Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
मलहरणार्थं पूर्वाध्याय उक्तः| बस्तिनाऽपि मलो निर्ह्रियत इति वमनविरेचनविधेरनन्तरं बस्तिविधेरुपदेशो युक्त इत्याह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
मलहरणार्थं पूर्वाध्याय उक्तः| बस्तिनाऽपि मलो निर्ह्रियत इति वमनविरेचनविधेरनन्तरं बस्तिविधेरुपदेशो युक्त इत्याह-
Adhikarana bastividhiradhyAyaH (2) · Śloka 2
मलहरणार्थं पूर्वाध्याय उक्तः| बस्तिनाऽपि मलो निर्ह्रियत इति वमनविरेचनविधेरनन्तरं बस्तिविधेरुपदेशो युक्त इत्याह - - - - अथातो बस्तिविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|
🔊 Audio coming soon
स०-बस्तिना दीयत इत् बस्तिः, तस्य विधिः| शेषं पूर्ववद्व्याख्येयम्|
Adhikarana basterviShayaH, basteH sarvopakramashreShThatvam, bastibhedAH (1-2) · Śloka 2
वातोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते| उपक्रमाणां सर्वेषां सोऽग्रणीस्त्रिविधस्तु सः||१|| निरूहोऽन्वासनं बस्तिरुत्तरः| |२|
🔊 Audio coming soon
स०-वात उल्बणः-अधिको, येषां दोषाणां तेषु बस्तिरिष्यते| आचार्यैरिति शेषः| तत्र वातपित्ते वातश्लेष्मण्यथवा केवले वायौ बस्तिरिष्यते| उपक्रमाणां-चिकित्सितानां, सर्वेषां सः-बस्तिः, अग्रणीः-प्रधानतमः| स च त्रिप्रकारः| तदेव त्रैविध्यमाह-निरूहोऽन्वासनं बस्तिरुत्तर इति| गुदादुत्तरेण मार्गेण मेढ्रादिना दीयत इत्युत्तरबस्तिः|
Adhikarana nirUhasya visheShato viShayaH (2-3) · Śloka 3
तेन साधयेत्| गुल्मानाहखुडप्लीहशुद्धातीसारशूलिनः||२|| जीर्णज्वरप्रतिश्यायशुक्रानिलमलग्रहान्| वर्ध्माश्मरीरजोनाशान् दारुणांश्चानिलामयान्||३||
🔊 Audio coming soon
स०-तेनेत्यनेन निरूहः परामृश्यते| कथमिति चेत् ? ब्रूमः| "अनास्थाप्यास्तु" इत्यधीते| तत्र के निरूह्या इत्याधिगते सति, अनिरूह्याः पुनरिमे इति वक्तुं युज्यते| अपि च, "आस्थाप्या एव चान्वास्याः" इति पठति| के आस्थाप्या इति नाधिगम्येत यदीह निरूहो न परामृश्येत| तस्मात्तेनेत्यनेन निरूहस्य ग्रहणं न्याय्यम्| तेन-निरूहेण, गुल्मादींस्तथा जीर्णज्वरादीन् कृच्छ्रान् वातरोगाश्चं साधयेत्-उपक्रमेत्| गुल्मादीनां शूलान्तानां द्वन्द्वेनी कार्यौ| शुक्रादीनां ग्रहेण सम्बन्धः| शुक्रग्रहो-रेतोविबन्धः| अनिलग्रहो-वायोरसञ्चारः| मलग्रहो-मूत्रविशोर्विबन्धः| रजोनाशः-स्त्रियाः पुष्पविनाशः|
Adhikarana aniruhyAH (4-6) · Śloka 6
अनास्थाप्यास्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः| आमातिसारी वमिमान् संशुद्धो दत्तनावनः||४|| श्वासकासप्रसेकार्शोहिध्माध्मानाल्पवह्नयः| शूनपायुः कृतहारो बद्धच्छिद्रोदकोदरी||५|| कुष्ठी च मधुमेही च मासान् सप्त च गर्भिणी| |६|
🔊 Audio coming soon
स०-अतिस्निग्धादयः सप्तममासगर्भिण्यन्ता अनास्थाप्याः-अनिरूह्याः| वमिमान्-प्रसक्तच्छर्दिः| बद्धादीनामुदरेण सम्बन्धः| तत इनिर्मत्वर्थीयः| शुद्धातिसारिण आस्थाप्या इत्यनेनैवामातिसारिणोऽनास्थाप्यत्वे लब्धे पुनर्वचनं नियमार्थम्, तेनामातिसारिणो न कथञ्चिदास्थाप्या इति| तत्रातिस्निग्धस्य दोषानुत्क्लेश्य निरूहः श्वयथुमुदरं च जनयेत्| क्षतोरस्ककृशयोः क्षोभव्यापन्नं शरीरमाशु पीडयेत्| आमातिसारिणो दोषस्य सम्यगनिर्हरणाद्देहस्य क्षोभादतिपीडां कुर्यात्| प्रसक्तच्छर्दिषो दोषोत्क्लेशो निरूहमूर्ध्वं नयेत्| कृतवमनविरेकयोस्तु रिक्तं देहं क्षतं क्षार इव दहेत्| कृतनस्यस्य विवृतोर्ध्वस्रोतस्तया विभ्रंशं कुर्यात्| श्वासादीनामुत्क्लिष्टदोषत्वान्निरूह ऊर्ध्वं व्रजेत्| अर्शःप्रभृतीनां भृशतरमाध्मानं मृत्युर्त्वा स्यात्| अल्पाग्न्यादीनां स्तम्भजाड्यादीनावहेत्| गर्भिण्याः पूर्वोक्ता एव दोषाः|
Adhikarana anuvAsanasya visheShato viShayAH (6-7) · Śloka 7
| आस्थाप्या एव चान्वास्या विशेषादतिवह्नयः||६|| रूक्षाः केवलवातार्ताः| |७|
🔊 Audio coming soon
स०-य एवास्थाप्यास्त एवानुवास्याः| आङ्पूर्वात्तिष्ठतेर्णिजन्तादनुपूर्वाच्च वसतेरर्हार्थे ण्यत्| विशेषेणातिवह्न्यादयोऽनुवास्याः|
Adhikarana nAnuvAsyAH (7-9) · Śloka 9
नानुवास्यास्त एव च| येऽनास्थाप्यास्तथा पाण्डुकामलामेहपीनसाः||७|| निरन्नप्लीहविड्भेदिगुरुकोष्ठकफोदराः| अभिष्यन्दिभृशस्थूलकृमिकोष्ठाढ्यमारुताः||८|| पीते विषे गरेऽपच्यां श्लीपदी गलगण्डवान्| |९|
🔊 Audio coming soon
स०-त एव चेति येऽनास्थाप्याः-अनिरूह्याः, ते चापि नानुवास्याः| तथा, पाण्ड्वादयो नानुवासनार्हाः| एतेषां हि दोषानुत्क्लेश्य स्नेहबस्तिरुदरं जनयेत्| निरन्नस्यानुवासनात् स्नेहविपत्तिः| तथा चोक्तं खरनादेन-"अभुक्तदत्तस्य तथा स्नेहबस्तिर्विपद्यते|" इति| प्लीहादीनां स्तम्भजाड्यादीनावहेत्| कृमिकोष्ठस्यानुवासनादयः पूर्वमनिर्हृतैः कृमिभिरथवाऽतिबहुत्वाद्दोषापनिःसरणेन हृदयमतिकर्षद्भिश्च्छर्दिं कुर्युः| आढ्यमारुतस्य सम्यग्दोषानिर्हरणादामयवृद्धिः| पीते विषे गरे च नानुवास्या इति योज्यम्| अपची-उत्तरे (अ. २९|२५) वक्ष्यमाणा| श्लीपदीतीनिः, गलगण्डवानिति मतुप्| अपच्यादयो नानुवास्या इति| सङ्ग्रहे चोक्तम् (सू. अ. २८) - "अभुक्ते रिक्तकोष्ठस्य प्रयुक्तमनुवासनम्| सरदूरगसूक्ष्मत्वैः क्षिप्रमूर्ध्वं प्रपद्यते|| तेन वायोर्जयो न स्याद्वातधामन्यतिष्ठता| कायाग्नेराशु नाशश्च विशेषादनिर्वर्तिना|| स्नेहः सद्योऽशिताहाररुद्धे त्वामाशयेऽनिलम्| पक्वस्थं हन्ति पक्वस्थश्च्यवते चान्नपाकतः|| निरूहश्च समीरश्च तीक्ष्णवेगावुभावपि| तावन्नमूर्च्छितौ तीक्ष्णावधोऽन्नन सहागतौ|| ऊर्ध्वं वा शकृता सार्द्धं संस्थितौ कोष्ठ एव वा| समलाहारविष्टब्धौ हरेतामाशु जीवितम्|| भुक्तवाननुवास्योऽस्मान्न निरूह्योऽत्र भुक्तवान्|" इति|
Adhikarana nirUhAnvAsanayantrasya lakShaNam (9-10) · Śloka 10
| निरूहान्वासनयोर्यन्त्रस्य लक्षणमाह - ] - - - | तयोस्तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम्||९|| गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जु गुलिकामुखम्| |१०|
🔊 Audio coming soon
स०-तयोः-निरूहान्वासनयोर्नेत्रं भवति| नीयते-प्राप्यते स्नेहकल्काद्यपानमिति नेत्रम्| नेत्रेति "दाम्नीशस" इति णेः ष्ट्रन्ऽऽप्रत्ययः| किम्भूतं नेत्रम् ? हेमादीति| आदिशब्दः प्रकारे| तेन रूप्यरीतिकायःकांस्यत्रपुसीसादयो गृह्यन्ते| हेमादयश्च ते धातवश्चेति कर्मधारयः| दारु-शिंशिपादिकाष्ठम्, अस्थि-गजादेः, वेणुः-वंशः, एतेषां द्वन्द्वः| एभ्यो जातं तयोः-निरूहान्वासनयोः, नेत्रं भवति| किम्भूतम् ? गोपुच्छाकारम्, गोपुच्छ इवाकारो यस्य तत्| तथा, अच्छिद्रं-निर्विवरम्| तथा, श्लक्ष्णं-कोमलम्| तथा, ऋजु-अवक्रम्| गुलिकासदृशमतीक्ष्णाग्रं मुखं यस्य तदेवम्|
Adhikarana yantrapramANam (10-12) · Śloka 12
