Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

18. vamanavirēcanavidhiradhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

"शुद्धिभिर्निर्ह्रियन्ते" इत्युक्तम्| कास्ताः शुद्धयः ? इति शुद्ध्यर्थं वमनविरेचनाधिकारः - - - -

Adhikarana vamanavirecanavidhiradhyAyaH (2) · Śloka 2

"शुद्धिभिर्निर्ह्रियन्ते" इत्युक्तम्| कास्ताः शुद्धयः ? इति शुद्ध्यर्थं वमनविरेचनाधिकारः - - - - अथातो वमनविरेचनविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२||

🔊 Audio coming soon

स०-अथात इत्यादि| वमनं च विरेचनं च, तयोर्विधिः| शेषं पूर्ववद्व्याख्येयम्| तत्र यथोद्देशतया निर्देश इति पूर्वं वमनविधिमाचष्टे| अथवा विरेकात्पूर्वं वमनस्योपन्यासो युक्तः, हृतकफस्य हि सम्यग्विरेका भवन्ति| तथा चोक्तम् (चरके सि. अ. १|८) - "विरिच्यते मन्दकफस्तु सम्यक्" इति|

Adhikarana vamanavirecanayoH sAmAnyato viShayaH (1) · Śloka 1

अतो वमनविधिमाह - - - - कफे विदध्याद्वमनं संयोगे वा कफोल्बणे| तद्वद्विरेचनं पित्ते|१|

🔊 Audio coming soon

स०-श्लेष्मणि वमनं कुर्यात्, संयोगे च कफाधिके| तत्र च पित्तकफवान् वमनं कुर्यात्| यथा,-कफे कफाधिके संयोगे वमनं कुर्यात् तथैव पित्ते पित्ताधिके वा संयोगे विरेचनं कुर्यादिति तद्वच्छब्दस्यार्थः|

Adhikarana vamanasya visheShato viShayaH (1-3) · Śloka 3

| विशेषेण तु वामयेत्||१|| नवज्वरातिसाराधःपित्तासृग्राजयक्ष्मिणः| कुष्ठमेहापचीग्रन्थिश्लीपदोन्मादकासिनः||२|| श्वासहृल्लासवीसर्पस्तन्यदोषोर्ध्वरोगिणः|३|

🔊 Audio coming soon

स०-विशेषेण पुनर्नवज्वरातिसारादीन् ऊर्ध्वरोगपर्यन्तान् वामयेत्| [ नवज्वरादीनां यक्ष्मान्तानां द्वन्द्व इनिः| एवं च कुष्ठादीनां कासान्तानां श्वासादीनामूर्ध्वरोगान्तानां च द्वन्द्वे इनी कार्यौ|

Adhikarana avAmyAH visheShato viShayaH viShadyAbhyavahAre tu vamanam (3-6) · Śloka 6

| अवाम्या गर्भिणी रूक्षः क्षुधितो नित्यदुःखितः||३|| बालवृद्धकृशस्थूलहृद्रोगिक्षतदुर्बलाः| प्रसक्तवमथुप्लीहतिमिरक्रिमिकोष्ठिनः||४|| ऊर्ध्वप्रवृत्तवाय्वस्रदत्तबस्तिहतस्वराः| मूत्राघात्युदरी गुल्मी दुर्वमोऽत्यग्निरर्शसः||५|| उदावर्तभ्रमाष्ठीलापार्श्वरुग्वातरोगिणः| ऋते विषगराजीर्णविरुद्धाभ्यवहारतः||६||

🔊 Audio coming soon

स०-गर्भिण्यादयो वातरोगान्ता अवाम्याः| अर्शांसि विद्यन्ते यस्य सोऽर्शसः| "अर्शआदिभ्यश्च" इत्यच्| तत्र गर्भिण्या वमनाद्गर्भव्यापद्गर्भभ्रंशश्च (शाच्च) दारुणरोगस्य रक्तपित्तादेरिद्भूतिः| रूक्षस्य वायुः वाग्घनुहस्तादीनां व्यापारायतीर्हत्वा हन्वादीनां ग्रहं कुर्यात्| क्षुधितस्य नित्यदुःखितस्य च वायुना क्षपितशरीरत्वाद्बलक्षयः स्यात्| बालादीनामौषधबलाक्षमत्वात् बलोपरोधः स्यात्| हृद्रोगादीनां हृदयोपरोधः| प्रसक्तच्छर्दीनामुदानो वायुरुत्क्षिप्य प्राणानपि हिंस्यात्| एवमन्यत्रापि रोगोद्गमश्चिन्त्यः| [ किं सर्वदैव गर्भिण्यादयोऽवाम्याः ? उत कस्याञ्चिदवस्थायां वाम्याः, इत्याह- ] ऋत इत्यादि| विषाद्यभ्यवहारमन्तरेण| विषाद्यभ्यवहारे तु वाम्या एवैते|

Adhikarana keciddhUmAntaiH karmabhirvarjyAH ajIrNinaH sarvaiH karmabhirvarjyAH (7) · Śloka 7

प्रसक्तवमथोः पूर्वे प्रायेणामज्वरोऽपि च| धूमान्तैः कर्मभिर्वर्ज्याः, सर्वैरेव त्वजीर्णिनः||७||

