं, अष्टादशाङ्गुलं स्यात्| अष्टादशेति ""ह्यष्टन" इत्यादिनाऽऽकारादेशः| तथा, अग्रे-प्रान्ते, सर्षपप्रमाणच्छिद्रम्| यः प्रदेशश्चूषणाय शरीरे योज्यते तदग्रम्| तथा, सुष्ठु नद्धं-सम्यग्बद्धम्| चूचुकस्य-स्त्रीकुचाग्रस्येव, आकृतिः-आकारो, यस्य तदेवम्|

Adhikarana alAbuyantram (27) · Śloka 27

स्याद्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलः| चतुस्त्र्यङ्गुलवृत्तास्यो दीप्तोऽन्तः श्लेष्मरक्तहृत्||२७||

🔊 Audio coming soon

स०-अलाबुः-तुम्बः, द्वादशाङ्गुलो दैर्घ्येण स्यात्| परिणाहेऽष्टादशाङ्गुलः| चत्वारि वा त्रीणि वाऽङ्ह्गुलानि यस्य तच्चतुस्त्र्यङ्गुलम्, तत्तादृशं वृतं-वर्तुलं, आस्यं-मुखं, यस्य स एवम्| तथा, अन्तः-मध्ये, दीप्तो-ज्वलितः, पिचुर्भूर्जादि गर्भ इत्यर्थः| स ईदृशो दुष्टकफरक्तहरः स्यात्|

Adhikarana ghaThIyantram (28) · Śloka 28

तद्वद्घटी हिता गुल्मविलयोन्नमने च सा| |२८|

🔊 Audio coming soon

स०-तद्वत्-तेनालाबुना तुल्यदैर्घ्यानाहादिः, तुल्यकार्याकारा च, घटी स्यात्| सा च गुल्मस्य विलय उन्नमने च हिता, न केवलं कफरक्तहृदिति चार्थः|

Adhikarana shalAkAyantrANi (28-29) · Śloka 29

| शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च||२८|| यथायोगप्रमाणानि| |२९|

🔊 Audio coming soon

स०-शलाकासंज्ञानि यन्त्राणि विविधकर्माणि विविधाकाराणि यथायोगप्रमाणानि स्युः|

Adhikarana eShiNyau shalAke (29) · Śloka 29

तेषामेषणकर्मणी| उभे गण्डूपदमुखे|२९|

🔊 Audio coming soon

स०-तेषां मध्य उभे गण्डूपदतुल्यास्य एषणकर्मणी|

Adhikarana shalyahAriNyau shalAke (29-30) · Śloka 30

| स्रोतोभ्यः शल्यहारिणी||२९|| मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुले| |३०|

🔊 Audio coming soon

स०-तथा स्रोतोभ्यः शल्यहारिणी शलाकायन्त्रे भवतः| किम्भूते ? मसूरेत्यादि| मसूरदलमिव वक्त्रं ययोस्ते, मसूरदलमुखे द्वे शलाकेऽष्टाङ्गुले नवाङ्गुले वा स्याताम्|

Adhikarana sha~gkavaH (30) · Śloka 30

| शङ्कवः षट्|३०|

🔊 Audio coming soon

स०-शङ्कवः षट् स्युः|

Adhikarana vyUhanau sha~gkU (30-31) · Śloka 31

| उभौ तेषां षोडशद्वादशाङ्गुलौ||३०|| व्यूहनेऽहिफाणावक्त्रौ| |३१|

🔊 Audio coming soon

स०-तेषां मध्ये द्वौ षोडशाङ्गुलद्वादशाङ्गुलौ भवतः| व्यूहने-न्यूहनकर्मणि, सर्पफणामुखौ|

Adhikarana cAlanau sha~gku (31) · Śloka 31

द्वौ दशद्वादशाङ्गुलौ| चालने शरपुङ्खास्यौ|३१|

🔊 Audio coming soon

स०-द्वौ शङ्कू दशाङ्गुलद्वादशाङ्गुलौ भवतः| चालने काण्डवाज इव मुखं ययोस्तौ शरपुङ्खास्यौ भवतः|