अथास्य प्रमाणमाह - - - - | ऊनेऽब्दे पञ्च, पूर्णेऽस्मिन्नासप्तभ्योऽङ्गुलानि षट्||१०|| सप्तमे सप्त, तान्यष्टौ द्वादशे, षोडशे नव| द्वादशैव परं विंशाद्वीक्ष्य वर्षान्तरेषु च||११|| वयोबलशरीराणि प्रमाणमभिवर्द्धयेत्| |१२|
🔊 Audio coming soon
स०-षण्मासे बालेऽधिके वा अपूर्णवर्षे नेत्रस्य पञ्चाङ्गुलानि| आतुराङ्गुलप्रमाणमिति गम्यते| दैर्घ्येण चेत्येतदप्यनुक्तं गम्यते| वक्ष्यति हि (श्लो. १२) - "स्वाङ्गुष्ठेन समं मूले स्थौल्येन" इति| आसप्तभ्यः-सप्तवर्षाणि मर्यादीकृत्य, षडङ्गुलानि प्रमाणम्| आङत्र मर्यादायाम्, नाभिविधौ| तेन षड्वर्षे बाले षडङ्गुलानि नेत्रम्| अन्यथा सप्तवर्षस्यापि षडेवेति प्राप्नोति| वक्ष्यति तु-"सप्तमे सप्त" इति| एवं च पूर्वापरं व्याहतं स्यात्| तस्मान्मर्यादायामाङित्येवेहि| सप्तमे वर्षे सप्ताङ्गुलानि| द्वादशे वत्सरे तानि-अङ्गुलान्यष्टौ नेत्रम्| द्वादशानां पूरण इति " तस्य पूरणे डट्" इति डट्| एवं षोडश इत्यत्र| षोडशे संवत्सरे नवाङ्गुलानि नेत्रम्| विंशाद्वत्सरादूर्ध्वमेकविंशप्रभृतिवर्षेषु द्वादशाङ्गुलानि नेत्रम्| नातोऽप्यधिकानीत्येवशब्दार्थः| विंशतिशब्दात् पूरणे डटि तिविंशतोर्डितीति तिलोपाद्विंशशब्दः| वर्षान्तरेषु-अन्तरालस्थितेषु वर्षेषु नवमदशमादिषु, वीक्ष्य-पर्यालोच्य, नेत्रस्य प्रमाणमभिवर्द्धयेत्| चशब्दो भिन्नक्रमः| न केवलं वर्षान्तरेषु प्रमाणमभिवर्द्धयेत्| यावद्वयोबलादीनि च निरूप्य प्रमाणं वृद्धिं नयेत्|
Adhikarana yantrasthaulyam (12) · Śloka 12
| स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया||१२||
🔊 Audio coming soon
स०-स्थौल्येन-परिणाहेन, स्वाङ्गुष्ठेन तुल्यं मूले नेत्रम्| तथा, अग्रं-प्रान्तः, तस्मिन् कनिष्ठयाऽङ्गुल्या समं नेत्रं स्यात्| खरनादेऽप्युक्तम्-"बस्तिनेत्रमृजु श्लक्ष्णं सुवृत्तं गुलिकामुखम्| भवेद्गोपुच्छसंस्थानं सुप्रवाहं त्रिकर्णिकम्|| या त्रिभागप्रणयने मर्यादा कर्णिका भवेत्| द्वे कर्णिके चोपरिष्टाद्बस्त्याधारे यथान्तरे|| स्वाङ्गुष्ठकपरीणाहं मूलं नेत्रस्य शस्यते| मध्यं त्वनामिकातुल्यमग्नं तुल्यकनिष्ठिकम्|| स्वेनाङ्गुलिप्रमाणेन दैर्घ्यं स्याद्द्वादशाङ्गुलम्| कर्कन्धुप्रंवहं छिद्रं श्रेष्ठमन्यद्यथावयः|| विंशद्वादशषड्वर्षे द्वादशाष्टषडङ्गुलम्| कर्कन्धुकसतीनाग्रमुद्गछिद्रवहं स्मृतम्||" इत्यादि| मुनिरप्यवोचत् (च. सि. अ. ३|६) - "षड्द्वादशाष्टाङ्गुलसम्मितानि षड्विंशतिद्वादशवर्षजानाम्| स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्या पिहितानि चैव|| यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति|" इति|
Adhikarana yantracchidrapramANam (13-14) · Śloka 14
अधुना छिद्रद्वारेण नेत्रस्थौल्यप्रमाणमधिकमपि दर्शयन्नाह - - - - पूर्णेऽब्देऽङ्गुलमादाय तदर्द्धार्द्धप्रवर्द्धितम्| त्र्यङ्गुलं परमं छिद्रं मूलेऽग्रे वहते तु यत्||१३|| मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात्| |१४|
🔊 Audio coming soon
स०-वर्षे पूर्णे सत्यङ्गुलमादाय स्वाङ्गुलात्प्रभृति क्रमेण त्र्यङ्गुलं छिद्रं मूले नेत्रस्य भवति| किम्भूतं छिद्रम् ? अर्द्धस्यार्द्धमर्द्धार्द्धम्| तस्य-अङ्गुलस्यार्द्धार्द्धं तदर्द्धार्द्धम्, तेन प्रवर्द्धितम्| तत्र प्रथमे वर्षेऽङ्गुलमात्रं छिद्रम्, यावद्वर्षाणि षट्| सप्तमे वर्षे सपादमङ्गुलम्, यावदेकादश वर्षाणि| द्वादशे वर्षे सार्द्धमङ्गुलम्, यावत्षोडश वर्षाणि| षोडशवर्षस्य तु पादोनमङ्गुलद्वयम्| सप्तदशे वर्षेऽङ्गुलद्वयम्| अष्टादशे वर्षे सपादमङ्गुलद्वयम्| एकोनविंशतिवर्षस्य सार्द्धमङ्गुलद्वयम्| विंशतिवर्षस्य पादोनमङ्गुलत्रयम्| एकविंशतिवर्षस्य त्र्यङ्गुलं छिद्रमिति क्रमो वेद्यः| परममित्यनेनैतद्गमयति,-परमं-उत्कर्षमाश्रित्येदं मूलच्छिद्रम्| मध्यमं तु मूलच्छिद्रं "स्वाङ्गुष्ठेन" इत्यनेनोक्तम्| ऊनवर्षस्य त्वर्द्धाङ्गुलं छिद्रमेतदपेक्षया कल्प्यम्| अग्रे तु छिद्रं तद्भवति यन्मुद्गादि वहति| तत्र वार्षिकस्य मुद्गवाहि, यावत्षड्वर्षम्| सप्तवर्षस्य माषवाहि, यावदेकादशोऽब्दः| द्वादशवर्षस्य कलायवाहि, षोडशवर्षस्य क्लिन्नकलायवाहि, एकविंशतिवर्षस्य कर्कन्धुवाहि, इति क्रमाद्वयःप्रमाणम्| ऊनवर्षस्य च न मुद्गवाहि कल्प्यम्| अग्रच्छिद्रप्रमाणं चैतत् "अग्रे कनिष्ठया" इत्यत्रापि सङ्गच्छत एव| दैर्घ्यप्रमाणं चात्र पक्षे पूर्वमेव योज्यम्| "स्वाङ्गुष्ठेन समं मूले स्थौल्येन" इत्यनेन (इत्यत्र) छिद्रप्रमाणं स्वमत्या भिषजा प्रकल्प्यम्| तथा, "त्र्यङ्गुलं परमं छिद्रं" इत्यत्र च स्थौल्यप्रमाणं स्वधियैव निरूप्यम्| तन्त्रकृता तु ग्रन्थगौरवभयादुक्तप्रायत्वाच्चेह नोक्तम्|
Adhikarana yantraprAnte karNikAsthApanam, yantrAgracchidraM vartyA pidheyam, karNikAdvayamadhye dvya~ggulamantaram (14-15) · Śloka 15
| मूलाच्छिद्रप्रमाणेन प्रान्ते घटितकर्णिकम्||१४|| वर्त्याऽग्रे पिहितं, मूले यथास्वं ह्यङ्गुलान्तरम्| कर्णिकाद्वितयं नेत्रे कुर्यात्|१५|
🔊 Audio coming soon
स०-मूले यच्छिद्रमुक्तं तत्प्रमाणेन प्रान्ते घटिता-सम्पादिता, कर्णिका-छत्राकारा गुदाधिकान्तःप्रवेशरोधिनी, यस्मिंस्तदेवम्| तथा, वर्त्या-दशादिकृतया, प्रान्ते (अग्रे) पिहितं-स्थगितम्| यथास्वं-ऊनवर्षादिकस्य तदङ्गुलप्रमाणेन, द्व्यङ्गुलान्तरं कर्णिकायुगलं मूलप्रदेशे नेत्रे विदधीत बस्तिपुटयोजनार्थम्|
Adhikarana karNikAdvaye bastibandhanam (15-17) · Śloka 17
अत एवाह - - - - | तत्र च योजयेत्||१५|| अजाविमहिषादीनां बस्तिं सुमृदितं दृढम्| कषायरक्तं निश्छिद्रग्रन्थिगन्धशिरं तनुम्||१६|| ग्रथितं साधु सूत्रेण सुखसंस्थाप्यभेषजम्| |१७|
🔊 Audio coming soon
स०-तस्मिंश्च कर्णिकाद्वितयेऽजादीनां बस्तिं योजयेत्| आदिशब्देन गोहरिणवराहाणां ग्रहणम्| अजादीनामित्येवं निर्देशेऽप्यविमहिषग्रहणे लब्धे साक्षादेतयोर्ग्रहणमन्यजेभ्यो बस्तिभ्य एतद्बस्तेर्योग्यतरत्वप्रतिपादनार्थम्| किम्भूतं बस्तिम् ? सुमृदितं,-सस्नेहं मुहुः सुष्ठु मर्दितम्| तथा, दृढम्| तथा कषायेण-हरीतक्यादिना, रक्तम्| तथा, छिद्रं च ग्रन्थिश्च गन्धश्च शिरश्च, ताः निर्गताः-न सन्ति, यस्य तन्निश्छिद्रग्रन्थिगन्धशिरम्| तथा, तनुं-न स्थूलम्| तथा, साधु-सम्यक्, सूत्रेण ग्रथितं-बद्धम्| तथा, सुखेन-अकृच्छ्रेण, संस्थापनीयमौषधं यत्र तदेवम्|
Adhikarana tadalAbhe caritArthatA (17) · Śloka 17
| बस्त्यभावेऽङ्कपादं वान्यसेद्वासोऽथवा घनम्||१७||
🔊 Audio coming soon
स०-बस्तेरभावे सति, अङ्कपादं वा-चरणाद्यवयवविशेषं वा, न्यसेत्-नेत्रे योजयेत्| अथवा, वस्त्रं घनं न्यसेत्|
Adhikarana nirUhauShadhamAtrA (18-19) · Śloka 19
निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरे परम्| प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्षट्प्रसृतास्ततः||१८|| प्रसृतं वर्द्धयेदूर्ध्वं द्वादशाष्टादशस्य तु| आसप्ततेरिदं मानं, दशैव प्रसृताः परम्||१९||
🔊 Audio coming soon