🔊 Audio coming soon

स०-प्रसक्तवमथोः पूर्वे-पूर्वस्थिता दुर्बलान्ता एकादशातुराः, तथाऽऽमज्वरश्च| ते सर्वे धूमान्तैः कर्मभिः प्रायेण वर्ज्याः, न केवलं वमनेनैव| धूमग्रहणं गण्डूषादिकर्मणः परिहारार्थम्| प्रायोग्रहणमष्टमासाया गर्भिण्या निरूहा न वर्ज्या इति सूचनार्थम्| तथा, सद्योभुक्तस्य ज्वरितस्य सतो वमनानुज्ञानार्थम्| तु-पुनः, अजीर्णिनः पुरुषाः सर्वैरेव-वमनादिभिर्गण्डूषादिभिश्च वर्ज्याः| आमदोषभयात्तैर्वमनादयो न सेव्या इत्यर्थः| अत्रापि प्रायोग्रहणमनुवर्तते| सद्योऽजीर्णिनां हि वमनमनुज्ञातमेव|

Adhikarana virecanasya visheShato viShayaH (8-10) · Śloka 10

विरेकसाध्या गुल्मार्शोविस्फोटव्यङ्गकामलाः| जीर्णज्वरोदरगरच्छर्दिप्लीहहलीमकाः||८|| विद्रधिस्तिमिरं काचः स्यन्दः पक्वाशयव्यथा| योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः||९|| वातास्रमूर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः| वाम्याश्च कुष्ठमेहाद्याः|१०|

🔊 Audio coming soon

स०-विरेकेण साध्याः-उपक्रम्याः, गुल्मादयः शकृद्ग्रहपर्यन्ताः| पक्वाशये व्यथा पक्वाशयव्यथा| वाम्याश्चेति चः समुच्चये| ये च कुष्ठाद्या ऊर्ध्वरोगपर्यन्ता वमनार्हा उक्तास्ते च विरेच्याः|

Adhikarana avirecyAH visheShato viShayaH (10-11) · Śloka 11

| न तु रेच्या नवज्वरी||१०|| अल्पाग्र्यधोगपित्तास्रक्षतपाय्वतिसारिणः| सशल्यास्थापितक्रूरकोष्ठातिस्निग्धशोषिणः||११||

🔊 Audio coming soon

स०-तुरवधारणे| नवज्वरो नैव रेच्यः| तस्य हि विरेचनमपक्वान् दोषाननिर्हरन् वातकोपायैव स्यात्| यक्ष्मादीनां त्ववस्थावशान्मृदुविरेच्यत्वमनुज्ञातमेव| यथा च पठिष्यति (हृ. चि. अ. ५|१)- "बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्| ऊर्ध्वाधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनम्||" इति [ यक्ष्मणः ]| तथा (हृ. चि. अ. ९|४) - "अपि चाध्मानगुरुताशूलस्तैमित्यकारिणि| प्राणदा प्राणदा दोषे विबद्धे सम्प्रवर्तिनी||" इत्यादिनाऽतीसारस्यापि मृदुविरेचनमनुज्ञातम्| नैवं नवज्वरस्य स्वल्पविरेच्यत्वं कदाऽपि| अल्पाग्न्यादयः शोष्यन्ता न विरेच्याः| तत्राल्पाग्निरबलत्वाद्भेषजवेगं न सहते| अधोगरक्तपित्तातिसारिणोरतिप्रवृत्त्या हन्यात्| क्षतपायोः प्राणोपरोधकरीं रुजां जनयेत्| सशल्यस्य क्षते वायुराश्रितो जीवितं हिंस्यात्| आस्थापितस्य भेषजवेगासहनाद्बलोपरोधः स्यात्| क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्लमान् जनयित्वा प्राणान् हन्युः| अतिस्निग्धस्यातियोगाय स्यात्| शोषिणः क्षीणधातुतया मलबलत्वम्, तदभावाद्देहविनाशः स्यादिति|

Adhikarana vamanavidhiH (12-18) · Śloka 18

अथ साधारणे काले स्निग्धस्विन्नं यथाविधि| श्वोवम्यमुत्क्लिष्टकफं मत्स्यमाषतिलादिभिः||१२|| निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम्| निरन्नमीषत्स्निग्धं वा पेयया पीतसर्पिषम्||१३|| वृद्धबालाबलक्लीबभीरून् रोगानुरोधतः| आकण्ठं पायितान्मद्यं क्षीरमिक्षुरसं रसम्||१४|| यथाविकारविहितां मधुसैन्धवसंयुताम्| कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्||१५|| "ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः||१६|| रसायनमिवर्षीणाममराणामिवामृतम्| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते||१७|| औम् नमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय| तथागतायार्हते सम्यक्सम्बुद्धाय| तद्यथा| औम् भैषज्ये भैषज्ये महाभैषज्ये समुद्रते स्वाहा| " प्राङ्मुखं पाययेत्| |१८|