Adhikarana AharaNau sha~gkU (31) · Śloka 31

| आहार्ये बडिशाकृती||३१||

🔊 Audio coming soon

स०-आहार्ये-आकर्षणे, बडिशाकारौ| षट्शङ्ह्कूनाख्याय गर्भशङ्कुमाह-

Adhikarana garbhasha~gkU (32) · Śloka 32

नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतः| आष्टाङ्गुलायतस्तेन मूढगर्भं हरेत् स्त्रियाः||३२||

🔊 Audio coming soon

स०-नतोऽग्रे-अग्रभागे, तथा शङ्कुना समः-कीलकाकारः, अष्टाङ्गुलदीर्घः स गर्भशङ्कुरिति स्मृतः, 'मुनिभिः' इति शेषः| तेन-गर्भशङ्कुना, मूढगर्भ-अनिःसरन्तं, हरेत्|

Adhikarana dantapAtanam (33) · Śloka 33

अश्मर्याहरणं सर्पफाणावद्वक्त्रमग्रतः| |३३|

🔊 Audio coming soon

स०-अश्मर्याकर्षणे सर्पफणावदग्रे वक्त्रं स्यात्| सर्पफणाख्यमेव चैतद्यन्त्रम्|

Adhikarana pramArjanyaH shalAkAH (33-34) · Śloka 34

| शरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम्||३३|| कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने| |३४|

🔊 Audio coming soon

स०-शरपुङ्खमुखाख्यं यन्त्रं चतुरङ्गुलं दन्तपातनं स्यात्| अनेन हि दन्ताश्चलन्तः पात्यन्ते कृम्यादिभक्षिता वा| सं-प्रमार्जने-क्षालने क्षारक्लेदादेः, षट् शलाकाः स्युः| किम्भूताः ? कार्पासेन विहितमुष्णीषं-शिरोवेष्टनमिव, यासां तास्तथोक्ताः|

Adhikarana pAyupramArjanyau shalAke (34) · Śloka 34

| पायावासन्नदूरार्थे द्वे दशद्वादशाङ्गुले||३४||

🔊 Audio coming soon

स०-पायावासन्नदूरार्थे दशद्वादशाङ्गुले द्वे भवतः| आसन्नार्थे दशाङ्गुला, दूरार्थे द्वादशाङ्गुलेत्यर्थः|

Adhikarana ghrANapramArjanyau shalAke,karNapramArjanyau shalAke (35) · Śloka 35

द्वे षट्सप्ताङ्गुले घ्राणे, द्वे कर्णेऽष्टनवाङुले| |३५|

🔊 Audio coming soon

स०-घ्राणे षट्सप्ताङ्गुले द्वे भवतः| 'आसन्नदूरार्थे' इत्यत्राप्यनुवर्तते| तथैव कर्णेऽष्टनवाङ्गुले भवतः|

Adhikarana karNashodhanam (35) · Śloka 35

| कर्णशोधनमश्वत्थपत्रप्रान्तं स्रुवाननम्||३५||

🔊 Audio coming soon

स०-कर्णशोधनाख्यं यन्त्रम्| अश्वत्थपत्रस्येव प्रान्तो यस्य तत्तथा| तथा, स्रुवस्येवाननं यस्य तदेवम्|

Adhikarana kShArAgniprayogArthaM tisraH shalakAstrINi ca jAmbavauShThAni (36) · Śloka 36

शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक् त्रयम्| युञ्ज्यात् स्थूलाणुदीर्घाणां|३६|

🔊 Audio coming soon

स०-शलाकाश्च जाम्बवौष्ठानि च तेषां पृथक् त्रयं क्षारे क्षारपातने, [ आग्नौ-] आग्निदाहकरणे च युञ्ज्यात्| किम्भूतानां शलाकाजाम्बवौष्ठानाम् ? स्थूलाणुदीर्घाणां,-स्थूलाश्चाणवश्च दीर्घाश्च, तेषाम्| तत्र शलाकास्तिस्त्रो जाम्बवौष्ठानि च त्रीणि, क्षारे तथा दाहने, एवं द्वादशैतानि शलाकाख्यानि यन्त्राणीति|