स०-निरूहस्य मात्रा प्रथमे वर्षे कषायस्नेहसहितस्य प्रकुञ्चः-पलप्रमाणम्| षण्मासादौ त्वेतदनुसारेणार्धपलादि कल्प्यम्| वर्षात्परं प्रकुञ्ह्चेन वृद्धिः प्रतिसंवत्सरं कार्या, यावत् षट्प्रसृताः-द्वादश पलानि| तत ऊर्ध्वं प्रसृतं वर्द्धयेत्| प्रत्यब्दमित्यनुवर्तते| ततो द्वादशवर्षस्यैवं द्वादश पलानि| अनन्तरं त्रयोदशवर्षादिषु प्रतिवर्षं पलद्वयं निरूहमात्राया वर्द्धयितव्यं क्रमेणैव यावत्सप्तदशवर्षाणि| अष्टादशवर्षस्य तु द्वादश प्रसृताः-चतुर्विंशतिपलानि| इदं-एतत्, मानं-प्रमाणं, सप्ततिवर्षाणि यावत्| परं-सप्ततेरूर्ध्वं, दशैव प्रसृता मानम्, नाधिकम्|
Adhikarana anuvAsanauShadhamAtrA (20) · Śloka 20
एवं सांवत्सरीकादारभ्य यावद्वर्षशतिकस्तावन्निरूहमात्रामभिधाय, अनुवासनमात्रामधिकृत्याह - - - - यथायथं निरूहस्य पादो मात्राऽनुवासने| |२०|
🔊 Audio coming soon
स०-यथायथं-यथास्वं वार्षिकस्यैकविंशतिवत्सरादेर्वा, निरूहस्य पादः-चतुर्भागमात्रः, अनुवासने-अनुवासनविषये, मात्रा| यस्य पलं निरूहस्तस्य कर्षप्रमाणमनुवासनमित्यर्थः| एवं सर्वत्र कल्प्यम्|
Adhikarana nirUhyasyAnuvAsanam, anuvAsanakAlaH, anuvasanIyasya pUrvakartavyam (20-24) · Śloka 24
| आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्धबलं पुनः||२०|| अन्वासनार्हं विज्ञाय पूर्वमेवानुवासयेत्| शीते वसन्ते च दिवा रात्रौ केचित्ततोऽन्यदा||२१|| अभ्यक्तस्नातमुचितात्पादहीनं हितं लघु| अस्निग्धरूक्षमशितं सानुपानं द्रवादि च||२२|| कृतचङ्क्रमणं मुक्तविण्मूत्रं शयने सुखे| नात्युच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः||२३|| सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम्| |२४|
🔊 Audio coming soon
स०-आस्थाप्यं-निरूहणार्हं, स्निग्धं, तथा स्विन्नं, तथा शुद्धं-ऊर्ध्वाधः, तथा भूयोऽपि लब्धबलं, तथाऽनुवासनयोग्यं, विदित्वा पूर्वमेव निरूहादनुवासयेत्| शीते-हेमन्तशिशिरयोः ऋत्वोः, तथा वसन्ते, दिवाऽनुवासयेत्| अन्यदा-शीताद्वसन्ताच्चान्यस्मिन् ग्रीष्मप्रावृट्शरदाख्ये ऋतौ, रात्रावनुवासयेत्| केचिदिति भिन्नक्रमः, ततोऽन्यदेत्यतोऽनन्तरं द्रष्टव्यम्| इति केचित् "आहुः" इति वाक्यशेषः| धान्वन्तरास्तु सर्वथैव रात्रावनुवासनं नेच्छन्ति| धन्वन्तरिमतमेवोररीकृत्य सङ्ग्रहेऽधिजगे (सू. अ. २८)- "न रात्रौ प्रणयेद्बस्तिं दोषोत्क्लेशो हि रात्रिजः| स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम्||" इति| तदेतद्देशान्तरादिवशात् प्रमाणयितव्यम्| किम्भूतं नरम् ? अभ्यक्तस्नातं,-पूर्वमभ्यक्तः पश्चात्स्नातः, तम्| पूर्वकालेति समासः| उचितात्पादहीनं-येन यद्भोजनमभ्यस्तं तस्माच्चतुर्थभागहीनमशितम्| तथा, हितं-लघुगुणयुक्तम्| तथा, किञ्चित् स्निग्धरूक्षम्| तथा, सानुपानं द्रवादि च| आदिशब्देन द्रवोष्णमनभिष्यन्दीत्यादिविशिष्टं भुक्तवन्तमिति गमयति| उक्तं च सङ्ग्रहे (सू. अ. २८)- "अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गात् स्नेहो मदमूर्च्छाग्निसादहृल्लासादीन् जनयति| रूक्षाशिनो विष्टम्भं बलवर्णहानिं च| अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चानावृतो न तदावरणाद्व्यापदम्|" इति| किम्भूतम् ? कृतचङ्क्रमणं-विहितगमनमात्रम्| तथा, व्यक्तमूत्रपुरीषम्| तथा, शयने-शयनीये, सुखावहे संविष्टं-स्थितम्| किम्भूते ? नात्युच्छ्रिते,-नात्युन्नते, न चोच्छीर्षे-न चोन्नतशिरोधरे| कथं संविष्टम् ? वामपार्श्वतः,-वामपार्श्वेन| सङ्कोच्य दक्षिणं सक्थि वामसक्थ्न उपरीति वृद्धवैद्याः| ततो-दक्षिणसक्थ्नः, अपरं-वामं सक्थि, प्रसार्य| सङ्ग्रहे चोक्तम् (सू. अ. २८) - "शयने नात्युच्छ्रिते स्वास्तृत ईषदुन्नतपाददेशे वामपार्श्वेन प्राक्ऽऽशिरसं संवेशयेत्|" इति|
Adhikarana anuvAsane vaidyakRutyam (24-26) · Śloka 26
| अथास्य नेत्रं प्रणयेत्स्निग्धे स्निग्धमुखं गुदे||२४|| उच्छ्वास्य बस्तेर्वदने बद्धे हस्तमकम्पयन्| पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम्||२५|| नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत्| सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति||२६||
🔊 Audio coming soon
स०-अस्य-एवंभूतावस्थस्यातुरस्य, गुदे स्निग्धे घृतेन कृते नेत्रं [ स्निग्धप्रान्तं प्रणयेत्| ] बस्तेर्वदन उच्छ्वास्य-वातं निःसार्य, बद्धे सति, नातिशीघ्रं, नातिविलम्बितं, नातिवेगेन, न च मन्दं कृत्वा, तथा पृष्ठवंशाभिमुखमेकवारमेव नेत्रं प्रपीडयेत्| कथं प्रपीडयेत् ? हस्तमकम्पयन्| अतिद्रुतादिपीडनदोषा बस्तिव्यापत्सिद्धौ (हृ. क. अ. ५) वक्ष्यमाणाः| सावशेषं च स्नेहं कुर्वीत| कुतो हेतोः ? इत्याह-यस्मात् शेषे स्नेहे वायुस्तिष्ठति|
Adhikarana vaidyakRutyasya phalam, shIghranivRuttau punaranuvAsanam (27-29) · Śloka 29
दत्ते तूत्तानदेहस्य पाणिना ताडयेत्स्फिजौ| तत्पार्ष्णिभ्यां तथा शय्यां पादतश्च त्रिरुत्क्षिपेत्||२७|| ततः प्रसारिताङ्ह्गस्य सोपधानस्य पार्ष्णिके| आहन्यान्मुष्टिनाऽङ्ह्गं च स्नेहेनाभ्यज्य मर्दयेत्||२८|| वेदनार्तमिति स्नेहो न हि शीघ्रं निवर्तते| योज्यः शीघ्रं निवृत्तेऽन्यः स्नेहोऽतिष्ठन्नकार्यकृत्||२९||
🔊 Audio coming soon
स०-दत्ते च बस्तिस्नेहे सति, उत्तानगात्रस्य तु तस्य स्फिजौ हस्तेनाहन्यात्| तथा-तेनैव प्रकारेण, तत्पार्ष्णिभ्यां स्फिजौ ताडयेत्| शय्यां-खट्वां च, पादतः-चरणदेशात्, त्रीन् वारानुत्क्षिपेत्, न तु मूर्धतः| ततः-शय्योत्क्षेपादनन्तरं, प्रसारितशरीरस्य दत्तगण्डुकस्य पार्ष्णिके-पार्ष्णी, मृष्ट्याऽऽहन्यात्| अङ्गं-शरीरं च, स्नेहेन-तैलादिना, अभ्यज्य मर्दयेत्| किमेवं क्रियते ? इत्याह-अङ्गं वेदनार्तं-पीडातुरं, इति-हेतोर्यस्मादाशु स्नेहो न निवर्तते| शीघ्रमपयाते च स्नेहे सत्यपरः स्नेहो देयः| कस्मादेवं विधीयते ? इत्याह-स्नेहः शरीराभ्यन्तरेऽतिष्ठन् नैव कार्यकृत्-न स्नेहने समर्थ इत्यर्थः|
Adhikarana mandAgnimanAgatasnehaM ca sAyaM na bhojayet (30) · Śloka 30
दीप्ताग्निं त्वागतस्नेहं सायास्ने भोजयेल्लघु| |३०|
🔊 Audio coming soon
स०-दीप्ताग्निं तु पुरुषं निवृत्तस्नेहं सन्तं [ सायाह्ने ] लघु-मात्रया स्वभावतश्च, आशयेत्|
Adhikarana anuvAsanasya nivRuttikAlaH, anivRuttau upekShA pratIkArashca (30-31) · Śloka 31
| निवृत्तिकालः परमस्त्रयो यामास्ततः परम्||३०|| अहोरात्रमुपेक्षेत, परतः फलवर्तिभिः| तीक्ष्णैर्वा बस्तिभिः कुर्याद्यत्नं स्नेहनिवृत्तये||३१||
🔊 Audio coming soon
स०-स्नेहस्य त्रयः प्रहराः परो निवृत्तिकालः| ततः-प्रहरत्रयात् परतो, रात्रिंदिवमुपेक्षेत-न तदाकृष्टौ यत्नं कुर्यात्| परतः-अहोरात्रात्, फलवर्तिभिः-अर्शश्चिकित्सितोक्ताभिः, अथवा तीक्ष्णैर्बस्तिकल्पोक्तैर्बस्तिभिः स्नेहागमनार्थं यतेत|
Adhikarana pratIkArasyApavAdaH, snehasheShapAkArthamauShadham (32-33) · Śloka 33