🔊 Audio coming soon

स०-एतत् पूर्वोक्तं रेच्यारेच्यत्वमवगम्यानन्तरं साधारणे-श्रावणादौ काले, यथाविधि-स्नेहस्वेदाध्यायोदितेन क्रमेण, स्निग्धस्विन्नं पुरुषं भैषज्यमात्रां प्राङ्मुखं पाययेदिति वक्ष्यमाणेन सम्बन्धः| कीदृशम् ? श्वोवम्यं-प्रातर्वमनार्हम्| वम्यमिति "अर्हेकृत्यतृचश्च" इत्यर्हार्थे पोरदुपधादिति यत्| उत्क्लिष्टः-स्थानाच्चलितः, कफो यस्य तमुत्क्लिष्टकफम्| कैः? मत्स्यादिभिः| अन्तर्भावितण्यर्थोऽत्र| उत्क्लेशितकफमित्यर्थः| तथा, निशां सुप्तम्| "कालाध्वनोः" इति द्वितीया| अत एव यथोचितः सकलनिशास्वापोऽत्रोपलक्ष्यते| तथा, सुष्ठु जीर्णमन्नं-आहारो यस्य तम्| कदा पाययेत् ? पूर्वाह्णे-प्रातःकाले| किम्भूतम् ? कृतं मङ्गलं-स्वस्त्ययनादि, यस्य तम्| मङ्गलमित्युपलक्षणार्थम्,- कृतदेवद्विजाग्निगुरुवृद्धार्चनमपीति द्रष्टव्यम्| तथा, निरन्नं-अकृताहारम्| आतुरवशाद्वा किञ्चित्स्निग्धम्| कथम् ? इत्याह-पेयया पीतसर्पिषम्| वृद्धेत्यादि| तथा, असौ वाम्यो वृद्धो वा बालो वा दुर्बलो वा क्लीबः-खेदासहिष्णुर्वा भवति, भीरुर्वा-कातरो भवति| तदा रोगानुरोधादाकण्ठं-अतिमात्रं मद्यक्षीरादिकं पाययेत्| तदनन्तरं भैषज्यमात्रां पाययेत्| सङ्ग्रहेऽप्युक्तम् (सू. अ. २७) - "भीरुकृशबालवृद्धसुकुमारान्वा दोषानुरोधेनाकण्ठं पीतयूषेक्षुरसक्षीरतक्रमांसरसमद्यतुषोदकयवागूमण्डान्यतमम्" इति| किम्भूतां मात्राम् ? यथाविकारविहितां,- रोगानुसारेण साधिताम्| तथा, मधुसैन्धवाभ्यां युताम्| किं कृत्वा ? कोष्ठं-मृदुमध्यक्रूरलक्षणं, विभज्य-विचार्य| श्लेष्माधिक्येन मृदुत्वं, श्लेष्ममध्यत्वेन मध्यत्वं, श्लेष्महीनत्वेन क्रूरत्वं वमने कोष्ठस्य बोध्यम्| तथा चोक्तम् चरके (सि. अ. १|८) - "श्लेष्मोत्तरश्च्छर्दयते ह्यदुःखम्" इति| किम्भूतां भैषज्यमात्राम् ? मन्त्राभिमन्त्रिताम्| तानेव मन्त्रानाह-ब्रह्मेत्यादिग्रन्थेन|

Adhikarana pAnAnantaraM vidhiH (18) · Śloka 18

पीतो मुहूर्तमनुपालयेत्| तन्मनाः|१८|

🔊 Audio coming soon

स०-भैषज्यमात्रां पीतः सन्नातुरः मुहूर्तं तन्मनाः-वमिगतचित्तः, अनुपालयेत्-प्रतीक्षेत|

Adhikarana pravRuttavamanasya kRutyam (18-21) · Śloka 21

| जातहृल्लासप्रसेकश्च्छर्दयेत्ततः||१८|| अङ्गुलिभ्यामनायस्तो नालेन मृदुनाऽथवा| गलताल्वरुजन् वेगानप्रवृत्तान् प्रवर्तयन्||१९|| प्रवर्तयन् प्रवृत्तांश्च जानुतुल्यासने स्थितः| उभे पार्श्वे ललाटं च वमतश्चास्य धारयेत्||२०|| प्रपीडयेत्तथा नाभिं पृष्ठं च प्रतिलोमतः| |२१|

🔊 Audio coming soon

स०-ततः-अनन्तरं, सञ्जातहृल्लासप्रसेकः सन् छर्दयेत्| हृल्लासो-हृदुपरोधः| प्रसेको-निष्ठीवनम्| कथं वमेत् ? अङ्गुलिभ्यां द्वाभ्याम्| यद्वा, कोमलेन सुवर्चलैरण्डादिजेन-नालेन मृदुना वमेत्| कीदृशः ? अनायस्तः,- अनायासेनेत्यर्थः| अपरं गलताल्वपीडयन्| तथा, अप्रवृत्तान् वेगान् प्रवर्तयन् प्रवृत्ताश्च प्रवर्तयन्| जानुप्रमाणे पीठे स्थितः| च-अपरं, अस्य-नरस्य, वमनं कुर्वतो द्वे पार्श्वे ललाटं च धारयेत्| परिचारक इति शेषः| नाभिं च पीडयेत्| पृष्ठं च प्रतिलोमतः-असन्मार्गेण पीडयेत्|

Adhikarana doShabhedena vamanadravyabhedaH (21-22) · Śloka 22

| कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैरिति||२१|| वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे| |२२|

🔊 Audio coming soon

स०-कफे तीक्ष्णोष्णकटुकैर्द्रव्यैर्वमेत्| पित्ते स्वादुशीतैर्द्रव्यैर्वमेत्| स्निग्धाम्ललवणैर्वायुना युक्ते कफे वमेत्|

Adhikarana vamanAvadhiH (22) · Śloka 22

कियन्तं कालं वमेत् ? इत्याह - - - - | पित्तस्य दर्शनं यावच्छेदो वा श्लेष्मणो भवेत्||२२||