Adhikarana annavRuddhidAhArthaM shalAkA (36-37) · Śloka 37

| शलाकामन्त्रवर्ध्मनि||३६|| मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसन्निभाम्| |३७|

🔊 Audio coming soon

स०-अन्त्रवर्ध्मनि-अन्त्रवृद्धौ, शलाकां युञ्ज्यात्| कीदृशीम् ? मध्यादूर्ध्वं वृत्तो दण्डो यस्यास्ताम्| तथा, मूले-मूलभागे, अर्धेन्दुसन्निभां-अर्धचन्द्राकाराम्|

Adhikarana nAsArshorbudadAhArthaM shalAkA (37) · Śloka 37

| कोलास्थिदलतुल्यास्या नासार्शोर्बुददाहकृत्||३७||

🔊 Audio coming soon

स०-बदरास्थिखण्डसमं मुखं यस्याः सा कोलास्थिदलतुल्यास्या| सा नासार्शःसु नासार्बुदेषु च दाहं करोति|

Adhikarana darvyAkhyAstistraH shalAkAH (38) · Śloka 38

अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमे| कनीनीमध्यमानामीनखमानसमैर्मुखैः||३८||

🔊 Audio coming soon

स०-क्षारौषधक्रमे तिस्रः शलाका निम्नमुखा अष्टाङ्गुलाः स्युः| कीदृश्यः ? कनीनी च मध्यमा चानामी च, तासां नखाः, तेषां मानं-प्रमाणं, तेन समैः-तुल्यैः, मुखैरुपलक्षिताः स्युः|

Adhikarana meDhrashodhanAdyAH shalAkAH (39) · Śloka 39

स्वंस्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्यञ्जनादिषु| |३९|

🔊 Audio coming soon

स०-मेढ्रादिषु विषयेषु-उत्तरबस्त्यादिषु, स्वंस्वं-यथास्वं, यन्त्राणि गदितानि| आदिशब्देन नावनादिपरिग्रहः|

Adhikarana anuyantrANi, anuyantrakarmANi (39-40.5) · Śloka 40

| अनुयन्त्राण्ययस्कान्तरज्जुवस्त्राश्ममुद्गराः||३९|| वध्रान्त्रजिह्वाबालाश्च शाखानखमुखद्विजाः| कालः पाकः करः पादो भयं हर्षश्च, तत्क्रियाः||४०|| उपायवित्प्रविभजेदालोच्य निपुणं धिया||४०.५||

🔊 Audio coming soon

स०-अयस्कान्तादीन्यणुयन्त्राणि, स्वल्पयन्त्रकार्यकरणात्| तेषां क्रियास्तत्क्रियाः-निर्घातनादिकाः, बुद्ध्या निपुणमालोच्य प्रविभजेत्,-निर्घातनादिकर्माणि प्रविभज्य युञ्ज्यादित्यर्थः|

Adhikarana yantrakarmANi (41.5) · Śloka

तान्येव यन्त्राणां कर्माण्याह निर्घातनोन्मथनपूरणमार्गशुद्धि- संव्यूहनाहरणबन्धनपीडनानि| आचूषणोन्नमननामनचालभङ्ग- व्यावर्तनर्जुकरणानि च यन्त्रकर्म||४१.५||

🔊 Audio coming soon

स०-निर्घातनादि यन्त्रस्य कर्म| निर्घातनं-ताडनं परिपातनम्, उन्मथनं-आलोडनं उन्मूलनम्, एवमन्यदपि चिन्त्यम्| चः समुच्चये, तेन प्रक्षालनादीनि समुच्चीयन्ते|

Adhikarana yantreShu ka~gkamukhasya prAdhAnyam (25) · Śloka 25

विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्| यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च| ४२ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमोऽध्यायः||२५||

🔊 Audio coming soon

स०-विवर्तनादिभिश्चतुर्भिः कारणैर्यन्त्रेषु मध्ये कङ्कमुखं श्रेष्ठमिति| यस्माच्च सर्वेषु प्रदेशेष्वधिकारि-अधिक्रियते इति| वसन्ततिलकोपजाती वृत्ते| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशोऽध्यायः समाप्तः|| २५||