अतिरौक्ष्यादनागच्छन्न चेज्जाड्यादिदोषकृत्| उपेक्षेतैव हि ततोऽध्युषितश्च निशां पिबेत्||३२|| प्रातर्नागरधान्याम्भः कोष्णं, केवलमेव वा| |३३|
🔊 Audio coming soon
स०-अतिरौक्ष्यादनागच्छन् स्नेहो यदि जाड्याग्निसादादिदोषान्न विधत्ते, तत उपेक्षेतैव-न तन्निष्कासने यतेतेत्यर्थः| अध्युषितो रात्रिं यदि स्नेहस्ततः परिणतत्वात् रसादिधातुसमतां गतः प्रातः-प्रभाते, शुण्ठीधान्यकाम्बु कदुष्णं पिबेत्| केवलमेव वा-नगरधान्यकरहितं, कोष्णं जलं पिबेत्|
Adhikarana punaranuvAsanasya kAlaH (33-34) · Śloka 34
| अन्वासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम्||३३|| यथा वा स्नेहपक्तिः स्यादतोऽत्युल्बणमारुतान्| व्यायामनित्यान् दीप्ताग्नीन् रूक्षांश्च प्रतिवासरम्||३४||
🔊 Audio coming soon
स०-तमातुरं भूयस्तृतीये दिवसे पञ्चमे वाऽनुवासयेत्| अथवा यथा स्नेहपाको भवेदित्यग्न्यपेक्षया सप्तरात्रेऽधिके न्यूने वा त्रिरात्रे वा यथायोगमनुवासयेत्| अतः-अस्मादेव हेतोः, अधिकपवनान् व्यायामशीलान् पटुतरदहनान् रूक्षांश्च पुरुषान् प्रत्यहमनुवासयेत्|
Adhikarana anuvasanAnantaraM nirUhaH, anuvAsanaM vinaiva niruhaH (35) · Śloka 35
इति स्नेहैस्त्रिचतुरैः स्निग्धे स्रोतोविशुद्धये| निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः||३५||
🔊 Audio coming soon
स०-इति-पूर्वोक्तेन प्रकारेण, स्नेहैस्त्रिभिश्चतुर्भिर्वा स्निग्धे सति स्रोतोविशोधनार्थं निरूहं शोधनं प्रयोजयेत्| अस्निग्धे सति तनोः-शरीरस्य, स्नेहनं प्रयोजयेत्| त्रयो वा चत्वारो वा त्रिचतुराः| सङ्ख्ययाव्ययेति समासः| चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसङ्ख्यानमित्यच् समासान्तः|
Adhikarana nirUhavidhiH (36-38) · Śloka 38
पञ्चमेऽथ तृतीये वा दिवसे साधके शुभे| मध्याह्ने किञ्चिदावृत्ते प्रयुक्ते बलिमङ्गले||३६|| अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम्| अवेक्ष्य पुरुषं दोषभेषजादीनि चादरात्||३७|| बस्तिं प्रकल्पयेद्वैद्यस्तद्विद्यैर्बहुभिः सह| |३८|
🔊 Audio coming soon
स०-अथ-अनुवासनादनन्तरं, पञ्चमे तृतीये वा वासरे मध्याह्ने किञ्चित्-मनाक्, आवृत्ते-अतिक्रान्ते, तथा बलिमङ्गले विहिते सति, पुरुषं कृताभ्यक्तस्वेदितं त्यक्तमलं किञ्चिद्बुभुक्षितं तथा प्रकृत्यादिभिर्ज्ञात्वा दोषादीनि विदित्वा| आदिशब्देन सात्म्यबलादिपरिग्रहः| इत्येवं सर्वमवगम्य वैद्यो बस्तिं प्रकल्पयेत्| ननु, "दूष्यं देशं" (हृ. सू. अ. १२|६७) इत्यादिना सर्वमुक्तमेवैतत्| तत्किमनेन ? इति| ब्रूमः| निरूहमपि सापायं पश्यतेतदाचार्येण पुनरुक्तम्| दूष्यदेशादिमहता यत्नेनालोचनीयमिति प्रतिपादनार्थम्| "निरूहमात्रा प्रथमे" इत्यादि च सर्वमत्रालोच्यम्| कथं प्रकल्पयेत् ? इत्याह-तद्विद्यैः-वैद्यकशाश्त्रज्ञैर्बहुभिः सह-सार्द्धम्|
Adhikarana nirUhadravyANAM mAtrA (38-41) · Śloka 41
अथ निरूहकल्पनामाह - - - - | क्वाथयेद्विंशतिपलं द्रव्यस्याष्टौ फलानि च||३८|| ततः क्वाथाच्चतुर्थांशं स्नेहं वाते प्रकल्पयेत्| पित्ते स्वस्थे च षष्ठांशमष्टमांशं कफेऽधिके||३९|| सर्वत्र चाष्टमं भागं कल्काद्भवति वा यथा| नास्यच्छसान्द्रता बस्तेः पलमात्रं गुडस्य च||४०|| मधुपट्वादिशेषं च युक्त्या| |४१|
🔊 Audio coming soon
स०-द्रव्यस्य-बस्तिकल्पोक्तस्य, निरूहकल्पनार्थं विंशतिपलानि, तथाऽष्टौ फलानि-मदनफलानि, सामान्यपरिभाषया षोडशगुणं जलं दत्त्वा क्वाथयेत्| चतुर्भागावशेषश्च ग्राह्यः| ततः-तस्मादेवंकृतात्, क्वाथाच्चतुर्थांशं स्नेहं वाते प्रकल्पयेत्| द्वादशप्रसृतो हि निरूहः| तत्र स्नेहं षट्पलिकं कल्पयेदित्यर्थः| पित्तेऽधिके स्वस्थे च पुरुषे षष्ठांशं स्नेहं-चतुष्पलिकं, प्रकल्पयेदिति प्रकृतम्| कफेऽधिके अष्टमांशं स्नेहं-त्रिपलिकं, प्रकल्पयेत्| ननु, स्वस्थस्य दोषचालनं प्रतिषिद्धं तन्त्रान्तरीयैः| तद्ग्रन्थो हि-"यो हि सञ्चालयेत्सुप्तं वने सिंहं करादिभिः| स दोषांश्चालयेत् स्वस्थान् प्रच्छर्दनविरेचनैः||" इति| तस्मात् स्वस्थवृत्ते निरूहकल्पना न युक्तेति| तदेतदसत्| यस्मात् प्रागभिहितम् (हृ. सू. अ. ४|३५)- "शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले| घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु||" इति| तस्मादाचार्यवचनाज्ज्ञायते स्वस्थवृत्तेऽपि शुद्धिविधानं सम्मतमिति तन्त्रकृतः| तन्त्रान्तरीयं मतं त्वसदेव, शिष्टव्यवहारविरुद्धत्वात्| सर्वत्र-वाते पित्ते कफे स्वस्थे च, कल्कात्-पेष्यद्रव्यात्, अष्टमं भागं-त्रीणि पलानि, कल्पयेत्| भवति वेत्यादि| यथा वा बस्तिरत्यच्छोऽतिसान्द्रो-अतिघनो [ वा ] न भवति तथा कल्कः कल्पयितव्यः| पलमात्रं गुडस्य चेति पलान्नाधिकोन इति ज्ञापनार्थं मात्रग्रहणम्| मधुपट्वादिशेषं च युक्त्या प्रकल्पयेत्| तत्रेयं युक्तिः,-माक्षिकस्य पलचतुष्टयं सैन्धवस्य च कर्षः, आदिग्रहणात् क्वचिद्यवक्षारस्य कर्षः, तथा मांसरससुरासवसुक्तक्षीरकाञ्जिकानां ग्रहणम्|
Adhikarana nirUhadravyANAM saMskAraH (41-43) · Śloka 43
सर्वं तदेकतः| उष्णाम्बुकुम्भीबाष्पेण तप्तं खजसमाहतम्||४१|| प्रक्षिप्य बस्तौ प्रणयेत्पायौ नात्युष्णशीतलम्| नातिस्निग्धं न वा रूक्षं नातितीक्ष्णं न वा मृदु||४२|| नात्यच्छसान्द्रं नोनातिमात्रं नापटु नाति च| लवणं तद्वदम्लं च|४३|
🔊 Audio coming soon
स०-तत्-एतत्, सर्वमौषधमेकतः-एकस्मिन् कृत्वा, भेषजपाकातिक्रान्तिपरिहारार्थमुष्णाम्बुकुम्भीवाष्पेण तप्तं, खजेन-दध्याहननकाष्ठेन, समाहतं-आलोडितं, तथा "ब्रह्मदक्ष" इत्यादिना चाभिमन्त्रितं, बस्तौ प्रक्षिप्य पायौ-गुदे, प्रणयेत्| नात्युष्णं, नातिशीतलं, नातिस्निग्धं, न वा रूक्षं, नातितीक्ष्णं, न वा मृदु, नात्यच्छं नातिसान्द्रं-नातिघनं, नोनमात्रं, न चातिमात्रं, नापटु-नालवणं, नातिलवणं, तद्वदम्लं चेति नानम्लं, नात्यम्लम्| अतिशब्दप्रयोगादत्र मध्यमावस्थानुगमः|
Adhikarana matAntareNa svasthaviShayaM mAnam (43-45) · Śloka 45
साम्प्रतमन्यमतमभिधत्ते - - - - पठन्त्यन्ये तु तद्विदः||४३|| मात्रां त्रिपलिकां कृर्यात्स्नेहमाक्षिकयोः पृथक्| कर्षार्द्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्||४४|| सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत्| |४५|
🔊 Audio coming soon
स०-तद्विदो-बस्तिविदः, एवं पठन्ति| यथा,-"मात्रां त्रिपलिकां कुर्यात् " इत्यादि|
Adhikarana nirUhadravyANAM melanakramaH (45-46) · Śloka 46
सम्प्रति निरूहावयवानां माक्षिकादीनां संयोजनविधिमाह - - - - | माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्||४५|| आवपेत निरूहाणामेष संयोजने विधिः| |४६|
🔊 Audio coming soon