🔊 Audio coming soon

स०-यावत् पित्तस्य दर्शनं स्यात्, कफस्य वा छेदः-अन्तः स्यात्, तावद्वमेत्|

Adhikarana hInavegasyauShadham (23) · Śloka 23

हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः| वमेत्पुनःपुनः|२३|

🔊 Audio coming soon

स०-हीनवेगो नरः कणाधात्रीसिद्धार्थलवणोदकैरसकृद्वमेत्|

Adhikarana hInayogalakShaNAm hInayogajA rogAH (23-24) · Śloka 24

| तत्र वेगानामप्रवर्तनम्||२३|| प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा| अयोगस्तेन निष्ठीवकण्डूकोठज्वरादयः||२४||

🔊 Audio coming soon

स०-तत्र-तेषु सम्यग्योगातियोगायोगेषु मध्यात्, वेगानामप्रवर्तनमसावयोगः| सविबन्धा च या प्रवृत्तिः सोऽप्ययोगः| केवलस्य-दोषादिरहितस्यौषधस्य या प्रवृत्तिः सोऽप्ययोगः| तेन-अयोगेन, निष्ठीवादयः स्युः|

Adhikarana samyagyogalakShaNam (1-25) · Śloka 25

निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात्| (मनःप्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत्| वैपरीत्यमयोगानां न चातिमहति व्यथा||१|| ) सम्यग्योगे|२५|

🔊 Audio coming soon

स०-सम्यग्योगे कफपित्तानिलाः क्रमेण निर्विबन्धं-निःसङ्गं प्रवर्तन्ते|

Adhikarana atiyogalakShaNam (25-26) · Śloka 26

| अतियोगे तु फेनचन्द्रकरक्तवत्||२५|| वमितं क्षामता दाहः कण्ठशोषस्तमो भ्रमः| घोरा वाय्वामया मृत्युर्जीवशोणितनिर्गमात्||२६||

🔊 Audio coming soon

स०-अतियोगे पुनः फेनचन्द्रकरक्तवद्वमितं-वमनं भवति| फेनश्च चन्द्रकश्च रक्तं च, तानि विद्यन्ते यस्य वमितस्य तदेवम्| तथा, क्षामतादयो भवन्ति| तमः-तिमिरदर्शनं, दारुणाश्च वातरोगाः| तथा मृत्युर्भवति, जीवाख्यस्य शोणितस्य निर्गमात्-निष्कासात्|

Adhikarana samyagvAntasyopacAraH (27) · Śloka 27

सम्यग्योगेन वमितं क्षणमाश्वास्य पाययेत्| धूमत्रयस्यान्यतमं स्नेहाचारमथादिशेत्||२७||

🔊 Audio coming soon

स०-सम्यग्योगेन वमिते सति मुहूर्तमाश्वास्य-शीतवातादिना, धूमत्रयस्य-स्निग्धमध्यतीक्ष्णाख्यस्य, अन्यतमं-एकं, पाययेद्वैद्यः| अथ-अनन्तरं, स्नेहाचारं-"उष्णोदकोपचारी स्यात्" इत्यादिकं, आदिशेत्|

Adhikarana samyagvAntasya peyAdikrameNa bhojanam (28) · Śloka 28

ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना| भुञ्जानो रक्तशाल्यन्नं भजेत्पेयादिकं क्रमम्||२८||

🔊 Audio coming soon

स०-ततः-ऊर्ध्वं, सायं-अपराह्णे, प्रभाते-पूर्वाह्णे वा, बभुक्षित उष्णोदकेन स्नातो रक्तशाल्यन्नं भुञ्जानः पेयादिकं क्रमं भजेत्|

Adhikarana peyAdikramaH (29) · Śloka 29

तमेव पेयादिकं क्रममाह - - - - पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्| क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः||२९||

🔊 Audio coming soon

स०-प्रधाना च मध्या चावरा च प्रधानमध्यावराः| प्रधानमध्यावराश्च ताः शुद्धयश्च, ताभिः शुद्धो नरः क्रमेण-यथासङ्ख्यं, पेयां त्रीनन्नकालान् द्वावन्नकालावेकन्नकालं भजेदिति| विलेप्यादिष्वप्येवं योज्यम्| एतदेव स्पष्टीकृत्योच्यते| यथा,-प्रधानशुद्ध्या शुद्धो नरो द्वावन्नकालावेकस्मिन् दिने पेयां भजेत्| द्वितीयेऽहन्येकमन्नकालं पेयां द्वितीयमन्नकालं विलेपीम्| तृतीये वासरे द्वावन्नकालौ विलेपीमेव| चतुर्थे दिवसे अकृतं-शुण्ठीलवणाद्यसंस्कृतं यूषं, कृतं-शुण्ठीलवणादिसंस्कृतं यूषं च द्वावन्नकालौ भजेत्, पञ्चमेऽह्नि प्रथमेऽन्नकाले च| चः समुच्चये| त्रिष्वपि कालेष्वकृतं कृतं च यूषं भजेत्, विभज्य तावद्गम्यते| एवं कालत्रयं कृताकृतं रसं विभज्य भोजयेत्| सप्तरात्रेण (सप्ताहात्) प्रकृतिभोजनं क्रमेण सेवेत| एवं यथास्वं मध्यशुद्धिशुद्धस्यावरशुद्धिशुद्धस्य च योजना कार्या| मुनिस्त्वाह (च. सू. अ. १५|१७) - "अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूं पाययेदग्निबलमभिसमीक्ष्य| एवं द्वितीये तृतीये चान्नकाले| चतुर्थे त्वन्नकाले तथाविधानामेव शालीनां सुस्विन्नां विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्| एवं पञ्चमे षष्ठे चान्नकाले| सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मृद्गयूषेण भोजयेत्| एवमष्टमे नवमे चान्नकाले| दशमे त्वन्नकाले लावकपिञ्जलादीनामन्यतमस्य मांसस्य रसेनौदकलावणिकेन नातिसारवता भोजयेदुष्णोदकानुपानम्| एवमेकादशे द्वादशे चान्नकाले| अत ऊर्ध्वमन्नगुणान् क्रमेणोपयुञ्जानः सप्ताहात् प्रकृतिभोजनमागच्छेत्|" इति| त्रीनिति "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया|

Adhikarana peyAdikramasya phalam (30) · Śloka 30

अधुना पेयादिक्रमस्य फलं वक्ति - - - - यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण| महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः||३०||

🔊 Audio coming soon

स०-यथा बाह्योऽग्निरणुः-अत्यल्पः, तृणगोमयकाष्ठदलादिभिः सन्धुक्ष्यमाणः-उद्दीप्यमानो, महान् स्थिरः-चिरकालस्थायी, सर्वपचः-स्थूलसूक्ष्मगुरुलघुपाचकः, क्रमेण भवति| तथैव-तेनैव प्रकारेण, शुद्धस्य नरस्य पेयादिभिरन्तराग्निः-औदर्योऽग्निः, महान् स्थिरः सर्वपचश्च भवति| सर्वपच इति पचेरजन्तस्य सर्वशब्देन सह षष्ठीसमासः| खरनादेऽप्युक्तम्-"विरेके वमने श्रेष्ठे पेयादीनां क्रियाक्रमः| त्रिशो, द्विशो मध्यमे स्यादेकशस्तु कनीयसि||" इति|

Adhikarana trividhasya vamanasya vegamAnam, trividhasya virekasya tulAmAnam (31) · Śloka 31

जघन्यमध्यप्रवरे तु वेगा- श्चत्वार इष्टा वमने षडष्टौ| दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा स्याद्द्विचतुर्गुणश्च||३१||

🔊 Audio coming soon

स०-जघन्यं च मध्यं च प्रवरं च तस्मिन् वमने क्रमेण वेगाश्चत्वारः षडष्टेष्टाः| तन्त्रकृतामिति शेषः| ते वेगा दशैव द्वित्रिगुणा जघन्यमध्यप्रवरे विरेके क्रमेण भवन्ति| तथेति समुच्चये| न केवलं वेगा मानम्, प्रस्थश्च द्विचतुर्गुणो मानं स्यादिति तथाशब्दस्यार्थः| त्रीण्येतान्युपजातिवृत्तानि|

Adhikarana vamanasya pittAvasAnatvaM samyaktvam, trividhasya vamanasya tulAmAnam, virekasya kaphAvasAnatvaM samyaktvam (32) · Śloka 32

पित्तावसानं वमनं विरेकादर्द्धं, कफान्तं च विरेकमाहुः| - |३२|

🔊 Audio coming soon

स०-पित्तान्तं वमनं वदन्ति| विरेकादर्द्धं वमनं कथयन्ति| विरेचनं कफान्तमाहुः|

Adhikarana vegamAne tulAmAne cApohyamAnam (32) · Śloka 32

| द्वित्रान् सविट्कानपनीय वेगान् मेयं विरेके, वमने तु पीतम्||३२||

🔊 Audio coming soon

स०-द्वौ वा त्रयो वा द्वित्राः| "सङ्ख्ययाऽव्यया" इति बहुव्रीहिः| "बहुव्रीहौ सङ्ख्येये डच्" इति डच् वा समासान्तः| सह विशा-पुरीषेण वर्तन्त इति सविट्काः| द्वित्रान् वेगान् सविट्कानपनीय-गणनायामनुपारुह्य, विरेके मेयं-मातव्यम्| वमने पुनः पीतं यदौषधं तदपनीय मेयम्| इन्द्रवज्रावृत्तम्|

Adhikarana virecanavidhiH (33) · Śloka 33

अथैनं वामितं भूयः स्नेहस्वेदोपपादितम्| श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग्विरेचयेत्||३३||

🔊 Audio coming soon

स०-एनं-नरं वामितं, भूयः-पुनरपि, स्नेहस्वेदाभ्यामुपपादितमनन्तरं सम्यग्विरेचयेत्| कदा ? श्लेष्मणः कालः-सत्रिभागः प्रहरः, तस्मिन् गते सति| किं कृत्वा ? कोष्ठं-मृदुमध्यक्रूरलक्षणं, ज्ञात्वा-अवगम्य|

Adhikarana mRudukoShThasya lakShaNam (34) · Śloka 34

बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते| |३४|

🔊 Audio coming soon

स०-यो बहुपित्तः कोष्ठः स मृदुर्भवति| स च क्षीरेण विरिच्यते| अपिशब्दादारग्वधादिभिरपि|

Adhikarana krUrakoShThasya lakShaNam (34) · Śloka 34

| प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैरपि||३४||

🔊 Audio coming soon

स०-प्रभूतमारुतः क्रूरः कोष्ठो भवति| स च कृच्छ्रेण-कथञ्चिदपि, श्यामादिकैर्विरिच्यते| आदिशब्देन कङ्कुष्ठसुधादीनां ग्रहणम्| अपिशब्दादारग्वधादिभिर्न विरिच्यते|