स०-माक्षिकादि क्रमात् आवपेत-मर्दयित्वा मिश्रयेत्| कुण्डके माक्षिकं प्रथमं प्रक्षिप्य मर्दयेत्| ततस्तत्रैव लवणं क्षिप्त्वा मेलयेत्| एवं स्नेहं, ततोऽनु कल्कं, ततः क्वाथं, इति-अनेन, क्रमेण मिश्रयेदित्यर्थः| एवं योजितानि द्रव्याणि समरसतां यान्ति| समरसभावेन च निरूहस्य सम्यग्योगो भवति| निरूहाणां संयोजने-मिश्रणे, एष विधिः-एतद्विधानम्|
Adhikarana datte nirUhe rogiNaH kRutyam (46-47) · Śloka 47
| उत्तानो दत्तमात्रे तु निरूहे तन्मना भवेत्||४६|| कृतोपधानः सञ्जातवेगश्चोत्कटकः सृजेत्| |४७|
🔊 Audio coming soon
स०-निरूहे दत्तमात्रे सति उत्तानः सन् तन्मनाः-निरूहवेगे दत्तावधानः, तथा कृतोपधानः सन् तिष्ठेत्| समुद्भूतवेगश्चोत्कटकः सन् त्यजेत् 'वेगं' इति शेषः|
Adhikarana nirUhasya nivRuttikAlaH, anivRuttau pratIkAraH (47-49) · Śloka 49
| आगतौ परमः कालो मुहूर्तो मृत्यवे परम्||४७|| तत्रानुलोमिकं स्नेहक्षारमूत्राम्लकल्पितम्| त्वरितं स्निग्धतीक्ष्णोष्णं बस्तिमन्यं प्रपीडयेत्||४८|| विदद्यात्फलवर्तिं वा स्वेदनोत्रासनादि च| |४९|
🔊 Audio coming soon
स०-आगतौ-प्रत्यागमने, कालः परमो मुहूर्तः| अपरः-तस्मान्मुहूर्तादन्यो, विस्रब्धागमनकालो मृत्यवे-मरणाय| तत्र-तस्मिन् मुहूर्तात्परमनागमने निरूहस्य, त्वरितमपरं बस्तिं-निरूहं, प्रपीडयेदिति सम्बन्धः| किम्भूतं निरूहम् ? आनुलोमिकं-अनुलोमकरम्| स्नेहः, तथा क्षारो-यवक्षारादिः, तथा मूत्रं-गोमूत्रं, अम्लं-काञ्जिकादि, तैः कल्पितं-निरूपितम्| तथा, स्निग्धं तीक्ष्णमुष्णं च| स्नेहयोगादेव स्निग्धत्वे सिद्धे स्निग्धग्रहणं निरूहस्य स्निग्धेतरत्वप्रतिपादनार्थम्| आनुलोमिकमिति "अध्यात्मादित्वात्" ठञ्| अथवा फलवर्तिं विदद्यात्| फलेन-मदनफलेन युक्ता वर्तिः| सा चार्शश्चिकित्सिते (हृ. चि. अ. ८|१३७) वक्ष्यमाणा| स्वेदनोत्त्रासनादि च| स्वेदनं-स्वेदः| उत्त्रासनं-खड्गहस्तयोधदर्शनादिना कुपितनृपच्छद्मखड्गव्यग्राग्रबाहुदर्शनाकुलकरणादि, कुर्यात्|
Adhikarana asamyagyogAtpunaH punardAnam (49-50) · Śloka 50
| स्वयमेव निवृत्ते तु द्वितीयो बस्तिरिष्यते||४९|| तृतीयोऽपि चतुर्थोऽपि यावद्वा सुनिरूढता| |५०|
🔊 Audio coming soon
स०-स्वयमेव-फलवर्त्याद्यायासं विनाऽपि, निवृत्ते निरूहे सति द्वितीयो बस्तिः-निरूहः, इष्यते| यत्नविशेषेण तु निरूहे निवृत्ते सति नान्यं बस्तिं प्रपीडयेत्, इत्युक्तं भवति| तृतीयोऽपीत्यपिः समुच्चये| एवं चतुर्थोऽपीति| यावद्वेति| पञ्चमादयोऽपि बस्तयो देयाः, यावत् सम्यङ्निरूढत्वं स्यात्|
Adhikarana samyagyogAdilakShaNam (50) · Śloka 50
कानि पुनः सम्यङ्निरूढलिङ्गानि ? इत्याह - - - - | विरिक्तवच्च योगादीन्विद्यात्|५०|
🔊 Audio coming soon
स०-निरूहे विरिक्त इव योगादीन् विद्यात्| तत्र चोक्तम्- (हृ. सू. अ. १८|३८) - "हृत्कुक्ष्यशुद्धिः" इत्यारभ्य यावत् "भवन्त्यतिविरिक्तस्य तथाऽतिवमनामयाः|" इति|
Adhikarana samyagyoge snAnaM bhojanaM ca (50-51) · Śloka 51
| योगे तु भोजयेत्||५०|| कोष्णेन वारिणा स्नातं तनुधन्वरसौदनम्| |५१|
🔊 Audio coming soon
स०-योगे तु-निरूहस्य सम्यग्योगे सति, सुखोष्णजलस्नातं सन्तं भोजयेत्| किम् ? धन्वरसौदनम्, धन्वरसो-जाङ्गलरसश्चौदनं च तद्धन्वरसौदनम्| किम्भूतम् ? तनु-अघनम्| ननु, "यूषक्षीररसैः क्रमात्" इति (श्लो. ५६) वक्ष्यति| तत्कथमिहेदमुपपद्यते ? ब्रूमः| वातविकारशमनार्थो हि निरूहः प्रायेणेष्यते| तस्मिंश्च रसकौदनमेव पथ्यं श्रेयः| अग्रे च दोषापेक्षया पथ्यं विशेषेणोपदेक्ष्यते| अतो नात्र किञ्चिदनुपपन्नम्| ननु, दोषनिर्हरणं वमनविरेकाभ्यामिवानेन क्रियते| तत्र च यथा पेयादिक्रमो युक्तः, तथेहापि युक्तः स्यात्| नैवम्| विरेकवमनाभ्यां हि वह्निस्थानमाच्छाद्यते, तेनाग्निमान्द्यं भवति| निरूहस्तु नाभेरुर्ध्वमगच्छन्नेव दोषनिर्हरणं करोति, तेन तत्र नाग्निमान्द्यापत्तिः| तस्मान्नात्र पेयादिक्रमः| अपि च, वातविकारविषयत्वाच्चात्र रसौदनप्रायमेव पथ्यं युक्तम्|
Adhikarana snAnabhojanayoH phalam (51-52) · Śloka 52
| विकारा ये निरूढस्य भवन्ति प्रचलैर्मलैः||५१|| ते सुखोष्णाम्बुसिक्तस्य यान्ति भुक्तवतः शमम्| |५२|
🔊 Audio coming soon
स०-प्रकर्षेण चलैर्दोषैर्ये विकारा भवन्ति, ते कोष्णसलिलैः स्नातस्य कृतभोजनस्य सतः शमं गच्छन्ति| अत एव तत्कार्यमिति भावः|
Adhikarana vAtArditasya nirUhadina evAnuvAsanam (52) · Śloka 52
| अथ वातार्दितं भूयः सद्य एवानुवासयेत्||५२||
🔊 Audio coming soon
स०-अथ-निरूहादनन्तरं, वातपीडितं पुरुषं सद्य एव-तस्मिन्नेव दिने, अनुवासयेत्|
Adhikarana anuvAsanasya samyagyogAdi lakShaNam (53) · Śloka 53
सम्यग्घीनातियोगाश्च तस्य स्युः स्नेहपीतवत्| |५३|
🔊 Audio coming soon
स०-तस्य-अनुवासनस्य, स्नेहपीतस्येव सम्यग्योगादयः स्युः| स्नेहपीतस्येव स्नेहपीतवत्, षष्ठ्यन्ताद्वतिः| तत्र (हृ. सू. अ. १६|३०)- "वातानुलोम्यं" इत्यादि "घ्राणवक्त्रगुदस्रवाः" इत्यन्तं स्नेहपानस्य सम्यग्योगातियोगलक्षणम्|
Adhikarana visheShaM samyagyogalakShaNam (53-54) · Śloka 54
अन्यदप्यनुवासनस्य सम्यग्योगलक्षणमाह - - - - | किञ्चित्कालं स्थितो यश्च सपुरीषो निवर्तते||५३|| सानुलोमानिलः स्नेहस्तत्सिद्धमनुवासनम्| |५४|
🔊 Audio coming soon
स०-चशब्दः पूर्वोक्तं सम्यग्योगलक्षणं समुच्चिनोति| किञ्चित्-अल्पमात्रं, कालं कोष्ठाभ्यन्तरे स्थितः सन् सविट्कः सानुगुणपवनो निवर्तते-निःसरति, यः स एवंभूतश्च स्नेहः, तत्सिद्धं-अभिमतकारि, अनुवासनम्| उक्तं व्यस्तं समस्तं चेदं सिद्धानुवासनलक्षणम्|
Adhikarana anuvAsanAvRuttau doShabhedena sa~gkhyAniyamaH madhyemadhye nirUhaH (54-55) · Śloka 55
| एकं त्रीन् वा बलासे तु स्नेहबस्तीन् प्रकल्पयेत्||५४|| पञ्च वा सप्त वा पित्ते, नवैकादश वाऽनिले| पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनं ततः||५५||
🔊 Audio coming soon
स०-स्नेहबस्तीन्-अनुवासनानि, एकं त्रीन् वा श्लेष्मविकारे प्रकल्पयेत्| कार्ये कारणोपचारादेवमुक्तम्| एवमग्रेऽपि चिन्त्यम्| पित्ते पञ्च स्नेहबस्तीनथवा सप्त दद्यात्| नव एकादश वा वायौ दद्यात्| ततः पुनरप्ययुग्मान्-विषमानेव, स्नेहबस्तीन् दद्यात्| ततः पुनरप्यास्थापनं दद्यात्| अयुग्मवचनं चेदं बाहुल्येनायं व्यवहारो युक्त इति प्रतिपादयितुम्| वातोत्तरस्य तु युग्मा अपि देया एव| तथा चाधुनैवाभ्यधायि (श्लो. ३४) - "अतोऽत्युल्बणमारुतान्| व्यायामनित्यान् दीप्ताग्नीन् रूक्षांश्च प्रतिवासरम्||" इति|
Adhikarana atra doShabhedena yUShAdibhirbhojanam (56) · Śloka 56
कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात्| |५६|
🔊 Audio coming soon
स०-कृतास्थापनस्य च पथ्यं श्लेष्मपित्तपवनेषु यथासङ्ख्यं यूषादिभिः सहान्नमुपयोक्तव्यम्|
Adhikarana vAte nirUhaM prati visheShaH (56-57) · Śloka 57
| वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः||५६|| बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः| |५७|
🔊 Audio coming soon
स०-बस्तिः-निरूहः, [अनिले-वातविषये, वातघ्नौषधानि-दशमूलादीनि, तेषां निष्क्वाथः त्रिवृतासैन्धवैर्युतः, तथा ] स्निग्धो मधुराम्लोष्णरसयुक्तः पवने हितः|
Adhikarana pitte nirUhaM prati visheShaH (57-58) · Śloka 58
| न्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ||५७|| पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ| |५८|
🔊 Audio coming soon
स०-पित्ते मधुरशिशिरौ सघृतदुग्धेक्षुरसमधू द्वौ बस्ती हितौ|
Adhikarana kaphe nirUhaM prati visheShaH (58-59) · Śloka 59
| आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः||५८|| रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे| |५९|
🔊 Audio coming soon
स०-तथा, आरग्वधेन्द्रयवेत्यादिकषायवत्संकमूर्वेत्यादिकषायाभ्यां (हृ. सू. अ. १५, श्लो. १७ श्लो. ३३) युक्ता रूक्षा माक्षिकगोमूत्राभ्यां सहितास्तीक्ष्णादिगुणयुक्तास्त्रयो बस्तयः कफे हिताः|
Adhikarana sannipAte ta eva trayaH (59) · Śloka 59
| त्रयस्ते सन्निपातेऽपि दोषान् घ्नन्ति यतः क्रमात्||५९||
🔊 Audio coming soon
स०-सन्निपातेऽपि त्रय एव बस्तयो हिताः| यस्मात्ते दोषान्-त्रीन्, क्रमेण पराकुर्वन्ति|
Adhikarana uktaniyamasya matAntaratvam, na hi doShashcaturtho~asti (60) · Śloka 60
त्रिभ्यः परं बस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः| न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति||६०||
🔊 Audio coming soon
स०-अत एव हेतोस्त्रिभ्यो बस्तिभ्यः परमपरे भिषजो निरूहं नेच्छन्ति| यतस्त्रयो दोषास्त्रिभिर्बस्तिभिर्निवर्तिता इति| चतुर्थो दोषो न विद्यते, यं लक्षीकृत्य भूयश्चतुर्थः पुटको दीयते|
Adhikarana tribhyo nyUnatA~api na kAryA (61) · Śloka 61
उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्| त्रिधैव कल्पयेद्वस्तिमित्यन्येऽपि प्रचक्षते||६१||
🔊 Audio coming soon
स०-अन्येऽपि वैद्यास्त्रिधैव बस्तिं कल्पयेदिति जगदुः| एकं बस्ति दोषाणामुत्क्लेशनम्, अन्यं द्वितीयं बस्ति दोषाणां शुद्धिकरम्, अन्यं तृतीयं बस्ति दोषाणां शमनम्| क्रमादिति अनया युक्त्या त्रिविधो बस्तिरिति मन्यन्ते|
Adhikarana matayorviShayavyavasyA (62) · Śloka 62
| तत्र किं क्रियताम् ? इत्याह - - - -] दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्| |६२|
🔊 Audio coming soon
स०-तदत्र दोषभेषजदेशसात्म्यादिवशात् सर्वमप्येतत् प्रमाणीकार्यम्|
Adhikarana svamatamAha (62) · Śloka 62
अथ सर्वमतानुग्राहि स्वमतमाह - - - - | सम्यङ्निरूढलिङ्गं तु नासम्भाव्य निवर्तयेत्||६२||
🔊 Audio coming soon
स०-सम्यङ्निरूढलक्षणमसम्भाव्य-असम्पाद्य, न निवर्तयेत्,-बस्तिदानं कारयेदेव|
Adhikarana karmabastiH (63) · Śloka 63
इदानीं कर्मकालयोगाख्यान् बस्तिविशेषानाह - - - - प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च| सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः||६३||
🔊 Audio coming soon
स०-प्राक्-पूर्वं, एकः स्नेहबस्तिः| अन्ते-अवसाने, पञ्च स्नेहाः| तथा, निरूहा द्वादश सहानुवासनाः| इत्येवं त्रिंशद्बस्तयः "कर्म" इति गदिताः|
Adhikarana kAlabastiH (64) · Śloka 64
कालः पञ्चदशैकोऽत्र प्राक् स्नेहोऽन्ते त्रयस्तथा| षट् पञ्चबस्त्यन्तरिताः|६४|
🔊 Audio coming soon
स०-पञ्चदश बस्तयः "कालः" उच्यते| कथम् ? इत्याह-एकः पूर्वं स्नेहः| तथा, अन्ते त्रयः स्नेहाः| तथा, षट् स्नेहाः पञ्चभिर्बस्तिभिरन्तरिता इति|
Adhikarana yogabastiH (64-65) · Śloka 65
| योगोऽष्टौ बस्तयोऽत्र तु||६४|| त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुभौ| |६५|
🔊 Audio coming soon
स०-"योगः" अष्टौ बस्तयः| कथम् ? इत्याह-त्रयो निरूहाः, त्रीणि चानुवासनानि, तथाऽऽद्यन्तयोर्द्वौ स्नेहबस्ती, इति|
Adhikarana prayoganiyame yuktiH, prayogAtikrame doShaH (65-66) · Śloka 66
| स्नेहबस्तिं निरूहं वा नैकमेवाति शीलयेत्||६५|| उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्| |६६|
🔊 Audio coming soon
स०-स्नेहबस्तिमथवा निरूहमेकमेव केवलमतिशयेन न शीलयेत्| यतः स्नेहादतिसेवितात् उत्क्लेशाग्निमान्द्ये जायेते| निरूहादतिसेवितात् पवनाद्भयं जायते|
Adhikarana niyamatAtparyam (66) · Śloka 66
| तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः||६६||
🔊 Audio coming soon
स०-तस्मात्कारणात् निरूढो नरः स्नेहनार्हः स्यात्| अनुवासितश्च पुरुषो निरूहणार्हो भवेत्|
Adhikarana prayoganiyamasya phalam (67) · Śloka 67
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्| |६७|
🔊 Audio coming soon
स०-एवं-पूर्वोक्तया, स्नेहशोधनयुक्त्या बस्तिकर्म सेवितं त्रीन् दोषान् जयति|
Adhikarana mAtrAbastilakShaNam (67-68) · Śloka 68
अधुना मात्राबस्तिं लक्षयति - - - - | ह्रस्वया स्नेहपानस्य मात्रया योजितः समः||६७|| मात्राबस्तिः स्मृतः स्नेहः| |६८|
🔊 Audio coming soon
स०-ह्रस्वया-यामद्वयजरणलक्षणया, स्नेहपानमात्रया समः-तुल्यो, योजितः स्नेहो मात्राबस्तिसंज्ञः स्मृतः, सद्वैद्यैरिति शेषः| अन्यैस्त्वन्यथा स्नेहमात्रोक्ता| यथा-"षट्पला तु भवेज्ज्येष्ठा, त्रिपला मध्यमा भवेत्| कनीयस्यध्यर्द्धपला त्रिधामात्राऽनुवासने||" इति|
Adhikarana mAtrAbasterviShayaH, mAtrAbasteH phalam (68-69) · Śloka 69
शीलनीयः सदा च सः| बालवृद्धाध्वभारस्त्रीव्यायामासक्तचिन्तकैः||६८|| वातभग्नाबलाल्पाग्निनृपेश्वरसुखात्मभिः| दोषघ्नो निष्परीहारो बल्यः सृष्टमलः सुखः||६९||
🔊 Audio coming soon
स०-स च-मात्राबस्तिः, बालादिभिः सततमेव शीलयितव्यः| स च शीलितो दोषापहः, तथा निष्परीहारः-अनियन्त्रणो, बलाय हितो, निर्गतपुरीषादिकः, सुखकारी च|
Adhikarana uttaravastervisheShato viShayaH (70) · Śloka 70
बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च| द्वित्रास्थापनशुद्धेभ्यो विदध्याद्बस्तिमुत्तरम्||७०||
🔊 Audio coming soon
स०-बस्तिस्थाने रोगेषु नराणामित्यर्थाल्लभ्यते| "नारीणां योनिगर्भाशयेषु च" इत्युक्तेः| द्वे वा त्रीणि वा द्वित्राणि, द्वित्राणि च तान्यास्थापनानि च द्वित्रास्थापनानि, तैः शुद्धा द्वित्रास्थापनशुद्धाः, तेभ्यो नरेभ्यः स्त्रीभ्यश्चोत्तरबस्तिं दद्यात्| पुमान्स्त्रियेत्येकशेषः| गुदादुत्तरेण मार्गेण दीयत इत्युत्तरबस्तिः|
Adhikarana uttarabasternetramAnam (71-72) · Śloka 72
अथ नेत्रस्य परिमाणमाह - - - - आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्| वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्||७१|| सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भवम्| कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम्||७२||
🔊 Audio coming soon