Adhikarana doShabhedena virecanabhedaH (35) · Śloka 35

कषायमधुरैः पित्ते विरेकः, कटुकैः कफे| स्निग्धोष्णलवणैर्वायौ|३५|

🔊 Audio coming soon

स०-कषायमधुरैः-आरग्वधादिभिः, पित्ते विरेकः| कटुकैः कफे विरेकः| स्निग्धोष्णलवणैः-एरण्डतैलादिभिर्वायौ विरेकः कार्यः|

Adhikarana virecanapravRuttau pravartanopAyaH (35-36) · Śloka 36

| अप्रवृत्तौ तु पाययेत्||३५|| उष्णाम्बु, स्वेदयेदस्य पाणितापेन चोदरम्| ||३६||

🔊 Audio coming soon

स०-अप्रवृत्तिः-मन्दा प्रवृत्तिः| नञ् ईषदर्थे| विरेकाप्रवृत्तावुष्णाम्बु पाययेद्वैद्यः| अस्य चातुरस्य पाणितापेन जठरं स्वेदयेत्|

Adhikarana upAyenApyapravRutau kRutyam (37-38) · Śloka 38

| उत्थानेऽल्पे दिने तस्मिन्भुक्त्वाऽन्येद्युः पुनः पिबेत्| अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः| भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम्||३७|| यौगिकं सम्यगालोच्य स्मरन्पूर्वमतिक्रमम्| |३८|

🔊 Audio coming soon

स०-तस्मिन्-विरेकस्य दिने, अल्प उत्थाने-स्तोकायां प्रवृत्तौ सत्यां, भुक्त्वाऽन्नमन्येद्युः-अन्यस्मिन् दिने पुनर्विरेचनौषधं पिबेदातुरः| स्नेहनं-स्नेहः| दृढः स्नेहकोष्ठो यस्य स दृढस्नेहकोष्ठः| न दृढस्नेहकोष्ठोऽदृढस्नेहकोष्ठः| स भूयोऽपि स्नेहस्वेदैः संस्कृतशरीरो दशाहादूर्ध्वं यौगिकं विरेचनं पिबेत्| [ सम्यगालोच्य- ] यथावन्निरूप्य, पूर्वमनुक्रमं-"भैषज्यमात्रां मन्त्राभिमन्त्रिताम्" इत्यादिकं, तथा "अप्रवृत्तौ तु पाययेत्| उष्णाम्बु स्वेदयेदस्य पाणितापेन चोदरम्|" इत्यादिकं च, स्मरन् पिबेदिति|

Adhikarana virecane hInayogalakShaNaNam (38-39) · Śloka 39

| हृत्कुक्ष्यशुद्धिररुचिरुत्क्लेशः श्लेष्मपित्तयोः||३८|| कण्डूविदाहः पिटिकाः पीनसो वातविङ्ग्रहः| अयोगलक्षणम्|३९|

🔊 Audio coming soon

स०-अयोगलक्षणं हृत्कुक्ष्यशुद्धिरित्यादिकम्|

Adhikarana virecane samyagyogalakShaNam (39) · Śloka 39

| योगो वैपरीत्ये यथोदितात्||३९||

🔊 Audio coming soon

स०-यथोक्ताद्वैपरीत्ये-हृत्कुक्षिशुद्धिरित्यादिको(के), योगो-योगलक्षणम्|

Adhikarana virecane atiyogalakShaNam (40-42) · Śloka 42

विट्पित्तकफवातेषु निःसृतेषु क्रमात्स्रवेत्| निःश्लेष्मपित्तमुदकं श्वेतं कृष्णं सलोहितम्||४०|| मांसधावनतुल्यं वा मेदःखण्डाभमेव वा| गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम्||४१|| भवन्त्यतिविरिक्तस्य तथाऽतिवमनामयाः| |४२|

🔊 Audio coming soon

स०-अतिविरिक्तस्य विट्पित्तकफवातेषु क्रमान्निःसृतेषु जलं स्रवेत्| किम्भूतम् ? निःश्लेष्मपित्तं, तथा श्वेतं किञ्चित्कृष्णं सलोहितं-ईषद्रक्तं, अथवा मांसप्रक्षालनसदृशमथवा मेदःशकलाभं स्रवेत्| तथा गुदनिःसरणादयोऽतिवमनामयाश्च-क्षामतादयो भवन्ति|

Adhikarana samyagviriktasya samyagvAntavidhiH (42-43) · Śloka 43

| सम्यग्विरिक्तमेनं च वमनोक्तेन योजयेत्||४२|| धूमवर्ज्येन विधिना| |४३|

🔊 Audio coming soon

स०-एनं च-नरं सम्यग्विरिक्तं, वमनविहितेन विधिना विधूमेनोपपादयेत्|

Adhikarana prakRutibhojanamapi krameNa kuryAt (43) · Śloka 43

ततो वमितवानिव| क्रमेणान्नानि भुञ्जानो भजेत्प्रकृतिभोजनम्||४३||

🔊 Audio coming soon

स०-ततः-अनन्तरं, क्रमेण-पूर्वोक्तेन, रक्तशाल्यन्नसहितपेयोदीन्यन्नान्यश्नन् प्रकृतिभोजनं भजेत्|

Adhikarana mandavahnyAdibhiH shodhanadine upavAsaH kAryaH (44) · Śloka 44

मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्| अदृष्टजीर्णलिङ्गं च लङ्घयेत्पीतभेषजम्||४४||

🔊 Audio coming soon

स०-पीतभेषजान् मन्दवह्न्यादीन् पञ्च लङ्घयेत्| अदृष्टं जीर्णलिङ्गं पीतभेषजस्य यस्येति योज्यम्|

Adhikarana la~gghanasya phalam (45) · Śloka 45

एवं लङ्घिते यो गुणो भवति, तमाह - - - - स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते| |४५|

🔊 Audio coming soon

स०-उत्क्लेशाश्च सङआश्चोत्क्लेशसङ्गाः| स्नेहश्च स्वेदश्चौषधं च तानि, तेषामुत्क्लेशसङ्गाः स्नेहस्वेदौषधोत्क्लेशसङ्गाः तैः| इति-एवं लङ्घिते सति, मन्दाग्न्यादिर्न बाध्यते-न पीड्यते|

Adhikarana peyAdikrame yuktiH (45-46) · Śloka 46

| संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः||४५|| यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्| |४६|

🔊 Audio coming soon

स०-संशोधनादिभिर्यतोऽग्निर्मन्दतां याति, अतो हेतोः पेयादिक्रममाचरेत्| संशोधनं-सम्यक्शुद्धिः| अस्रविस्रावो-रक्तस्रुतिः| स्नेहयोजनं- स्नेहोपयोगः| ननु, शुद्ध्याग्निमान्द्यमिहोच्यते| वक्ष्यति च (श्लो. ६०) - "बुद्धिप्रसादं" इत्यादिना "ज्वलनस्य दीप्तिं संशोधनं करोति" इति| तदिमे वचसि परस्परं व्याघ्नाते| अत्रोच्यते| कालभेदाददोषः| संशोधने क्रियमाणेऽग्निमान्द्यं भवति| कृते च संशोधनेऽथ पेयादिक्रममासेवमानस्याग्निदीप्तिरिति न कश्चिदत्र व्याघातः|

Adhikarana srutAlpapittAdau peyAniShedhaH, niShiddhapeyAnAM peyAsthAne manthaH (46-47) · Śloka 47

| स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्||४६|| पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः| |४७|

🔊 Audio coming soon

स०-स्रुतौ-पतितौ, अल्पौ पित्तश्लेष्माणौ यस्य तं, तथा मद्यपो यो नरस्तं मद्यपं. तथा वातपैत्तिकं, एतांस्त्रीनपि पेयां न पाययेत्| तर्ह्येषां किं कार्यम् ? इत्याह-तेषामित्यादि| प्रथमेऽन्नकाले लाजसक्तवो द्वितीयेऽन्नकाले मांसरसौदन(?)मित्येष तर्पणादिक्रमस्तेषां हितः|

Adhikarana vamanavirecanayoH svakAryapratIkShAvadhiH (47-48) · Śloka 48

ननु, विरेचनस्येव वमनस्य कस्मात् पाको न प्रतीक्ष्यते ? इत्याह - - - - | अपक्वं वमनं दोषान् पच्यमानं विरेचनम्||४७|| निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्| |४८|

🔊 Audio coming soon

स०-वमनमपक्वं सत् दोषान्निर्हरेत्| विरेचनं तु पच्यमानं दोषान्निर्हरेत्| अतो वमनस्य पाको न प्रतिपाल्यते|

Adhikarana durbalAditvAhAraireva shodhyaH (48-49) · Śloka 49

| दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्||४८|| विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्| |४९|

🔊 Audio coming soon

स०-दुर्बलो नरो बहुदोषश्च दोषपाकेन हेतुना स्वयं-औषधमन्तरेण, यो विरिच्यते-भिद्यते, तं-नरं, भेदनीयैर्भोज्यैः-भक्ष्यैर्योजयेत्|

Adhikarana durbalAdInAM mRudvalpamauShadham alpadoShasya durbalasya shamanam (49-51) · Śloka 51

| दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः||४९|| अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्| वरं तदसकृत्पीतमन्यथा संशयावहम्||५०|| हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनःपुनः| दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान्||५१||

🔊 Audio coming soon

स०-दुर्बलादयः पञ्च मृद्वल्पं विरेचनौषधं पिबेयुः| किमित्याह-यस्मात् तत्-विरेचनौषधं, असकृत्-पुनःपुनः, पीतं वरम्, न बहु| अन्यथा-बहु तीक्ष्णं चौषधं पीतं, संशयावहं-प्राणसन्देहकारि| तथा, पुनःपुनः प्रयुक्तमौषधं चलान् बहून् दोषानल्पानल्पान् हरेत्| एवं बलहानिं विना दोषनिर्हारः कृतः स्यात्| तुरवधारणे| दुर्बलस्य नरस्य मृदुद्रव्यैरल्पानेव तान् दोषान् सम्यक् शमयेत्|

Adhikarana bahudoShasya shamane bAdhakam (52) · Śloka 52

ननु, बहवो दोषाः कस्मान्न शाम्यन्ते ? इत्याह - - - - क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः| |५२|

🔊 Audio coming soon

स०-हि-यस्मात्, ते-बहवो दोषाः, अनिर्हृताश्चिरमेनं-आतुरं, क्लेशयन्ति| हन्युर्वा-अनिर्हृता मारयेयुः|

Adhikarana mandAdagnikrUrakoShThayoH shodhane pUrvA~ggam (52-53) · Śloka 53

| मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः||५२|| सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्| |५३|

🔊 Audio coming soon

स०-मन्दाग्निं क्रूरकोष्ठं च नरं सह क्षारलवणाभ्यां वर्तन्ते यानि घृतानि तैर्यथासङ्ख्यमुद्दीपितानलं विजितकफवातं च शोधयेत्|