स०-तन्नेत्रं-उत्तरबस्तियन्त्रकं, आतुराङ्गुलप्रमाणेन द्वादशाङ्गुलम्, दैर्घ्येणेत्यर्थादेव प्रतीयते| पुरुषाणामेवैतदिति वेद्यम्| स्त्रीणां हि वक्ष्यति (श्लो. ७९) - "नेत्रं दशाङ्गुलं मुद्गप्रवेशं" इति| तच्च वृत्तं-वर्तुलम्| तथा, गोपुच्छाकृति| तथा, मूले मध्ये चोत्पादितकर्णिकम्| तथा, सिद्धार्थकः प्रविशत्यस्मिन्निति सिद्धार्थकप्रवेशं, तादृशमग्रं-प्रान्तो, यस्य-नेत्रस्य, तत् सिद्धार्थकप्रवेशाग्रम्| तथा, श्लक्ष्णं-अतिकोमलम्| तथा, हेमादिजम्| आदिशब्देन धात्वादयः प्रागुक्ता (श्लो. ९ टी.) गृह्यन्ते| तथा, कुन्दकरवीरजातीपुष्पवृन्तसदृशं दृढं च| अश्वमारः-करवीरः|
Adhikarana uttarabastau bastiH, uttarabastermAtrA (73) · Śloka 73
तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा| |७३|
🔊 Audio coming soon
स०-तथा, तस्य-नेत्रस्य, बस्तिर्मृदुलघुः, 'योज्यः' इति शेषः| मात्रा शुक्तिः-कर्षद्वयम्, 'स्नेहस्य' इति शेषः| विकल्प्य वा-वयोबलदेहसत्त्वसात्म्यादिवशान्निरूप्य वा, मात्रा कार्येत्यर्थः|
Adhikarana uttarabastervidhiH (73-76) · Śloka 76
| अथ स्नाताशितस्यास्य स्नेहबस्तिविधानतः||७३|| ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ| हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतोविशुद्धये||७४|| सूक्ष्मां शलाकां प्रणयेत्तया शुद्धेऽनुसेवनि| आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः||७५|| पीडितेऽन्तर्गते स्नेहे स्नेहबस्तिक्रमो हितः| |७६|
🔊 Audio coming soon
स०-अथेति मङ्गले| अस्य-रोगिणो निरूहवत्कृतमङ्गलस्य| तथा, पूर्वं स्नातः पश्चादशितः, तस्य| कथमशितस्य ? स्नेहबस्तिविधानतः| तृतीयार्थे तसिः| स्नेहबस्तौ यादृश आहारो विहितस्तेन कृतभोजनस्येत्यर्थः| तथा, ऋजोः-स्पष्टं स्थितस्य| तथा, सुखेनासीनस्य| क्व ? पीठे,-आसने| किम्भूते ? जानुतुल्ये| तथा, मृदौ-अकठिने च| तथा, शिश्ने प्रहृष्टे-स्तब्धे, तथा ऋजौ,-स्पष्टं कृत्वा स्थिते सति, शनैः-न त्वरया, सूक्ष्मां शलाकां प्रणयेत्-प्रवेशयेत्| स्थूलायां तत्र क्षतकरणात्| प्रवेशयोगात् तया-शलाकया, शुद्धे मेढ्रे सति, अनुसेवनि-सेवनीमनुलक्षीकृत्य, आमेढ्रान्तं नेत्रं प्रणयेत्| षडङ्गुलं प्रायेण प्रवेशयेदित्यर्थः| कथम् ? गुदवन्निष्कम्पम्| ततो-निष्कम्पस्थापनादनन्तरं, पीडिते पुटके, स्नेहे चान्तःप्रविष्टे सति, अनुवासनक्रमो हितः-पाणिना ताडयेत् स्फिजौ| तत्पार्ष्णिभ्यां" इत्यादिकः|
Adhikarana uttarabastyAvRuttau sa~gkhyA, sheShamanuvAsanavat (76-77) · Śloka 77
| बस्तीननेन विधिना दद्यात्त्रींश्चतुरोऽपि वा||७६|| अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्| |७७|
🔊 Audio coming soon
स०-त्रीन् चतुरो वा बस्तीननेन विधानेन दद्यात्| शेषं [ सर्वमेव ]-विधिपरिहारादि सम्यग्दत्तव्यापदादिकं, अस्य-उत्तरबस्तेः, अनुवासनस्येव निरूपयेत्| यदुक्तं खरनादेन-"यथाशेषं प्रवेश्यान्तः स्नेहस्यार्द्धपलं नयेत्| प्रत्यागते द्वितीयं वा तृतीयं वा प्रदापयेत्|| स चेदनुवसेत्तत्र स्यात्क्रियेयं विशेषतः| पिप्पल्यारग्वधागारधूमवत्सकसैन्धवैः|| मूत्राम्लपिष्टैर्गुलिकाः सर्षपामाषसन्निभाः| छायासु शुष्कास्ताः शिश्ने दद्यात्सर्षपसन्निभाः|| पूर्वं, माषोपमाः पश्चात्ताभिः स्नेहं समानयेत्| स्नेहे प्रत्यागते च स्यादानुवासनिको विधिः||" इति|
Adhikarana strINAmuttarabastikAlaH (77-78) · Śloka 78
एवम् पुरुषाणामुत्तरबस्तिविधानमुक्त्वा स्त्रीणां वक्ति - - - - | स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः||७७|| विदधीत तदा तस्मादनृतावपि चात्यते| योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे||७८||
🔊 Audio coming soon
स०-ललनानामृतुकाल एवार्तवकालः-"ऋतुस्तु द्वादश निशाः" (हृ. शा. अ. १|२७) इत्यादिनोक्तः, तत्र ऋतौ योनिः कर्ता उत्तरबस्तिस्वभावं स्नेहं गृह्णाति| कुतः ? अपावृतेः,-अपावरणात् कारणात्| अन्यदा तु संवृतत्वात् न स्नेहमादत्ते गर्भवत्| तस्माद्धेतोस्तदा-ऋतुकाले विदधीत, प्रकृतत्वादुत्तरबस्तिम्| अत्यन्ते-आत्ययिके व्याधौ, अनृतावपि विदधीत| तमेवात्ययं दर्शयति-योनीत्यादि| योनिविभ्रंशः-उत्तरे (अ. ३३|४०) वक्ष्यमाणः, योनिशूलो-योनिरुजा, तेषु| तथा, योनिव्यापत्तौ| तथा, असृग्दरे,-रक्तपित्तं योनिमुखेनागच्छत् स्त्रीणामसृग्दरमुच्यते| एतेषु रोगेषूत्तरबस्तिमात्ययिकत्वादनृतावपि दद्यात्|
Adhikarana strINAM rogabhedena yantrabhedo mArgabhedashca (79-80) · Śloka 80
अथात्र तु नेत्रस्य प्रमाणमाह - - - - नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङुलम्| अपत्यमार्गे योज्यं स्याद् ह्यङ्गुलं मूत्रवर्त्मनि||७९|| मूत्रकृच्छ्रविकारेषु, बालानां त्वेकमङ्गुलम्| |८०|
🔊 Audio coming soon
स०-दशाङ्गुलप्रमाणं दैर्घ्येण| तथा, मुद्गः प्रविशत्यस्मिन्निति मुद्गप्रवेशं तदिवाग्रं [ मुद्ग ] प्रवेशाग्रमिति वेद्यम्, अन्तलोपाख्यया तन्त्रयुक्त्या| वृत्तगोपुच्छाकारादि शेषं पूर्वोक्तमत्र वेद्यम्| पुष्पवृन्तोपमत्वं त्वत्र न युज्यते| यतो मूत्रस्रोतः परिणाहमेतद्विधातव्यम्| पुरुषे स्त्रियां चैवप्रकारम्| यदुक्तं मुनिना (च. सि. अ. ९|५४) - "[ पुष्पनेत्रं च हैमं स्यात्सूक्ष्ममौत्तरबस्तिकम्| जातीपुष्पस्य वृन्तेन समं गोपुच्छसंस्थितम्|| रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्| ] पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम्|| मूत्रस्रोतःपरिणाहं" इति| तच्चतुरङ्गुलं यावत् प्रवेश्यम्| चतुरङ्गुलाच्चोर्ध्वं कर्णिका कार्या| अधिकप्रवेशनिवारणार्थम्, न तु मेहननेत्र इव मध्यकर्णिकेति| अयमर्थोऽत्र साक्षान्नोपात्तो गम्यमानत्वात्| अत एव तत्प्रवेशप्रमाणमाह-चतुरङ्गुलमपत्यमार्गे योज्यं स्यादिति| अपत्यमार्ग इत्यनेन स्त्री गर्भग्रहणप्रसवादिसमर्था सूच्यते| एवंविधायाः स्त्रियश्चतुरङ्गुलं प्रवेशयितव्यमिति| मूत्रवर्त्मनि ह्यङ्गुलं योज्यम्| या स्त्री सुरतव्यवहारगर्भग्रहणयोग्या, अथवा या बाला-अप्रौढा, तस्या योनिः-केवलं मूत्रस्येव मार्गः, तस्या नेत्रं ह्यङ्गुलं प्रवेश्यम्| अत ऊर्ध्वं तु प्रवेशात्तासां मांसक्षतिः स्यात्| केषु रोगेषु ? मूत्रकृच्छ्रविकारेषु| बालानां तु स्त्रीणामेकमङुलं प्रवेश्यम्|
Adhikarana strINAmuttarabastau mAtrA (80) · Śloka 80
| प्रकुञ्चो मध्यमा मात्रा. बालानां शुक्तिरेव तु||८०||
🔊 Audio coming soon
स०-स्त्रीणामुत्तरबस्तौ स्नेहस्य प्रकुञ्चो मध्यमा मात्रा,-नोत्तमा कनिष्ठा वा| बालानां तु शक्तिरेव मध्यमा मात्रा स्नेहस्य|
Adhikarana strINAmuttarabastividhiH, strINAmuttarabastAvAvRuttikramaH (81-82) · Śloka 82
अधुनोत्तरबस्त्यवस्थानं त्रिविधाया अपि स्त्रिया वदति - - - - उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी| ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्||८१|| बस्तींस्त्रिरात्रमेवं च स्नेहमात्रां विवर्द्धयन्| त्र्यहमेव च विश्रभ्य प्रणिदध्यात्पुनस्त्र्यहम्||८२||
🔊 Audio coming soon
स०-उत्तानायाः-न त्ववाङ्मुख्याः पार्श्वस्थिताया वा, शयानायाः-न त्वासीनायाः, तथोर्ध्वजान्वाः, बस्तीन् त्रिचतुरानहोरात्रात् योजयेत्| किं कृत्वा ? सक्थिनी सङ्कोच्य| अनुवासने त्वेक एव बस्तिरहोरात्रेण योज्य इत्यस्य भेदः| एवं त्र्यहं बस्तिदानं कार्यम्, न त्वत्रानुवासनवत् त्र्यहे पञ्चमे वाऽहनीति| किं कुर्वन् ? स्नेहमात्रां यथास्वमर्धकर्षादिक्रमेण वर्द्धयन्| त्र्यहमेव च विश्रम्य-त्रीणि दिनानि विलम्ब्य च, पुनः-पूर्वोक्तेनैव प्रकारेण, [ त्र्यहं ] प्रणिदध्यात्-कुर्यात्| एष एव च न्यायो मेढ्रेऽपि योज्यः, तज्जातीयत्वादस्यार्थस्य| अत एवान्तेऽयमुपदिष्ट उभयसम्बन्धार्थम्|
Adhikarana vamanAdInAmantaram (83) · Śloka 83
युक्त्योक्तमेवामुमर्थं सङ्क्षेपसङ्ग्रहार्थं पुनराह - - - - पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम्| सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरेचितः||८३||
🔊 Audio coming soon
स०-उत्तमशुद्ध्या शुद्धे वमिते पक्षादनन्तरं विरेकः कार्यः| यस्मात् प्रवरया शुद्ध्या शुद्धे सुवमिते पेयादिक्रमेण सप्ताहात् प्रकृतिभोजनापत्तिः| ततः सप्ताहेनैकान्तरानुवासनदानेन स्निग्धस्य विरेक इति पक्षेणैव युज्यते| ततः-अनन्तरं, पक्षात्परतो निरूहः| यतः कृतविरेकस्य सप्ताहात् प्रकृतिभोजनापत्तौ स्नेहनार्थमनुवासनेनैकान्तरितेन स्निग्धस्य निरूहो युज्यत इति पक्षेणैव युक्तः| निरूढश्च सद्य एवानुवास्यः| तथा च प्रागभ्यधायि (श्लो. ५२) - "अथ वातार्दितं भूयः सद्य एवानुवासयेत्|" इति| विरेचितः सप्तरात्रादूर्ध्वमनुवास्यः| यतः सप्ताहेन प्रकृतिभोजनापत्तिः, ततः स्नेहनार्थमनुवासनं युक्तम्|
Adhikarana shuddhAshuddhasamparke~ashuddhameva bastirnirharet (84) · Śloka 84
ननु, दोषाणां धातूनां च स्नेहस्वेदाभ्यामेकलोलीभावात् कथं बस्तिर्दोषानेव निर्हरेत् न धातून् ? इत्येतच्चोद्यं दृष्टान्तद्वारेण परिजिहीर्षुरिदमाह - - - - यथा कुसुम्भादियुतात्तोयाद्रागं हरेत्पटः| तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्||८४||
🔊 Audio coming soon
स०-कुसुम्भकुङ्कुमादियुक्ताज्जलाद्यथा पटो-वासो, रागं हरेत्-गृह्णीयात्, न कुसुम्भादिकम्| तथैव द्रवीकृतात् कायाद्दोषधातूनामेकलोलीभावेऽपि बस्तिर्दोषान्निर्हरते, न धातून्|
Adhikarana basteH sarvottamatve yuktiH (85-87) · Śloka 87
अधुना वायोः स्वरूपं प्रथयन् बस्तिं श्लाघयन्नाह - - - - शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च| ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति||८५|| विट्श्लेष्मपित्तादिमलोच्चयानां विक्षेपसंहारकरः स यस्मात्| तस्यातिवृद्धंस्य शमाय न्याय- द्बस्तेर्विना भेषजमस्ति किञ्चित्||८६|| तस्माच्चिकित्सार्द्ध इति प्रदिष्टः कृत्स्ना चिकित्साऽपि च बस्तिरेकैः| |८७|
🔊 Audio coming soon
स०-सक्थिनी द्वे द्वौ बाहू इति शाखाः, तासु गताः-तत उत्पन्नाः| एवं कोष्ठो-महास्रोतः, तत्र गताः-कोष्ठगताः| तथा, मर्माणि च ऊर्ध्वं च सर्वे चावयवाश्च मर्मोर्ध्वसर्वावयवाः, तेषामङ्गं, तत्र जाता मर्मोर्ध्वसर्वावयवाङ्गजाः| तत्र मर्माणि-मर्मविभागे (हृ. शा. अ. ४) वक्ष्यन्ते| ऊर्ध्वशब्देनोर्ध्वजत्रु गृह्यते, तत्र जाता ऊर्ध्वाङ्गजाः,-मुखरोगादयः, सर्वाङ्गजाः-ज्वरादयः, अवयवजाः-श्वित्रादयश्च, ये रोगा विद्यन्ते तेषां जन्मनि-उत्पत्तौ, वायोरपरः कश्चिदपि हेतुर्नास्ति| कथम् ? परं,-अतिशयेन| किञ्चिन्मात्रेणानुबलभावेन पित्तश्लेष्माणावपि हेतू भवत एव| यथा,-पामाकण्ड्वादीनाम्| अवयवग्रहणेनैवोर्ध्वग्रहणे लब्ध ऊर्ध्वग्रहणं प्राधान्यख्यापनार्थम्| यथा,-ब्राह्मणा आयाता वसिष्ठोऽप्यायात इति| एतदेवाधिकृत्य वक्ष्यमाणाः पञ्च विधयः सकलमेवोत्तरं च तन्त्रं प्रधानम्| तस्मात्प्रधाना ऊर्ध्वाङ्गजाः| ननु, कुतो हेतोर्मरुत एतेषु कारणत्वमित्याह-विडित्यादि| विट् च श्लेष्मा च पित्तं च विट्श्लेष्मपित्तानि, तान्यादिर्येषाम्| आदिशब्देन मूत्रस्वेदादिपरिग्रहः| एतेऽपि हि शरीरमलिनीकरान्मलाः, तेषामुच्चयाः-सञ्चयाः, तेषां स वायुर्यस्माद्विक्षेपसंहारकरः-विक्षेपश्च संहारश्च विक्षेपसंहारौ, तौ करोतीति| "कृञो हेतुताच्छील्य" इत्यादिना हेतौ टः| विक्षेपसंहारकरणहेतुरित्यर्थः| तस्य क्रियावत्त्वात्| वायुश्च शेषदोषाभ्यां न कदाचिद्विक्षिप्यते संह्रियते वा| तयोर्निष्क्रियत्वात्| तस्य च वायोः प्रवृद्धस्य शमनार्थं बस्तिमन्तरेणापरं भेषजं नास्ति| स्नेहस्वेदादिकं तु विद्यमानमपि न तथा समर्थम्, इत्यगण्यत्वात्तदविद्यमानमुच्यते| तस्मात्-दोषप्रधानस्य पवनस्य शमनार्थात्कारणात्, बस्तिश्चितित्सार्द्ध इति कथितः| एकैश्चाचार्यैर्निरवशेषाऽपि चिकित्सा बस्तिः प्रदिष्टः| ननु, " चतुर्णां भिषजादीनां" (च. सू. अ. ९|५) इत्यादिलक्षणा चिकित्सा| तत्कथं तस्या भागकल्पना कर्तुं युज्यते ? न च सर्वा चिकित्सा बस्तिरिति वक्तुं शक्यते, शेषचिकित्साशास्त्रविस्तरस्थानर्थक्यप्रसङ्गात्| तस्मादेतदयुक्तमिवाभाति| अत्रोच्यते| वायुविकारा अशीतिरुक्ताः| पित्तश्लेष्मविकाराश्च षष्टिरुक्ताः| तत्र वातविकाराणां प्रधानोपक्रमो बस्तिः, तस्माच्चिकित्सार्धो बस्तिः कार्यद्वारेणोक्तः| अथवा मारुतं पित्तश्लेष्मविट्सहितं बस्तिः समूलमेवापकर्षतीत्युक्तत्वात् सर्वैव चिकित्सा कार्यद्वारेण बस्तिरेकैरुपदिष्टः| अन्यत्रापि चैवंप्रायो निर्देशः कृत एवाचार्यैः| तथा च मुनिः (च. चि. अ. २९|१४०) - "यानीह कर्माण्युक्तानि विसर्पविनिवृत्तये| एकतस्तानि सर्वाणि रक्तमोक्षणमेकतः||" इति| 'चिकित्सार्द्धं' इत्ययः तु पाठो न युक्त एव| अर्द्धशब्दस्य हि समप्रविभाग एव नपुंसकत्वम्| न चात्र समप्रविभागो गम्यते| तस्मान्नपुंसकत्वमत्रान्याय्यम्|
Adhikarana shirAvyadho~api bastitulyaH (19) · Śloka 19
| तथा निजागन्तुविकारकारि- रक्तौषधत्वेन शिराव्यधोऽपि||८७|| इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने बस्तिविधिर्नामैकोनविंतितमोऽध्यायः||१९||
🔊 Audio coming soon
स०-न केवलं बस्तिः, यावच्छिराव्यधोऽपि चिकित्सार्द्धः सर्वा वा चिकित्सेत्युपदिष्टः| कुतः ? निजेत्यादिना| निजाः-वातादिसमुत्थाः, आगन्तवो-विषवह्न्यादिसमुत्थाः, निजाश्चागन्तवश्च ते च ते विकाराश्च निजागन्तुविकाराः, तान्कर्तुं शीलं यस्य तन्निजागन्तुविकारकारि, तच्च तद्रक्तं च निजागन्तुविकारकारिरक्तं, तस्यौषधत्वेन| तत्र विसर्पविद्रधिप्रभृतिरोगविशेषोपशमकरणाच्चिकित्सार्द्धः शिराव्यध उपविष्टः| तथा, अपरेऽति ये रोगाः शीतोष्णस्निग्धरूक्षाद्यैरप्युपक्रमैरनुपशान्ताः, तेऽपि शिराव्यधसाध्याः| अत एव सर्वाऽपि चिकित्सा शिराव्यध उक्त इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने बस्तिविधिर्नामैकोनविंशोऽध्यायः समाप्तः|| १९||