Adhikarana rUkShAdInAM virecanamapi na virecayati te kathaM virecyAH? (53-55) · Śloka 55

| रूक्षवह्वनिलक्रूरकोष्ठव्यायामशीलिनाम्||५३|| दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति| तेभ्यो बस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम्||५४|| शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः| प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखम्||५५||

🔊 Audio coming soon

स०-रूक्षादीनां भैषज्यमविरेच्यैव-विरेचनमकृत्वैव, परिणमति| तेभ्यो-रूक्षादिभ्यः, पूर्वं बस्तिं दद्यात्| अनन्तरं स्निग्धं-एरण्डतैलबिन्दुघृतादिकं, विरेचनं योजयेत्| अथवा फलवर्तिभिस्तीक्ष्णाभिः पुरीषं किञ्चित्-अल्पं, निर्हृत्य-निःसार्य, स्निग्धं विरेचनं दद्यात्| किमिति बस्तिना तीक्ष्णाभिः फलवर्तिभिश्च किञ्चिच्छकृन्निर्हारः क्रियते ? इत्याह-प्रवृत्तं हीत्यादि| यस्मान्मलं प्रवृत्तं सन्तं किञ्चित्पतितं स्निग्धो विरेकः सुखं-अकृच्छ्रेण निर्हरेत्|

Adhikarana viShAdyArtaiShu shodhanam (56) · Śloka 56

विषाभिघातपिटिकाकुष्ठशोफविसर्पिणः| कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत्||५६||

🔊 Audio coming soon

स०-नातिशब्दोऽत्रेषदर्थे| "नातिशीतगुरुस्निग्धं" (हृ. सू. अ. ६|६३) इत्यत्र यथा| विषाद्यार्तानीषत्स्निग्धान् विशोधयेत्|

Adhikarana sarveShAM snehavirecanam snehabhAvitAnAM rUkShaM virecanam (57) · Śloka 57

सर्वान् स्नेहविरेकैश्च, रूक्षैस्तु स्नेहभावितान्| |५७|

🔊 Audio coming soon

स०-सर्वान्-ईषत्सिग्धान् विषार्तादीनीषद्रूक्षान् वा, स्नेहविरेकैः शोधयेत्| स्नेहभावितांश्च पुरुषान् रूक्षैर्विरेकैः शोधयेत्|

Adhikarana pratikarmaM snehasvedau kAryau,sarvakarmAnte punaH snehanam (57-58) · Śloka 58

| कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे||५७|| स्नेहस्वेदौ प्रयुञ्जीत, स्नेहमन्ते बलाय च| |५८|

🔊 Audio coming soon

स०-वमनादीनां कर्मणामन्तरेऽन्तरे-मध्ये मध्ये, पुनरपि-भूयः, स्नेहस्वेदौ प्रयुञ्जीत| अन्ते च कर्मणां बलाय-शरीरस्य बलाधानार्थं, स्नेहं प्रयुञ्जीत| तदयमर्थोऽत्र बोध्यः,-आदौ स्नेहस्वेदौ ततो वमनं, पुनः स्नेहस्वेदौ ततो विरेचनं, पुनः स्नेहस्वेदौ ततोऽनुवासनं, पुनः स्नेहस्वेदौ ततो निरूपणं, पुनः स्नेहस्वेदौ ततोऽनुवासनमिति|

Adhikarana snehasvedAbhyAse yuktiH (58-59) · Śloka 59

किमित्येवं विधीयते ? इत्याह - - - - | मलो हि देहादुत्क्लेश्य ह्रियते वाससो यथा||५८|| स्नेहस्वेदैस्तथोत्क्लिष्टः शोध्यते शोधनैर्मलः| |५९|

🔊 Audio coming soon

स०-यतो देहादुत्क्लेश्य-पतनोन्मुखं कृत्वा मलो विरेचनादिभिर्ह्रियते| कथमिव ? वाससो-वस्त्राद्यथा,- मर्दनिकायां वस्त्रं मर्दयित्वा जलादिना मलो निर्ह्रियत इति|

Adhikarana snehasvedanAbhyAse doShaH (59-60) · Śloka 60

ननु, स्नेहस्वेदावन्तरेणापि कस्मान्मलः शोधनैर्न शोध्यते ? इत्याह - - - - | स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः||५९|| दारु शुष्कमिवानामे शरीरं तस्य दीर्यते||५९|| १/२||६०||

🔊 Audio coming soon

स०-यो नरः स्नेहस्वेदावनभ्यस्य-अशीलयित्वा, संशोधनं कुर्यात्, तस्य शरीरं दीर्यते| कथमिव ? आनामे-आनमने, काष्ठं शुष्कं यथा दीर्यत इति|

Adhikarana samyak shodhanasya phalam (17) · Śloka 18

साम्प्रतं संशुद्धेः फलमाह - - - - बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम्| चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्| ६० १/२| इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने वमनविरेचनविधिर्नामाष्टादशोऽध्यायः||१८||

🔊 Audio coming soon

स०-संशोधनं सम्यक् क्रियमाणं बुद्धिप्रसादादीन् पञ्च करोति| बुद्धिप्रसादो-धीपाटवम्| वयसो-यौवनादेः, पाकः-परिणाम इति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने वमनविरेचनविधिर्नामाष्टादशोऽध्यायः समाप्तः|| १७||